मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ४

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 4

श्वेतद्वीपमुक्तवर्णनम्

स्कन्द उवाच

स एवमुक्तोत्मविदां वरिष्ठो नारायणेनोत्तमपूरुषेण ॥

जगाद वाक्यं जगतां गरिष्ठं तमच्युतं लोकहिताधिवासम्

॥१॥

नारद उवाच

श्रुतं मया देव समं त्वयोक्तमृष्याकृतिच्छादितभूरिधाम्ना ॥

तवैव लीला सकलेयमीश सर्वेश्वरस्येति विदामि चित्ते

॥२॥

त्वद्दर्शनेनैव हि पूर्णकामो भवामि भूमन्स्वहृदीप्सितेन ॥

तथाप्यहं तत्तव पूर्वरूपं प्रभो दिदृक्षामि हि कौतुकं मे

॥३॥

श्रीनारायण उवाच

न तत्स्वरूपं मम दानयज्ञयोगैश्च वैदेस्तपसापि दृश्यम् ॥

एकान्तिकैर्भक्तवरैस्तु भक्त्या ह्यनन्यया नारद दृश्यते तत्

॥४॥

भक्तिस्तव त्वस्ति मयि ह्यनन्या ज्ञानं च वैराग्ययुतं स्वधर्मः ॥

अतश्च तद्दर्शनमाप्स्यसि त्वं सुरेश्वराद्यैरपि यद्दुरापम्

॥५॥

त्वदीयभक्त्याऽतितरा प्रसन्नस्त्वाज्ञापयाम्यद्य तदीक्षणाय ॥

सितान्तरीपं व्रज तत्र तेऽयं मनोरथः सेत्स्यति विप्रवर्य

॥६॥

स्कन्द उवाच

श्रुत्वेति वाचं परमेष्ठिपुत्रः सोप्यर्च्चयित्वा तमृषिं पुराणम् ॥

खमुत्पपातोत्तमयोगयुक्तस्ततोधिमेरौ सहसा निपेते

॥७॥

तस्यावतस्थे च मुनिर्मुहूर्त्तमेकान्तमासाद्य गिरेः स शृंगे ॥

आलोकयन्नुत्तरपश्चिमेन ददर्श चात्यद्भुतमन्तरीपम्

॥८॥

क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ॥

देदीप्यमानो विततेन सर्वतो ज्योतिश्चयेनातिसि तेन नित्यम्

॥९॥

आम्रैरनेकैरसनैरशोकैराम्रातकैर्निम्बकदम्बनीपैः ॥

बिल्वैर्मधूकैः सुरदारुभिश्च प्लक्षैर्वटैः किंशुकचन्दनैश्च

॥१०॥

सर्ज्जैश्च शालैः पनसैस्तमालैर्मुनिद्रुमैः केतकचम्पकैश्च ॥

कुन्दैश्च जातीसुरमल्लिकाभिद्रुमैर्वृतः पुष्पफलावनम्रैः

॥११॥

कल्पद्रुमाणां बहुभिश्च वृन्दैः सुवर्णरम्भाक्रमुकालिभिश्च ॥

महद्भिरुद्यानवरैरनेकैः सरित्सरोभिर्विकचाम्बुजैश्च ॥

हंसादिभिः पक्षिवरैः सुशब्दैर्गणैर्मृगाणां रुचिरैश्चलद्भिः

॥१२॥

सर्वेपि जीवाः किल यत्र मुक्ता वसन्ति च स्थावरजङ्गमाश्च ॥

तं वीक्षमाणेन च तेन दृष्टा भक्तोत्तमाः श्रीपुरुषोत्तमस्य

॥१३॥

अतीन्द्रिया निर्गतसर्वपापा निष्यन्दहीनाश्च सुगन्धिनश्च ॥

द्विबाहवः केपि चतुर्भुजाश्च श्वेताश्च केचिन्नवनीरदाभाः

॥१४॥

पद्मच्छदाक्षाः सममानगात्राः सुरूपदिव्यावयवाः सुसाराः ॥

विकीर्णकेशाश्च सदा किशोरा सद्भिश्च चिह्नैर्न्निखिलैरुपेताः

॥१५॥

सरोजरेखाङ्कितपाणिपादाः षडूर्मिहीना मिहिरातितेजसः ॥

सितांशुका ध्यानपराश्च सौम्याः कालोपि येभ्यो भयमेति नित्यम्

॥१६॥

सावर्णिरुवाच

अतीन्द्रिया निरातङ्का अनिष्यन्दाः सुगन्धिनः ॥

के ते नराः कथं जातास्तादृशाः का च तद्गतिः

॥१७॥

श्वेतद्वीपः पयोम्भोधौ वर्त्तते हि धरातले ॥

तद्वासिनामपि कथं प्रोक्ताऽतीन्द्रियता त्वया

॥१८॥

ये ब्रह्मण्यक्षरे धाम्नि सच्चिदानन्दरूपिणि ॥

स्थिताः स्युश्चिन्मया मुक्तास्ते तथा स्युर्न्नहीतरे

॥१९॥

एतं मे संशयं छिन्धि परं कौतूहलं हि मे ॥

त्वं हि सर्वकथाभिज्ञस्ततस्त्वामाश्रितोस्मयहम्

॥२०॥

स्कन्द उवाच

एकान्तोपासनेनैव प्राक्कल्पेषु रमापतेः ॥

ये ब्रह्मभावं संप्राप्ता अजरामरतां गताः

॥२१॥

अक्षराख्याः पुमांसस्ते श्वेतद्वीपेऽत्र धामनि ॥

सेवितुं वासुदेवं तं स्थिता देवर्षिणेक्षिताः

॥२२॥

प्राप्ते प्रलयकाले तु पुनश्चाक्षरधामनि ॥

स्थास्यन्ति ते स्वतन्त्राश्च कालमायाभयोज्झिताः

॥२३॥

अत्रापि पुरुषा ये तु मायाजाता अतः क्षराः ॥

तेपि सद्भिः साधनैर्वै जायन्ते तादृशाः किल

॥२४॥

अहिंसया च तपसा स्वधर्मेण विरागतः ॥

वासुदेवस्य माहात्म्यज्ञानेनैवात्मनिष्ठया

॥२५॥

भक्त्या परमया नित्यं प्रसङ्गेन महात्मनाम् ॥

हरिसेवाविहीनानां मुक्तीनामप्यनिच्छया

॥२६॥

सिद्धीनामणिमादीनां सर्वासां चाप्यकांक्षया ॥

अन्योन्यं श्रुतिकीर्तिभ्यां श्रीहरेर्जन्मकर्मणाम् ॥

भवन्ति तादृशा नूनं पुरुषा मुनिसत्तम

॥२७॥

जगत्सर्गे जायमानेप्येते कालवशात्क्वचित् ॥

न जायन्ते स्वतंत्रत्वान्न नश्यन्ति लयेऽन्यवत्

॥२८॥

अत्र ते कथयिष्यामि कथां पौराणिकीं मुने ॥

यथात्रत्योपि मनुजस्तथा भावमुपेयिवान्

॥२९॥

विस्तीर्णैषा कथा ब्रह्मञ्छ्रुता मे पितृसन्निधौ ॥

सैषाद्य तव वक्तव्या कथासारो हि स स्मृतः

॥३०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्वेतद्वीपमुक्तवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥