नारायणनारदसमागमः
स्कन्द उवाच
महान्तं प्रश्नवित्प्रश्नं पृच्छसि त्वमि हाऽनघ ॥
नास्योत्तरं वर्षशतैर्वक्तुं शक्यं स्वतर्कतः ॥
ऋते देवप्रसादाद्वै ब्रह्मञ्ज्ञानिवरैरपि
॥१॥वासुदेवप्रसादात्तु मया ज्ञातं वदामि ते ॥
अनाख्येयं न ते किञ्चिद्धर्मनिष्ठाय सन्मते
॥२॥एवमेव हि पप्रच्छ निवृत्ते भारते रणे ॥
अजातशत्रुर्नृपतिर्भीष्मं धर्म्मविदांवरम्
॥३॥शयितं शरशय्यायां ध्यानप्राप्ताच्युतेन च ॥
प्राप्तमैकात्म्यमव्यग्रं निगमागमपारगम्
॥४॥युधिष्ठिर उवाच
चतुर्षु तात वर्णेषु चतुर्ष्वप्याश्रमेषु यः ॥
इच्छेच्चतुर्वर्गसिद्धिं देवतां कां यजेत सः
॥५॥निर्विघ्रेन च का सिद्धिः कथं स्यादल्पकालतः ॥
कथं चाप्यल्पसुकृती पदवीं महतीमियात् ॥
एतं मे संशयं छिन्धि सर्वज्ञस्त्वं पितामह
॥६॥स्कन्द उवाच
एवं धर्म्मात्मना तेन पृष्टः शान्तनवो मुने ॥
किञ्चिज्जहास वीक्ष्यैव श्रीकृष्ण मुखपङ्कजम्
॥७॥दृशा स प्रेरितस्तेन नरनारायणोदितम् ॥
श्रीवासुदेवमाहात्म्यं पितुः श्रुतमुवाच तम्
॥८॥ततः श्रुत्वा नारदोपि कुरुक्षेत्रं गतः पुनः ॥
कैलास एत्य तत्प्राह पितरं मे स चापि माम्
॥९॥तत्तेऽहं संप्रवक्ष्यामि निश्छद्म परिपृच्छते ॥
महासदसि निर्णीतं मुनिवर्याऽपसंशयम्
॥१०॥वासुदेवः परं ब्रह्म श्रीकृष्णः पुरुषोत्तमः ॥
देवोऽकामैः सकामैश्च पूज्यो मुक्तैर्नरैरपि
॥११॥द्विजातीनां चाश्रमाणां स्त्रीशूद्रादेश्च सर्वथा ॥
स्वस्वधर्मैरेष एव तोषणीयोस्ति भक्तितः
॥१२॥तस्मात्कर्माखिलमपि दैवं पित्र्यं च सर्वदा ॥
तत्प्रीत्या एव कर्त्तव्यं वेदोक्तं च यथोचितम्
॥१३॥सुखाप्तये नृभियद्यत्कर्माऽत्र क्रियते शुभम् ॥
अपि स्वनुष्ठितं तच्चेत्कृष्णसंबन्धवर्जितम् ॥
तदा क्षयिष्ण्वल्पफलं ज्ञेयं तच्च गुणात्मकम्
॥१४॥फलवैगुण्यकृत्तच्चाऽशुभदेशादियोगतः ॥
बहुविघ्नं च तन्नॄणां नैव वाञ्छितसिद्धिदम्
॥१५॥कर्मैतदेव श्रीकृष्णप्रीणनाय क्रियेत चेत् ॥
तत्संबन्धेन तर्ह्येतद्भवेत्सर्वं हि निर्गुणम्
॥१६॥स्ववाञ्छितादप्यधिकं ददाति फलमक्षयम् ॥
असद्देशादिसंबन्धात्तद्वैगुण्यभवेन्न च
॥१७॥विघ्नस्तु कोपि ब्रह्मर्षे प्रतापाच्चक्रपाणिनः ॥
तस्मिन्न प्रभवेत्क्वापि तत्स्यादीप्सितसिद्धिदम्
॥१८॥यद्यप्यल्पं स्वसुकृतं तथापि परमात्मनः ॥
साक्षात्संबन्धतो ब्रह्मन्भवत्येव महत्तरम्
॥१९॥यथा स्फुलिङ्गमात्रोपि वन्यकाष्ठौघयोगतः ॥
अनिवार्यो भवेद्दावस्तथैतद्धरियोगतः
॥२०॥प्रवृत्ते वा निवृत्ते वा तस्माद्धर्मे स्थितैर्न्नरैः ॥
उपास्तव्यो वासुदेवस्तत्सम्यक्सिद्धिमीप्सुभिः
॥२१॥अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
नारदस्य च संवादमृषेर्नारायणस्य च
॥२२॥यो वासुदेवो भगवान्नित्यं ब्रह्मपुरे स्थितः ॥
दाक्षायण्यामाविरासीद्धर्माल्लोकहिताय सः
॥२३॥कृते युगे द्विजवर पुरा स्वायम्भुवान्तरे ॥
नरो नारायणश्चेति द्विरूपः प्रादुरास सः
॥२४॥धर्माश्रमात्तपस्तप्तुं क्षेमायैव नृणां भुवि ॥
नरनारायणौ तौ च बदर्याश्रममीयतुः
॥२५॥तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥
तेपाते तेजसा स्वेन दुर्निरीक्ष्यौ सुरैरपि
॥२६॥यस्य प्रसादं कुर्वाते स वै तौ द्रष्टुमर्हति ॥
शक्यते नान्यथा द्रष्टुमपि तद्धामवासिभिः
॥२७॥एकदा नारदो योगी ताभ्यामेव दिदृक्षितः ॥
अन्तरात्मतया चान्तर्हृदयेपि प्रचोदितः
॥२८॥मेरोर्महागिरेः शृङ्गात्सद्यो गगनवर्त्मना ॥
तं देशमागमद्ब्रह्मन्बदर्याश्रमसंज्ञितम्
॥२९॥तयोराह्निकवेलायामागतस्तत्र स द्रुतम् ॥
आद्याश्रमक्रियासक्तौ तौ ददर्श च दूरतः
॥३०॥दृष्ट्वैवेश्वरचर्यां ता तस्य कौतूहलं त्वभूत् ॥
अहो एतौ जगत्पूज्यावीश्वरौ सर्वदेहिनाम् ॥
एतौ हि परमं ब्रह्म काऽनयोराह्निकी क्रिया
॥३१॥पितरौ सर्वभूतानां देवतानां च दैवतम् ॥
कां देवतां तु यजतः पितॄन्वैतौ महामती
॥३२॥इति संचिन्त्य मनसा भक्तो नारायणस्य सः ॥
तत्समीपमुपेत्याऽथ तस्थौ नत्वा कृताञ्जलिः
॥३३॥कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ॥
पूजितश्चैव विधिना शास्त्रदृष्टेन सोऽनघ
॥३४॥तद्दृष्ट्वा महदाश्चर्य्यमपूर्वं विधिविस्तरम् ॥
उपोपविष्टः सुप्रीतो नारदोभूच्च विस्मितः
॥३५॥नारायणं संनिरीक्ष्य प्रयतेनान्तरात्मना ॥
नमस्कृत्य च तं देवमिदं वचनमब्रवीत्
॥३६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य आत्यन्तिकश्रेयःसाधननिरूपणे नारायणनारदसमागमो नाम द्वितीयोऽध्यायः ॥ २ ॥