मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १६

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 16

गोलोकवर्णनम्

स्कन्द उवाच

मेरुशृंगं समारूढो नारदो दिव्यया दृशा ॥

श्वेतद्वीपं च तत्रस्थान्पश्यन्मुक्तान्सहस्रशः

॥१॥

वासुदेवे भगवति दृष्टिमाबध्य तत्क्षणम् ॥

उत्पपात महायोगी सद्यः प्राप च धाम तत्

॥२॥

प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ॥

ददर्श भक्तांस्तानेव श्वेतांश्चन्द्रप्रभाञ्छुभान्

॥३॥

पूजयामास शिरसा मनसा तैश्च पूजितः ॥

दिदृक्षुर्ब्रह्म परमं स च कृच्छ्रपरः स्थितः

॥४॥

भक्तमेकान्तिकं विष्णोर्बुद्ध्वा भागवतास्तु ते ॥

तमूचुस्तुष्टमनसो जपन्तं द्वादशाक्षरम्

॥५॥

श्वेतमुक्ता ऊचुः

मुनिवर्य भवान्भक्तः कृष्णस्याऽस्ति यतोऽत्र नः ॥

दृष्टवान्देवदुर्दृश्यान्किमिच्छन्नथ तप्यति

॥६॥

नारद उवाच

भगवन्तं परं ब्रह्म साक्षात्कृष्णमहं प्रभुम् ॥

द्रष्टुमुत्कोऽस्मि भक्तेन्द्रास्तं दर्शयत तत्प्रियाः

॥७॥

स्कन्द उवाच

तदैकः श्वेतमुक्तस्तु कृष्णेन प्रेरितो हृदि ॥

एहि ते दर्शये कृष्णमित्युक्त्वा पुरतोभवत्

॥८॥

प्रहृष्टो नारदस्तेन साकमाकाशवर्त्मना ॥

पश्यन्धामानि देवानां तत ऊर्द्ध्वं ययौ मुनिः

॥९॥

सप्तर्षींश्च ध्रुवं दृष्ट्वाऽनासक्तः कुत्रचित्स च ॥

महर्जनतपोलोकान्व्यतीयाय द्विजोत्तम

॥१०॥

ब्रह्मलोकं ततो दृष्ट्वा श्वेतमुक्तानुगो मुनिः ॥

कृष्णस्यैवेच्छयाऽध्वानं प्रापाष्टावरणेष्वपि

॥११॥

भूम्यप्तेजोनिलाकाशाहम्महत्प्रकृतीः क्रमात् ॥

क्रान्त्वा दशोत्तरगुणाः प्राप गोलोकमद्भुतम्

॥१२॥

धाम तेजोमयं तद्धि प्राप्यमेकान्तिकैर्हरेः ॥

गच्छन्ददर्श विततामगाधां विरजां नदीम्

॥१३॥

गोपीगोपगणस्नानधौतचन्दनसौरभाम् ॥

पुण्डरीकैः कोकनदै रम्यामिन्दीवरैरपि

॥१४॥

तस्यास्तटं मनोहारि स्फटिकाश्ममयं महत् ॥

प्राप श्वेतहरिद्रक्तपीतसन्मणिराजितम्

॥१५॥

कल्पवृक्षालिभिर्ज्जुष्टं प्रवालाङ्कुरशोभितम् ॥

स्यमन्तकेन्द्रनीलादिमणीनां खनिमण्डितम्

॥१६॥

नानामणीन्द्रनिचितसोपानततिशोभनम् ॥

कूजद्भिर्मधुरं जुष्टं हंसकारण्डवादिभिः

॥१७॥

वृन्दैः कामदुघानां च गजेन्द्राणां च वाजिनाम् ॥

पिबद्भिर्न्निर्मलं तोयं राजितं स व्यतिक्रमत्

॥१८॥

उत्तीर्याऽथ धुनी दिव्यां तत्क्षणादीश्वरेच्छया ॥

तद्धामपरिखाभूतां शतशृङ्गागमाप सः

॥१९॥

हिरण्मयं दर्शनीयं कोटियोजनमुच्छ्रितम् ॥

विस्तारे दशकोट्यस्तु योजनानां मनोहरम्

॥२०॥

सहस्रशः कल्पवृक्षैः पारिजातादिभिर्द्रुमैः ॥

मल्लिकायूथिकाभिश्च लवङ्गैलालतादिभिः

॥२१॥

स्वर्णरम्भादिभिश्चान्यैः शोभमानं महीरुहैः ॥

दिव्यैर्मृगगणैर्न्नागैः पक्षिभिश्च सुकूजितैः

॥२२॥

दुर्गायितस्य तद्धाम्नस्तस्य रम्येषु सानुषु ॥

मनोज्ञान्विततानैक्षद्भगवद्रासमण्डपान्

॥२३॥

वृतानुद्यानततिभिः फुल्लपुष्पसुगन्धिभिः ॥

कपाटै रत्ननिचितैश्चतुर्द्वारसुशोभनान्

॥२४॥

चित्रतोरणसंपन्नै रत्नस्तम्भैः सहस्रशः ॥

जुष्टांश्च कदलीस्तम्भैर्मुक्तालम्बैर्वितानकैः

॥२५॥

दूर्वालाजाक्षतफलैर्युक्तान्माङ्गलिकैरपि ॥

चन्दनागुरुकस्तूरीकेशरोक्षित चत्वरान्

॥२६॥

सुश्राव्यवाद्यनिनदैर्हृद्यान्बहुविधैरपि ॥

तेषु यूथानि गोपीनां कोटिशः स ददर्श ह

॥२७॥

अनर्घ्यवासोभूषाभिः सद्रत्नमणिकङ्कणैः ॥

काञ्चीनूपुरकेयूरैः शोभितान्यङ्गुलीयकैः

॥२८॥

तारुण्यरूपलावण्यैः स्वरैश्चाऽप्रतिमानि हि ॥

राधालक्ष्मीसवर्णानि शृङ्गारिककराणि च

॥२९॥

भोगद्रव्यैर्बहुविधैर्मण्डपेषु युतेषु च ॥

विलसन्ति च गायन्ति मनोज्ञाः कृष्णगीतिकाः

॥३०॥

उपत्यकासु तस्याद्रेरथ वृन्दावनाभिधम् ॥

वनं महत्तदद्राक्षीत्सावर्णे नारदो मुनिः

॥३१॥

कृष्णस्य राधिकायाश्च प्रियं तत्क्रीडनस्थलम् ॥

कल्पद्रुमालिभी रम्यं सरोभिश्च सपङ्कजैः

॥३२॥

आम्रैराम्रातकैर्नीपैर्बदरीभिश्च दाडिमैः ॥

खर्जूरीपूगनारंगैर्न्नालिकेरैश्च चन्दनैः

॥३३॥

जम्बूजम्बीरपनसैरक्षोदैः सुरदारुभिः ॥

कदलीभिश्चम्पकैश्च द्राक्षाभिः स्वर्णकेतकैः

॥३४॥

फलपुष्पभरानम्रैर्न्नानावृक्षैर्विराजितम् ॥

मल्लिका माधवीकुन्दैर्ल्लवंगैर्यूथिकादिभिः

॥३५॥

मन्दशीतसुगन्धेन सेवितं मातरिश्वना ॥

शतशृङ्गस्नुतैरार्द्रं निर्झरैश्च समन्ततः

॥३६॥

सदा वसन्त शोभाढ्यं रत्नदीपालिमण्डितैः ॥

शृङ्गारिकद्रव्ययुतैः कुञ्जैर्जुष्टमनेकशः

॥३७॥

गोपानां गोपिकानां च कृष्णसंकीर्त्तनैर्मुहुः ॥

गोवत्स पक्षिनिनदैर्न्नानाभूषणनिस्वनैः ॥

दधिमन्थनशब्दैश्च सर्वतो नादितं मुने

॥३८॥

फुल्लपुष्पफलानम्रनानाद्रुमसुशोभनैः ॥

द्वात्रिंशतवनैरन्यैर्युक्तं पश्यमनोहरैः

॥३९॥

तद्वीक्ष्य हृष्टः स प्राप गोलोकपुरमुज्वलम् ॥

वर्तुलं रत्नदुर्गं च राजमार्गोपशोभितम्

॥४०॥

राजितं कृष्णभक्तानां विमानैः कोटिभिस्तथा ॥

रथै रत्नेन्द्रखचितैः किंकिणीजालशोभितैः

॥४१॥

महामणीन्द्रनिकरै रत्नस्तम्भालिमण्डितैः ॥

अद्भुतैः कोटिशः सौधैः पंक्तिसंस्थैर्मनोहरम्

॥४२॥

विलासमण्डपै रम्यै रत्नसारविनिर्मितः ॥

रत्नेन्द्रदीपततिभिः शोभनं रत्नवेदिभिः

॥४३॥

केसरागुरुकस्तूरीकुंकुमद्रवचर्चितम् ॥

दधिदूर्वालाजपूगै रम्भाभिः शोभिताङ्गणम्

॥४४॥

वारिपूर्णैर्हेमघटैस्तोरणैः कृतमंगलम् ॥

मणिकुट्टिमराजाध्वचलद्भूरिगजाश्वकम्

॥४५॥

श्रीकृष्णदर्शनायातैर्न्नैकब्रह्माण्डनायकैः ॥

विरिञ्चिशंकराद्यैश्च बलिहस्तैः सुसंकुलम्

॥४६॥

व्रजद्भिः कृष्णवीक्षाथ गोपगोपीकदम्बकैः ॥

सुसंकुलमहामार्गं मुमोदालोक्य तन्मुनिः

॥४७॥

कृष्णमन्दिरमापाऽथ सर्वाश्चर्यं मनोहरम् ॥

नन्दादिवृषभान्वादिगोपसौधालिभिर्वृतम्

॥४८॥

चतुर्द्वारैः षोडशभिर्दुर्गैः सपरिखैर्युतम् ॥

कोटिगोपवृतैकैकद्वारपालसुरक्षितैः

॥४९॥

रत्नस्तम्भकपाटेषु द्वार्षु स्वाग्रस्थितेषु सः ॥

उपविष्टान्क्रमेणैव द्वारपालान्ददर्श ह

॥५०॥

वीरभानुं चन्द्रभानुं सूर्यभानुं तृतीयकम् ॥

वसुभानुं देवभानुं शक्रभानुं ततः परम्

॥५१॥

रत्नभानुं सुपार्श्वं च विशालमृषभं ततः ॥

अंशुं बलं च सुबलं देवप्रस्थं वरूथपम्

॥५२॥

श्रीदामानं च नत्वाऽसौ प्रविष्टोंतस्तदाज्ञया ॥

महाचतुष्के वितते तेजोऽपश्यन्महोच्चयम्

॥५३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गोलोकवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥