सेतुगमनफलादिवर्णनम्
अथ ब्राह्मखण्डे प्रथमं सेतुमाहात्म्यम् ॥
( ३-१)
॥१॥श्रीगणेशाय नमः ॥
श्रीवेदव्यासायनमः ॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये
॥१॥नैमिषारण्यनिलया ऋषयः शौनकादयः ॥
अष्टांगयोगनिरता ब्रह्मज्ञानैकतत्पराः
॥१॥मुमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः ॥
धर्मज्ञा अनसूयाश्च सत्यवतपरायणाः
॥२॥जितेंद्रिया जितक्रोधाः सर्वभूतदयालवः ॥
भक्त्या परमया विष्णुमर्चयंतः सनातनम्
॥३॥तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि ॥
एकदा ते महात्मानः समाजं चक्रुरुत्तमम्
॥४॥कथयंतो महापुण्याः कथाः पापप्रणाशिनी ॥
भुक्तिमुक्त्योरुपायं च जिज्ञासंतः परस्परम्
॥५॥षड्विंशतिसहस्राणामृषीणां भावितात्मनाम् ॥
तेषां शिष्यप्रशिष्याणां संख्या कर्तुं न शक्यते
॥६॥अत्रांतरे महाविद्वान्व्यासशिष्यो महामुनिः ॥
आगमन्नैमिषारण्यं सूतः पौराणिकोत्तमः
॥७॥तमागतं मुनिं दृष्ट्वा ज्वलंतमिव पावकम् ॥
अर्घ्याद्यैः पूजयामासुर्मुनयः।
शौनकादयः
॥८॥सुखोपविष्टं तं सूतमासने परमे शुभे ॥
पप्रच्छुः परमं गुह्यं लोकानुग्रहकांक्षया
॥९॥सूत धर्मार्थतत्त्वज्ञ स्वागतं मुनिपुंगव ॥
श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात्
॥१०॥अतः सर्वपुराणानामर्थज्ञोऽसि महामुने ॥
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले
॥११॥कथं वा लप्स्यते मुक्तिर्जीवानां भवसागरात् ॥
कथं हरे हरौ वापि नृणां भक्तिः प्रजायते
॥१२॥केन सिध्येत च फलं कर्मणास्त्रिविधा त्मनः ॥
एतच्चान्यच्च तत्सर्वं कृपया वद सूतज
॥१३॥ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत ॥
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः
॥१४॥वक्तुं प्रचक्रमे नत्वा व्यासं स्वगुरुमादितः ॥
श्रीसूत उवाच ॥
सम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम्
॥१५॥रहस्यमे तद्युष्माकं वक्ष्यामि शृणुतादरात् ॥
मया नोक्तमिदं पूर्वं कस्यापि मुनिपुंगवाः
॥१६॥मनो नियम्य विप्रेंद्राः शृणुध्वं भक्तिपूर्वकम् ॥
अस्ति रामेश्वरं नाम रामसेतौ पवित्रितम्
॥१७॥क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ॥
दृष्टमात्रे रामसेतौ मुक्तिः संसारसागरात्
॥१८॥हरे हरौ च भक्तिः स्यात्तथा पुण्यसमृद्धिता ॥
कर्मणस्त्रिविधस्यापि सिद्धिः स्यान्नात्र संशयः
॥१९॥यो नरो जन्ममध्ये तु सेतुं भक्त्यावलोकयेत् ॥
तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुंगवाः
॥२०॥मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः ॥
निर्विश्य शंभुना कल्पं ततो मोक्षं समश्नुते
॥२१॥गण्यंते पांसवो भूमेर्गण्यंते दिवि तारकाः ॥
सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते
॥२२॥समस्तदेवतारूपः सेतुवंधः प्रकीर्तितः ॥
तद्दर्शनवतः पुंसः कः पुण्यं गणितुं क्षमः
॥२३॥सेतुं दृष्ट्वा नरो विप्राः सर्वयागकरः स्मृतः ॥
स्नातश्च सर्वतीर्थेषु तपोऽतप्यत चाखिलम्
॥२४॥Esoteric aspect of setu सेतुं गच्छेति यो ब्रूयाद्यं कं वापि नरं द्विजाः ॥
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषणः
॥२५॥सेतुस्नानकरो मर्त्यः सप्तकोटिकुलान्वितः ॥
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते
॥२६॥सेतुं रामेश्वरं लिंगं गंधमादनपर्वतम् ॥
चिंतयन्मनुजः सत्यं सर्वपापैः प्रमुच्यते
॥२७॥मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ॥
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ॥
कल्पत्रयं शंभुपदे स्थित्वा तत्रैव मुच्यते
॥२८॥मूषावस्थां वसाकूपं तथा वैतरणी नदीम् ॥
श्वभक्षं मूत्रपानं च सेतुस्नायी न पश्यति
॥२९॥तप्तशूलं तप्तशिलां पुरी षह्रदमेव च ॥
तथा शोणितकूपं च सेतुस्नायी न पश्यति
॥३०॥शाल्मल्यारोहणं रक्तभोजनं कृमिभोजनम् ॥
स्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम्
॥३१॥शिलावृष्टिं वह्निवृष्टिं नरकं कालसूत्रकम् ॥
क्षारोदकं चोष्णतोयं नेयात्सेत्ववलोककः
॥३२॥सेतुस्नायी नरो विप्राः पंचपातकवानपि ॥
मातृतः पितृतश्चैव शतकोटिकुलान्वितः
॥३३॥कल्पत्रयं विष्णुपदे स्थित्वा तत्रैव मुच्यते ॥
अधःशिरःशोषणं च नरकं क्षारसेवनम्
॥३४॥पाषाणयन्त्रपीडां च मरुत्प्रपतनं तथा ॥
पुरीषलेपनं चैव तथा क्रकचदारणम्
॥३५॥पुरीषभोजनं रेतःपानं संधिषु दाहनम् ॥
अंगारशय्याभ्रमणं तथा मुसलमर्द्दनम्
॥३६॥एतानि नरकाण्यद्धा सेतुस्नायी न पश्यति ॥
सेतु स्नानं करिष्येऽहमिति बुद्ध्या विचिंतयन्
॥३७॥गच्छेच्छतपदं यस्तु स महापातकोऽपि सन् ॥
बहूनां काष्ठयंत्राणां कर्षणं शस्त्रभेदनम्
॥३८॥पतनोत्पतनं चैव गदादण्डनिपीडनम् ॥
गजदन्तैश्च हननं नानाभुजगदंशनम्
॥३९॥धूमपानं पाशबन्धं नानाशूलनिपीडनम् ॥
मुखे च नासिकायां च क्षारोदकनिषेचनम्
॥४०॥क्षारांबुपानं नरकं तप्तायः सूचिभक्षणम् ॥
एतानि नरकान्यद्धा न याति गतपातकः
॥४१॥क्षारांबुपूर्णरंध्राणां प्रवेशं मलभोजनम् ॥
स्नायुच्छेदं स्नायुदाहमस्थिभेदनमेव च
॥४२॥श्लेष्मादनं पित्तपानं महातिक्तनिषेवणम् ॥
अत्युष्ण तैलपानं च पानं क्षारोदकस्य च
॥४३॥कषायोदकपानं च तप्तपाषाणभोजनम् ॥
अत्युष्णसिकतास्नानं तथा दशनमर्दनम्
॥४४॥तप्तायःशयनं चैव संतप्तांबुनिषेचनम् ॥
सूचिप्रक्षेपणं चैव नेत्रयोर्मुखसंधिषु
॥४५॥शिश्ने सवृषणे चैव ह्ययोभारस्य बन्धनम् ॥
वृक्षाग्रात्पतनं चैव दुर्गंधपरिपूरिते
॥४६॥तीक्ष्णधारास्त्रशय्यां च रेतःपानादिकं तथा ॥
इत्यादि नरकान्घोरासेतुस्नायी न पश्यति
॥४७॥सेतुसैकतमध्ये यः शेते तत्पांसुकुंठितः ॥
यावन्तः पांसवो लग्नास्तस्यांगे विप्रसत्तमाः
॥४८॥तावतां ब्रह्महत्यानां नाशः स्यान्नात्र संशयः ॥
सेतुमध्यस्थ वातेन यस्यांगं स्पृश्यतेऽखिलम्
॥४९॥सुरापानायुतं तस्य तत्क्षणादेव नश्यति ॥
वर्तंते यस्य केशास्तु वपनात्सेतुमध्यतः
॥५०॥गुरुतल्पा युतं तस्य तत्क्षणादेव नश्यति ॥
यस्यास्थि सेतुमध्ये तु स्थापितं पुत्रपौत्रकैः ॥
स्वर्णस्तेयायुतं तस्य तत्क्षणादेव नश्यति
॥५१॥स्मृत्वा यं सेतुमध्ये तु स्नानं कुर्याद्द्विजोत्तमाः ॥
महापातकिसंसर्गदोषस्तस्य लयं व्रजेत्
॥५२॥मार्गभेदी स्वार्थपाकी यतिब्राह्मणदूषकः ॥
अत्याशी वेदविक्रेता पंचैते ब्रह्मघातकाः
॥५३॥ब्राह्मणान्यः समाहूय दास्यामीति धनादिकम् ॥
पश्चान्नास्तीति यो ब्रूते ब्रह्महा सोपि कीर्तितः
॥५४॥परिज्ञाय यतो धर्मांस्तस्मै यो द्वेषमाचरेत् ॥
अवजानाति वा विप्रान्ब्रह्महा सोपि कीर्तितः
॥५५॥जलपानार्थमायातं गोवृन्दं तु जलाशये ॥
निवारयति यो विप्रा ब्रह्महा सोपि कीर्तितः
॥५६॥सेतुमेत्य तु ते सर्वे मुच्यंते दोषसंचयैः ॥
ब्रह्मघातकतुल्या ये संति चान्ये द्विजोत्तमाः
॥५७॥ते सर्वे सेतुमागत्य मुच्यंते नात्र संशयः ॥
औपासनपरित्यागी देवतान्नस्य भोजकः
॥५८॥सुरापयोषित्संसर्गी गणिकान्नाशनस्तथा ॥
गणान्नभोजकश्चैव पतितान्नरतश्च यः
॥५९॥एते सुरापिनः प्रोक्ताः सर्वकर्मबहिष्कृताः ॥
सेतुस्नानेन मुच्यंते ते सर्वे हतकिल्बिषाः
॥६०॥सुरापतुल्या ये चान्ये मुच्यंते सेतुमज्जनात् ॥
कन्दमूलफलानां च कस्तूरीपट्टवाससाम्
॥६१॥पयश्चंदनकर्पूरक्रमुकाणां तथैव च ॥
मध्वाज्यता म्रकांस्यानां रुद्राक्षाणां तथैव च
॥६२॥चोरकास्तु परिज्ञेया सुवर्णस्तेयिनः समाः ॥
ते सेतुक्षेत्रमागत्य मुच्यन्ते नात्र संशयः
॥६९॥अन्ये च स्तेयिनः सर्वे सेतुस्नानेन वै द्विजाः ॥
मुच्यंते सर्वपापेभ्यो नात्र कार्या विचारणा
॥६४॥भगिनीं पुत्रभार्यां च तथैव च रजस्वलाम् ॥
भ्रातृभार्यां मित्रभार्यां मद्यपां च परस्त्रियम्
॥६५॥हीनस्त्रियं च विश्वस्तां योऽभिगच्छति रागतः ॥
गुरुतल्पी स विज्ञेयः सर्वकर्मबहिष्कृतः
॥६६॥एते चान्ये च ये संति गुरुतल्पगतुल्यकाः ॥
ते सर्वे प्रविमुच्यंते सेतुस्नानेन वै द्विजाः
॥६७॥एतैः संसर्गिणो विप्रा ये चान्ये संति पापिनः ॥
सेतुस्नानेन महता तेऽपि मोक्षमवाप्नुयुः
॥६९॥यागं विना देवलोके घृताचीमेनकादिभिः ॥
संभोगकामिनो विप्राः स्नातुं संतावघापहे
॥६९॥अनिषेव्य रविं वह्निमनुपास्य परान्सुरान् ॥
शुभकामी जनः सेतौकुर्यात्स्नानं सभक्तिकम्
॥७॥तिलान्भूमिं सुवर्णं च धान्यं तंदुलमेव च ॥
अदत्त्वेच्छंति ते स्वर्गं स्नातुं सेतौ तु ते द्विजाः
॥७१॥उपवासैर्व्रतैः कृत्स्नैरसंताप्य निजां तनुम् ॥
स्वर्गाभिलाषिणः पुंसः स्नांतु सेतौ विमुक्तिदे
॥७२॥सेतुस्नानं मोक्षदं हि मनःशुद्धिप्रदं तथा ॥
जपाद्धोमात्तथा दानाद्यागाच्च तपसोऽपि च
॥७३॥सेतुस्नानं विशिष्टं हि पुराणे परिपठ्यते ॥
अकामनाकृतं स्नानं सेतौ पापविनाशने
॥७४॥अपुनर्भवदं प्रोक्तं सत्यमुक्तं द्विजोत्तमाः ॥
यः संपदं समुद्दिश्य स्नाति सेतौ नरो मुदा
॥७५॥स संपदमवाप्नोति विपुलां द्विजपुंगवाः ॥
शुद्ध्यर्थं स्नाति चेत्सेतौ तदा शुद्धिमवाप्नुयात्
॥७६॥रत्यर्थं यदि च स्नायादप्सरोभिर्नरो दिवि ॥
तदा रतिमवाप्नोति स्वर्गलोकेऽमरीजनैः
॥७७॥मुक्त्यर्थं यदि च स्नायात्सेतौ मुक्तिप्रदायिनि ॥
तदा मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम्
॥७८॥सेतुस्नानेन धर्मः स्यात्सेतुस्नानादघक्षयः ॥
सेतुस्नानं द्विजश्रेष्ठाः सर्वकामफलप्रदम्
॥७९॥सर्वव्रताधिकं पुण्यं सर्वयज्ञोत्तरं स्मृतम् ॥
सर्वयोगाधिकं प्रोक्तं सर्व तीर्थाधिकं स्मृतम्
॥८०॥इंद्रादिलोकभोगेषु रागो येषां प्रवर्तते ॥
स्नातव्यं तैर्द्विजश्रेष्ठाः सेतौ रामकृते सकृत्
॥८१॥ब्रह्मलोके च वैकुण्ठे कैलासेऽपि शिवालये ॥
रंतुमिच्छा भवेद्येषां ते सेतौ स्नांतु सादरम्
॥८२॥आयुरारोग्यसंपत्तिमतिरूपगुणाढ्यताम् ॥
चतुर्णामपि वेदानां सांगानां पारगामिनाम्
॥८३॥सर्वशास्त्राधिगंतृत्वं सर्वमंत्रेष्वभिज्ञताम् ॥
समुद्दिश्य तु यः स्नायात्सेतौ सर्वार्थसिद्धिदे
॥८४॥तत्तत्सिद्धिम वाप्नोति सत्यं स्यान्नात्र संशयः ॥
दारिद्र्यान्नरकाद्ये च मनुजा भुवि बिभ्यति
॥८५॥स्नानं कुर्वंतु ते सर्वे रामसेतौ विमुक्तिदे ॥
श्रद्धया सहितो मर्त्यः श्रद्धया रहितोऽपि वा
॥८६॥इहलोके परत्रापि सेतुस्नायी न दुःखभाक् ॥
सेतुस्नानेन सर्वेषां नश्यते पापसंचयः
॥८७॥वर्द्धते धर्मराशिश्च शुक्लपक्षे यथा शशी ॥
यथा रत्नानि वर्द्धंते समुद्रे विविधान्यपि
॥८८॥तथा पुण्यानि वर्द्धंते सेतुस्नानेन वै द्विजाः ॥
काम धेनुर्यथा लोके सर्वाकामान्प्रयच्छति
॥८९॥चिंतामणिर्यथा दद्यात्पुरुषाणां मनोरथान् ॥
यथाऽमरतरुर्दद्यात्पुरुषाणामभीप्सितम्
॥९०॥सेतुस्नानं तथा नृणां सर्वाभीष्टान्प्रदास्यति ॥
अशक्तः सेतुयात्रायां दारिद्र्येण च मानवः
॥९१॥याचित्वा स धनं शिष्टात्सेतौ स्नानं समाच रेत् ॥
सेतुस्नानसमं पुण्यं तत्र दाता समश्नुते
॥९२॥तथा प्रतिगृहीतापि प्राप्नोत्यविकलं फलम् ॥
सेतुयात्रां समुद्दिश्य गृह्णीयाद्ब्राह्मणाद्ध नम्
॥९३॥क्षत्रियादपि गृह्णीयान्न दद्युर्ब्राह्मणा यदि ॥
वैश्याद्वा प्रतिगृह्णीयान्न प्रयच्छंति चेन्नृपाः
॥९४॥शूद्रान्न प्रतिगृह्णीयात्कथंचिदपि मानवः ॥
यः सेतुं गच्छतः पुंसो धनं वा धान्यमेव वा
॥९५॥दत्त्वा वस्त्रादिकं वापि प्रवर्तयति मानवः ॥
सोऽश्वमेधादियज्ञानां फलमाप्तो त्यनुत्तमम्
॥९६॥चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
तुलापुरुषमुख्यानां दानानां फलमश्नुते
॥९७॥ब्रह्महत्यादिपापानां नाशः स्या न्नात्र संशयः ॥
बहुना किं प्रलापेन सर्वान्कामान्समश्नुते
॥९८॥एवं प्रतिगृहीतापि तत्तुल्यफलमश्नुते ॥
याचतः सेतुयात्रार्थं न प्रतिग्रहकल्मषम्
॥९९॥सेतुं गच्छ धनं तेऽहं दास्यामीति प्रलोभ्य यः ॥
पश्चान्नास्तीति च ब्रूयात्तमाहुर्ब्रह्मघातकम्
॥१००॥लोभेन सेतुयात्रार्थं संपन्नोऽपि दरिद्रवत् ॥
मानवो यदि याचेत तमाहुस्तेयिनं बुधाः
॥१०१॥गमिष्ये सेतुमिति वै यो गृहीत्वा धनं नरः ॥
न याति सेतुं लोभेन तमाहुर्ब्रह्मघा तकम्
॥१०२॥येन केनाप्युपायेन सेतुं गच्छेन्नरो मुदा ॥
अशक्तो दक्षिणां दत्त्वा गमयेद्वा द्विजोत्तमम्
॥१०३॥याचित्वा यज्ञकरणे यथा दोषो न विद्यते ॥
याचित्वा सेतुयात्रायां तथा दोषो न विद्यते
॥१०४॥याचित्वाप्यन्यतो द्रव्यं सेतुस्नाने प्रवर्तयेत् ॥
सोऽपि तत्फलमाप्नोति सेतु स्नायी नरो यथा
॥१०५॥ज्ञानेन मोक्षमभियांति कृते युगे तु त्रेतायुगे यजनमेव विमुक्तिदायि ॥
श्रेष्ठं तथान्ययुगयोरपि दानमाहुः सर्वत्र सेत्व भिषवो हि वरो नराणाम्
॥१०६॥इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुगमनफलादिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥