उपरिचरवसोरधःपातवर्णनम्
सावर्णिरुवाच
स हि भक्तो भगवत आसीद्राजा महान्वसुः ॥
किं मिथ्याऽभ्यवदद्येन दिवो भूविवरं गतः
॥१॥केनोद्धृतः पुनर्भूमेः शप्तोऽसौ पितृभिः कुतः ॥
कथं मुक्तस्ततो भूप इत्येतत्स्कन्द मे वद्
॥२॥स्कन्द उवाच
शृणु ब्रह्मन्कथामेतां वसोर्वास वरोचिषः ॥
यस्याः श्रवणतः सद्यः सर्वपापक्षयो भवेत्
॥३॥स्वायम्भुवान्तरे पूर्वमिन्द्रो विश्वजिदाह्वयः ॥
आररम्भे महायज्ञमश्वमेधाभिधं मुने
॥४॥निबद्धाः पशवोऽजाद्याः क्रोशन्तस्तत्र भूरिशः ॥
सर्वे देवगणाश्चापि रसलुब्धास्तदासत
॥५॥क्षेमाय सर्वलोकानां विचरन्तो यदृच्छया ॥
महर्षय उपाजग्मुस्तत्र भास्करवर्च्चसः
॥६॥संमानिता सुरगणैः पाद्यार्घ्यस्वागतादिभिः ॥
ते बृहन्मुनयोऽपश्यन्मेध्यांस्तान्क्रोशतः पशून्
॥७॥सात्त्विकानामपि च तं देवानां यज्ञविस्तरम् ॥
हिंसामयं समालोक्य तेऽत्याश्चर्यं हि लेभिरे
॥८॥धर्मव्यतिक्रमं दृष्ट्वा कृपया ते द्विजोत्तमाः ॥
महेन्द्रप्रमुखानूचुर्देवान्धर्मधियस्ततः
॥९॥महर्षय ऊचुः
देवैश्च ऋषिभिः साकं महेन्द्राऽस्मद्वचः शृणु ॥
यथास्थितं धर्मतत्त्वं वदामो हि सनातनम्
॥१०॥यूयं जगत्सर्गकाले ब्रह्मणा परमेष्ठिना ॥
सत्त्वेन निर्मिताः स्थो वै चतुष्पाद्धर्मधारकाः
॥११॥रजसा तमसा चासौ मनूंश्चैव नराधिपान् ॥
असुराणां चाधिपतीनसृजद्धर्मधारिणः
॥१२॥सर्वेषामथ युष्माकं यज्ञादिविधिबोधकम् ॥
ससर्ज श्रेयसे वेदं सर्वाभीष्टफलप्रदम्
॥१३॥अहिंसैव परो धर्मस्तत्र वेदेऽस्ति कीर्त्तितः ॥
साक्षात्पशुवधो यज्ञे नहि वेदस्य संमतः
॥१४॥चतुष्पादस्य धर्मस्य स्थापने ह्येव सर्वथा ॥
तात्पर्यमस्ति वेदस्य न तु नाशेऽस्य हिंसया
॥१५॥रजस्तमोदोषवशात्तथाप्यसुरपा नृपाः ॥
मेध्येनाजेन यष्टव्यमित्यादौ मतिजाड्यतः ॥
छागादिमर्थं बुबुधुर्व्रीह्यादिं तु न ते विदुः
॥१६॥सात्त्विकानां तु युष्माकं वेदस्यार्थो यथा स्थितः ॥
ग्रहीतव्योन्यथा नैव तादृशी च क्रियोचिता
॥१७॥यादृशो हि गुणो यस्य स्वभावस्तस्य तादृशः ॥
स्वस्वभावानुसारेण प्रवृत्तिः स्याच्च कर्मणि
॥१८॥सात्त्विकानां हि वो देवः साक्षाद्विष्णू रमापतिः ॥
अहिंसयज्ञेऽस्ति ततोऽधिकारस्तस्य तुष्टये
॥१९॥प्रत्यक्षपशुमालभ्य यज्ञस्याचरणं तु यत् ॥
धर्मः स विपरीतो वै युष्माकं सुरसत्तमाः
॥२०॥रजस्तमोगुणवशादासुरीं संपदं श्रिताः ॥
युष्माकं याजका ह्येते सन्त्यवेदविदो यथा
॥२१॥तत्सङ्गादेव युष्माकं साम्प्रतं व्यत्ययो मतेः ॥
जातस्तेनेदृशं कर्म प्रारब्धमिति निश्चितम्
॥२२॥राजसानां तामसानामासुराणां तथा नृणाम् ॥
यथागुणं भैरवाद्या उपास्याः सन्ति देवताः
॥२३॥स्वगुणानुगुणात्मीयदेवतातुष्टये भुवि ॥
हिंस्रयज्ञविधानं यत्तेषामेवोचितं हि तत्
॥२४॥तत्रापि विष्णुभक्ता ये दैत्यरक्षोनरादयः ॥
तेषामप्युचितो नास्ति हिंस्रयज्ञः कुतस्तु वः
॥२५॥यज्ञशेषो हि सर्वेषां यज्ञकर्मानुतिष्ठताम् ॥
अनुज्ञातो भक्षणार्थं निगमेनैव वर्तते
॥२६॥सात्त्विकानां देवतानां सुरामांसाशनं क्वचित् ॥
अस्माभिस्त्वीक्षितं नैव न श्रुतं च सतां मुखात्
॥२७॥तस्माद्व्रीहिभिरेवासौ यज्ञः क्षीरेण सर्पिषा ॥
मेध्यैरन्नरसैश्चाऽन्यैः कार्यो न पशुहिंसया
॥२८॥तत्रापि बीजैर्यष्टव्यमजसंज्ञामुपागतैः ॥
त्रिवर्षकालमुषितैर्न्न येषां पुनरुद्गमः
॥२९॥अद्रोहश्चायलोभश्च दमो भूतदया तपः ॥
ब्रह्मचर्यं तथा सत्यमदम्भश्च क्षमा धृतिः
॥३०॥सनातनस्य धर्मस्य रूपमेतदुदीरितम् ॥
तदतिक्रम्य यो वर्तेद्धर्मघ्नः स पतत्यधः
॥३१॥स्कन्द उवाच
इत्थं वेदरहस्यज्ञैर्महामुनिभिरादरात् ॥
बोधिता अपि सन्नीत्या स्वप्रतिज्ञाविघाततः ॥
तद्वाक्यं जगृहुर्नैव तत्प्रामाण्यविदोपि ते
॥३२॥महद्व्यतिक्रमात्तर्हि मानक्रोधमदादयः ॥
विविशुस्तेष्वधर्मस्य वंश्याश्छिद्रगवेषिणः
॥३३॥अजश्छागो न बीजानीत्यादि वादिषु तेष्वथ ॥
विमनस्स्वृषिवर्येषु पुनस्तान्बोधयत्सु च
॥३४॥राजोपरिचरः श्रीमांस्तत्रैवागाद्यदृच्छया ॥
तेजसा द्योतयन्नाशा इन्द्रस्य परमः सखा
॥३५॥तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् ॥
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम्
॥३६॥एष भूमिपतिः पूर्वं महायज्ञान्सहस्रशः ॥
चक्रे सात्वततन्त्रोक्तविधिनारण्यकेन च
॥३७॥येषु साक्षात्पशुवधः कस्मिंश्चिदपि नाऽभवत् ॥
न दक्षिणानुकल्पश्च नाप्रत्यक्षसुरार्च्चनम्
॥३८॥अहिंसाधर्मरक्षाभ्यां ख्यातोसौ सर्वतो नृपः ॥
अग्रणीर्विष्णुभक्तानामेकपत्नीमहाव्रतः
॥३९॥ईदृशो धार्मिकवरः सत्यसन्धश्च वेदवित् ॥
कथंचिन्नान्यथा ब्रूयाद्वाक्यमेष महान्वसुः
॥४०॥एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥
अपृच्छन्सहसाऽभ्येत्य वसुं राजानमुत्सुकाः
॥४१॥देवमहर्षय ऊचुः
भो राजन्केन यष्टव्यं पशुना होस्विदौषधैः ॥
एतं नः संशयं छिन्धि प्रमाणं नो भवान्मतः
॥४२॥स्कन्द उवाच
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ॥
कस्य वः को मतः पक्षो ब्रूत सत्यं समाहिताः
॥४३॥महर्षय ऊचुः
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप ॥
देवानां तु पशुः पक्षो मतं राजन्वदात्मनः
॥४४॥स्कन्द उवाच
देवानां तु मतं ज्ञात्वा वसुस्तत्पक्षसंश्रयात् ॥
छागादिपशुनैवेज्यमित्युवाच वचस्तदा
॥४५॥एवं हि मानिनां पक्षमसन्तं स उपाश्रितः ॥
धर्मज्ञोप्यवदन्मिथ्या वेदं हिंसापरं नृपः
॥४६॥तस्मिन्नैव क्षणे राजा वाग्दोषादन्तरिक्षतः ॥
अधः पपात सहसा भूमिं च प्रविवेश सः ॥
महतीं विपदं प्राप भूमिमध्यगतो नृपः ॥
स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाश्रयात्
॥४८॥मोचयित्वा पशून्त्सर्वांस्ततस्ते त्रिदिवौकसः ॥
हिंसाभीता दिवं जग्मुः स्वाश्रमांश्च महर्षयः
॥४९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे श्रीवासुदेवमाहात्म्ये वेदस्यहिंसापरत्वोक्त्या उपरिचरवसोरधःपातवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥