दुष्पण्यपैशाच्यमोक्षणम्
श्रीसूत उवाच
लक्ष्मीतीर्थे शुभे पुंसां सर्वैश्वर्यैककारणे ॥
स्नात्वा नरस्ततो गच्छेदग्नितीर्थं द्विजोत्तमाः
॥१॥अग्नितीर्थं महापुण्यं महापातकनाशनम् ॥
तीर्थानामुत्तमं तीर्थं सर्वाभीष्टैकसाधनम् ॥
तत्र स्नायान्नरो भक्त्या स्वपापपरिशुद्धये
॥२॥ऋषय ऊचुः
अग्निर्तार्थमितिख्यातिः कथं तस्य मुनीश्वर
॥३॥कुत्रैदमग्नितीर्थं च कीदृशं तस्य वैभवम् ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि
॥४॥श्रीसूत उवाच
सम्यक्पृष्टं हि युष्माभिः शृणुध्वं मुनिपुंगवाः ॥
पुरा हि राघवो हत्वा रावणं सपरिच्छदम्
॥५॥स्थापयित्वा तु लंकायां भर्तारं च विभीषणम् ॥
सीतासौमित्रिसंयुक्तो रामो दशरथात्मजः
॥६॥सिद्धचारणगंधवैर्देवैरप्सरसां गणैः ॥
स्तूयमानो मुनिगणैः सत्याशीस्तीर्थकौतुकी
॥७॥धारयँल्लीलया चापं रामोऽसह्यपराक्रमः ॥
आत्मनः शुद्धिमाधातुं जानकीं शोधितु तथा
॥८॥इंद्रादिदेववृन्दैश्च मुनिभिः पितृभिस्तथा ॥
विभीषणेन सहितः सर्वेरपि च वानरैः
॥९॥आययौ सेतुमार्गेण गंधमादनपर्वतम् ॥
लक्ष्मीतीर्थतटे स्थित्वा जानकीशोधनाय सः
॥१०॥अग्निमावाहयामास देवर्षिपितृसन्निधौ ॥
अथोत्तस्थौ महांभोधेर्लक्ष्मीतीर्थाद्विदूरतः
॥११॥पश्यत्सु सर्वलोकेषु लिहन्नंभांसि पावकः ॥
आताम्रलोचनः पीतवासा धनुर्धरः
॥१२॥सप्तभिश्चैव जिह्वाभिर्लेलिहानो दिशो दश ॥
दृष्ट्वा रघुपतिं शूरं लीलामानुषरूपिणम्
॥१३॥जगाद वचनं रम्यं जानकीशुद्धिकारणात् ॥
रामराम महाबाहो राक्षसानां भयावह
॥१४॥पातिव्रत्येन जानक्या रावणं हतवान्भवान् ॥
सत्यंसत्यं पुनः सत्यं नात्र कार्या विचारणा
॥१५॥कमलेयं जगन्माता लीलामानुषविग्रहा ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी
॥१६॥विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥
यदायदा जगत्स्वामिन्देवदेव जनार्द्दन
॥१७॥अवतारान्करोषि त्वं तदेयं त्वत्सहायिनी ॥
यदा त्वं भार्गवो रामस्तदाभूद्धरणी त्वियम्
॥१८॥अधुना जानकी जाता भवित्री रुक्मिणी ततः ॥
अन्येषु चावतारेषु विष्णोरेषा सहायिनी
॥१९॥तस्मामद्वचनादेनां प्रति गृह्णीष्व राघव ॥
पावकस्य तु तद्वाक्यं श्रुत्वा देवा महर्षयः
॥२०॥विद्याधराश्च गंधर्वा मानवाः पन्नगास्तथा ॥
अन्ये च भूतनिवहा रामं दशरथात्मजम्
॥२१॥जानकीं मैथिलीं चैव प्रशशंसुः पुनःपुनः ॥
रामोऽग्निवचनात्सीतां प्रतिजग्राह निर्मलाम्
॥२२॥एवं सीताविशुद्ध्यर्थं रामेणाक्लिष्टकर्मणा ॥
आवाहने कृते वह्निर्लक्ष्मीतीर्थाद्विदूरतः
॥२३॥यतः प्रदेशादुत्तस्थावंबुधेर्द्विजसत्तमाः ॥
अग्नितीर्थं विजानीत तं प्रदेशमनुत्तमम्
॥२४॥ततो विनिर्गमादग्नेरग्नितीर्थमितीर्यते ॥
अत्र स्नात्वा नरो भक्त्या वह्नेस्तीर्थे विमुक्तिदे
॥२५॥उपोष्य वेदविदुषो ब्राह्मणानपि भोजयेत् ॥
तेभ्यो वस्त्रं धनं भूमिं दद्यात्कन्यां च भूषिताम्
॥२६॥सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥
अग्नितीर्थस्य कूलेस्मिन्नन्नदानं विशिष्यते
॥२७॥अग्नितीर्थसमं तीर्थं न भूतं न भविष्यति ॥
दुष्पण्योपि महापापो यत्र स्नानात्पिशाचताम्
॥२८॥परित्यज्य महाघोरां दिव्यं रूपमवाप्तवान् ॥
पशुमान्नाम वैश्योऽभूत्पुरा पाटलिपुत्रके
॥२९॥स वै धर्मपरो नित्यं ब्राह्मणाराधने रतः ॥
कृषिं निरंतरं कुर्वन्गो रक्षां चैव सर्वदा
॥३०॥पण्यवीथ्यां च विक्रीणन्कांचनादीनि धर्मतः ॥
पशुमन्नामधेयस्य वणिक्छ्रेष्ठस्य तस्य वै
॥३१॥बभूव भार्यात्रितयं पतिशुश्रूषणे रतम् ॥
ज्येष्ठा त्रीन्सुषुवे पुत्रान्वैश्यवंशविवर्द्धनान्
॥३२॥सुपण्यं पण्यवतं च चारुपण्यं तथैव च ॥
मध्यमा सुषुते पुत्रौ सुकोश बहुकोशकौ
॥३३॥तृतीयायां त्रयः पुत्रास्तस्य वैश्यस्य जज्ञिरे ॥
महापण्यो महाकोशो दुष्पण्य इति विश्रुताः
॥३४॥एवं पशुमतस्तस्य वैश्यस्य द्विजसत्तमाः ॥
बभूवुरष्टौ तनयास्तासु स्त्रीषु तिसृष्वपि
॥३५॥ते सुपण्यमुखाः सर्वे पुत्रा ववृधिरे क्रमात ॥
धूलिकेलिं वितन्वन्तः पितरौ तोषयंति ते
॥३६॥पंचहायनतां प्राप्ताः क्रमात्ते वैश्यनंदनाः ॥
पशुमानपि वैश्येंद्रः सर्वानपि च तान्सुतान्
॥३७॥बाल्यमारभ्य सततं स्वकृत्येषु व्यशिक्षयत् ॥
कृषिगोत्राणवाणिज्यकर्मसु क्रमशिक्षिताः
॥३८॥सुपण्यमुख्याः सप्तैव पितृवाक्यमशृण्वत ॥
पशुमान्वक्ति यत्कार्यं तत्क्षणान्निरवर्तयन्
॥३९॥नैपुण्यं प्रापुरत्यंतं ते सुवर्णक्रियास्वपि ॥
दुष्पण्यस्त्वष्टमः पुत्रो बाल्यमारभ्य संततम्
॥४०॥दुर्मार्गनिरतो भूत्वा नाशृणोत्पितृभाषितम् ॥
धूलिकेलिं समारभ्य दुर्मार्गनिरतोऽभवत्
॥४१॥स बाल एव सन्पुत्रो बालानन्यानबाधत ॥
दुष्कर्मनिरतं दृष्ट्वा तं पिता पशुमांस्तथा
॥४२॥उपेक्षामेव कृतवान्बालिशोऽयमितीरयन् ॥
अथाष्टावपि वैश्यस्य प्रापुर्यौवनमात्मजाः
॥४३॥ततोऽयमष्टमः पुत्रो दुष्पण्यो बलिनां वरः ॥
गृहीत्वा पाणिषु गले बालान्नगरवर्तिनः
॥४४॥निचिक्षेप स कूपेषु सरित्सु च सरःस्वपि ॥
न कोऽपि तस्य जानाति दुश्चरित्रमिदं जनः
॥४५॥यावन्म्रियंते ते बालास्तावन्निक्षिप्तवाञ्जले ॥
तेषां मृतानां बालानां पितरो मातरस्तथा
॥४६॥गवेषयंति तान्सर्वान्नगरेषु हि सर्वशः ॥
तान् दृष्ट्वा च मृतान्पुत्रान्केवलं प्रारुदञ्जनाः
॥४७॥जलेष्वथ शवान्दृष्ट्वा जनाश्चक्रुर्यथोचितम् ॥
एवं प्रतिदिनं बालान्दुष्पण्यो मारयन्पुरे
॥४८॥जनैरप्यपरिज्ञातश्चिरमेवमवर्तत ॥
म्रियमाणेषु बालेषु वैश्यपुत्रस्य कर्मणा
॥४९॥प्रजानां वृद्धिराहित्याच्छून्यप्रायमभूत्पुरम् ॥
ततः समेत्य पौरास्तद्वृत्तं राज्ञे न्यवेदयन्
॥५०॥श्रुत्वा नृपस्तद्वचनमाहूय ग्रामपालकान् ॥
कारणं बालमरणे चिंत्यतामिति सोऽन्वशात्
॥५१॥ग्रामपालास्तथेत्युक्त्वा तत्र तत्र व्यवस्थिताः ॥
सम्यग्गवेषयामासुः कारणं बालमारणे
॥५२॥ते वै गवेषंयतोऽपि नाविंदन्बालमारकम् ॥
ते पुनर्नृपमासाद्य भीता वाक्यमथाब्रुवन्
॥५३॥गवेषयंतोऽपि वयं तन्न विंदामहे नृप ॥
यो बालान्नगरे स्थित्वा सततं मारयत्यपि
॥५४॥पुनश्च नागराः सर्वे राजानं प्राप्य दुःखिताः ॥
पुनः प्रजानां मरणमब्रुवन्वाष्पसंकुलाः
॥५५॥राजा तत्कारणाज्ञानात्तूष्णीमास्ते विचिंत्य तु ॥
कदाचिद्वैश्यपुत्रोयं पंचभिर्बालकैः सह
॥५६॥तटाकांतिकमापेदे पंकजाहरणच्छलात् ॥
बलाद्गृहीत्वा तान्बालान्दुष्पण्यः क्रोशतस्तदा
॥५७॥क्रूरात्मा मज्जयामास कंठदघ्ने सरोजले ॥
मृतान्मत्वा च ताञ्छीघ्रं दुष्पण्यः स्वगृहं ययौ
॥५८॥पञ्चानां पितरस्तेषां मार्गयंतः सुतान्पुरे ॥
तेषु वै मार्गमाणेषु पंच तेनातिबालकाः
॥५९॥निक्षिप्ता अपि तोयेषु नाम्रियंत यदृच्छया ॥
ते शनैः कूलमासाद्य पंचापि क्लिन्नमौलयः
॥६०॥अशक्ता नगरं गंतुं बाल्यात्तत्रैव बभ्रमुः ॥
दूरादुच्चार्यमाणानि स्वनामानि स्वबंधुभिः
॥६१॥श्रुत्वा पंचापि ते बालाः प्रतिशब्दमकुर्वत ॥
ततस्तत्पितरः श्रुत्वा तत्रागत्यसरस्तटे
॥६२॥पुत्रान्दृष्ट्वा तु सप्राणान्प्रहर्षमतुलं गताः ॥
किमेतदिति पित्राद्यैः पृष्टास्ते बालकास्तदा
॥६३॥दुष्पण्यस्याथ दुष्कृत्यं बन्धुभ्यस्ते न्यवेदयन् ॥
ततो विदितवृत्तांता राजानं प्राप्य नागराः
॥६४॥पंचभिः कथितं वृत्तं दुष्पण्यस्य न्यवेदयन् ॥
ततो राजा समाहूय पशुमंतं वणिग्वरम् ॥
पौरेष्वपि च शृण्वत्सु वाक्यमेतदभाषत
॥६५॥राजोवाच
दुष्पण्यनामा पशुमन्बहुप्रजमिदं पुरम्
॥६६॥शून्यप्रायं कृतं पश्य त्वत्पुत्रेण दुरात्मना ॥
इदानीं बालिशानेतान्मज्जयामास वै जले
॥६७॥यदृच्छया च सप्राणाः पुनरप्यागताः पुरम् ॥
अस्मिन्नित्थं गते कार्ये किं कर्तव्यं वदाधुना
॥६८॥अद्य त्वामेव पृच्छामि यतस्त्वं धर्मतत्परः ॥
इत्युक्तः पशुमान्राज्ञा धर्मज्ञो युक्तमब्रवीत्
॥६९॥पशुमानुवाच
पुरं निःशेषितं येन वधमेवायमर्हति ॥
न ह्यत्र विषये किंचित्प्रष्टव्यं विद्यते नृप
॥७०॥न ह्ययं मम पुत्रः स्याच्छत्रुरेवातिपापकृत् ॥
न ह्यस्य निष्कृतिं पश्ये येन निःशेषितं पुरम्
॥७१॥वध्यतामेव दुष्टात्मा सत्यमेव ब्रवीम्यहम् ॥
श्रुत्वा पशुमतो वाक्यं नागराः सर्व एव हि
॥७२॥वणिग्वरं श्लाघमाना राजानमिदमूचिरे
न वध्यतामयं दुष्टस्तूष्णीं निर्वास्यतां पुरात्
॥७३॥ततः स राजा दुष्पण्यं समाहूयेदमब्रवीत् ॥
अस्माद्देशाद्भवाञ्छीघ्रं दुष्टात्मन्गच्छ सांप्रतम्
॥७४॥यदि तिष्ठेस्त्वमत्रैव दण्डयेयं वधेन वै ॥
इति राज्ञा विनिर्भर्त्स्य दूतैर्निर्वासितः पुरात्
॥७५॥दुष्पण्यस्त्वथ तं देशं परित्यज्य भयान्वितः ॥
मुनिमंडलसंबाधं वनमेव ययौ तदा
॥७६॥तत्राप्येकं मुनिसुतं स तोयेषु न्यमज्जयत् ॥
केल्यर्थमागता दृष्ट्वा मुनिपुत्रा मृतं शिशुम्
॥७७॥तत्पित्रे कथयामासुरभ्येत्य भृशदुःखिताः ॥
तत उग्रश्रवाः श्रुत्वा तेभ्यः पुत्रं जले मृतम्
॥७८॥तपोमहिम्ना दुष्प ण्यचरितं तदमन्यत ॥
उग्रश्रवाः शशापैनं दुष्पण्यं वैश्यनंदनम्
॥७९॥उग्रश्रवा उवाच
मत्सुतं पयसि क्षिप्य यत्त्वं मारितवानसि ॥
तवापि मरणं भूयाज्जल एव निमज्जनात्
॥८०॥मृतश्च सुचिरं कालं पिशाचस्त्वं भविष्यसि ॥
इति शापे श्रुते सद्यो दुष्पण्यः खिन्नमानसः
॥८१॥तद्वै वनं परित्यज्य घोरमन्यद्वनं ययौ ॥
सिंहादिक्रूरसत्वाढ्यं तस्मिन्प्राप्ते वनांतरम्
॥८२॥पांसुवर्षं मह्द्वर्षन्वृक्षानामोटय न्मुहुः ॥
वज्रघातसमस्पर्शो ववौ झंझानिलो महान्
॥८३॥वेगेन गात्रं भिंदन्ती वृष्टिश्चासीत्सुदुःसहा ॥
तद्दृष्ट्वा स तु दुष्पण्यश्चिंतयन्भृशदुः खितः
॥८४॥मृतं शुष्कं महाकायं गजमेकमपश्यत ॥
महावातं महावर्षं तदा सोढुमशक्नुवन्
॥८५॥गजास्यविवरेणैव विवेशोदरगह्वरम् ॥
तस्मिन्प्रविष्टमात्रे तु वृष्टिरासीत्सुभूयसी
॥८६॥ततो वर्षजलैः सर्वैः प्रवाहः सुमहानभूत् ॥
स प्रवाहो वने तस्मिन्नदी काचिदजायत
॥८७॥अथ तैर्वर्षसलिलैः स गजः पूरितोदरः ॥
प्लवमानो महापूरे नीरंध्रः समजायत
॥८८॥ततो निर्विवरस्यास्य जलपूर्णोदरस्य च ॥
गजस्य जठरात्सोऽयं निर्गंतु न शशाक ह
॥८९॥ततश्च वृष्टितोयानां प्रवाहो भीमवेगवान् ॥
उदरस्थितदुष्पण्यं समुद्रं प्रापयद्गजम्
॥९०॥दुष्पण्यः सलिले मग्नः क्षणात्प्राणैर्व्ययुज्यत ॥
मृत एव स दुष्पण्यः पिशाचत्वमवाप्तवान्
॥९१॥पीडितः क्षुत्पिपासाभ्यां दुर्गमं वनमाश्रितः ॥
घोरेषु घर्मकालेषु समाक्रोशन्भयानकम्
॥९२॥अतिष्ठद्गहनेऽरण्ये दुःखान्यनुभवन्बहु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
॥९३॥स पिशाचो महादुःखी न्यवसद्घोरकानने ॥
वनाद्वनांतरं धावन्देशाद्देशाद्देशांतरं तथा
॥९४॥सर्वत्रानुभवन्दुःखमाययौ दण्डकान्क्रमात् ॥
अगस्त्यादाश्रमात्पुण्यान्नातिदूरे स संचरन्
॥९५॥नदन्भैरवनादं च वाक्यमुच्चैरभाषत ॥
भोभोस्तपोधनाः सर्वे शृणुध्वं मामकं वचः
॥९६॥भवन्तो हि कृपावन्तः सर्वभूतहिते रताः ॥
कृपादृष्ट्यानुगृह्णीत मां दुःखैरतिपीडितम्
॥९७॥पुरा दुष्पण्यनामाहं वैश्यः पाटलिपुत्रके ॥
पुत्रः पशु मतश्चापि बहून्बालानमारयम्
॥९८॥ततो विवासितो राज्ञा तस्माद्देशाद्वनं गतः ॥
अमारयं जले पुत्रं तत्रोग्रश्रवसो मुनेः
॥९९॥स मुनिर्दत्त वाञ्छापं ममापि मरणं जले ॥
पिशाचतां च मे घोरां दत्तवान्दुःखभूयसीम्
॥१००॥कल्पकोटिसहस्राणि कल्पकोटिशतान्यपि ॥
पिशाच तानुभूतेयं शून्यकाननभूमिषु
॥१०१॥नाहं सोढुं समर्थोऽस्मि पिपासां क्षुधमेव च ॥
रक्षध्वं कृपया यूयमतो मां बहुदुःखिनम्
॥१०२॥यथा मुच्येय पैशाच्यात्तथा कुरुत तापसाः ॥
इति श्रुत्वा पिशाचस्य वचनं ते तपोधनाः ॥
लोपामुद्रासहचरमूचिरे कुम्भसंभवम् ॥
तापसा ऊचुः ॥
पिशाचस्यास्य भगवन्ब्रूहि निष्कृतिमुत्तमाम्
॥४॥एवंविधानां पापानां त्वं समर्थो हि रक्षणे ॥
तेषामगस्त्यः श्रुतवान्कृपया परया युतः ॥
प्रियशिष्यं समाहूय सुतीक्ष्णं वाक्यमब्रवीत्
॥५॥अगस्त्य उवाच
सुतीक्ष्ण गच्छ त्वरितं पर्वतं गंधमादनम्
॥६॥तत्राग्नितीर्थं सुमहद्विद्यते पापनाशनम् ॥
पिशाचमोक्षणार्थाय तत्र स्नाहि महामते
॥७॥पिशाचार्थं त्वयि स्नाते तत्र संकल्पपूर्वकम् ॥
पिशाचभावमुन्मुच्य दिव्यतामेष यास्यति
॥८॥निष्कृतिं नास्य पश्यामि विना तत्तीर्थसेवनात ॥
अतः सुतीक्ष्णकृपया रक्षस्वैनं पिशाचकम्
॥९॥अगस्त्येनैवमुक्तस्तु सुतीक्ष्णो गन्धमादनम् ॥
प्राप्याग्नितीर्थे संकल्प्य पिशाचार्थं कृपानिधिः
॥११०॥सस्नौ तत्र पिशाचार्थं नियमेन दिनत्रयम् ॥
रामनाथादिकं सेव्य तत्तीर्थं प्रतिगृह्य च
॥११॥स्वाश्रमं प्रति गत्वाथ सुतीक्ष्णो विप्रसत्तमः ॥
तत्तीर्थ प्रोक्षणात्सद्यः सवियुज्य पिशाचताम्
॥१२॥वैभवात्तस्य तीर्थस्य सद्यो दिव्यत्वमाप्तवान् ॥
विमानवरमारूढो दिव्यस्त्रीपरिवारितः
॥१३॥सुतीक्ष्णं चाप्यगस्त्यं च तथान्यांश्च तपोधनान् ॥
पुनःपुनर्नमस्कृत्य तांश्चामंत्र्य प्रहर्षितः
॥१४॥स्वर्गमेवारुहत्तूर्णं देवैरपि स पूजितः ॥
अग्नितीर्थस्य माहात्म्याद्दुष्पण्यो वैश्यनंदनः
॥१५॥पैशाच्यं शापजं त्यक्त्वा दिव्यतामित्थमाप्तवान् ॥
एवं वः कथितं विप्रा अग्नितीर्थस्य वैभवम्
॥१६॥यः पठेदिममध्यायं शृणुयाद्वा सभक्तिकम् ॥
पिशाचमोक्षणाख्यानं मुच्यते सर्वपातकैः
॥१७॥इह भुक्त्वा महाभोगान्परत्रापि सुखं लभेत्
॥११९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्येऽग्नितीर्थप्रशंसायां दुष्पण्यपैशाच्यमोक्षणंनाम द्वाविंशोऽध्यायः ॥ २२ ॥