ज्ञानावाप्तिवर्णनम्
श्रीसूत उवाच
विधायाभिषवं मर्त्याः शंखतीर्थे द्विजोत्तमाः ॥
यमुनां चैव गंगां च गयां चापि क्रमाद्व्रजेत्
॥१॥यमुनाख्यं महातीर्थं गंगातीर्थमनुत्तमम् ॥
गयातीर्थं च मर्त्यानां महापातकनाशनम्
॥२॥एतत्तीर्थत्रयं पुण्यं सर्वलोकेषु विश्रुतम् ॥
सर्वविघ्नप्रशमनं सर्वरोगनिबर्हणम्
॥३॥एतद्धि तीर्थत्रितयं सकलाज्ञाननाशनम् ॥
अविद्यायां विनष्टायां तथा ज्ञानप्रदं नृणाम्
॥४॥जानश्रुतिर्महाराज एषु तीर्थेषु वै पुरा ॥
स्नात्वा रैक्वाद्द्विजश्रेष्ठात्प्राप्तवाञ्ज्ञानमुत्तमम्
॥५॥ऋषय ऊचुः
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य महामते ॥
यमुना चैव गंगा च गया चैवेति विश्रुतम्
॥६॥एतत्तीर्थत्रयं कस्मादागतं गंधमादने ॥
जानश्रुतेश्च राजर्षेः स्नानात्तीर्थत्रयेऽपि च ॥
ज्ञानावाप्तिः कथं रैक्वादस्माकं सूत तद्वद
॥७॥श्रीसूत उवाच
रैक्वनामा महर्षिस्तु पुरा वै गन्धमादने
॥८॥तपस्सुदुश्चरं कुर्वन्न्यवसत्तपसां निधिः ॥
दीर्घकालं तपः कुर्वन्स वै रैक्वो महामुनिः
॥९॥तपोबलेन महता दीर्घमायुरवाप्तवान् ॥
जन्मना पंगुरेवासीद्रैक्वनामा महामुनिः
॥१०॥पंगुत्वादसमर्थोऽभूद्गंतुं तीर्थान्यसौ मुनिः ॥
संति यानि तु तीर्थानि गन्धमादनपर्वते
॥११॥तानि गच्छति सामीप्याच्छकटेनैव संचरन् ॥
स यद्रैक्वो मुनिवरो युग्वेन सह वर्तते
॥१२॥तपस्वी वैदिकैर्लोके सयुग्वैत्यभिधीयते ॥
युग्वेति शकटं प्रोक्तं स तेन सह वर्तते
॥१३॥स खल्वेवं मुनिश्रेष्ठः सयुग्वानाम वै मुनिः ॥
पूर्णज्ञानस्तपस्तेपे गन्धमादनपर्वते
॥१४॥ग्रीष्मे पञ्चाग्निमध्यस्थः सोऽतप्यत महत्तपः ॥
वर्षायां कण्ठदघ्नेषु जलेषु समवर्तत
॥१५॥तपसा शोषिते गात्रे पामा तस्य व्यजायत ॥
कण्डूयत स पामानं दिवारात्रं मुनीश्वरः
॥१६॥कण्डूयमान एवायं पामानं न तपोऽत्यजत् ॥
अजायत मनस्त्वेवं तस्य सयुग्वनो मुनेः
॥१७॥यमुनायां च गंगायां गयायां चाधुनैव हि ॥
अस्मिंस्तीर्थे त्रये पुण्ये स्नातव्यं हि मया त्विति
॥१८॥एवं विचिंत्य स मुनिरन्यां चिंतामथाकरोत् ॥
अहं हि जन्मना पंगुरतः स्नानं हि दुर्लभम्
॥१९॥अतिदूरं मया गन्तुं शकटेन न शक्यते ॥
किं करोम्यधुनेत्येवं स वितर्क्य महामतिः
॥२०॥तीर्थत्रयेषु स्नानार्थं कर्तव्यं निश्चिकाय वै ॥
अप्रसह्यमनाधृष्यं विद्यते मे तपोबलम्
॥२१॥तेनैवावाहयिष्यामि तद्धि तीर्थत्रयं त्विह ॥
इति निश्चित्य मनसा प्राङ्मुखो नियतेंद्रियः
॥२२॥त्रिराचम्य च सयुग्वान्दध्यौ क्षणमतंद्रितः ॥
तस्य मंत्रप्रभावेन यमुना सा महानदी
॥२३॥गंगा च जह्नुतनया गया सा पापनाशिनी ॥
भूमिं निर्भिद्य तिस्रोपि पातालात्सहसोत्थिताः
॥२४॥मानुषं रूपमास्थाय सयुग्वानमुपेत्य च ॥
ऊचुः परमसंहृष्टा हर्षयंत्यश्च तं मुनिम्
॥२५॥सयुग्वन्रैक्व भद्रं ते ध्यानादस्मादुपारम ॥
त्वन्मंत्रेण समाकृष्टा वयमत्र समागताः
॥२६॥कि कर्तव्यं तवास्माभिस्तद्वदस्व मुनीश्वर ॥
इति तासां वचः श्रुत्वा सयुग्वान्हि महामुनिः
॥२७॥ध्यानादुपारमत्तूर्णं ताश्चापश्यत्पुरः स्थिताः ॥
स ताः संपूज्य विधिवद्रैक्वो वाचमभाषत
॥२८॥यमुने देवि हे गंगे हे गये पापनाशिनि ॥
सन्निधानं कुरुध्वं मे गन्धमादनपर्वते
॥२९॥यत्र भूमिं विनिर्भिद्य भवत्य इह निर्गताः ॥
तानि पुण्यानि तीर्थानि भवेयुर्वोऽभिधानतः
॥३०॥सहसांतरधीयंत तथास्त्वित्येव तत्र ताः ॥
तदाप्रभृति तीर्थानि तानि त्रीण्यपि भूतले
॥३१॥तेनतेनाभिधानेन गीयन्ते सर्वदा जनैः ॥
यत्र भूमिं विनिर्भिद्य यमुना निर्गता तदा
॥३२॥यमुनातीर्थमिति वै तज्जनैरभिधीयते ॥
यतो वै पृथिवीरंध्राज्जाह्नवी सहसोत्थिता
॥३३॥गंगातीर्थमिति ख्यातं तल्लोके पापनाशनम् ॥
गया हि मानुषं रूपं यत आस्थाय निर्ययौ
॥३४॥तदेव भूमिविवरं गयातीर्थं प्रचक्षते ॥
एवमेतन्महापुण्यं तीर्थत्रयमनुत्तमम्
॥३५॥रैक्वमंत्रप्रभावेण पृथिव्याः सहसोत्थितम् ॥
अत्र तीर्थत्रये स्नानं ये कुर्वंति नरोत्तमाः
॥३६॥तेषामज्ञाननाशः स्याज्ज्ञानमप्युदयं लभेत् ॥
स्वमंत्रेण समाकृष्टे तत्र तीर्थत्रये मुनिः
॥३७॥स्नानं समाचरन्नित्यं स कालानत्यवाहयत् ॥
एतस्मिन्नेव काले तु राजा जानश्रुतिर्महान्
॥३८॥पुत्रसंज्ञस्य राजर्षेः पौत्रो धर्मैकतत्परः ॥
देयमन्नादि स तदा ह्यर्थिभ्यः श्रद्धयैव यत्
॥३९॥तस्मादेनं नजालोके श्रद्धादेयं प्रचक्षते ॥
यतो बहुतरं वाक्यमन्नाद्यस्य महीपतेः
॥४०॥अर्थिनां क्षुधितानां तु तृप्त्यर्थं वर्तते गृहे ॥
अतोयमर्थिभिः सर्वैर्बहुवाक्य इतीर्यते
॥४१॥स वै पौत्रायणो राजा जानश्रुतसुतो बली ॥
प्रियातिथिर्बभूवासौ बहुदायी तथाऽभवत्
॥४२॥नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ॥
चतुष्पथेषु सर्वेषु महामार्गेषु सर्वशः
॥४३॥बह्वन्नपान संयुक्तं सूपशाकादिसंयुतम् ॥
आतिथ्यं कल्पयामास तृप्तयेऽर्थिजनस्य वै
॥४४॥अन्नपानादिकं सर्वमुपयुड्ध्वमिहार्थिनः ॥
इत्यसौ घोषयामास तत्र तत्र जनास्पदे
॥४५॥तस्य प्रियातिथेरेव नृपस्य बहुदायिनः ॥
अर्थिभ्यो दानशौंडस्य गुणाः सर्वत्र विश्रुताः
॥४६॥अथ पौत्रायणस्यास्य गुण ग्रामेण वर्ततः ॥
देवर्षयो महाभागास्तस्यानुग्रहकांक्षिणः
॥४७॥हंसरूपं समास्थाय निदाघसमये निशि ॥
रमणीयां विधायाशु श्रेणीमाकाशमागतः
॥४९॥सौधवातायनस्थस्य तस्योपरि महीपतेः ॥
उड्डीयोड्डीय वेगेन तरसा जग्मुरुच्चकैः
॥४९॥तरसा पततां तेषां हंसानां पृष्ठतो व्रजन् ॥
एको हंसस्तु संबोध्य हंसमग्रेसरं तदा
॥५०॥सोपहासमिदं वाक्यं प्राह शृण्वति राजनि ॥
भोभो भल्लाक्ष भल्लाक्ष पुरो गच्छन्मरालक
॥५१॥सौधमध्ये पुरस्ताद्वै जानश्रुतसुतो नृपः ॥
वर्तते पूजनीयोऽयं न पश्यसि किमंधवत्
॥५२॥यस्य तेजो दुराधर्षमाब्रह्म भवनादिदम् ॥
अनंतादित्यसंकाशं ज्वलते पुरतो भृशम्
॥५३॥तमतिक्रम्य राजर्षिं मा गास्त्वमुपरि द्रुतम् ॥
यदि गच्छसि तत्तेजस्सांप्रतं त्वां प्रधक्ष्यति
॥५४॥इत्युक्तवंतं तं हंसमग्रतः प्रत्यभाषत ॥
अहो भवानभिज्ञोऽसि श्लाघनीयोऽसि सूरिभिः
॥५५॥अश्लाघनीयं कितवं यत्त्वमेनं प्रशंससे ॥
प्रशंससे किमर्थं त्वमल्पं संतमिमं जनम्
॥५६॥भस्रावत्पशुवच्चैव केवलं श्वासधारिणम् ॥
न ह्ययं वेत्ति धर्माणां रहस्यं पृथिवी पतिः
॥५७॥तत्त्वज्ञानी यथा रैक्वः सयुग्वान्ब्राह्मणोत्तमः ॥
रैक्वस्य हि महज्ज्योतीरहस्यं दैवतैरपि
॥५८॥न ह्यस्य प्राणमात्रस्य तेजस्तादृशमस्ति वै ॥
रैक्वस्य पुण्यराशीनामियत्ता नैव विद्यते
॥५९॥गण्यते पांसवो भूमेर्गण्यंते दिवि तारकाः ॥
रैक्वपुण्यमहामेरुसमूहो नैव गण्यते
॥६०॥किं च तिष्ठंत्विमे धर्मा नश्वरास्तस्य वै मुनेः ॥
ब्रह्मज्ञानमबाध्यं यत्तेन स श्लाघ्यते मुनिः
॥६१॥जानश्रुतेस्तु तादृक्षो धर्म एव न विद्यते ॥
दुर्लभं यत्तु योगीन्द्रैः कुतस्तज्ज्ञानवैभवम्
॥६२॥परित्यज्य दुरात्मानं तद्वराकमिमं जनम् ॥
स एव रैक्वः सयुग्वाञ्छ्लाघ्यतां भवता मुनिः
॥६३॥जन्मना पंगुरपि यः स्वस्य स्नानचिकीर्षया ॥
गंगां च यमुनां चापि गयामपि मुनीश्वरः
॥६४॥आह्वयामास मन्त्रेण निजाश्रमसमीपतः ॥
तस्य ब्रह्मविदो रैक्वमहर्षेर्धर्मसंचये
॥६५॥अंतर्भवंति धर्मौघास्त्रैलोक्योदरवर्तिनाम् ॥
रैक्वस्य धर्मकक्षा तु न हि त्रैलोक्यवर्तिनाम्
॥६६॥प्राणिनां धर्मकक्षायामन्तर्भवति कर्हिचित ॥
एवमग्रेसरे हंसे कथित्वोपरते सति
॥६७॥हंसरूपा मुनींद्रास्ते ब्रह्मलोकं ययुः पुनः ॥
अथ पौत्रायणो राजा जानश्रुतिररिंदमः
॥६८॥रैक्वं चोत्कर्षकाष्ठायां निशम्य परमावधिम् ॥
विषण्णोऽभवदत्यर्थं वराकोऽक्षजितो यथा
॥६९॥चिंतयामास स नृपः पौनःपुन्येन निःश्वसन् ॥
हंस उत्कर्षयन्रैक्वं निकृष्टं मामिहाब्रवीत्
॥७०॥अहो रैक्वस्य माहात्म्यं यं प्रशंसंति पक्षिणः ॥
तत्परित्यज्य संसारं सर्वं राज्यमिहाधुना
॥७१॥सयुग्वानं महात्मानं तमेव शरणं व्रजे ॥
कृपानिधिः स वै रैक्वः शरणं मामुपागतम्
॥७२॥प्रतिगृह्यात्मविज्ञानं मह्यं समुपदेक्ष्यति ॥
इत्यसौ चिंतयन्नेव कथंकथमपि द्विजाः
॥७३॥जाग्रन्नेवायमुद्वेलां रात्रिं तामत्यवाहयत् ॥
निशावसाने संप्राप्ते बंदिवृन्दप्रवर्तितम्
॥७४॥अशृणोन्मंगलरवं तूर्यघोषसमन्वितम् ॥
तदाकर्ण्य महाराजस्तदा तल्पस्थ एव सन्
॥७५॥सारथिं शीघ्रमाहूय बभाषे सादरं वचः ॥
सारथे सत्वरं गत्वा रथमारुह्य वेगवत्
॥७६॥आश्रमेषु महर्षीणां पुण्येषु विपिनेषु च ॥
विविक्तेषु प्रदेशेषु सतामावासभूमिषु
॥७७॥तीर्थानां च नदीनां च कूलेषु पुलिनेषु च ॥
अन्येषु च प्रदेशेषु यत्र संति मुनीश्वराः
॥७८॥तेषु सर्वेषु योगींद्रं पंगुं शकटसंस्थितम् ॥
रैक्वाभिधानं सर्वेषां धर्माणामेकसंश्रयम्
॥७९॥ब्रह्मज्ञानैकनिलयं सयुग्वानं गवेषय ॥
अन्विष्य तूर्णं मत्प्रीत्यै पुनरागच्छ सारथे
॥८०॥स तथेति विनिर्गत्य वेगवद्रथसंस्थितः ॥
सर्वत्रान्वेषयामास रैक्वं ब्रह्मविदं मुनिम्
॥८१॥गुहासु पर्वतानां च मुनीनामाश्रमेषु च ॥
संचचार महीं कृत्स्नां तत्र तत्र गवेषयन्
॥८२॥अन्विष्य विविधान्देशान्सारथिस्त्वरया सह ॥
क्रमान्महर्षिसंबाधं गंधमादनमन्वगात्
॥८३॥मार्गमाणः स तत्रापि तं ददर्श मुनीश्वरम् ॥
कंडूयमानं पामानं शकटीयस्थलस्थितम्
॥८४॥अद्वैतनिष्कलं ब्रह्म चिंतयंतं निरन्तरम् ॥
तं दृष्ट्वा सारथिस्तत्र सयुग्वानं महामुनिम्
॥८५॥रैक्वोऽयमिति संचिंत्य तमासाद्य प्रणम्य च ॥
विनयान्मुनिमप्राक्षीदुपविश्य तदन्तिके
॥८६॥सयुग्वान्रैक्वनामा च ब्रह्मन्किं वै भवानिति ॥
तस्य वाक्यं समाकर्ण्य स मुनिः प्रत्यभाषत
॥८७॥अहमेव सयुग्वान्वै रैक्वनामेति वै तदा ॥
इत्याकर्ण्य मुने र्वाक्यमिंगितैर्बहुभिस्तथा
॥८८॥कुटुम्बभरणार्थाय धनेच्छामवगम्य च ॥
सर्वं न्यवेदयद्राज्ञे निवृत्तो गंधमादनात्
॥८९॥जानश्रुतिर्निशम्याथ सारथेर्वाक्यमादरात् ॥
षट्शतानि गवां चापि निष्कभारं धनस्य च
॥९०॥रथं चाश्वतरीयुक्तं समादाय त्वरान्वितः ॥
पौत्रायणः स राजर्षिस्तं रैक्वं प्रतिचक्रमे
॥९१॥गत्वा च वचनं प्राह तं रैक्वं स महीपतिः ॥
भगवन्रैक्व सयुग्वन्मद्दत्तं प्रतिगृह्यताम्
॥९२॥षट्शतानि गवां चापि निष्कभारं धनस्य च ॥
रथं चाश्वतरीयुक्तं प्रतिगृह्णीष्व मामकम्
॥९३॥गृहीत्वा सवमेतत्तु भो ब्रह्मन्ननुशाधि माम् ॥
अद्वैतब्रह्मविज्ञानं मह्यं समुपदिश्यताम्
॥९४॥इति तस्य वचः श्रुत्वा सस्पृहं च ससंभ्रम् ॥
रैक्वः प्रत्याह सयुग्वाञ्जानश्रुतिमरिंदमम्
॥९५॥रैक्व उवाच
एता गावस्तवैवास्तु निष्कभारस्तथा रथः ॥
किमल्पेन ममानेन बहुकल्पेषु जीवतः
॥९६॥न मे कुटुंब निर्वाहे पर्याप्तमिदमंजसा ॥
एवं शतगुणं चापि यदि दत्तं त्वया मम
॥९७॥नालं तदपि राजेंद्र कुटुंबभरणाय वै ॥
इति रैक्ववचः श्रुत्वा जानश्रुतिरभाषत
॥९८॥जानश्रुतिरुवाच
त्वयोपदिश्यमानस्य ब्रह्मज्ञानस्य वै मुने ॥
न हि मूल्यमिदं ब्रह्मन्गोधनं रथ एव च
॥९९॥प्रतिगृह्णीष्व वा मा वा ममैतत्तु गवादिकम् ॥
निष्कलाद्वैतविज्ञानं ब्रह्मन्नुपदिशस्व मे ॥
तदाकर्ण्य वचस्तस्य सयुग्वान्वाक्यमब्रवीत्
॥१००॥रैक्व उवाच
निर्वेदो यस्य संसारे तथा वै पुण्यपापयोः
॥१०१॥प्रारब्धयोर्विनाशश्च स वै ज्ञानोपदेशभाक् ॥
तव यद्यपि संसारे निर्वेदः समजायत
॥२॥तथापि पुण्यपापानां न हि नाशो व्याजयत ॥
पुण्यपापौघसंघाश्च पुनर्जन्मनि हेतवः
॥३॥न हि भोगं विना तेषां नाशो भवति भूपते ॥
तन्नाशोपायमद्याहं तथापि प्रब्रवीमि ते
॥४॥यतो मां शरणं प्राप्तस्तच्छृणुष्व समाहितः ॥
अत्र तीर्थत्रयं पुण्यं वर्ततेऽभीष्टदायकम्
॥५॥मुमुक्षूणां हि सर्वेषां सर्वप्रारब्धनाशनम् ॥
एतद्धि यमुनातीर्थं गंगातीर्थं तथैव च
॥६॥गयातीर्थमिदं चापि तदेषु स्नाहि मा चिरम् ॥
सर्वप्रारब्धनाशः स्यात्तदा नैवात्र संशयः
॥७॥ततस्ते शुद्धचित्तस्य ज्ञानं चैव दिशाम्यहम् ॥
इत्युक्ते रैक्वमुनिना हर्षसंफुल्ललोचनः
॥८॥ससंभ्रममुपागम्य सस्नौ तीर्थत्रयेऽपि सः ॥
तत्तीर्थस्नानमात्रेण शुद्धचित्तोऽभवन्नृपः
॥९॥उपातिष्ठत राजासौ सयुग्वानं गुरुं पुनः ॥
सयुग्वा स च रैक्वोऽपि मुनींद्रैरपि दुर्लभम्
॥११०॥तज्जानश्रुतये ज्ञानं कृपया समुपादिशत् ॥
तेनोपदिष्टमात्रे तु विज्ञाने ब्रह्मरूपिणि
॥११॥अबाधितानुभववानभवद्राजसत्तमः ॥
ब्रह्मरूपं गतस्यास्य प्रसादाद्रैक्वयोगिनः
॥१२॥घटकुड्यकुसूलात्मा न प्रपंचस्समस्फुरत् ॥
निर्भिद्य सहसा मायामभूद्ब्रह्मैव केवलम्
॥१३॥इत्थं तीर्थत्रये स्नानाज्जानश्रुतिरहो नृपः ॥
दुर्लभं योगिवृंदैश्च ब्रह्मभूयत्वमाप्तवान्
॥१४॥एवं वः कथितं विप्रास्तत्तीर्थत्रयवैभवम् ॥
यस्त्विमं पठतेऽध्यायं तीर्थत्रितयवैभवम्
॥१५॥निर्भिद्याज्ञानतिमिरं ब्रह्मभूयाय कल्पते
॥११६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यमुनागंगागयातीर्थप्रशंसायां जानश्रुति ज्ञानावाप्तिवर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥