मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय २२

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 22

गृही बुभूषुर्गुरवे दक्षिणां स्वस्य शक्तितः

श्रीनारायण उवाच

गृही बुभूषुर्गुरवे दक्षिणां स्वस्य शक्तितः ॥

दत्त्वा तदाज्ञयैवाऽसौ समावर्त्तनमाचरेत्

॥१॥

ततः कुलोचितां योषां वयसोनामरोगिणीम् ॥

पुँल्लक्षणेन रहितामपापां विधिनोद्वहेत्

॥२॥

स्वाधिकारानुसारेण कृष्णसंप्रीतयेऽन्वहम् ॥

देवर्षिपितृभूतानि यजेत विधिना ततः

॥३॥

स्नानं संध्यां जपं होमं स्वाध्यायं विष्णुपूजनम् ॥

तर्पणं वैश्वदेवं च कुर्याच्चातिथ्यमन्वहम्

॥४॥

कुर्यात्पुण्यं यथाशक्ति न्यायार्जितधनेन च ॥

अनासक्तः पोष्यवर्गं पुष्णीयान्न तु पीडयेत्

॥५॥

देहं च दैहिकान्वासावुद्दिश्य पशुवत्परैः ॥

वैरं न कुर्याद्देहादावहन्तां ममतां त्यजेत्

॥६॥

कुर्याद्भागवतानां च सतां संगमतन्द्रितः ॥

न स्त्रैणानां व्यसनिनां संगं कुर्यान्न लोभिनाम्

॥७॥

कामभावेन नेक्षेत परयोषां तु कर्हिचित् ॥

श्राद्धपर्वव्रताहादौ नोपेयाच्च स्वयोषितम्

॥८॥

प्राप्तोपि पुरुषः सांख्ये योगे च परिपक्वताम् ॥

पुत्र्या अपि प्रसंगेन रहःस्थाने तु मुह्यति

॥९॥

अतो मात्रा भगिन्या वा दुहित्रापि रहःस्थले ॥

सह नासीत मतिमान्युवत्या किमुताऽन्यया

॥१०॥

अमङ्गलानां सर्वेषां विधवा ह्यत्यमंगलम् ॥

तद्दर्शनं च तत्स्पर्शो नॄणां सुकृतहृत्ततः

॥११॥

प्रयाणकाले विधवादर्शनं सन्मुखे यदि ॥

स्यात्तदा नैव गन्तव्यमन्यथा मरणं धुवम्

॥१२॥

आशिषो विधवास्त्रीणां समाः कालाहिफूत्कृतैः ॥

ततश्च बिभियात्ताभ्यो राक्षसीभ्यो यथा गृही

॥१३॥

मद्यं मांसं मादकं च द्यूतादीन्दूरतस्त्यजेत् ॥

न द्रोहं प्राणिमात्रस्य कुर्याद्वाचापि कर्हिचित्

॥१४॥

अवतारचरित्राणि शृणुयादन्वहं हरेः ॥

सर्वा अपि क्रियाः कुर्याद्वासुदेवार्थमास्तिकः

॥१५॥

ऊर्जे माघे च वैशाखे चातुर्मास्ये मलिम्लुचे ॥

अन्येषु पुण्यकालेषु विशेषनियमांश्चरेत्

॥१६॥

पुण्यदेशे पुण्यकाले सत्पात्रे विधिना गृही ॥

दद्याद्दानं यथाशक्ति दयां कुर्वीत जन्तुषु

॥१७॥

पुण्यान्देशान्पुण्यकालान्पुण्यपात्राणि चानघ ॥

कथयामि विशेषेण धर्मवृद्धिकराणि ते

॥१८॥

देशः सर्वोत्तमस्त्वेष भुवि यो मदधिष्ठितः ॥

महामुनिगणा यत्र तपस्यन्ति महाव्रताः

॥१९॥

हरितद्भक्तमाहात्म्याद्देशानामस्ति पुण्यता ॥

गंगाद्वारं मधुपुरी नैमिषारण्यमेव च

॥२०॥

कुरुक्षेत्रमयोध्या च प्रयागश्च गयाशिरः ॥

पुरी वाराणसी चैव पुण्यश्च पुलहाश्रमः

॥२१॥

कपिलाश्रमः श्रीरंगः प्रभासश्च कुशस्थली ॥

क्षेत्रं सिद्धपदाख्यं च पौष्करं च महत्सरः

॥२२॥

क्रीडास्थानं भगवतः सश्रियो रैवताचलः ॥

तथा गोवर्द्धनगिरिः पुण्यं वृन्दावनं वनम्

॥२३॥

महेन्द्रमलयाद्याश्च सप्तापि कुलपर्वताः ॥

भागीरथी महापुण्या यमुना च सरस्वती

॥२४॥

गोदावरी च सरयूः कावेरी गोमतीमुखाः ॥

पुराणप्रथिताः पुण्या महानद्यो नदास्तथा

॥२५॥

महोत्सवैर्भवेद्यत्र भगवत्प्रतिमार्चनम् ॥

प्रभोरनन्यभक्ताश्च भवेयुर्यत्रयत्र च

॥२६॥

अहिंस्राश्च स्वधर्मस्था यत्र स्युर्ब्राह्मणोत्तमाः ॥

मृगाद्याः पशवो यत्र विचरेयुश्च निर्भयाः

॥२७॥

यत्रयत्रावताराश्च हरेर्वासश्च यत्र वा ॥

एते पुण्यतमा देशा भुवि सन्ति विशेषतः

॥२८॥

अल्पोप्येषु कृतो धर्मः स्यात्सहस्रगुणो नृणाम् ॥

पुण्यवृद्धिकरान्कालाञ्छृण्वथो वच्मि नारद

॥२९॥

अयने द्वे च विषुवं ग्रहणं सूर्यसोमयोः ॥

दिनक्षयो व्यतीपातः श्रवणर्क्षाणि सर्वशः

॥३०॥

द्वादश्य एकादश्यश्च मन्वाद्याश्च युगादयः ॥

पुण्याः स्युस्तिथयः सर्वा अमावास्या च वैधृतिः

॥३१॥

मासर्क्षयुक्पौर्णमास्यश्चतस्रोप्यष्टकास्तथा ॥

स्वजन्मर्क्षाणि च हरेर्जन्मोत्सवदिनानि च

॥३२॥

स्वस्य स्त्रियाश्चार्भकाणां संस्कारोभ्युदयस्तथा ॥

सत्पात्रलब्धिश्च यदा कालाः पुण्यतमा इमे

॥३३॥

देवपितृद्विजसतामेषां शक्त्या समर्चनम् ॥

स्नानदानजपादीनि स्युरनन्तफलानि हि

॥३४॥

सत्पात्रं तु स्वयं साक्षाद्भगवानेव नारद ॥

शाखानामिव मूलाम्बु यद्दत्तं सर्वतुष्टिकृत्

॥३५॥

अहिंसा वेदविद्याभिस्तुष्टिः सद्धर्मभक्तिभिः ॥

हृदि विष्णुं दधीरन्ये ते सत्पात्राणि वै द्विजाः

॥३६॥

एकान्तिकाश्च भगवद्भक्ता बद्धविमोचकाः ॥

सत्पात्राणीति जानीहि येष्वास्ते भगवान्स्वयम्

॥३७॥

आढ्यस्तु कारयेद्विष्णोर्मन्दिराणि दृढानि च ॥

पूजाप्रवाहसिद्ध्यर्थं तद्वृत्तीश्चापि कारयेत्

॥३८॥

जलाशयान्वाटिकाश्च विष्ण्वर्थमुपकल्पयेत् ॥

सदन्नैः सुरसैः साधून्ब्राह्मणांश्चैव तर्पयेत्

॥३९॥

अहिंसान्वैष्णवान्यज्ञान्कुर्याच्छक्त्या यथाविधि ॥

व्रतजन्मोत्सवान्विष्णोः संभारेण च भूयसा

॥४०॥

प्रौष्ठपदासितेपक्षे क्षयाहे तीर्थपर्वसु ॥

पित्रोः श्राद्धं प्रकुर्वीत तद्बन्धूनां च शक्तितः

॥४१॥

दैवे कर्मणि पित्र्ये च भक्तान्भगवतो द्विजान् ॥

पूजयेत स्वधर्मस्थान्भोजयेद्भगवद्धिया

॥४२॥

दैवे द्वौ भोजयेद्विप्रौ त्रींश्च पित्र्ये यथाविधि ॥

एकैकं वोभयत्रापि नैव श्राद्धे तु विस्तरेत्

॥४३॥

देशकालद्रव्यपात्रपूजोपकरणानि च ॥

विस्तरेण यथाशास्त्रं न स्यादेवेति निश्चितम्

॥४४॥

न श्राद्धे क्वापि मांसं तु दद्यान्नाऽद्याच्च मानवः ॥

मुन्यन्नैः क्षीरसर्पिर्भ्यां तृप्यन्ति पितरो भृशम्

॥४५॥

अहिंसा प्राणिमात्रस्य मनोवाक्तनुभिस्तु या ॥

तयैव पितरः सर्वे तृप्यन्त्यतिदयालवः

॥४६॥

तस्मात्कुसङ्गतः क्वापि शास्त्रहार्दमबुध्य च ॥

श्राद्धे मांसं नैव दद्याद्वासुदेवपरः पुमान्

॥४७॥

व्रतानि कुर्याद्विष्णोश्च ब्रह्मचर्यादिभिर्यमैः ॥

सहैव तत्परो नान्यत्कार्यं कुयाच्च तद्दिने

॥४८॥

स्वसंबन्धिजनानां चाप्याशौचं जनिनाशयोः ॥

यथाशास्त्रं पालयेत ग्रहणे चार्कचन्द्रयोः

॥४९॥

व्यावहारिककार्याणां विवादे निर्णयेपि च ॥

गृहीतरास्त्यागिनो ये ते न कार्या न चाधवाः

॥५०॥

यत्रैते स्युर्न्न तत्कार्यं सिध्येत्क्वापि द्विजोत्तम ॥

सर्वस्वनाशस्तत्र स्यादित्येवं त्वस्ति निर्णयः

॥५१॥

धर्मा एते गृहस्थानां मया संक्षेपतोदिताः ॥

यदनुष्ठानतो नॄणां स्यात्स्वेष्टसुखमक्षयम्

॥५२॥

शिलादिजीविकावृत्तिभेदेन गृहिणो द्विजाः ॥

चतुर्विधाः प्रकीर्त्यन्ते तत्तन्नाम्ना च नारद

॥५३॥

स्त्रीणामथ प्रवक्ष्यामि धर्मान्र्धर्मवतां वर ॥

येषु स्थिताः स्त्रियः सर्वाः प्राप्नुवन्तीप्सितं सुखम्

॥५४॥

सुवासिनीभिर्न्नारीभिः स्वपतिर्देववत्सदा ॥

सेवनीयोऽनुवर्त्त्यश्च जरन्रुग्णोऽधनोपि वा

॥५५॥

तद्बन्धवश्चानुवर्त्याः सेवनेन यथोचितम् ॥

उज्ज्वलानि विधेयानि गृहोपकरणानि च

॥५६॥

गृहं मार्जनसेकाद्यैः स्वच्छं कार्यं दिनेदिने ॥

प्रियं सत्यं च वक्तव्यं स्थेयं शुचितया सदा

॥५७॥

चाञ्चल्यमतिलोभश्च क्रोधः स्तेयं च हिंसनम् ॥

अधार्मिकाणां सङ्गश्च वर्ज्यः स्त्रीणां तथा नृणाम्

॥५८॥

भवितव्यं तत्पराभिर्द्धर्मकार्येषु सर्वदा ॥

त्यक्त्वौद्धत्यं विनीताभिः स्थेयं जित्वेन्द्रियाणि च

॥५९॥

पातिव्रत्ये स्थिताभिश्च धर्मे ताभी रमापतेः ॥

भक्तिः कार्या स्वतन्त्राभिर्भवितव्यं न कुत्रचित्

॥६०॥

विधवा तु सदा विष्णुं सेवेत पतिभावतः ॥

कामसंबन्धिनीर्वार्त्ता न शृण्वीत न कीर्तयेत्

॥६१॥

आसन्नसंबन्धवतो विनान्यान्पुरुषान्क्वचित् ॥

अनापदि स्पृशेन्नैव पश्येन्नैव च कामतः

॥६२॥

स्तनपस्य तु नुः स्पर्शाद्वृद्धस्य च न दुष्यति ॥

कार्य आवश्यके ताभ्यां भाषणे च विभर्तृका

॥६३॥

व्यावहारिककार्ये च विवादमधिकं नरैः ॥

न कुर्वीतावश्यकार्ये तैर्भाषेत विना रहः

॥६४॥

नेक्षेत मिधुनीभूतं बुद्या पश्वाद्यपि क्वचित् ॥

त्यजेच्च सकलान्भोगान्स्यात्सकृन्मितभुक्तथा

॥६५॥

सधातुसूक्ष्मवासांसि नालंकारांश्च धारयेत् ॥

न दिवा शयनं कुर्यान्न खट्वायामनापदि

॥६६॥

ताम्बूलभक्षणं नैव कुर्यान्नाभ्यङ्गमञ्जनम् ॥

पुम्प्रसंगाच्च बिभियात्कृष्णाहेरिव नित्यदा

॥६७॥

समीक्ष्य पुरुषं नारी या न मोहमुपाव्रजेत् ॥

तादृशी तु विना लक्ष्मीमेकां नान्यास्ति कुत्रचित्

॥६८॥

धर्मनिष्ठा ततो नारी स्वनिःश्रेयसमिच्छती ॥

नेक्षेत पुरुषाकारं बुद्धिपूर्वं च न स्पृशेत्

॥६९॥

कृच्छ्रचान्द्रायणादीनि नैरन्तर्येण भक्तितः ॥

व्रतानि कुर्याच्च सदा भवेन्नियमतत्परा

॥७०॥

पित्रा पुत्रादिना वापि तरुणी तरुणेन च ॥

सह तिष्ठेन्न रहसि कुसङ्गं सर्वथा त्यजेत्

॥७१॥

सधवा विधवा वा स्त्री स्वरजोदर्शनं क्वचित् ॥

न गोपयेत्त्रिरात्रं तु मनुष्यादींश्च न स्पृशेत्

॥७२॥

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥

तृतीये रजकी प्रोक्ता सा चतुर्थेऽह्नि शुद्ध्यति

॥७३॥

इति स्त्रीणां मया धर्माः संक्षेपात्कथितास्तव ॥

युक्ता यैर्योषितो यायुरिहामुत्र महत्सुखम्

॥७४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गृहस्थधर्मनिरूपणं नाम द्वाविंशोध्यायः ॥ २२ ॥