मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १७

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 17

श्रीवासुदेवदर्शनम्

स्कन्द उवाच

तत्त्वेककालसंभूतकोटिकोट्यर्कसन्निभम् ॥

स व्यचष्ट महत्तेजो दिव्यं सिततरं मुने

॥१॥

दिशश्च विदिशः सर्वा ऊर्द्ध्वाधो व्याप्नुवच्च यत् ॥

अक्षरं ब्रह्म कथितं सच्चिदानन्दलक्षणम्

॥२॥

प्रकृतिं पुरुषं चोभौ तत्कार्याण्यपि सर्वशः ॥

व्याप्तं यद्योगसंसिद्धाः षट्चक्राणि निजान्तरे ॥

व्यतीत्य मूर्ध्नि पश्यन्ति वासुदेवप्रसादतः

॥३॥

यद्भासा भासितः सूर्यो वह्निरिन्दुश्च तारकाः ॥

भासयन्ति जगत्सर्वं स्वप्रकाशं तथामृतम्

॥४॥

यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः ॥

यस्यान्तिकेषु परितस्तिष्ठन्त्यर्चककोटयः

॥५॥

ब्रह्मशंकर वृन्दानि ह्युपर्युपरि संभ्रमात् ॥

पतन्ति बलिहस्तानि गोपगोपीव्रजाश्च यत्

॥६॥

कृष्णस्यानुग्रहो यस्मिन्स तेजसि तमीक्षते ॥

केवलं तेज एवान्ये पश्यन्ति न तु तं मुने

॥७॥

तस्मिन्ददर्शाद्भुतदिव्यमन्दिरं विचित्ररत्नेन्द्रमयं मनोज्ञम् ॥

रत्नोज्ज्वलस्तम्भसहस्रकान्तं महासभा मण्डपदर्शनीयम्

॥८॥

सौधालिभिर्भूरिभिरुज्ज्वलाभिः स्वोपासकानां परितो विराजितम् ॥

विचित्रसूक्ष्माम्बररत्नभूषाविभूषितानां हि नृणां च योषिताम्

॥९॥

सिंहासनं तत्र मणीन्द्रसारै रत्नेन्द्रसारैश्च विनिर्मितं सः ॥

आश्चर्यकृन्प्रेक्षकमानसानां दिव्य मुनिः प्रैक्षत भूरिहर्षः

॥१०॥

तत्राऽथ कृष्णं भगवन्तमैक्षन्नारायणं निर्गुणमास्थितं सः ॥

सर्वज्ञमीशं पुरुषोत्तमं च यं वासुदेवं च वदन्ति सात्वताः

॥११॥

यं केचिदाहुः परमात्मसंज्ञं केचित्परं ब्रह्म परात्परं च ॥

ब्रह्मेति केचिद्भगवन्तमेके विष्णुं च भक्ताः परमेश्वरं च

॥१२॥

कन्दर्पसाहस्रमनोहराङ्गं सदा किशोरं करुणानिधानम् ॥

अतिप्रशांताकृतिदर्शनीयं क्षराक्षरेभ्यश्च परं स्वतन्त्रम्

॥१३॥

नैकाण्डसर्गस्थितिनाशलीलाविधायकापांगनिरीक्षणं च ॥

अनेककोट्यण्डमहाधिराजं विश्वैकवन्द्यं नटवर्यवेषम्

॥१४॥

अनर्घ्यदिव्योत्तमपीतवाससमनेकसद्रत्नविभूषणाढ्यम् ॥

नवीनजीमूतसमानवर्णं कर्णोल्लसत्सन्मकराभकुण्डलम्

॥१५॥

निजांगनिर्यत्सितभूरितेजश्चयावृतत्वात्सितवर्णमुक्तम् ॥

सद्रत्नसारोज्ज्वलसत्किरीटं शरत्सरोजच्छदचारुनेत्रम्

॥१६॥

सुगन्धिसच्चन्दनचर्चितांगं श्रीवत्सलक्ष्माङ्कितहृत्कपाटम् ॥

निनादयन्तं मधुरं च वेणुं कृत्वा मुखाग्रेम्बुजचारुदोर्भ्याम्

॥१७॥

जयासुशीलाललितामुखानां वृन्दैः सखीनां सह राधया च ॥

समर्च्यमानं रमया च भामा कलिन्दजा जाम्बवतीमुखानाम्

॥१८॥

धर्मेण वेदैरखिलैर्भगैश्च ज्ञानादिभिः संयतपाणियुग्मैः ॥

निषेव्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः

॥१९॥

मसारमाणिक्यसुवर्णवर्णैः सितैश्च कैश्चिन्निजपार्षदाग्र्यैः ॥

उपासितं चक्रगदाब्जशङ्खलसद्भुजैर्नन्दसुनन्दमुख्यैः

॥२०॥

श्रीदाममुख्यैरथ गोपवेषैर्भक्त्यावनम्रैर्द्विभुजैरनेकैः ॥

उपास्यमानं गरुडेन चाग्रतो विभूतिभिश्चाष्टभिरानताभिः

॥२१॥

मूर्त्या च शान्त्या दयया च सेवितं पुष्ट्या च तुष्ट्या ह्यथ मेधया च ॥

श्रद्धाक्रिया ह्युन्नतिभिश्च मैत्र्या तथा तितिक्षास्मृतिबुद्धिभिश्च

॥२२॥

दृष्ट्वा तमत्यद्भुतदिव्यमूर्त्ति तद्रूपसौरभ्यहृताखिलेन्द्रियः ॥

आनन्दवारिप्रतिरुद्धदृष्टिः प्रेम्णोर्द्ध्वरोमा सुखसंभृतोऽभूत्

॥२३॥

दण्डवत्तं नमस्कृत्य नारदः प्रेमविह्वलः ॥

बद्धाञ्जलिपुटस्तस्थौ वीक्षमाणस्तदाननम्

॥२४॥

तं मानयामास हरिः पृष्ट्वा स्वागतमादरात् ॥

भक्तमेकान्तिकं स्वस्य स्वेनैव च दिदृक्षितम्

॥२५॥

भगवद्वाक्यपीयूषास्वादप्राप्तात्मसंस्मृतिः ॥

तद्दर्शनमहानन्दो भक्त्या तुष्टाव तं मुनिः

॥२६॥

नारद उवाच

जय श्रीकृष्ण भगवन्नारायण जगत्प्रभो ॥

वासुदेवाऽखिलावास सदैकान्तिकवल्लभ

॥२७॥

अप्याश्चर्यार्चनीयाङ्घ्रे राधिकाकमलादिभिः ॥

त्वमेवात्यन्तिकं श्रेयोऽभीप्सतां परमा गतिः

॥२८॥

नित्यानामात्मनां नित्य आत्मा चेतनचेतनः ॥

क्षराक्षरेभ्यश्च परस्त्वं ब्रह्म परमं हरे

॥२९॥

यथा विशुद्धिः सिद्धिश्च भक्त्या परमया तव ॥

तथा न स्यान्नृणामन्यैः साधनैस्तप आदिभिः

॥३०॥

त्वदङ्घ्रिदिव्यज्योत्स्नैका मुमुक्षूणां हृदि स्थितम् ॥

महत्सन्तमसंहर्तुं सद्यः शक्तास्ति सत्पते

॥३१॥

सर्वैर्वेदैस्त्वमेवेज्य उपास्यो ज्ञेय एव च ॥

निरूपितोसि भगवन्सर्वकारणकारणम्

॥३२॥

एकैकस्मिन्रोमकूपे यत्तवास्ति सितं महः ॥

शान्तमानंदरूपं च तत्कोटीन्दुप्रभाधिकम्

॥३३॥

अस्मिंस्त्वमक्षरे धाम्नि निर्गुणेऽमृतसञ्ज्ञके ॥

महःपुञ्जे सदैवास्से निर्गुणः पुरुषोत्तमः

॥३४॥

ब्रह्माण्डभयदात्कालान्मायायाश्च महाभयात् ॥

मुक्ता भक्ता भवन्त्येव त्वदीयोपासनाबलात्

॥३५॥

तं त्वामहमुपेतोस्मि शरणं जगदीश्वरम् ॥

सर्वात्मानं विभुं ब्रह्म महापुरुषमच्युतम्

॥३६॥

यथा त्वच्चरणाम्भोजे भक्तिर्मे निश्चला सदा ॥

भवेत्तथैव देवेश कर्त्तुमर्हस्यनुग्रहम्

॥३७॥

स्कन्द उवाच

इत्थं देवर्षिणा भक्त्या संस्तुतः परमेश्वरः ॥

तमाहानन्दयन्वाचा सुधासंमितया मुनिम्

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवदर्शनं नाम सप्तदशोऽध्यायः ॥ १७ ॥