आचम्य प्राणानायम्य ततोसौ स्वस्थमानसः
श्रीनारायण उवाच
आचम्य प्राणानायम्य ततोसौ स्वस्थमानसः ॥
नमस्कृत्येष्टदेवादीन्देशकालौ च कीर्तयेत्
॥१॥एकान्तधर्मसिद्यर्थं वासुदेवस्य पूजनम् ॥
करिष्य इति संकल्प्य कुर्यान्न्यासविधिं ततः
॥२॥न्यासे मन्त्रा द्वादशार्णो गायत्री वैष्णवी तथा ॥
नारायणाष्टाक्षरश्च ज्ञेया विष्णुषडक्षरः
॥३॥एते द्विजानां विहितास्तदन्येषां त्विह त्रयः ॥
वासुदेवाष्टाक्षरश्च हरिपञ्चाक्षरस्तथा ॥
षडर्णः केशवस्येति न्यासे होमे च संमताः
॥४॥श्रीविष्णुप्रतिमांगेषु स्वांगेष्विव ततोऽखिलान् ॥
कुर्यान्यासांश्च तैर्मन्त्रैस्ततोर्चां वाससाऽऽमृजेत्
॥५॥कलशं वामभागे स्वे संस्थाप्यावाह्य तत्र च ॥
तीर्थानि गन्धपुष्पाद्यैरुपचारैस्तमर्चयेत्
॥६॥पूजाद्रव्याणि चात्मानं प्रोक्षयित्वा तदम्बुना ॥
शंखं घण्टां च संपूज्य भूतशुद्धिं समाचरेत्
॥७॥आभ्यन्तराग्निवायुभ्यां दग्ध्वा पापात्मकं वपुः ॥
शुद्धस्य स्वात्मनस्त्वैक्यं भावयेद्ब्रह्मणा स्थिरः
॥८॥ततोऽक्षरब्रह्मरूपो राधाकृष्णं हृदि प्रभुम् ॥
ध्यायेदव्यग्रमनसा प्राणायामं समाचरन्
॥९॥अधोमुखं नाभिपद्मं कदलीपुष्पवत्स्थितम् ॥
विभाव्यापानपवनं प्राणेनैक्यमुपानयेत्
॥१०॥पद्मनाले तमानीय सह तेन तदम्बुजम् ॥
आकर्षेदूर्ध्वमथ तन्नदत्तीव्रमुपैति हृत् ॥
प्रफुल्लति च तत्रैतद्धृदयाकाश उल्लसत्
॥११॥तेजोराशिमये तत्र ततोप्यधिकतेजसा ॥
दर्शनीयतमं शान्तं ध्यायेच्छ्रीराधिकापतिम्
॥१२॥उपविष्टं स्थितं वा तं दिव्यचिन्मयविग्रहम् ॥
ध्यायेत्किशोरवयसं कोटिकन्दर्पसुन्दरम्
॥१३॥रूपानुरूपसंपूर्णदिव्यावयवलक्षितम् ॥
शरच्चन्द्रावदातांगं दीर्घचारुभुजद्वयम्
॥१४॥आरक्तकोमलतलरम्यांगुलिपदाम्बुजम् ॥
तुंगारुणस्निग्धनखद्युतिलज्जायितोडुपम्
॥१५॥शिञ्जत्किंकिणिमञ्जीरहंसकांघ्रियुगश्रियम् ॥
सुवृत्तजंघायुगलं समजानूरुशोभनम्
॥१६॥सद्रत्नरशनाबद्धपीताम्बरकटिश्रियम् ॥
उत्तुंगकुक्षिनाभ्यन्तर्निम्ननाभिवलित्रयम्
॥१७॥विततोत्तुंगहृदयं श्रीवत्सावर्त्तशोभितम् ॥
ललन्तीगुच्छगुच्छार्द्धदेवच्छन्दादिभूषितम्
॥१८॥नानासुगन्धिपुष्पस्रक्स्वर्णयज्ञोपवीतिनम् ॥
उन्निद्रशोणपद्माभकरकंकणभूषणम्
॥१९॥सूक्ष्मपर्वांगुलिद्योतन्नैकसद्रत्नमुद्रिकम् ॥
निनादयन्तं मधुरं वेणुं सर्वमनोहरम्
॥२०॥विपुलांसं गूढजत्रुं महाबाह्वंगदद्युतिम् ॥
भ्रमत्सुगन्धलुब्धालिझंकारितवनस्रजम्
॥२१॥कम्बूपमगलभ्राजत्सद्ग्रैवेयककौस्तुभम् ॥
शोभमानहनुं बिम्बीफलशोणाधरद्युतिम्
॥२२॥सितस्मितकलाराजत्पूर्णचन्द्रनिभाननम् ॥
तिलपुष्पसमाकारदर्शनीयसुनासिकम्
॥२३॥समानकर्णविभ्राजन्मकराकृतिकुण्डलम् ॥
कर्णोपरिलसच्चित्रपुष्पगुच्छावतंसकम्
॥२४॥समसूक्ष्मरदज्योत्स्नोल्लसद्गण्डस्थलश्रियम् ॥
पद्मपत्रायतारक्तप्रान्तरम्यविलोचनम्
॥२५॥पृथुतुंगललाटं च कामचापायितभ्रुवम् ॥
वक्रसूक्ष्मासितस्निग्धमनोहरशिरोरुहम्
॥२६॥नानासद्रत्नखचितकिरीटधृतशेखरम् ॥
प्रेम्णा निजं वीक्षमाणं प्रसन्नं स्निग्धया दृशा
॥२७॥ध्यात्वेत्थं कृष्णमथ तद्वामे राधां विचिन्तयेत् ॥
द्विभुजां स्वर्णगौरांगीं कौसुम्भामलवाससम्
॥२८॥समकर्णोल्लसद्रत्नभूषणांशुकनासिकाम् ॥
किशोरीं मृगशावाक्षीं पीनोन्नतघनस्तनीम्
॥२९॥कृशमध्यां पृथुश्रोणिं रत्नकाञ्चीविभूषिताम् ॥
अनेकदिव्याभरणां विकचाब्जाननस्मिताम्
॥३०॥रत्नांगुलीयकेयूरकङ्कणादिलसत्कराम् ॥
शिञ्जद्धंसकमञ्जीरशोभमानांघ्रिपङ्कजाम्
॥३१॥विशालभालविलसत्सत्काश्मीरललाटिकाम् ॥
बिम्बोष्ठीं सुकपोलां च वेणीग्रथितमालतीम्
॥३२॥प्रेक्षमाणां प्रभुं प्रेम्णा दधानामम्बुजं करे ॥
ध्यात्वैवं राधिकां तत्र प्रभुमर्चेत्तया सह
॥३३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे श्रीराधाकृष्णस्वरूपध्याननिरूपणं नामाऽष्टाविंशोऽध्यायः ॥ २८ ॥