मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय २०

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 20

चातुर्वर्ण्यधर्मनिरूपणम्

नारद उवाच

भगवन्ब्रूहि मे धर्ममेकान्तं तव संमतम् ॥

प्रीयते येन विश्वात्मा वासुदेवः स सर्वदा

॥१॥

श्रीनारायण उवाच

साधु पृष्टं त्वया ब्रह्मन्मतिस्ते विमला किल ॥

मयि स्निग्धाय भक्ताय तुभ्यं गुह्यमपि ब्रुवे

॥२॥

धर्म एष मया प्रोक्तः कल्पस्यादौ विवस्वते ॥

तमेव कथये तुभ्यं सनातनमहं मुने

॥३॥

स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ॥

तस्मिन्ननन्या भक्तिर्या धर्म एकान्तिकः स वै

॥४॥

तेनैवातिप्रसन्नः स्याद्गोलोकाधिपतिः स्वयम् ॥

जायते स च भक्तोपि परिपूर्णमनोरथः

॥५॥

नारद उवाच

लक्षणानि बुभुत्सामि स्वधर्मादेः पृथक्पृथक् ॥

शास्त्रयोनेरहं त्वत्तो वक्तुं तानि त्वमर्हसि

॥६॥

निगमागमशास्त्राणां सर्वेषामपि सत्पते ॥

मूलं त्वमेक एवासि येषु धर्मः सनातनः

॥७॥

त्वमेव साक्षाद्भगवान्वासुदेवोऽक्षरात्परः ॥

श्रेयसे सर्वभूतानां वर्तसेऽत्र दयानिधिः

॥८॥

त्वत्तोऽन्ये तु स्वस्वभावगुणतन्त्रा ह्यजादयः ॥

यथावन्न विजानीयुर्द्धर्मादींस्त्वमतो वद

॥९॥

स्कन्द उवाच

इति देवर्षिणा पृष्टो भगवान्धर्मनन्दनः ॥

स्वधर्मादीन्क्रमेणैव कथयामास सर्ववित्

॥१०॥

श्रीनारायण उवाच

वर्णानामाश्रमाणां च सदाचारः पृथक्पृथक् ॥

सामान्यः सविशेषश्च स्वधर्मः स उदीर्यते

॥११॥

नृणां साधारणं धर्मं सर्वेषामादितः शृणु ॥

अहिंसा परमो धर्मस्तत्रादिम उदाहृतः

॥१२॥

स्वमुख्यधर्मवृत्योरप्यद्रोहो मनसापि यः ॥

सति गत्यन्तरे प्राणिमात्रस्यापीति सा मता

॥१३॥

सत्या वाग्भूतमात्रस्य द्रोहो न स्याद्यया तथा ॥

तपश्च शास्त्रविहितभोगसंकोचलक्षणम्

॥१४॥

बाह्यमाभ्यन्तरं चेति द्विविधं शौचकर्म च ॥

अनादानं परस्वस्य परोक्षं वा छलेन च

॥१५॥

यथोचितं ब्रह्मचर्यकामलोभक्रुधां जयः ॥

मुदा वित्तार्पणं पात्रे तुष्टिर्लब्धेन दैवतः

॥१६॥

तीर्थे क्षेत्रे च यज्ञादौ चतुर्वर्गाप्तयेपि वा ॥

आत्मनो वा परस्यापि सर्वथा घातवर्जनम्

॥१७॥

जातिभ्रंशकराणां च कर्मणां परिवर्जनम् ॥

पाणिपादोदरोपस्थवाचां संयमनं तथा

॥१८॥

सर्वेषां व्यसनानां च वर्जनं मद्यमांसयोः ॥

व्यभिचारान्निवृत्तिश्च कुलसद्धर्मपालनम्

॥१९॥

एकादशीनां सर्वासां यमैः साकमुपोषणम् ॥

हरेर्जन्मदिनानां च व्रताचरणमञ्जसा

॥२०॥

आर्जवं साधुसेवा च विभज्याऽन्नादिभोजनम् ॥

भक्तिर्भगवतश्चेति धर्माः साधारणा नृणाम्

॥२१॥

ब्रह्मक्षत्रविशः शूद्रा वर्णाश्चत्वार ईरिताः ॥

तेषां पृथक्पृथग्धर्मान्विशेषान्वच्मि ते मुने

॥२२॥

शमो दमः क्षमा शौचमास्तिक्यं भक्तिरीशितुः ॥

तपो ज्ञानं च विज्ञानं विप्रधर्मः स्वभावजः

॥२३॥

शूरत्वं धैर्यमौदार्य बलं तेजः शरण्यता ॥

गोविप्रसाधुरक्षेज्या धर्माः क्षत्रस्य कीर्त्तिताः

॥२४॥

राज्ञस्त्वेतेऽथ नीत्यैव प्रजानां परिपालनम् ॥

धर्मसंस्थापनं भूमौ धर्मा दण्डार्हदण्डनम्

॥२५॥

आस्तिक्यं दाननिष्ठा च साधुब्राह्मणसेवनम् ॥

अतुष्टिरर्थोपचये धर्मा वैश्यस्य चोद्यमः

॥२६॥

द्विजातीनां च देवानां सेवा निष्कपटं गवाम् ॥

विशेषधर्मः कथितः शूद्रस्य मुनिसत्तम

॥२७॥

अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ॥

विप्रस्य जीविका प्रोक्ता तत्रान्त्या त्वापदि स्मृता

॥२८॥

याजनेऽध्यापने वापि दोषदर्शी द्विजोत्तमः ॥

यस्तस्याऽन्यापि विहिता वृत्तिरस्ति चतुर्विधा

॥२९॥

शिलोञ्छ नित्ययाच्ञा च शालीनं चोचिता कृषिः ॥

श्रेयसी पूर्वपूर्वाऽत्र ज्ञातव्या द्विजसत्तमैः

॥३०॥

विप्रो जीवेद्वैश्यवृत्त्या सत्यामापदि नारद ॥

अथ वा क्षत्रवृत्त्यापि श्ववृत्त्या न तु कर्हिचित्

॥३१॥

शस्त्रेण जीवेत्क्षत्रं तु सर्वतो धर्मरक्षया ॥

आपन्नो वैश्यवृत्त्यैव विप्ररूपेण वा चरेत्

॥३२॥

करादानादिनृपतेरविप्राद्वृत्तिरीरिता ॥

देशकालानुसारेण रञ्जयित्वाऽखिलाः प्रजाः

॥३३॥

आपत्कालेपि क्षत्रस्य ब्राह्मणस्येव सर्वथा ॥

विगर्हिता नीचसेवा स्वतेजःक्षयकारिणी

॥३४॥

कृषिवाणिज्यगोरक्षा तुरीया वृद्धिजीवनम् ॥

वैश्यस्य जीविका प्रोक्ता शूद्रवृत्तिस्तथापदि

॥३५॥

शूद्रो जीवेद्द्विजातीनां सेवालब्धधनेन च ॥

आपत्काले तु कार्वादेर्जीविकावृत्तिमाश्रयेत्

॥३६॥

आपन्मुक्तस्तु सर्वोपि प्रायश्चित्तं यथोचितम् ॥

विधाय स्वस्ववृत्त्यैव पुनर्वर्त्तेत मुख्यया

॥३७॥

चातुर्वर्ण्यं सतां संगं कुर्यान्न त्वसतां क्वचित् ॥

मुक्तिप्रदोस्ति सत्संगः कुसंगो निरयप्रदः

॥३८॥

कामं क्रोधं रसास्वादं जित्वा मानं च मत्सरम् ॥

निर्दम्भं विष्णुभक्ता ये ते सन्तः साधवो मताः

॥३९॥

स्त्रियां स्त्रैणे रसास्वादे सक्ताश्च धनगृध्नवः ॥

हिंस्रा दम्भकृताटोपा भक्ताभासा ह्यसाधवः

॥४०॥

असाधुष्वासुरी संपद्दैवी संपत्तु साधुषु ॥

सहजास्तीति निश्चित्य सेव्या सन्तः सुखेप्सुभिः

॥४१॥

यादृशां यस्य संगः स्याच्छास्त्राणां वा नृणामपि ॥

बुद्धिः स्यात्तादृशी तस्य कार्योऽतो नासतां हि सः

॥४२॥

ये साधुसेवारुचयः पुरुषा निजशक्तितः ॥

अप्राप्यं नास्ति तेषां वै किमप्यैश्वर्यमूर्जितम्

॥४३॥

स्वधर्मस्था अपि सतां द्रोहिणो ये तु मानवाः ॥

सद्गतिं नैव ते यान्ति क्वापि केनापि कर्मणा

॥४४॥

महापूजारता विष्णोर्भक्ता अपि सतां यदि ॥

द्रोहं कुर्युस्तदा तेषु न प्रसीदति स क्वचित्

॥४५॥

सद्द्रोहिणस्तु देहान्ते यांयां योनिं ब्रजन्ति च ॥

तत्रतत्र क्षुधारोगैः पीड्यन्ते जीवितावधि

॥४६॥

सतामतिक्रमादेव पुण्यानां महतामपि ॥

सद्यः क्षयः स्यात्सर्वेषामायुषः संपदामपि

॥४७॥

तस्मात्सेवा सतां कार्या सर्वैरपि सुखेप्सुभिः ॥

पुण्यतीर्थानि सेव्यानि पूज्या विप्राश्च धेनवः

॥४८॥

तीर्थानि देवप्रतिमा निन्देयुर्ये कुबुद्धयः ॥

तेषां तु जारजातानां वंशोच्छेदो भवेद्ध्रुवम्

॥४९॥

एकस्मिंस्तर्पिते विप्रे सद्भोज्यैर्दक्षिणादिभिः ॥

तर्पितं स्याज्जगत्सर्वं हरिस्तुष्यति च स्वयम्

॥५०॥

एकस्मिन्ब्राह्मणे द्रुग्धे द्रुग्धं स्यात्सकलं जगत् ॥

तस्माच्छक्त्या पूजनीया ब्राह्मणा विष्णुरूपिणः

॥५१॥

गवामंगेषु तिष्ठन्ति सर्वे देवगणा अपि ॥

तथा सर्वाणि तीर्थानि तासु तिष्ठन्ति सर्वदा

॥५२॥

गव्यर्च्चितायामेकस्यां सर्वे देवाः समर्च्चिताः ॥

कृतानि स्युश्च सर्वाणि तीर्थान्यपि च नारद

॥५३॥

एकस्या अपि गोर्द्रोहे कृते क्वापि प्रमादतः ॥

द्रुग्धाः स्युर्देवताः सर्वास्तीर्थान्यपि च कृत्स्नशः

॥५४॥

तस्माच्चातुर्वर्ण्य जनैर्यथोक्तविधिसंस्थितैः ॥

भवितव्यं प्रयत्नेन त्रेतव्यं च निषेधतः

॥५५॥

चातुर्वर्ण्येतरे ये तु तेषां वृत्तिः कुलोचिता ॥

चौर्यहिंसाद्यधर्मेण रहितैव हितावहा

॥५६॥

वर्णधर्मा इति प्रोक्ताः संक्षेपेण मया मुने ॥

चतुर्णामाश्रमाणां च धर्मानथ वदामि ते

॥५७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये चातुर्वर्ण्यधर्मनिरूपणं नाम विंशोऽध्यायः ॥ २० ॥