उपचारैर्बहुविधैर्मानसैस्तं प्रपूज्य सः
श्रीनारायण उवाच
उपचारैर्बहुविधैर्मानसैस्तं प्रपूज्य सः ॥
आवाह्य स्थापयेद्भक्तो मूर्तौ स्थापनमुद्रया
॥१॥ततस्तदंगदेवांश्च तत्तन्मन्त्रैः पृथक्पृथक् ॥
आवाह्य नाममन्त्रैर्वा सुप्रतिष्ठापयेच्च सः
॥२॥घण्टादि वादयेद्वाद्यं कुर्याद्वा तालिकाध्वनिम् ॥
सुप्तोत्थितमिवाऽथैनं कारयेद्दन्तधावनम्
॥३॥श्यामाकविष्णुकान्ताभ्यां दूर्वाब्जाभ्यां सहोदकम् ॥
पाद्यमेतत्प्रभोर्दद्यात्ततोर्घ्याचमनीयके
॥४॥चन्दनाक्षतपुष्पाणि दर्भाग्रतिलसर्षपान् ॥
यवान्दूर्वा चार्घ्यपात्रे निक्षिपेदम्बुना भृते
॥५॥जातीफललवंगैलाकङ्कोलोशीरवासितम् ॥
दद्यादाचमनीयाम्बु ततः संस्नपयेद्धरिम्
॥६॥सुगन्धिपुष्पतैलेन कुर्यादभ्यंगमादितः ॥
सुरभिद्रव्यकल्केन कुर्याच्चोद्वर्तनं ततः
॥७॥क्षीरेण दध्ना चाज्येन मधुना सितया तथा ॥
स्नपयेद्धरिमव्यग्रस्तत्तन्मन्त्रैः पृथक्पृथक्
॥८॥सुगन्धिना च शुद्धेन स्नानमुष्णेन चाम्बुना ॥
तं कारयित्वा गन्धाद्यैः स्नानपीठेऽर्चयेल्लघु
॥९॥निर्माल्यपुष्पादि ततो विसृज्योत्तरतो द्विजः ॥
राजनाद्यैः सामभिर्वा महापुरुषविद्यया ॥
श्रीसूक्तविष्णुसूक्तक्ताभ्यामभिषेकं समाचरेत्
॥१०॥नाम्नां सहस्रेण हरेरष्टोत्तरशतेन वा ॥
अभिषेकं तु कुर्वीरन्स्त्रियः शूद्राश्च दीक्षिताः
॥११॥ततः प्रमार्ज्य वस्त्रेण तमनर्घ्यांशुकानि च ॥
परिधापयेदतिप्रेम्णा राधां चान्यांश्च शक्तितः
॥१२॥उपवीतं भगवते दद्यात्सूक्ष्मं सितं शुभम् ॥
रत्नहेमाद्यलंकारान्सांगायास्मै च धारयेत्
॥१३॥यथाऋतु यथास्थानं चन्दनेन यथोचितम् ॥
तिलकानुलेपनं कुर्यात्सकेशरघनादिना
॥१४॥यथोचितमलंकारान्धारयित्वा च राधिकाम् ॥
पत्रलेखां च तिलकं विदध्यात्कुङ्कुमाक्षतैः
॥१५॥आदर्शं दर्शयित्वाऽथ पुष्पस्रक्छेखरादिभिः ॥
पूजयेत्तं सहस्रेण तुलसीमञ्जरीदलैः
॥१६॥तुलस्या वाऽथ पुष्पेण प्रत्येकं नाम वैष्णवम् ॥
नमः प्रान्तचतुर्थ्यन्तं कीर्त्तयन्नर्चयेत्प्रभुम्
॥१७॥सुगन्धिद्रव्यचूर्णानि ततः सौभाग्यवन्ति च ॥
समर्प्य धूपं कुर्वीत दशांगं वामृतादिकम्
॥१८॥दीपं घृतेन कुर्वीत वर्त्तिकाद्वयदीपितम् ॥
कृतं स्वशक्तितः शुद्धं महानैवेद्यमर्पयेत्
॥१९॥संयावपायसापूपशष्कुलीखण्डलड्डकान् ॥
पूरिकाः पोलिका मौद्गमोदनं व्यञ्जनानि च ॥
दधिदुग्धघृतादीनि चतुष्पद्यां निधारयेत्
॥२०॥भोजयेत्तं ततः प्रेम्णा मध्ये पानीयमर्पयन् ॥
मुहूर्त्तार्द्धे गते दद्याद्धस्तप्रक्षालनांबु च
॥२१॥उच्छेषणं भगवतो विष्वक्सेनादिदेवताः ॥
उपकल्प्यान्यतः स्थाप्य स्वार्थं तद्भुवमामृजेत्
॥२२॥मुखवासं ततो दद्यात्कृतां ताम्बूलवीटिकाम् ॥
पूगचूर्णलवङ्गैलाजातीजादिसमन्विताम्
॥२३॥फलं च नालिकेरादि दत्त्वा शक्त्या च दक्षिणाम् ॥
महानीराजनं कुर्याद्गीतवादित्रपूर्वकम्
॥२४॥स्तुयात्पुष्पाञ्जलीन्दत्त्वा तत्स्तोत्रेणैव तं ततः ॥
नामसंकीर्तनं कुर्याद्गायन्नृत्यंश्च तत्पुरः
॥२५॥मुहूर्त्तं स विधायेत्थं कृत्वा चैव प्रदक्षिणाम् ॥
प्रणामं दण्डवत्कुर्यात्तिर्यक्तद्दक्षिणे भुवि
॥२६॥अष्टांगं वापि पञ्चागं प्रणामं पुरुषश्चरेत् ॥
पञ्चांगमेव नारी तु नान्यथा मुनिसत्तम
॥२७॥पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ॥
वचसा मनसा चेति प्रणामोऽष्टांग ईरितः
॥२८॥बाहुभ्यां चैव मनसा शिरसा वचसा दृशा ॥
पञ्चांगोयं प्रणामः स्यात्पूजासु प्रवराविमौ
॥२९॥भीतं मां संसृतेः पाहि प्रपन्नं त्वां प्रभो इति ॥
ततः संप्रार्थ स्वाध्यायं शक्त्या कुर्वीत नैत्यकम्
॥३०॥ध्यात्वा शेषां च तद्दत्तां गृहीत्वा शिरसादरात् ॥
आवाहितं यथापूर्वं राधाकृष्णं हृदम्बुजे ॥
संस्थापयेच्चांगदेवान्स्वस्वस्थानं विसर्जयेत्
॥३१॥करण्डके वा शय्यायां मन्दिरे प्रतिमां हरेः ॥
शाययित्वा पिधाय द्वार्वैश्वदेवं समाचरेत्
॥३२॥प्रासादिकं हरेरन्नं स्वपोष्येभ्यो विभज्य सः ॥
स्वयं भुक्त्वा तत्कथाद्यैर्दिनशेषमतिक्रमेत्
॥३३॥महापूजाविधानेन प्रोक्तेनानेन योन्वहम् ॥
भक्त्या समर्चयेद्विष्णुं स भवेत्तस्य पार्षदः
॥३४॥दिव्यं विमानमारुह्य भास्वरं देवतेप्सितम् ॥
गोलोकाख्यं हरेर्द्धाम दिव्याङ्गो याति पूजकः
॥३५॥फलाभिसंधिना वापि यस्तमर्चेद्दिनेदिने ॥
सोपि धर्मं काममर्थं मोक्षं चाप्नोत्यभीप्सितम्
॥३६॥इत्थं पूजाविधिं कर्त्तुमशक्तो राधया सह ॥
हरिमेकं यथा लब्धैरर्चेद्भक्त्योपचारकैः
॥३७॥द्वादशाक्षरमन्त्रेण द्विजोऽन्यो नाममन्त्रतः ॥
श्रीराधाकृष्णमभ्यर्चेद्भक्तिरेवाऽत्र सिद्धिदा
॥३८॥एकादश्यां हरेर्जन्मोत्सवादौ तु विशेषतः ॥
महापूजैव कर्त्तव्या स्वशक्त्याऽखिलवैष्णवैः
॥३९॥प्रतिष्ठामात्रमपि यः कुर्यादन्यकृतालये ॥
स सार्वभौम राज्यं वै प्राप्नुयान्नष्टकिल्विषः
॥४०॥कारयेन्मन्दिरं रम्यं धनाढ्यश्च हरेर्दृढम् ॥
यः स तु प्राप्नुयाद्राज्यं त्रैलोक्यस्याप्यकण्टकम्
॥४१॥वृत्तिदानेन पूजायाः प्रवाहं वर्द्धयेत्तु यः ॥
स पुमान्प्राप्नुयान्नूनं विष्णुलोके महत्सुखम्
॥४२॥प्रतिष्ठां मन्दिरं पूजां कारये त्त्रीण्यपीह यः ॥
समानैश्वर्यमाप्नोति वासुदेवस्य स धुवम्
॥४३॥हरेर्वृर्त्तिं हरेद्यस्तु कृतां स्वेन परेण वा ॥
कल्पमेकं स वै भुंक्ते नरके यमयातनाः
॥४४॥कर्त्ता कारयिता यश्च सहायश्चानुमोदकः ॥
चतुर्णां हि फले भागः सुकृतस्येतरस्य च
॥४५॥इति क्रियायोगविधिर्मया नारद कीर्त्तितः ॥
येनैकान्तिकधर्मोऽत्र सिद्ध्येत्तत्प्रवणात्मनाम्
॥४६॥विषयांश्चिन्तयंश्चित्ते बहिः पूजां हरेश्चरन् ॥
संभारेणापि महता न यथोक्तं फलं लभेत्
॥४७॥इतस्ततो ग्राम्यसुखे भ्रमत्स्वीयं मनस्ततः ॥
नियम्य विष्णुपूजायां मुमुक्षुः प्रयतो भवेत्
॥४८॥महाव्रता भूरितपस्विनोपि स्वधीतवेदा अपि बुद्धिमन्तः ॥
सांख्यं च योगं परिशीलयन्तः सिद्धिं न यान्त्येव विनार्चनं हरेः
॥४९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे श्रीवासुदेवपूजाविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥