मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १४

3
ब्रह्मखण्डः · सेतुखण्डः · 14

ब्रह्मशापविमोक्षणवर्णनम्

श्रीसूत उवाच

स्नात्वा त्वमृत वाप्यां वै सेवित्वैकांतराघवम् ॥

जितेंद्रियो नरः स्नातुं ब्रह्मकुंडं ततो व्रजेत्

॥१॥

सेतुमध्ये महातीर्थं गंधमादनपर्वते ॥

ब्रह्मकुंडमिति ख्यातं सर्व दारिद्र्यभेषजम्

॥२॥

विद्यते ब्रह्महत्यानामयुतायुतनाशनम् ॥

दर्शनं ब्रह्मकुंडस्य सर्वपापौघनाशनम्

॥३॥

किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ॥

महादानैश्च किं तस्य ब्रह्मकुंडविलोकिनः

॥४॥

ब्रह्मकुंडे सकृत्स्नानं वैकुंठप्राप्तिकारणम् ॥

ब्रह्मकुंडसमुद्भूतं भस्म येन धृतं द्विजाः

॥५॥

तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥

ब्रह्मकुंडसमुद्भूतभस्मना यस्त्रिपुंड्रकम्

॥६॥

करोति तस्य कैवल्यं करस्थं नात्र संशयः ॥

तद्भस्मपरमाणुर्वा यो ललाटे धृतो भवेत्

॥७॥

तावदेवास्य मुक्तिः स्यान्नात्र कार्या विचारणा ॥

तत्कुंडभस्मना मर्त्यः कुर्यादुद्धूलनं तु यः

॥८॥

तस्य पुण्यफलं वक्तुं शंकरो वेत्ति वा न वा ॥

ब्रह्मकुंडसमुद्भूतं भस्म यो नैव धारयेत्

॥९॥

रौरवे नरके सोऽयं पतेदाचंद्रतारकम् ॥

उद्धूलनं त्रिपुंड्रं वा ब्रह्मकुंडस्थभस्मना

॥१०॥

नराधमो न कुर्याद्यः सुखं नास्य कदाचन ॥

ब्रह्मकुंडसमुद्भूतभस्मनिंदारतस्तु यः

॥११॥

उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ॥

ब्रह्मकुंडसमुद्भूतं भस्मैतल्लोकपावनम्

॥१२॥

अन्यभस्मसमं यस्तु न्यूनं वा वक्ति मानवः ॥

उत्पत्तौ तस्य सांकर्य मनुमेयं विपश्चिता

॥१३॥

ब्रह्मकुंडसमुद्भूतेऽप्यस्मिन्भस्मनि जाग्रति ॥

भस्मांतरेण मनुजो धारयेद्यस्त्रिपुंड्रकम्

॥१४॥

उत्पत्तौ तस्य सांक र्यमनुमेयं विपश्चिता ॥

कदाचिदपि यो मर्त्यो भस्मैतत्तु न धारयेत्

॥१५॥

उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ॥

ब्रह्मकुंडसमुद्भूतं भस्म दद्याद्द्विजाय यः

॥१६॥

चतुरर्णवपर्यंता तेन दत्ता वसुन्धरा ॥

संदेहो नात्र कर्तव्यस्त्रिर्वा शपथयाम्यहम्

॥१७॥

सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥

ब्रह्मकुंडोद्भवं भस्म धारयध्वं द्विजोत्तमाः

॥१८॥

एतद्धि पावनं भस्म ब्रह्मयज्ञसमुद्भवम् ॥

पुरा हि भगवान्ब्रह्मा सर्वलोकपितामहः

॥१९॥

सन्निधौ सर्वदेवानां पर्वते गंधमादने ॥

ईशशापनिवृत्त्यर्थं क्रतून्सर्वान्समातनोत्

॥२०॥

विधाय विधिवत्सर्वानध्वरान्बहुदक्षिणान् ॥

मुमुचे सहसा ब्रह्मा शंभुशापाद्द्विजोत्तमाः

॥२१॥

तदेतत्तीर्थमासाद्य स्नानं कुर्वंति ये नराः ॥

ते महादेवसायुज्यं प्राप्नुवंति न संशयः

॥२२॥

ऋषय ऊचुः

व्यासशिष्य महाप्राज्ञ पुराणार्थविशारद ॥

चतुर्दशानां लोकानां स्रष्टारं चतुराननम्

॥२३॥

शंभुः केनापराधेन शप्तवान्भारतीपतिम् ॥

शापश्च कीदृशस्तस्य पुरा दत्तो हरेण वै ॥

एतत्सर्वं मुने ब्रूहि तत्त्वतोऽस्माकमादरात्

॥२४॥

श्रीसूत उवाच

पुरा बभूव कलहो ब्रह्मविष्ण्वोः परस्परम्

॥२५॥

कंचिद्धेतुं समुद्दिश्य स्पर्धया श्लाघमानयोः ॥

अहं कर्त्ता न मत्तोऽन्यः कर्त्तास्ति जगतीतले

॥२६॥

एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ॥

एवं विवादः सुमहान्प्रावर्त्तत पुरा तयोः

॥२७॥

एतस्मिन्नंतरे विप्राः कुर्वतोः कलहं मिथः ॥

तयोर्गर्वविनाशाय प्रबोधार्थं च देवयोः

॥२८॥

मध्ये प्रादुरभूल्लिंगं स्वयंज्योतिरनामयम् ॥

तौ दृष्ट्वा विस्मितौ लिंगं ब्रह्मविष्णु परस्परम्

॥२९॥

समयं चक्रतुर्विप्रा देवानां सन्निधौ पुरा ॥

अनाद्यंतं महालिंगं यदेतद्दृश्यते पुरः

॥३०॥

अनंतादित्यसंका शमनंताग्निसमप्रभम् ॥

आवयोरस्य लिंगस्य योंऽतमादिं च द्रक्ष्यति

॥३१॥

स भवेदधिको लोके लोककर्ता च स प्रभुः ॥

अहमूर्ध्वं गमिष्यामि लिंगस्यातं गवेषयन्

॥३२॥

गवेषणाय मूलस्य त्वमधस्ताद्धरे व्रज ॥

इति तस्य वचः श्रुत्वा तथे त्याह रमापतिः

॥३३॥

एवं तौ समयं कृत्वा मार्गणाय विनिर्गतौ ॥

विष्णुर्वराहरूपेण गतोऽधस्ताद्गवेषितुम्

॥३४॥

हंसतां भारतीजानिः स्वीकृत्योपरि निर्ययौ ॥

अधो लोकान्विचित्याथो विष्णुर्वर्षगणान्बहून् ॥

यथास्थानं समागत्य वभाषे देवसन्निधौ

॥३५॥

विष्णुरुवाच

अहं लिंगस्य नाद्राक्षमादिमस्येति सत्यवाक्

॥३६॥

ऊर्ध्वं गवेषयित्वाथ ब्रह्माप्यागच्छदत्र सः ॥

आगत्य च वचः प्राह छद्मना चतुराननः

॥३७॥

ब्रह्मोवाच

अहमद्राक्षमस्यांतं लिंगस्येति मृषा पुनः ॥

तयोस्तद्वचनं श्रुत्वा व्रह्मविष्ण्वोर्महेश्वरः ॥

मिथ्यावादिनमाहेदं प्रहस्य चतुराननम्

॥३८॥

ईश्वर उवाच

असत्यं यदवोचस्त्वं चतुरानन मत्पुरः

॥३९॥

तस्मात्पूजा न ते भूयाल्लोके सर्वत्र सर्वदा ॥

अथ विष्णुं पुनः प्राह भगवान्परमेश्वरः

॥४०॥

यस्मात्सत्यमवोचस्त्वं कमलायाः पते हरे ॥

तस्मात्ते मत्समा पूजा भविष्यति न संशयः

॥४१॥

ततो ब्रह्मा विषण्णः सञ्छंकरं प्रत्यभाषत ॥

स्वामिन्ममापराधं त्वं क्षमस्व करुणानिधे

॥४२॥

एकोपराधः क्षंतव्यः स्वामि भिर्जगदीश्वरैः ॥

ततो महेश्वरोऽवादीद्ब्रह्माणं परिसांत्वयन्

॥४३॥

ईश्वर उवाच

न मिथ्यावचनं मे स्याद्ब्रह्मन्वक्ष्यामि ते शृणु ॥

गच्छ त्वं सहसा वत्स गन्धमादनपर्वतम्

॥४४॥

तत्र क्रतून्कुरुष्व त्वं मिथ्यादोषप्रशांतये ॥

ततो विधूतपापस्त्वं भविष्यसि न संशयः

॥४५॥

तेन श्रौतेषु ते ब्रह्मन्स्मार्तेष्वपि च कर्मसु ॥

पूजा भविष्यति सदा न पूजा प्रतिमासु ते

॥४६॥

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥

ततो ब्रह्मा ययौ विप्रा गंधमादनपर्वतम्

॥४७॥

ईजे च क्रतुकर्तारं क्रतुभिः पार्वतीपतिम् ॥

अष्टाशीतिसहस्राणि वर्षाणि मुनिपुंगवाः

॥४८॥

पौंडरीकादिभिः सर्वैरध्वरैर्भूरिदक्षिणैः ॥

इन्द्रादिसर्वदेवानां सन्निधावयजच्छिवम् ॥

तेन तुष्टोभवच्छंभुर्वरमस्मै प्रदत्तवान्

॥४९॥

ईश्वर उवाच

मिथ्योक्तिदोषस्ते नष्टः कृतैरेतैर्मखैरिह

॥५०॥

चतुरानन ते पूजा श्रौतस्मार्तेषु कर्मसु ॥

भविष्यत्यमला ब्रह्मन्न पूजा प्रतिमासु ते

॥५१॥

यागस्थलमिदं तेऽद्य ब्रह्मकुण्डमिति प्रथाम् ॥

गमिष्यति त्रिलोकेस्मिन्पुण्यं पापविनाशनम्

॥५२॥

ब्रह्मकुण्डाभिधे तीर्थे सकृद्यः स्नानमा चरेत् ॥

मुक्तिद्वारार्गलं तस्य भिद्यते तत्क्षणाद्विधे

॥५३॥

ब्रह्मकुण्डसमुद्भूतं ललाटे भस्म धारयन् ॥

मायाकपाटं निर्भिद्य मुक्तिद्वारं प्रया स्यति

॥५४॥

ब्रह्मकुण्डोत्थितं भस्म ललाटे यो न धारयेत् ॥

स्वपितुर्बीजसंभूतो न मातरि सुतस्तु सः

॥५५॥

ब्रह्मकुण्डसमुद्भूतभस्मधारणतो विधे ॥

ब्रह्महत्यायुतं नश्येत्सुरापानायुतं तथा

॥५६॥

गुरुतल्पायुतं नश्येत्स्वर्णस्तेयायुतं तथा ॥

तत्संसर्गायुतं नश्येत्सत्यमुक्तं मया विधे

॥५७॥

ब्रह्मकुण्डसमुद्भूतभस्मधारणवैभवात् ॥

भूतप्रेतपिशाचाद्या नश्यंति क्षणमात्रतः

॥५८॥

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥

यज्ञेष्वथ समाप्तेषु मुनयश्च जितेंद्रियाः

॥५९॥

इन्द्रादिदेवताश्चैव सिद्धचारणकिन्नराः ॥

अन्ये च देवनिवहा गंधमादनपर्वते

॥६०॥

तां यज्ञभूमिमाश्रित्य स्वयं रुद्रेण सेविताम् ॥

निरंतरमवर्तंत विदित्वा तस्य वैभवम्

॥६१॥

यथाविधि ततो यज्ञान्समाप्य बहुदक्षिणान् ॥

सत्यलोकमगाद्ब्रह्मा शिवाल्लब्धमनोरथः

॥६२॥

28a तदाप्रभृति देवाश्च मुनयश्च द्विजोत्तमाः ॥

ब्रह्मकुण्डं समासाद्य चक्रुर्यागान्विधानतः

॥६३॥

तस्मादियक्षवो मर्त्याः कुर्युर्यज्ञानिहैव हि

॥६४॥

मनुजदेवमुनीश्वरवंदितं सकलसंसृतिनाशकरं द्विजाः ॥

जलजसंभवकुण्डमिदं शुभं सकल पापहरं सकलार्थदम्

॥६५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये ब्रह्मकुण्डप्रशंसायां ब्रह्मशापविमोक्षणवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥