मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २९

3
ब्रह्मखण्डः · सेतुखण्डः · 29

स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे

श्रीसूत उवाच

स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे ॥

सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः

॥१॥

सर्वतीर्थं महापुण्यं महापातकनाशनम् ॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः

॥२॥

शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् ॥

तावत्सर्वाणि पापानि देहे तिष्ठंति सुव्रताः

॥३॥

न यावत्सर्वतीर्थेस्मिन्निमज्जेत्पापपूरुषः ।

१ स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यांतं द्विजा नरम्

॥४॥

वेपंते सर्वपापानि नाशोऽस्माकं भवेदिति ॥

गर्भवासादिदुःखानि तावद्याति नरो भुवि

॥५॥

न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुंगवाः ॥

अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः

॥६॥

गायत्र्यादिमहामंत्रजपैर्नियमपूर्वकम् ॥

चतुर्णामपि वेदानामावृत्त्या शतसंख्यया

॥७॥

शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् ॥

एकादश्यादितिथिषु तथैवानशनेन च ॥

यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात्

॥८॥

ऋषय ऊचुः

सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता ॥

ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने

॥९॥

श्रीसूत उवाच

पुरा सुचरितोनाम मुनिर्नियमसंयुतः

॥१०॥

भृगुवंशसमुद्भूतो जात्यंधो जरयातुरः ॥

अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः

॥११॥

सर्वेषामेव तीर्थानां स्नातुकामो महामु निः ॥

दक्षिणांबुनिधौ पुण्यं गंधमादनपर्वतम्

॥१२॥

गत्वा शंकरमुद्दिश्य तपस्तेपे सुदुष्करम् ॥

त्रिकालमर्चयञ्छंभुमुपवासी जितेंद्रियः

॥१३॥

तथा त्रिषवणस्नानात्तथैवातिथिपूजकः ॥

शिशिरे जलमध्यस्थो ग्रीष्मे पंचाग्निमध्यगः

॥१४॥

वर्षास्वासारसहन अब्भक्षो वायुभोजनः ॥

उद्धूलनं त्रिपुंड्रं च भस्मना धारयन्सदा

॥१५॥

जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः ॥

एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः

॥१६॥

तपसा तस्य संतुष्टः शंकरश्चंद्रशेखरः ॥

प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै

॥१७॥

समारुह्य महोक्षाणं भूतवृंदनिषेवितः ॥

गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः

॥१८॥

स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा ॥

भस्मपांडुरसर्वांगो जटामंडलमंडितः

॥१९॥

अनंता दिमहानागविभूषणविभूषितः ॥

प्रादुर्भूतस्ततः शंभुः प्रादात्तस्य विलोचने

॥२०॥

आत्मावलोकनार्थाय शंकरो गिरिजापतिः ॥

ततः सुचरितो विप्राः शंभुना दत्तदृग्द्वयः ॥

आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः

॥२१॥

सुचरित उवाच

जय देव महेशान जय शंकर धूर्जटे

॥२२॥

जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमांतक ॥

जयोमेश महादेव कामांतक जयामल

॥२३॥

जय संसारवैद्य त्वं भूतपाल शिवाव्य य ॥

त्रियंबक नमस्तुभ्यं भक्तरक्षणदीक्षित

॥२४॥

व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह ॥

नीलकण्ठ नमस्तुभ्यं जय संसारमोचक

॥२५॥

महेश्वर नमस्तुभ्यं परमानंदविग्रह ॥

गंगाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय

॥२६॥

नमस्तुभ्यं भगवते वासुदेवाय शंभवे ॥

शर्वायोग्राय गर्भाय कैलासपतये नमः

॥२७॥

रक्ष मां करुणासिंधो कृपादष्ट्यवलोकनात् ॥

मम वृत्तमनालोच्य त्राहि मां कृपया हर

॥२८॥

श्रीसूत उवाच

इति स्तुतो महादेवस्तमेनमिदमभ्यधात् ॥

मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः

॥२९॥

महादेव उवाच

मुने सुचरिताद्य त्वं वरं वरय कांक्षितम् ॥

वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे ॥

इतीरितो मुनिः प्राह महादेवं दयानिधिम्

॥३०॥

सुचरित उवाच

भगवंस्त्वं प्रसन्नो मे यदि स्याश्चंद्रशेखर

॥३१॥

तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकांक्षितम् ॥

जरापलितदेहोहं कुत्रचिद्गंतुमक्षमः

॥३२॥

सर्वतीर्थेषु च स्नातुमाकांक्षा मम विद्यते ॥

तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् ॥

फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम्

॥३३॥

महादेव उवाच

अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः

॥३४॥

रामस्य सेतुना पूते नगेऽस्मिन्गंधमादने ॥

इत्युक्त्वा स महादेवः पर्वते गन्धमादने

॥३५॥

तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः ॥

ततस्सुचरितं प्राह शंकरः करुणानिधिः

॥३६॥

मुने सुचरितेदं तु महापातकनाशनम् ॥

सांनिध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम्

॥३७॥

मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् ॥

मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम्

॥३८॥

अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये ॥

महापातकसंघानां दावानलसमद्युतौ

॥३९॥

काममोहभयक्रोधलोभरोगादिनाशने ॥

विना वेदांतविज्ञानं सद्योनिर्वाणकारणे

॥४०॥

जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे ॥

कुम्भीपाकादिसकलनरकाग्निविनाशने

॥४१॥

इतीरितः सुचरितः शम्भुना मदनारिणा ॥

सस्नौ विप्राः सर्वतीर्थे महादेवस्य संनिधौ

॥४२॥

स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः ॥

जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः

॥४३॥

दृष्ट्वा स्वदेहसौंदर्यं ततः सुचरितो मुनिः ॥

श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः

॥४४॥

महादेवः सुचरितं बभाषे तदनंतरम् ॥

अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज

॥४५॥

स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् ॥

देशांतरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम

॥४६॥

अस्य तीर्थस्य माहात्म्यान्मामंते प्राप्स्यसि ध्रुवम् ॥

अन्येऽपि येऽत्र स्नास्यंति तेऽपि मां प्राप्नुयुर्द्विज

॥४७॥

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥

तस्मिन्नंतर्हिते रुद्रे ततः सुचरितो मुनिः

॥४८॥

अनेककालं निवसन्सर्वतीर्थस्य तीरतः ॥

स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः

॥४९॥

देहांते शंकरं प्राप सर्वबन्धविमोचितः ॥

सायुज्यं चापि संप्राप सर्वतीर्थस्य वैभवात्

॥५०॥

एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् ॥

एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः

॥५१॥

Comments on Koti/Dhanushkoti

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सर्वतीर्थप्रशंसायां सर्वतीर्थस्वरूप कथनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥