मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १३

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 13

देवतामृतपानवर्णनम्

स्कन्द उवाच

उत्प्रेक्षन्तो जायमानं मंथितारोऽथ तेऽखिलाः ॥

आयांतं ददृशुर्द्दूरादन्ति धन्वन्तरिं श्रियः

॥१॥

सुधाभृतं हेमकुम्भं दृष्ट्वा चाऽस्य करे धृतम् ॥

असुराः सहसा ब्रह्मन्नुत्प्लुत्य जगृहुश्च तम्

॥२॥

तत्रापि बलिनो ये ते गृहीत्वा दुद्रुवुस्ततः ॥

तान्दुर्बला न्यषेधन्त नीतिवाक्यैरनुद्रुताः

॥३॥

अहो नैवमधर्मो वः कार्यो धर्मपरायणैः ॥

समश्रमेभ्यो देवेभ्यो दत्त्वा पेयं न चान्यथा

॥४॥

अनादृत्येति तद्वाक्यं ययुर्दूरं त्वरान्विताः ॥

तत्रापि तेषामन्योन्यं कराकृष्टिर्महत्यभूत्

॥५॥

अहं पूर्वमहं पूर्वं न त्वं न त्वं पिबाम्यहम् ॥

इत्थं विवदमानास्ते नापुस्तत्प्राशनक्षणम्

॥६॥

अथ देवा म्लानवक्त्रा दृष्ट्वा दैत्यैर्हृता सुधाम् ॥

अशक्तास्तत्प्रतीकारे शरणं प्रापुरच्युतम्

॥७॥

पाहिपाहि जगन्नाथ नष्टं सर्वस्वमेव नः ॥

दैत्यैर्हृता सुधा सर्वा का गतिर्न्नो भविष्यति

॥८॥

सुधापानादृतेप्येते हन्तुमस्मानलं क्षमाः ॥

पीतेऽमृते तु तैरद्य किं करिष्यामहे वयम्

॥९॥

स्कन्द उवाच

निशम्य दैन्यं देवानां भगवान्भक्तकार्यकृत् ॥

मा भैष्टेति सुरानुक्त्वा सुधामादित्सदासुरात्

॥१०॥

स्त्रीरूपमद्भुतं धृत्वा सर्वलोकविमोहनम् ॥

दैत्यान्तिकमुपागत्य चक्रे कन्दुकखेलनम्

॥११॥

ते तु तद्रूपमालोक्य मोहिताः कामविह्वलाः ॥

त्यक्त्वा परस्परोन्मर्द्दं तामुपेत्याब्रुवन्वचः

॥१२॥

सुधाकुम्भमिमं भद्रे गृहीत्वा त्वं विभज्य नः ॥

सर्वान्पायय सुश्रोणि वयं कश्यपसूनवः

॥१३॥

इत्युक्त्वा तं ददुस्तस्मै तेऽनिच्छन्त्या अपि स्त्रियै ॥

सा प्राह मम विश्रम्भो न कार्यः स्वैरिणी ह्यहम्

॥१४॥

अकार्यं वः कृतं ह्येतद्विभजिष्ये निजेच्छया ॥

इत्युक्ता अपि ते मूढा यथेष्टं कुर्विति ब्रुवन्

॥१५॥

ततस्तदाज्ञया सर्वे देवा दैत्याश्च वासुकिः ॥

निषेदुः पंक्तिशस्तत्र स्वस्वमण्डलमाश्रिताः

॥१६॥

पंक्तिबंधोद्यतेष्वेषु मोहिनी सा तु दूरतः ॥

सम्मुखं देवपंक्तीनां हेमासन उपाविशत्

॥१७॥

स्वांतिके चामृतघटं निधाय स्त्रैणलीलया ॥

इतस्ततो वीक्षमाणा तस्थौ निःस्पृहवत्क्षणम्

॥१८॥

विप्रचित्तिमुखास्तर्हि ये वै दानवयूथपाः ॥

संदिग्धचित्ता मोहिन्यामासन्देवांतिकस्थितेः

॥१९॥

शनैरुपेत्य तद्दृष्टिं वञ्चयित्वा सुधाघटम् ॥

जह्रुः पुनर्दुरात्मानो रहो गत्वा पिपासवः

॥२०॥

नरनारायणौ तत्र मुनिभिः सह चागतौ ॥

आस्तां तौ ददृशाते तान्दानवान्हरतोऽमृतम्

॥२१॥

नारायणेनेरितोऽथ नरस्तान्सहसारुणत् ॥

बलादाच्छिद्य तत्कुम्भं मोहिन्यै स ददौ द्रुतम्

॥२२॥

ततो नरं हन्तुकामा आत्तशस्त्रास्तु दानवाः ॥

आपतन्पंक्तिविक्षेपो ह्यसुराणामभून्महान्

॥२३॥

तदा नरोपि भगवान्देवदैत्यनरैरपि ॥

अजेयो निर्भयो ह्येकः साकं तैर्युयुधे बली

॥२४॥

एतस्मिन्नन्तरे देवान्पंक्तिस्थान्मोहिनीवपुः ॥

अपाययत्सुधां विष्णुः सर्वशो लघुचङ्क्रमः

॥२५॥

तत्रापि दानवो राहुः सूर्याचन्द्रमसान्तरे ॥

प्रविश्य देवतापंक्तावुपाविशदलक्षितः

॥२६॥

तत्रागतायां मोहिन्यां सिञ्चन्त्यां तन्मुखे सुधाम् ॥

दृशाऽसूसुचतां तस्यै पुष्पवन्तावुभौ च तम्

॥२७॥

स्मृत्यागतेन चक्रेण तर्ह्येवाऽस्य च सामृतम् ॥

शिरश्चिच्छेदातिमहन्मायायोषिद्वपुः प्रभुः

॥२८॥

तच्छैलशृङ्गप्रतिमं ग्रसल्लोकान्नदद्भृशम् ॥

ग्रहत्वे स्थापयामास लोकानां शान्तये हरिः

॥२९॥

देवान्सुधां पाययित्वा जगृहे पौरुषीं तनुम् ॥

भगवानथ देवास्तु युयुधुः सह दानवैः

॥३०॥

उदन्वतस्तटे युद्धं देवानामसुरैः सह ॥

सुधापानातिबलिनामासीद्विष्णुसहायिनाम्

॥३१॥

तस्मिंस्तु तुमुले युद्धे नरेणेन्द्रादिभिश्च ते ॥

निहन्यमाना असुराः पलाय्य विविशू रसाम्

॥३२॥

सूर्यश्चास्तं गतस्तावत्सर्वे देवगणास्ततः ॥

श्रियोन्तिकमुपाजग्मुस्तद्दर्शनमहोत्सवाः

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवतामृतपानवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥