मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 8

महर्षिवारितैर्द्देवैस्त्यक्ते हिंसामये मखे

सावर्णिरुवाच

महर्षिवारितैर्द्देवैस्त्यक्ते हिंसामये मखे ॥

पुनः कथं संप्रवृत्ता मखाः सर्वत्र तादृशाः

॥१॥

देवेष्वृषिषु भूपेषु प्राचीनाधुनिकेषु च ॥

सनातनः शुद्धधर्मो विपर्यासं कथं गतः

॥२॥

अत्र मे संशयो भूयान्संजातोऽद्य षडानन ॥

त्वं सर्वशास्त्रतत्त्वज्ञस्तमपाकर्त्तुमर्हसि

॥३॥

स्कन्द उवाच

कालो बलीयान्बलिनां भिद्यन्ते तेन बुद्धयः ॥

कामक्रोधरसास्वादलोभमानवतां मुने

॥४॥

अतिक्रमेण महतां यथार्थहितभाषिणाम् ॥

क्रोधमानवशात्पुंसां नश्यन्त्येव च सद्धियः

॥५॥

अकार्यमपि ते कर्तुं तदानीं तु बुधा अपि ॥

प्रवर्त्तन्तेऽनुतप्यन्ते बम्भ्रम्यन्तेऽथ संसृतौ

॥६॥

कामादिभिर्विहीना ये सात्वताः क्षीणवासनाः ॥

तेषां तु बुद्धिभेदाय क्वापि कालो न शक्नुते

॥७॥

अनाश्रितस्तु सद्धर्मं पुमान्कश्चन कर्हिचित् ॥

संसृतेर्म्मुच्यते नैव सत्यमेतद्वचो मम

॥८॥

प्रवृत्तिं हिंस्रयज्ञादेरथ ते द्विजसत्तम ॥

कथयामि यथा पूर्वं मयाऽश्रावि पितुर्मुखात्

॥९॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥

नारायणस्य माहात्म्यं यत्र लक्ष्म्याश्च कीर्तितम्

॥१०॥

मुनीनां बृहतां तेषामतिक्रमणदोषतः ॥

इन्द्रस्यासीद्विश्वजितः सद्बुद्धिविलयो मुने

॥११॥

दुर्वासाः शंकरस्यांशस्तपस्वी मुनिरेकदा ॥

चरन्यदृच्छया लोकान्पुष्पभद्रां नदीं ययौ

॥१२॥

जलक्रीडार्थमायांतीं स्वर्गात्तत्र सखीवृताम् ॥

विद्याधरस्य सुमतेरङ्गनां स समैक्षत

॥१३॥

स्वर्गङ्गाहेमकमलैर्ग्रथितामतिसौरभाम् ॥

दधतीं दक्षिणे पाणौ स्रजं मदकलाभिधाम्

॥१४॥

तामवेक्ष्य मुनिस्तस्याः समीपमुपगम्य सः ॥

उन्मत्तवद्ययाचे तां स्रजं विद्याधरीधृताम्

॥१५॥

सापि प्रणम्य तं सद्यो माहात्म्यं तस्य जानती ॥

तत्कंठे धारयामास मालां तां परमादरात्

॥१६॥

ततः प्रीतमना गच्छन्गायन्नुन्मत्तवन्मुनिः ॥

ददर्श पथि देवेन्द्रमायान्तं तां महानदीम्

॥१७॥

अप्सरोभिश्च गन्धर्वैः सतालं मधुरस्वरम् ॥

उपगीयमानविजयमधिरूढं गजाधिपम्

॥१८॥

रम्भामधुरसंगीतश्रवणानन्दनिर्वृतम् ॥

तन्मुखाब्जस्थिरदृशं छत्रचामरशोभितम्

॥१९॥

अनवेक्षमाणमात्मानं तं दृष्ट्वा सोऽत्रिनन्दनः ॥

स्वकण्ठस्थां स्रजं तस्मिंश्चिक्षेपोन्मत्तवद्धसन्

॥२०॥

इन्द्रोप्यधर्मसर्गेण समाविष्टः पुरैव यत् ॥

ततस्तदा कामवशस्तां न्यधाद्गजकुम्भयोः ॥

तत्सौरभाकृष्टचेताः करीन्द्रः शुण्डयाऽकृषत्

॥२१॥

करात्सा पतिता भूमौ तां च गच्छन्करी पदा ॥

ममर्द्द पश्यतस्तस्य महर्षेस्तपसां निधेः

॥२२॥

ततः क्रुद्धः स दुर्वासाः प्रलयाग्न्यरुणेक्षणः ॥

प्राहेन्द्रं मत्त दुष्टात्मन्स्तब्धोसि कामलम्पट

॥२३॥

श्रियो धाम स्रजं प्रीत्या मद्दत्तां नाभिनन्दसि ॥

प्रणाममपि रे मूढ न करोषि त्वमुन्मदः

॥२४॥

न वीक्षसे मामपि त्वं त्वादृङ्मत्तैकशिक्षकम् ॥

त्रैलोक्यराज्यप्राप्तान्ध्यः सम्यक्त्वां शिक्षयेऽधुना

॥२५॥

यस्याः प्रसादात्त्रैलोक्यराज्यसौख्यं त्वमाप्तवान् ॥

सैव श्रीः सत्रिलोकं त्वां हित्वा लीनाऽस्तु सागरे

॥२६॥

वज्रपातोपमं वाक्यं तन्निशम्यैव तत्क्षणम् ॥

गजादुत्प्लुत्य विमदस्तदंघ्र्योर्न्यपतद्धरि

॥२७॥

प्रार्थयामास च मुहुः प्रणमंस्तं सवेपथुः ॥

प्रसादं मयि दासे त्वं कृपालो कर्तुमर्हसि

॥२८॥

तं प्राहाऽथ स रे शक्र नाहं वै गौतमो मुनिः ॥

अक्षमासारसर्वस्वं दुर्वाससमवेहि माम्

॥२९॥

अन्ये ते मुनयो दुष्टास्तावकास्तेऽनुवर्त्तिनः ॥

अहं तु त्वादृशान्कीटान्गणये नैव निःस्पृहः

॥३०॥

ज्वलज्जटाकलापाच्च भ्रुकुटीकुटिलेक्षणात् ॥

को वा न बिभियान्मत्तो ब्रह्माण्डे पापकर्मकृत्

॥३१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवेन्द्रशापो नामाऽष्टमोऽध्यायः ॥ ८ ॥