मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय ३२

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 32

शम्याप्रासाभिधं ब्रह्मन्व्यासस्याश्रममादितः

स्कन्द उवाच

इति स्तुत्वा तमीशानं नारदः स ययौ ततः ॥

शम्याप्रासाभिधं ब्रह्मन्व्यासस्याश्रममादितः

॥१॥

सादरं मानितस्तेन प्रत्युत्थानासनादिभिः ॥

तस्मा एकान्तिकं धर्म्मं प्राह जिज्ञासवे स च

॥२॥

ततो ब्रह्मसभां गत्वा ब्रह्मणः शृण्वतो मुनिः ॥

देवान्पितॄन्महर्षींश्च तत्रस्थांस्तमुपादिशत्

॥३॥

तत्रस्थितो भास्करश्च धर्म्ममेतं पुनर्म्मुने ॥

शुश्राव नारदात्सर्वं श्रुतं नारायणात्पुरा

॥४॥

स प्राहात्माग्रयायिभ्यो वालखिल्येभ्य आदरात् ॥

मेरौ ते संगतान्देवानिन्द्रादींश्च न्यशामयन्

॥५॥

तेभ्योऽसितो मुनिः श्रुत्वा धर्ममेतं द्विजोत्तम ॥

पितृभ्यः कथयामास पितृलोकं गतः क्वचित्

॥६॥

पितरस्ते त्वर्यमाद्या ऊचिरे शंतनुं नृपम् ॥

स भीष्माय स्वपुत्राय कथयामास तत्त्वतः

॥७॥

सोपि भारतयुद्धान्ते धर्म्मराजाय पृच्छते ॥

शयानः शरशय्यायां प्राह संसदि भूयसि

॥८॥

तत्र श्रुत्वा नारदोपि स्थितः सदसि सादरम् ॥

कैलासे शंकरं प्राह स च मां मुनिसत्तम

॥९॥

मया ते कथितं ब्रह्मन्पृच्छते धर्म्मवर्त्तिने ॥

पात्रायैतत्प्रदातव्यमिति मां हि पिताब्रवीत्

॥१०॥

येनयेन श्रुतं ह्येतन्माहात्म्यं सात्वतांपतेः ॥

स स तस्मिन्परां भक्तिं चकार स्वविमुक्तये

॥११॥

युधिष्ठिरोपि राजर्षिः श्रुत्वा भीष्मेण कीर्त्तितम् ॥

माहात्म्यं देवकीसूनोर्म्मुमुदे भ्रातृभिः सह

॥१२॥

तमात्मनो मातुलेयं सर्वकारणकारणम् ॥

निशम्याश्चर्य्यजलधौ निममज्ज महामतिः

॥१३॥

वासुदेवादिकं व्यूह वाराहादींश्च सर्व्वशः ॥

अवतारानपि नृपो मेनेऽस्यैव रमापतेः

॥१४॥

ततः सहानुजो राजा दिव्यमानुषविग्रहे ॥

अत्यन्तं भक्तिमान्कृष्णे बभूव द्विजसत्तम

॥१५॥

श्रुत्वेमां च कथां सर्व्वे ब्रह्मराजसुरर्षयः ॥

सभायां तत्र ये चासंस्तेप्यभूवन्सविस्मयाः

॥१६॥

कृष्णमेव परं ब्रह्म विदित्वा ते नराकृति ॥

भक्तिं प्रपेदिरे तस्मिन्प्रणमन्तस्तमादरात्

॥१७॥

इत्थं तस्यास्ति माहात्म्यमतस्त्वमपि सन्मते ॥

सर्वात्मना वासुदेवं तमेव भज भक्तितः

॥१८॥

श्रीवासुदेवमाहात्म्यमेतत्ते कथितं मया ॥

दुर्वासनोपशमनं भगवद्भक्तिवर्द्धनम्

॥१९॥

कथितानि पुराणेऽत्र मयाख्यानानि यानि ते ॥

तेषां सार इदं ब्रह्मन्निर्म्मथ्यैव समुद्धृतः

॥२०॥

वेदोपनिषदां चैतद्रसो वै सांख्ययोगयोः ॥

पञ्चरात्रस्य कृत्स्नस्य धर्मशास्त्रस्य चानघ

॥२१॥

धन्यं यशस्यं चायुष्यमेतत्परममङ्गलम् ॥

साक्षाद्भगवता गीतं सर्वाभद्रविनाशनम्

॥२२॥

य एतच्छृणुयात्पुण्यं कीर्त्तयेदथ यः पठेत् ॥

वासुदेवे भवेत्तेषामचला निर्मला मतिः

॥२३॥

भक्ता एकान्तिकास्ते च भवेयुस्तस्य मानवाः ॥

ब्रह्मरूपा व्रजन्त्यन्ते ब्रह्मधाम तमःपरम्

॥२४॥

धर्मार्थी लभतेऽनेन धर्मं कामं च कामुकः ॥

धनार्थी धनमाप्नोति मोक्षार्थी मोक्षमुत्तमम्

॥२५॥

लभेत विद्यां विद्यार्थी मुच्येद्रुग्णश्च रोगतः ॥

एतच्छ्रवणमात्रेण सर्वपापक्षयो भवेत्

॥२६॥

ब्राह्मं तेजो लभेद्विप्रः क्षत्रियश्च नरेशताम् ॥

धनं वैश्यः सुखं शूद्रः श्रवणादस्य चाप्नुयात्

॥२७॥

एतच्छ्रुत्वा रणं गच्छन्विजयं चाप्नुयान्नृपः ॥

प्राप्नुयात्स्त्री च सौभाग्यं कन्या च स्वेप्सितं वरम्

॥२८॥

एतस्य श्रुतिकीर्त्तिभ्यः शास्त्रजातशिरोमणेः ॥

यं यं यः कामयेत्कामं तंतं प्राप्नोति मानवः

॥२९॥

तस्मात्त्वं सर्वदा भक्त्या पठन्नेतद्द्विजोत्तम ॥

कायवाणीमनोभिस्तं भजेथा भक्तवत्सलम्

॥३०॥

सौतिरुवाच

एतन्महासेनमुखाब्जनिःसृतं सावर्णिरापीय वचोमृतं सः ॥

चकार भक्तिं वसुदेवनन्दने नराकृतिब्रह्मणि सर्वमङ्गले

॥३१॥

यूयं च सर्वे निगमागमज्ञा ब्रह्मण्यदेवं भजनीयमीशम् ॥

भजध्वमेकं तमुदारकीर्त्तिं श्रीवासुदेवं निजधर्मसंस्थाः

॥३२॥

गोलोकधामपतये प्रकाशचयमूर्त्तये ॥

नमोस्तु वासुदेवाय भक्त्यानन्दविवृद्धये

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ग्रन्थसंप्रदायप्रवृत्तिनिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥

इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे वासुदेवमाहात्म्यं सम्पूर्णम् ॥

इति श्रीस्कान्दे महापुराणे द्वितीयं वैष्णवखण्डं सम्पूर्णम्

॥२॥