मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १८

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 18

दर्शनं मम यज्जातं तव तत्तु महामुने

श्रीभगवानुवाच

दर्शनं मम यज्जातं तव तत्तु महामुने ॥

नित्यैकान्तिकभक्तत्वान्निर्दम्भत्वान्मदिच्छया

॥१॥

अहिंसा ब्रह्मचर्यं च त्वयि नित्यं च तद्द्वयम् ॥

स्वधर्मोपशमौ चैव वैराग्यं चात्मवेदनम्

॥२॥

सत्सङ्गोऽष्टाङ्गयोगश्च सर्वथेन्द्रियनिग्रहः ॥

मुन्यन्नवृत्तिश्च तपः सर्वव्यसनहीनता

॥३॥

मदेकान्तिकभक्तिश्च महात्म्यज्ञानपूर्विका ॥

वर्त्तते तेन मामत्र पश्यसि त्वं हि सुव्रत

॥४॥

ईदृग्लक्षणसंपन्ना ये स्युरन्येपि मानवाः ॥

तेपि मामीदृशं विप्र पश्यन्त्येकान्तिकप्रियम्

॥५॥

असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि ॥

राधालक्ष्मीयुतो नित्यं वसामि स्वाश्रितैः सह

॥६॥

वासुदेवस्वरूपोहं सर्वकर्मफलप्रदः ॥

अन्तर्यामितया वर्त्ते स्वतन्त्रः सर्वदेहिनाम्

॥७॥

वैकुण्ठाख्यं महाधाम्नि लक्ष्म्या सह चतुर्भुजः ॥

वसामि नन्दगरुडमुख्यैः साकं च पार्षदैः

॥८॥

धाम्नि तेजोमये दिव्ये श्वेतद्वीपेऽन्वहं भुवि ॥

ददामि श्वेतमुक्तेभ्यः पञ्चकालं स्वदर्शनम्

॥९॥

कुर्वेऽनिरुद्धप्रद्युम्नसंकर्षणसमाह्वयैः ॥

स्वरूपैर्नैककोट्यण्डसर्गस्थित्यप्ययानहम्

॥१०॥

सर्गारम्भे मया ब्रह्मा सृष्टो नाभिसरोरुहात् ॥

तपसाराधयामास स मां यज्ञैश्च नारद

॥११॥

ततस्तस्मै प्रसन्नोऽहं प्राददामीप्सितान्वरान् ॥

ब्रह्मन्प्रास्यसि सामर्थ्यं प्रजानां त्वं विसर्जने

॥१२॥

आज्ञायामेव ताः सर्वास्तव स्थास्यन्ति मद्वरात् ॥

वेदाश्चापि स्फुरिष्यन्ति तव बुद्धौ सनातनाः

॥१३॥

ज्ञानं च मत्स्वरूपस्य यथावत्ते भविष्यति ॥

त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन

॥१४॥

सुरासुरगणानां च मुनीनां च महात्मनाम् ॥

त्वमेव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि

॥१५॥

असाध्ये यत्र कार्ये च मोहमेष्यसि तत्त्वहम् ॥

प्रादुर्भूय करिष्यमि स्मृतमात्रस्त्वया विधे

॥१६॥

सृज्यमाने त्वया विश्वे नष्टां पृथ्वीं महार्णवे ॥

आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥

हिरण्याक्षं निहत्यैव दैतेयं बलगर्वितम्

॥१७॥

दिनान्ते तव मत्स्योहं भूत्वा क्षोणीं तरीमिव ॥

सहौषधिं धारयिष्ये मन्वादींश्च निशावधि

॥१८॥

सुधायै मथ्नतामब्धिं काश्यपानां निराश्रयम् ॥

मन्थानं कूर्मरूपोहं धास्ये पृष्ठे च मन्दरम्

॥१९॥

नारसिंहं वपुः कृत्वा हिरण्यकशिपुं विधे ॥

सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्

॥२०॥

विरोचनस्य बलवान्बलिः पुत्रो महासुरः ॥

भविष्यति स शक्रं च स्वाराज्याच्च्यावयिष्यति

॥२१॥

त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ॥

अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात्

॥२२॥

ततो राज्यं प्रदास्यामि देवेन्द्राय दिवः पुनः ॥

देवताः स्थापयिष्यामि स्वेषु स्थानेष्वहं विधे ॥

बलिं चैव करिष्यामि पातालतलवासिनम्

॥२३॥

कर्दमाद्देवहूत्यां च भूत्वाऽथ कपिलाभिधः ॥

प्रवर्तयिष्ये कालेन नष्टं सांख्यं विरागयुक्

॥२४॥

दत्तो भूत्याऽनसूययामत्रेरान्विक्षिकीं ततः ॥

प्रह्लादायोपदेक्ष्यामि विद्यां च यदवे विधे

॥२५॥

मेरुदेव्यां सुतो नाभेर्भूत्वाहमृषभो भुवि ॥

धर्मं पारमहंस्याख्यं वर्तयिष्ये सनातनम्

॥२६॥

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ॥

क्षत्रं चोत्सादयिष्यामि भग्नसेतुकदध्वगम्

॥२७॥

सन्धौ तु समनुप्राप्ते त्रेताया द्वापरस्य च ॥

कौशल्यायां भविष्यामि रामो दशरथादहम्

॥२८॥

सीताभिधाना लक्ष्मीश्च भवित्री जनकात्मजा ॥

उद्वहिष्यामि तामैशं भंक्त्वा धनुरहं महत्

॥२९॥

ततो रक्षःपतिं घोरं देवर्षिद्रोहकारिणम् ॥

सीतापहारिणं संख्ये हनिष्यामि सहानुजम्

॥३०॥

तस्य मे तु चरित्राणि वाल्मीक्याद्या महर्षयः ॥

तदा गास्यन्ति बहुधा यच्छ्रुतेः स्यादघक्षयः

॥३१॥

द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके ॥

भूभारासुरनाशार्थं पातुं धर्मं च धार्मिकान् ॥

वसुदेवाद्भविष्यामि देवक्यां मथुरापुरे

॥३२॥

कृष्णोहं वासुदेवाख्यस्तथा संकर्षणो बलः ॥

प्रद्युम्नश्चाऽनिरुद्धश्च भविष्यन्ति यदोः कुले

॥३३॥

गोपस्य वृषभानोस्तु सुता राधा भविष्यति ॥

वृन्दावने तया साकं विहरिष्यामि पद्मज

॥३४॥

लक्ष्मीश्च भीष्मकसुता रुक्मिण्याख्या भविष्यति ॥

उद्वहिष्यामि राजन्यान्युद्धे निर्जित्य तामहम्

॥३५॥

धर्मद्रुहोऽसुरान्हत्वा तदाविष्टांश्च भूपतीन् ॥

धर्मं संस्थापयन्नेव करिष्ये निर्भरां भुवम्

॥३६॥

येन केनापि भावेन यस्य कस्यापि मानसम् ॥

मयि संयोक्ष्यते तंतं नेष्ये ब्रह्मगतिं पराम्

॥३७॥

धर्मं भुवि स्थापयित्वा कृत्वा यदुकुलक्षयम् ॥

पश्यतां सर्वदेवानामन्तर्द्धास्ये भुवस्ततः

॥३८॥

कृष्णस्य मम वीर्याणि कृष्णद्वैपायनादयः ॥

गास्यन्ति बहुधा ब्रह्मन्सद्यः पापहराणि हि

॥३९॥

कृष्णद्वैपायनो भूत्वा पराशरमुनेः सुतः ॥

शाखाविभागं वेदस्य करिष्यामि तरोरिव

॥४०॥

वैदिकं विधिमाश्रित्य त्रिलोकीपरिपीडकान् ॥

छलेन मोहयिष्यामि भूत्वा बुद्धोऽसुरानहम्

॥४१॥

मया कृष्णेन निहताः सार्जुनेन रणेषु ये ॥

प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्मं यदा क्षितौ

॥४२॥

धर्मदेवात्तदा भक्तादहं नारायणो मुनिः ॥

जनिष्ये कोशले देशे भूमौ हि सामगो द्विजः

॥४३॥

मुनिशापान्नृतां प्राप्तानृषींस्तात तथोद्धवम् ॥

ततोऽवितासुरेभ्योऽहं सद्धर्मं स्थापयन्नज

॥४४॥

जनान्म्लेच्छमयान्भूमौ कलेरन्ते महैनसः ॥

कल्की भूत्वा हनिष्यामि विचरन्दिव्यवाजिना

॥४५॥

यदा यदा च वेदोक्तो धर्मो नाशिष्यतेऽसुरैः ॥

प्रादुर्भावो भविष्यो मे तद्रक्षायै तदा तदा

॥४६॥

तस्माच्चिन्तां विहायैव प्रजाः सृज यथा पुरा ॥

एतान्दत्त्वा वरांस्तस्मा अहमन्तर्हितोऽभवम्

॥४७॥

यथा तस्मै वरा दत्तास्तथैव च मया कृतम् ॥

कुर्वे करिष्ये च मुने निजशक्तिभिरञ्जसा

॥४८॥

एवंविधस्य मे ब्रह्मन्नीशितुः सर्वदेहिनाम् ॥

दर्शनं दुर्लभं जातं तवैकान्तिकभक्तितः

॥४९॥

वरं वरय मत्तस्त्वं स्वाभीष्टं मुनिसत्तम ॥

प्रसन्नोस्मि भृशं तुभ्यं नाफलं मम दर्शनम्

॥५०॥

स्कन्द उवाच

श्रुत्वेति भगवद्वाक्यं नारदो मुनिसत्तमः ॥

मन्यमानो निजं धन्यं तमुवाच प्रभुं मुने

॥५१॥

दर्शनादेव ते स्वामिन्संपूर्णो मे मनोरथः ॥

इदं हि दुर्लभं मन्ये सर्वेषामपि देहिनाम्

॥५२॥

अतस्ते च त्वदीयानां त्वद्धाम्नोस्याऽमृतस्य च ॥

साक्षात्समीक्षणादन्यत्प्राप्यं मे नास्ति वांछितम्

॥५३॥

इतोन्यद्दुर्लभं क्वापि नास्ति ब्रह्माण्डगोलके ॥

यदहं परितुष्टात्ते प्रार्थयेयमिहाच्युत

॥५४॥

लोकान्तरसुखं यत्तद्वैदिकैरेव कर्मभिः ॥

दैवैः पित्र्यैश्च लभ्येत तच्चाप्यस्ति हि नश्वरम्

॥५५॥

नेच्छामि तदहं किञ्चित्सुखं त्वत्तः परं प्रभो ॥

वरमेकं तु याचे त्वत्स्वेप्सितं वरदर्षभात्

॥५६॥

तवाऽथ तव भक्तानां सदैव गुणगायने ॥

अत्युत्सुकास्तु मे बुद्धिस्त्वयि प्रीतिविवर्द्धिनी

॥५७॥

स्कन्द उवाच

तथास्त्विति प्रतिश्रुत्य कृष्णस्तेनेति याचितम् ॥

गानोपयुक्तां महतीं वीणां दत्त्वाऽब्रवीत्पुनः

॥५८॥

श्रीभगवानुवाच

अधुना गच्छ देवर्षे विशालां बदरीमितः ॥

तत्र धर्मात्मजं भक्त्या मामाराधय सुव्रत

॥५९॥

त्वं ह्येकान्तिकभक्तोसि मम निष्कपटान्तरः ॥

तेन त्वामधिकं मन्ये विधेरपि पितुस्तव

॥६०॥

यादृशोऽहं च यद्रूपो यावांश्च महिमा मम ॥

विदुस्तत्सर्वमपि मे भक्ता एकान्तिका मुने

॥६१॥

हृदि चिन्त्योहमेवास्मि सतां तेषां च ते मम ॥

तेषामिष्टं न मत्तोऽन्यन्मम तेभ्यो न किञ्चन

॥६२॥

यथा पतिव्रता नार्यो वशीकुर्वन्ति सत्पतिम् ॥

निजैर्गुणैस्तथा भक्ता वशीकुर्वन्ति मामपि

॥६३॥

अनुयामि श्रिया साकं तानहं परवानिव ॥

यत्रयत्र च ते सन्ति तत्रतत्राहमस्मि हि

॥६४॥

सत्संगादेव मत्प्राप्तिर्भवेद्भुवि मुमुक्षताम् ॥

नान्योपायेन देवर्षे सत्यमित्यवधारय

॥६५॥

मामेव यर्हि शरणं मानुषाः प्राप्नुवन्ति ये ॥

तर्ह्येव ते विमुच्यन्ते मायाया जीवबन्धनात्

॥६६॥

मां प्रपन्नस्तु पुरुषो येन केनापि भावतः ॥

यथेष्टं सुखमाप्नोति न तु संसृतिमन्यवत्

॥६७॥

स्कन्द उवाच

एवमुक्तो भगवता प्राप्तोऽनुग्रहमीप्सितम् ॥

प्रणम्य साश्रुनयनः पर्यावर्तत नारदः

॥६८॥

तमेव वीणया गायञ्छ्वेतमुक्तमपश्यत ॥

प्राग्वत्स्वाग्रे चलन्तं तमन्वगच्छद् द्विजर्षभ

॥६९॥

सद्यः श्वेतं महाद्वीपं प्राप्य श्वेतान्प्रणम्य तान् ॥

निवृत्तो नारदो ब्रह्मंस्तरसा मेरुमागमत्

॥७०॥

ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ॥

निपपात च खात्तूर्णं विशालां बदरीमनु

॥७१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवावतारादिकथनंनामाऽष्टादशोऽध्यायः ॥ १८ ॥