मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १९

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 19

ततः स ददृशे देवौ पुराणावृषिसत्तमौ

स्कन्द उवाच

ततः स ददृशे देवौ पुराणावृषिसत्तमौ ॥

तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ

॥१॥

तेजसाप्यधिकौ सूर्यात्सर्वलोकविरोचनात् ॥

श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ

॥२॥

पद्मचिह्नभुजौ तौ च पादयोश्चक्रलक्षणौ ॥

व्यूढोरस्कौ दीर्घभुजौ सितसूक्ष्मघनांशुकौ

॥३॥

स्वास्यौ पृथुललाटौ च सुभ्रुवौ शुभनासिकौ ॥

शुभलक्षणसंपन्नौ दिव्यमूर्त्ती घनप्रभौ

॥४॥

विनयेनान्तिकं प्राप्य तयोः कृत्वा प्रदक्षिणाम् ॥

भक्त्या प्रणम्य साष्टाङ्गं तस्थौ प्राञ्जलिरग्रतः

॥५॥

ततस्तौ तपसां वासौ यशसां तेजसामपि ॥

ऋषी पौर्वाह्णिकस्यान्ते विधेर्मौनं विहाय च

॥६॥

प्रीत्या नारदमव्यग्रौ पाद्यार्घ्याभ्यां समार्चताम् ॥

पीठयोरुपविष्टौ तौ कौशयोर्नारदश्च सः

॥७॥

तेषु तत्रोपविष्टेषु स देशोभिव्यराजत ॥

आज्याहुतिमहाज्वालैर्यज्ञवाटोग्निभिर्यथा

॥८॥

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ॥

सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुसत्कृतम्

॥९॥

श्रीनारायण उवाच

अपि ब्रह्मन्स भगवान्परमात्मा सनातनः ॥

ब्रह्मधाम्नि त्वया दृष्ट आवयो कारणं परम्

॥१०॥

नारद उवाच

भगवंस्त्वत्प्रसादेन तमहं परमेश्वरम् ॥

वासुदेवं समालोके स्थितमक्षरधामनि

॥११॥

इह चैवागतस्तेन विसृष्टो वां निषेवितुम् ॥

आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः

॥१२॥

श्रीनारायण उवाच

धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयं प्रभुः ॥

नहि तं दृष्टवान्ब्रह्मन्कश्चिद्देवोपि वा ऋषिः

॥१३॥

भक्त्यैकान्तिकया तस्य प्राप्ता अक्षरसाम्यताम् ॥

ये हि भक्तास्त एवैनं पश्यन्त्यखिलकारणम्

॥१४॥

स दिव्यमूर्त्तिर्भगवान्दुर्द्दर्शः पुरुषोत्तमः ॥

नारदैतद्धि मे सत्यं वचनं समुदाहृतम्

॥१५॥

नान्यो भक्तात्प्रियतरो लोके तस्यास्ति कश्चन ॥

ततः स्वयं दर्शितवांस्तवात्मानं द्विजोत्तम

॥१६॥

तेजःपुञ्जाभिरुद्धांगो गुणातीताद्भुताकृतिः ॥

अखण्डानन्दरूपश्च सदा शुद्धोऽच्युतोस्ति सः

॥१७॥

रूपवर्णवयोवस्थाः प्राकृता नैव तस्य हि ॥

सर्वं तस्यास्ति तद्दिव्यं सर्वोपकरणानि च ॥

एकान्तिकानां भक्तानां स एव परमा गतिः

॥१८॥

आत्मब्रह्मैक्यसंपन्नैर्विनिवृत्तगुणैरपि ॥

क्रियते वासुदेवस्य भक्तिरित्थंगुणो हि सः

॥१९॥

माहात्म्यमस्य को वक्तुं शक्नुयात्परमात्मनः ॥

अचिन्त्यानन्तशक्तीनामधिपस्य महामुने

॥२०॥

आत्मात्मा चाक्षरात्मा च ह्येष आकाशनिर्मलः ॥

दिव्यदृगीक्ष्यः सन्मात्रः पुरुषो वसुदेवजः

॥२१॥

समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः ॥

परया विद्यया वेद्य उपास्यो ब्रह्मवित्प्रभुः

॥२२॥

दिव्यमूर्त्तिं तमीशानं तपसैकान्तिकेन च ॥

यः प्रीणयति धर्मेण स धन्यतम उच्यते

॥२३॥

तस्मात्त्वमपि देवर्षे धर्मेणैकान्तिकेन तम् ॥

आराधयन्निहैवांग कंचित्कालं तपः कुरु

॥२४॥

तपसैवाऽतिशुद्धात्मा माहात्म्यं तस्य सत्पतेः ॥

यथावज्ज्ञास्यति भवान्प्रोच्यमानं मयाऽखिलम्

॥२५॥

सर्वार्थसाधनं विद्धि तपस्तद्धृदयं मुने ॥

नातप्तभूरितपसा स वशीक्रियते प्रभुः

॥२६॥

स्कन्द उवाच

एवमुक्तो भगवता नरनारायणेन सः ॥

प्रीतस्तपः कर्त्तुमिच्छँस्तमुवाच महामतिः

॥२७॥

इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुऽदेवमाहात्म्ये नारदनरनारायणसमागमो नामैकोनविंशोऽध्यायः ॥ १९ ॥