मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ३०

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 30

श्रीवासुदेवमाहात्म्येऽष्टांगयोगनिरूपणम्

स्कन्द उवाच

वासुदेवार्चनविधिं निशम्येत्थं स नारदः ॥

प्रसन्नः पुनरप्राक्षीत्तं मुनीनां परं गुरुम्

॥१॥

नारद उवाच

सम्यगुक्तो भगवता क्रियायोगो महाफलः ॥

एकेन मनसा योऽसौ कार्यः सिद्धिमभीप्सुभिः

॥२॥

मनसो निग्रहस्तत्र ज्ञानिनामपि सद्गुरो ॥

दुष्करः किं पुनस्तर्हि नृणां कर्मात्मनां भुवि

॥३॥

तमृते तु हरेरर्चा नाभीष्टफलदायिनी ॥

अतस्तन्निग्रहोपायमपि मे वक्तुमर्हसि

॥४॥

स्कन्द उवाच

इत्यापृष्टः स मुनिना मुनीन्द्रः सर्वदर्शनः ॥

नारायणो नरसखो नारदं तमभाषत

॥५॥

श्रीनारायण उवाच

सत्यमेव मुने वक्षि मनसोस्ति बलं महत् ॥

जितेपि यस्मिन्विश्वासः शत्रुवन्न विवेकिनाम्

॥६॥

मनसा सदृशोन्यस्तु शत्रुर्न्नास्त्येव देहिनाम् ॥

विष्णुध्यानाभ्यासयोगान्निर्दोषं तद्धि शाम्यति

॥७॥

अदान्ताश्ववदेवैतद्यतोस्ति दुरवग्रहम् ॥

अतो वैराग्ययुक्पुम्भिः सदुपायैर्निगृह्यते

॥८॥

उपायास्तत्र बहवः सन्ति तेष्वपि सन्मते ॥

अष्टांगयोगस्याभ्यासः श्रेष्ठः सद्यः फलप्रदः

॥९॥

यमाश्च नियमा ब्रह्मन्नासनान्यसुसंयमः ॥

प्रत्याहारो धारणा च ध्यानमंगं तु सप्तमम् ॥

समाधिश्चाष्टमं प्रोक्तं योगस्यानुक्रमेण वै

॥१०॥

तत्राऽहिंसाब्रह्मचर्य सत्यास्तेयापरिग्रहाः ॥

एते पञ्च यमाः प्रोक्ताः साधनीयाः प्रयत्नतः

॥११॥

शौचं तपश्च संतोषः स्वाध्यायो विष्णुपूजनम् ॥

एते च नियमाः पञ्च द्वितीयांगतया मताः

॥१२॥

परिहायांगचाञ्चल्यं यथासुखतया स्थितिः ॥

तदासनं स्वस्तिकादिप्रोक्तं द्वन्द्वार्त्तिजिन्मुने

॥१३॥

चरतां सर्वतोऽसूनामेकदेशे तु धारणम् ॥

गुरूपदिष्टरीत्यैव प्राणायामः स उच्यते

॥१४॥

चले वायौ चलं चित्तं स्थिरे तस्मिन्स्थिरं ततः ॥

सुदेशेऽयं सदाऽभ्यस्यः पूरकुम्भकरेचकैः

॥१५॥

मनसेन्द्रियवृत्तीनां तत्तद्विषयतश्च यत् ॥

आकर्षणं प्रतीचीनं प्रत्याहारः स ईरितः

॥१६॥

नाभ्याद्यन्यतमे स्थाने प्राणेन सह चेतसः ॥

वासुदेवस्वरूपे यद्धारणं धारणोदिता

॥१७॥

एकैकावयवस्यैव चिन्तनं यत्पृथक्पृथक् ॥

पदाब्जादेर्भगवतस्तद्ध्यानमिति कीर्तितम्

॥१८॥

निरोधः प्राणमनसोरतिप्रेम्णा हरौ तु यः ॥

स समाधिरिति प्रोक्तो योगिनामभिवाञ्छितः

॥१९॥

अंगैरष्टभिरेतैर्हि शिक्षितैः सिद्धसद्गुरोः ॥

योगः सिद्ध्यति वै पुंसां समाधेः पक्वतात्मकः

॥२०॥

नैतादृशं परं सम्यङ् मनोनिग्रहसाधनम् ॥

पुरुषाणां मुमुक्षूणामिति जानीहि नारद

॥२१॥

तपस्विनां महाशत्रोर्ब्रह्माण्डक्षोभकादपि ॥

मदनान्नाभयं किञ्चिद्योगिनस्त्वस्ति कर्हिचित्

॥२२॥

आयास्यन्तं विहित्वैव सोन्तकालं च योगवित् ॥

स्वातन्त्र्येणैव देहं स्वं त्यजतीत्थं समाधिना

॥२३॥

पार्ष्णिभ्यां गुदमापीड्य वायुं पादद्वयस्थितम् ॥

शनैःशनैः समाकृष्य मृत्युस्थानं नयत्यमुम्

॥२४॥

मनसा केशवं ध्यायंस्तन्मनुं च षडक्षरम् ॥

जपस्ततोऽमुं नयति वायुं स्थानं प्रजापतेः

॥२५॥

ततो नाभिं च हदयमुरः कण्ठं च योगवित् ॥

नयति भ्रुकुटिवायुं वासुदेवपरायणः

॥२६॥

एतेषु षट्सु स्थानेषु त्वेकैकस्मिन्पृथक्पृथक् ॥

योगी प्राणमनोक्षाणां निरोधं च विसर्जनम् ॥

तावदभ्यसति स्वस्य यावत्स्यात्तत्स्वतन्त्रता

॥२७॥

जितंजितं विहायैव स्थानं याति परं परम् ॥

प्राप्तस्य स्थानकं षष्ठं तदभ्यासे श्रमो न हि

॥२८॥

सप्तच्छिद्राणि रुद्ध्वाऽथ प्राणमक्षमनोयुतम् ॥

प्रापय्य तालु व्रजति ब्रह्मरन्ध्रं स योगवित्

॥२९॥

मायामयपदार्थानां ततो हित्वैव वासनाः ॥

स वासुदेवैकमनास्त्यजति स्वकलेवरम्

॥३०॥

ततो भगवतो धाम श्रीकृष्णस्य तमःपरम् ॥

उपेत्य सेवमानस्तं नन्दते दिव्यविग्रहः

॥३१॥

इति ते कथितो ब्रह्मन्योगशास्त्रस्य संग्रहः ॥

जित्वा तेन मनः स्वीयं तमाराधय सर्वदा

॥३२॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽष्टांगयोगनिरूपणं नाम त्रिंशोऽध्यायः ॥ ३० ॥