चक्रतीर्थप्रशंसायामलंबुसाविधूमशापविमोचनम्
श्रीसूत उवाच
प्रस्तुत्य चक्रतीर्थं तु पुण्यं पापविनाशनम् ॥
पुनरप्यद्भुतं किञ्चित्प्रब्रवीमि मुनीश्वराः
॥१॥विधूमनामा हि वसुर्देवस्त्री चाप्यलंबुषा ॥
ब्रह्मशापान्महाघोरात्पुरा प्राप्तौ मनुष्यताम्
॥२॥चक्रतीर्थे महापुण्ये स्नात्वा शापाद्विमोचितौ ॥
ऋषय ऊचुः ॥
सूतसूत महाप्राज्ञ पुराणार्थविशारद
॥३॥प्राज्ञत्वाद्व्यासशिष्य त्वादज्ञातं ते न किंचन ॥
ब्रह्मा केनापराधेन सहालंबुसया वसुम्
॥४॥पुरा विधूमनामानं शप्तवांश्चतुराननः ॥
ब्रह्मशापेन घोरेण कयोस्तौ पुत्रतां गतौ
॥५॥शापस्यान्तः कथमभूद्ब्रह्मणा शप्तयोस्तयोः ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि
॥६॥श्रीसूत उवाच
पुरा हि भगवान्ब्रह्मा स्वयम्भूश्चतुराननः ॥
सावित्र्या च सरस्वत्या पार्श्वयोः प्रविराजितः
॥७॥सनातनेन मुनिना सनकेन च धीमता ॥
सनत्कुमारनाम्ना च नारदेन महात्मना
॥८॥सनन्दनादिभिश्चान्यैः सेव्यमानो मुनीश्वरैः ॥
सुपर्ववृन्दजुष्टेन स्तूयमानो बिडौजसा
॥९॥आदित्यादि ग्रहैश्चैव स्तूयमानपदांबुजः ॥
सिद्धैः साध्यैर्मरुद्भिश्च किंनरैश्च समावृतः
॥१०॥गणैः किंपुरुषाणां च वसुभिश्चाष्टभिर्वृतः ॥
उर्वशीप्रमुखानां च स्वर्वेश्यानां मनोरमम्
॥११॥नृत्यं वादित्रसहितं वीक्ष्यमाणो मुहुर्मुहुः ॥
गोष्ठीं चक्रे सभामध्ये सत्यलोके कदाचन
॥१२॥मेघगर्जितगम्भीरो जनानां नंदयन्मुहुः ॥
वीणावेणुमृदंगानां ध्वनिस्तत्र व्यसर्पत
॥१३॥गंगातरंगमालानां शीकरस्पर्शशीतलः ॥
पवमानः सुखस्पर्शो मन्दं मन्दं ववौ तदा
॥१४॥पर्यायेण तदा सर्वा ननृतुर्देवयोषितः ॥
नृत्यश्रमेण खिन्नासु वेश्यास्वन्यासु सादरम्
॥१५॥अलंबुसा देवनारी रूपयौ वनशालिनी ॥
मदयन्ती जनान्सर्वान्सभामध्ये ननर्त वै
॥१६॥तस्मिन्नवसरे तस्या नृत्यंत्याः संसदि द्विजाः ॥
वस्त्रमाभ्यंतरं वायुर्लीलया समुदक्षिपत्
॥१७॥तत्क्षिप्ते वसने स्पष्टमूरुमूलमदृश्यत ॥
तथाभूतां तु तां दृष्ट्वा सर्वे ब्रह्मादयो ह्रिया
॥१९॥सभामध्ये समासीना निमीलित दृशोऽभवन् ॥
विधूमनामा तु वसुः कामबाणप्रपीडितः
॥१९॥तामेव ब्रह्मभवने दृष्ट्वानिलहृतांशुकाम् ॥
हर्षसंफुल्लनयनो हृष्टरोमा ततोऽभवत्
॥२०॥अलंबुसायां तस्यां तु जातकामं विलोक्य तम् ॥
वसुं विधूमनामानं शशाप चतुराननः
॥२१॥यस्मात्त्वमीदृशं कार्यं विधूम कृतवानसि ॥
तस्माद्धि मर्त्यलोके त्वं मानुषत्वमवाप्स्यसि
॥२२॥इयं च देवयोषित्ते तत्र भार्या भविष्यति ॥
एवं स ब्रह्मणा शप्तो विधूमः खिन्नमानसः
॥२३॥प्रसादयामास वसुर्ब्रह्माणं प्रणिपत्य तु ॥
विधूम उवाच ॥
अस्य शापस्य घोरस्य भगवन्भक्तवत्सल
॥२४॥नाहमर्होऽस्मि देवेश रक्ष मां करुणानिधे ॥
एवं प्रसादितस्तेन भारतीपतिरव्ययः
॥२५॥कृपया परया युक्तो विधूमं प्राह सांत्वयन् ॥
ब्रह्मोवाच ॥
त्वयि शापोऽप्ययं दत्तो न चासत्यं ब्रवीम्यहम्
॥२६॥ततोऽवधिं कल्पयामि शापस्यास्य तवाधुना ॥
मर्त्यभावं समापन्नः सहालंबुसयाऽनया
॥२७॥तत्र भूत्वा महाराजः शासयित्वा चिरं महीम् ॥
पुत्रमप्रतिमं त्वस्यां जनयित्वा महीपतिम्
॥२८॥अभिषिच्य च राज्ये तं राज्यरक्षाविचक्षणम् ॥
एतच्छापस्य शांत्यर्थं दक्षिणस्योदधेस्तटे ॥
फुल्लग्रामसमीपस्थे चक्रतीर्थे महत्तरे
॥२९॥अनया भार्यया सार्द्धं यदा स्नानं करिष्यसि ॥
तदा त्वं मानुषं भावं जीर्णत्वचमिवोरगः
॥३०॥विसृज्य भार्यया सार्द्धं स्वं लोकं प्रतिपत्स्यसे ॥
चक्रतीर्थे विना स्नानं न नश्येच्छाप ईदृशः
॥३१॥इति ब्रह्मवचः श्रुत्वा विधूमो नातिहृष्टवान् ॥
स्ववेश्म प्राविशत्तूर्णमामंत्र्य चतुराननम्
॥३२॥चिंतयामास तत्रासौ मर्त्यतां यास्यतो मम ॥
को वा पिता भवेद्भूमौ का वा माता भविष्यति
॥३३॥बहुधेत्थं समालोच्य विधूमो निश्चिकाय सः ॥
कौशांबीनगरे राजा शतानीक इति श्रुतः
॥३४॥अस्ति वीरो महाभागो भार्या चापि पतिव्रता ॥
तस्य विष्णुमतीनाम विष्णोः श्रीरिव वल्लभा
॥३५॥तमेव पितरं कृत्वा मातरं च विधाय ताम् ॥
संभविष्यामि भूलोके स्वकर्मपरिपाकतः
॥३६॥ततः स माल्यवन्तं च पुष्पदंतं बलोत्कटम् ॥
त्रीनाहूयात्मनो भृत्यान्वृत्तमेतन्न्यवे दयत्
॥३७॥भृत्याः शृणुत भद्रं वो ब्रह्मशापान्महाभयात् ॥
जनिष्यामि शतानीकाद्विष्णुमत्यामहं सुतः
॥३८॥इति श्रुत्वा वचो भृत्यास्तस्या प्राणा बहिश्चराः ॥
वाष्पपूर्णमुखाः सर्वे विधूमं वाक्यमब्रुवन्
॥३९॥भृत्या ऊचुः
त्वद्वियोगं वयं सर्वे त्रयोऽपि न सहामहे ॥
तस्मान्मानुष भावत्वमस्माभिः सह यास्यसि
॥४०॥शतानीकस्य राजर्षेर्मंत्री योऽयं युगन्धरः ॥
सेनानीर्विप्रतीकश्च योऽयं प्राग्रसरो रणे
॥४१॥नर्मकर्मसु हृद्विप्रो वल्लभाख्यो महांश्च यः ॥
तेषां पुत्रास्त्रयोऽप्येते भविष्यामो न संशयः
॥४२॥शतानीकस्य राजर्षेः पुत्रभावं गतस्य ते ॥
शुश्रूषां संविधास्यामस्तेषु तेषु च कर्मसु ॥
तानेवंवादिनः सोऽयं विधूमो वाक्यमब्रवीत्
॥४३॥विधूम उवाच
जानेऽहं भवतां स्नेहं तादृशं मय्य नुत्तमम्
॥४४॥तथापि कथयाम्यद्य तच्छृणुध्वं हितं वचः ॥
ब्रह्मशापेन घोरेण स्वेन दुष्कर्मणा कृतम्
॥४५॥कुत्सितं मानुषं भावमहमेकोऽनुवर्तये ॥
विहितं न हि युष्माकमेतच्छापानुवर्तनम्
॥४६॥जुगुप्सितेऽतो मानुष्ये मा कुरुध्वं मनोऽधुना ॥
अतः शापावधिर्यावन्मद्वियोगो विषह्यताम्
॥४७॥इत्युक्तवन्तं ते सर्वे माल्यवत्प्रमुखास्तदा ॥
ऊचुः प्रणम्य शिरसा प्रार्थयंतः पुनःपुनः
॥४८॥रक्षित्वा कृपया ह्यस्मान्मा कुरुष्व च साहसम् ॥
परित्यजसि नः सर्वान्भक्तानद्य निरागसः
॥४९॥त्वद्वियोगान्महाघोरान्मानुष्यमपि कुत्सितम् ॥
बहु मन्यामहे देव तस्मान्नस्त्राहि सांप्रतम्
॥५०॥एवं स याचमानांस्त्रीनन्वमन्यत भृत्यकान् ॥
तैस्त्रिभिः सहितः सोऽयं कौशांबीं गन्तुमैच्छत
॥५१॥एतस्मिन्नेव काले तु सोमवंशविवर्द्धनः ॥
अर्जुनाभिजने जातो जनमेजयसंभवः
॥५२॥शतानीको महीपालः पृथिवीमन्वपालयत् ॥
बुद्धिमान्नीतिमान्वाग्मी प्रजापालनतत्परः
॥५३॥चतुरंगबलोपेतो विक्रमैकधनो युवा ॥
स कौशांबीं महाराजो नगरीमध्युवास वै
॥५४॥तस्य मन्त्ररहस्यज्ञो मन्त्री जातो युगंधरः ॥
सेनानीर्विप्रतीकश्च तस्य प्राग्रसरो रणे
॥५५॥नर्मकर्मसु तस्यासीद्वल्लभाख्यः सखा द्विजः ॥
तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा
॥५६॥स सर्वगुणसंपन्नः शतानीको महामतिः ॥
पुत्रमात्मसमं तस्यां भार्यायां नान्वविंदत
॥५७॥आत्मानमसुतं ज्ञात्वा स भृशं पर्यतप्यत ॥
स युगंधरमाहूय मंत्रिणं मन्त्रवित्तमम्
॥५८॥पुत्रलाभः कथं मे स्यादिति कार्यममन्त्रयत् ॥
युगन्धरो मही पालं पुत्रालाभेन पीडितम् ॥
हर्षयन्वचसा स्वेन वाक्यमेतदभाषत
॥५९॥युगन्धर उवाच
अस्ति शांडिल्यनामा तु महर्षिः सत्यवाक्छुचिः
॥६०॥शत्रुमित्रसमो दांतस्तपःस्वाध्यायतत्परः ॥
तमेव मुनिमासाद्य ज्वलंतमिव पावकम्
॥६१॥पुत्रमात्मसमं राजन्प्रार्थयेथा विनीतवत् ॥
कृपावान्स महर्षिस्तु पुत्रं ते दास्यति ध्रुवम्
॥६२॥इति तद्वचनं श्रुत्वा हर्षसंफुल्ललोचनः ॥
मंत्रिणा तेन संयुक्तस्तस्यागादाश्रमं मुनेः
॥६३॥तमाश्रमे समासीनं प्रणनाम महीपतिः ॥
शांडिल्यस्तु महातेजा राजानं प्राप्तमाश्रमम्
॥६४॥दृष्ट्वा पाद्यादिभिः पूज्य स्वागतं व्याजहार सः ॥
शांडिल्य उवाच ॥
शतानीक किमर्थं त्वमाश्रमं प्राप्तवान्मम
॥६५॥यत्कर्तव्यमिदानीं ते तद्वदस्व करोम्यहम् ॥
मुनिमेवं वदंतं तं प्रत्यवादीद्युगंधरः
॥६६॥भगवन्नेष वै राजा पुत्रालाभेन कर्षितः ॥
भवंतं शरणं प्राप्तः सांप्रतं पुत्रकारणात्
॥६७॥अस्यापुत्रत्वजं दुःखं त्वमपाकर्तुमर्हसि ॥
इति तस्य वचः श्रुत्वा शांडिल्यो मुनिसत्तमः
॥६८॥पुत्रलाभवरं तस्मै प्रतिजज्ञे नृपाय वै ॥
स राज्ञो वरदः श्रीमान्कौशांबीमेत्य सादरम्
॥६९॥पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ॥
ततो मुनिप्रसादेन राजा दशरथोपमः
॥७०॥यज्वा राममिव प्राप सहस्रानीकमात्मजम् ॥
एवं विधूमः संजज्ञे शतानीकान्नृपोत्तमात्
॥७१॥अत्रांतरे मंत्रिवरस्सेनानीस्तु महीपतेः ॥
द्विजो नर्मवयस्यश्च पुत्रान्प्रापुः कुलोचितान्
॥७२॥पुत्रो युगंधरस्यासीन्माल्यवान्नाम भृत्यकः ॥
यौगंधरायणो नाम्ना मन्त्रशास्त्रेषु कोविदः
॥७३॥विप्रतीकस्य तनयः पुष्पदन्तो बभूव ह ॥
रुमण्वानिति विख्यातः परसैन्यविमर्दनः
॥७४॥वल्लभस्य तदा जज्ञे तनयो वै बलोत्कटः ॥
वसंतक इति ख्यातो नर्मकर्मसु कोविदः
॥७५॥अथ ते ववृधुः सर्वे राजपुत्रपुरोगमाः ॥
पञ्चहायनतां तेषु यातेषु तदनंतरम्
॥७६॥अलंबुसापि स्वर्वेश्या भूपतेः कृतवर्मणः ॥
अयोध्यायां महापुर्यां कन्या जाता मृगावती
॥७७॥एवं विधूममुख्यास्ते जज्ञिरे क्षितिमण्डले ॥
अत्रांतरे महासत्त्वो दुष्टसानुचरो बली
॥७८॥अहिदंष्ट्र इति ख्यातो महादैत्यो बलोत्कटः ॥
युक्तः स्थूलशिरोनामा सहायेन दुरात्मना
॥७९॥रुरोध देवनगरं बबाध विबुधानपि ॥
वर्तमाने दिवि महासमरे सुररक्षसाम्
॥८०॥आनिनाय शतानीकं सहायार्थं पुरंदरः ॥
स यौवराज्ये तनयं विधाय विधिना नृपः
॥८१॥प्रतस्थे रथमास्थाय युद्धाय दितिजैः सह ॥
नीतो मातलिनाभ्येत्य सादरं स धनुर्धरः
॥८२॥विधाय प्रेक्षकान्देवाञ्जघान दितिजान्रणे ॥
अथ दैत्याधिपः सोऽपि निहतः समरे दिवि
॥८३॥ततः शक्रस्य वचसा परेतं नृपपुंगवम् ॥
रथमारोप्य सहसा कौशांबीं मातलिर्ययौ
॥८४॥नीत्वा महीतलमसौ तत्सुताय न्यवेदयत् ॥
ततः सहस्रानीकोपि विलप्य वहुदुखितः
॥८५॥मंत्रिभिः सह संभूय प्रेतकार्यं न्यवर्तयत् ॥
मृतं ज्ञात्वा पतिं राज्ञी सहैवानुममार च
॥८६॥महिष्या सह संप्राप्ते भूपाले कीर्तिशेषताम् ॥
भेजे राज्यं शतानीकतनयो मंत्रिणां गिरा
॥८७॥युगन्धरे विप्रतीके वल्लभे च मृते सति ॥
यौगन्धरायणमुखास्तत्पुत्राः सर्व एव हि
॥८८॥शतानीक सुतस्यास्य तत्तत्कार्यमकुर्वत ॥
एवं स पालयामास महीं राजसुतो बली
॥८९॥याते काले महेन्द्रेण सनन्दनमहोत्सवे ॥
निमंत्रितस्तत्कथितां भाविनीमशृणोत्कथाम्
॥९०॥स्वर्योषिद्ब्रह्मणः शापादयोध्यायायामलंबुसा ॥
जाता मृगावती कन्या भूपतेः कृतवर्मणः
॥९१॥विधूम नामा च वसुस्त्वं नाकललनां पुरा ॥
तामेव ब्रह्मसदने दृष्ट्वानिलहृतांशुकाम्
॥९२॥तदैव मादनाक्रांतः शापान्मर्त्यत्वमागतः ॥
सैव ते दयिता राजन्भाविनी न चिरात्सखे
॥९३॥यदा त्वमात्मनः पुत्रं राज्ये संस्थाप्य भूपते ॥
मृगावत्या स्त्रिया सार्द्धं दक्षिणस्योदधेस्तटे
॥९४॥चक्रतीर्थे महापुण्ये फुल्लग्रामसमीपतः ॥
स्नानं करिष्यसि तदा शापान्मुक्तो भविष्यसि
॥९५॥इति प्रोवाच भगवन्सत्यलोके पितामहः ॥
इतींद्रवचनं श्रुत्वा सहस्रानीकभूपतिः
॥९६॥तथोद्वाहकृतोत्साहः समामंत्र्य शचीपतिम् ॥
कौशांबीं प्रस्थितो हृष्टः स तिलोत्तमया पथि
॥९७॥स्मरन्किमपि तां कांतां भाषमाणामनन्यधीः ॥
ध्यायञ्छतक्रतुवचो नालुलोके महीपतिः
॥९८॥सा शशाप नृपं सुभ्रूरनादरतिर स्कृता ॥
आहूयमानोपि मया सहस्रानीक भूपते
॥९९॥मृगावतीं हृदा ध्यायन्किमर्थं मामुपेक्षसे ॥
सौभाग्यमत्ता मानिन्यो न सहंतेऽवधीर णाम्
॥१००॥मामवज्ञाय यां राजन्हृदा ध्यायसि सांप्रतम् ॥
तया चतुर्दशसमा वियुक्तस्त्वं भविष्यसि
॥१०१॥इति शप्तवतीं राजा तामु वाच तिलोत्तमाम् ॥
तामेव यदि लभ्येयं तनुजां कृतवर्मणः
॥१०२॥चतुर्दशसमा दुःखं सहिष्ये तद्वियोगजम् ॥
इत्युक्त्वा तद्गतमना नृपः प्राया न्निजां पुरीम्
॥१०३॥ततः कालेन तनया भूपतेः कृतवर्मणः ॥
तमाससाद दयिता सर्वस्वं पुष्पधन्वनः
॥१०४॥मृगावती समासाद्य विला सतरुवल्लरीम् ॥
विभ्रमांभोधिलहरीं ननंद मदनद्युतिः
॥१०५॥सा तस्माद्गर्भमाधत्त भवानीवेंदुशेखरात् ॥
पांडिम्ना शशिलेखेव पीपूषक्षालिता बभौ
॥१०६॥सुन्दरी दौर्हृदव्यक्तेरथ पौरंदरीव दिक् ॥
रराज राजमहिषी रजनीकरगर्भिणी
॥१०७॥सा दौर्हृदवशाद्राज्ञी यंयं काममकाम यत् ॥
सुदुर्लभमपिप्रेम्णा तत्तत्सर्वं समाहरत्
॥१०८॥पत्यौ समीहितकरे सा कदाचिन्मृगावती ॥
स्वेच्छया वै मतिं चक्रे रक्तवापीनिमज्जने
॥१०९॥अभिलाषं सविज्ञाय मृगावत्या महीपतिः ॥
कौसुम्भसलिलैः पूर्णां क्षणाद्वापीमकारयत्
॥११०॥तस्मिन्रक्तजले राज्ञी स्नानं सादरमातनोत् ॥
ततस्तां रक्ततोयार्द्रां फुल्लकिंशुकसन्निभाम्
॥१११॥राजस्त्रीमामिषधिया सुपर्णकुलसंभवः ॥
जहार विकटः पक्षी मुग्धां दग्धविधेर्वशात्
॥११२॥नीत्वा विहायसा दूरं स तामचलसन्निभः ॥
तत्याजमोहविवशामुदयाचलकंदरे
॥११३॥लब्धसंज्ञा शनैः कंपविलोलतनुवल्लरी ॥
दृग्भ्यामुत्पलतुल्याभ्यां मुहुरश्रूण्यवर्तयत्
॥११४॥हा नाथ मंदभाग्याहं त्वद्वियोगेनपीडिता ॥
का गतिः क्व नु गच्छामि द्रक्ष्यामि त्वन्मुखं कदा
॥११५॥इत्युक्त्वा गजसिंहानां पुरोभूद्वधकांक्षिणी ॥
सा सर्वकेसरिगजैस्त्यक्ता न निधनं गता
॥११६॥आपत्काले नृणां नूनं मरणं नैव लभ्यते ॥
अतिदीनं समाकर्ण्य तस्याः क्रंदितमुन्मुखाः
॥११७॥मृगा निष्पंदगतयो न तृणान्यप्यभक्षयन् ॥
ततस्तां करुणासिंधुर्मुनिपुत्रस्तथास्थिताम्
॥११८॥रुदतीं कृपया राज्ञीं समानीय स्वमाश्रमम् ॥
न्यवेदयच्च तां राज्ञीं गुरवे जमदग्नये ॥
जमदग्निस्तु धर्मात्मा तामाश्वासयदंतिके
॥११९॥जमदग्निरुवाच
तथा जानीहि मां भद्रे कृतवर्मा यथा तव
॥१२०॥एवमाश्वासिता तत्र कृपया जमदग्निना ॥
चक्रे तत्रैव सा वासमाश्रमे मुनिसंकुले
॥१२१॥ततस्स्वल्पेन कालेन विशाखमिव पार्वती ॥
असूत तनयं बाला शौर्यधैर्यगुणान्वितम्
॥१२२॥सूतिकागृहकृत्यानि यानि कार्याणि बंधुभिः ॥
चक्रिरे मातृवत्तानि मृगावत्या मुनिस्त्रियः
॥१२३॥तं सुजातं नृपसुतं कापि वागशरीरिणी ॥
उदयाचलजातत्वाच्चकारोदयनाभिधम्
॥१२४॥आश्रमे स मुनीन्द्रेण कृतचूडादिकव्रतः ॥
जग्राह सकला विद्या जमदग्नेर्महामुनेः
॥१२५॥युवा नृपसुतः सोऽयं कदाचिन्मृगयापरः ॥
अपश्यदेकं भुजगं व्याधेन दृढसंयतम्
॥१२६॥उवाच स कृपायुक्तो व्याध मुंच भुजंगमम् ॥
किं करिष्यस्यनेन त्वं नैनं हिंसितुर्महसि
॥१२७॥तमुवाच ततो व्याधः सर्पेणानेन पूरुष ॥
धनधान्यादिकं लप्स्ये ग्रामेषु नगरेषु च
॥१२८॥अतोहं जीविकामेनं नैव मोक्ष्ये कथंचन ॥
इत्युक्त्वा पेटिकायां तं वबंध शबराधमः
॥१२९॥बद्धमालोक्य भुजगं शबराय धनार्थिने ॥
अमोचयत्स्वजननीदत्तं दत्त्वा स कंकणम्
॥१३०॥मोचितस्तेन सर्पोऽसौ नरो भूत्वा कृतांजलिः ॥
सख्यं कृत्वा च सहसा तं पातालं निनाय वै
॥१३१॥किन्नराख्येन नागेन धृतराष्ट्रसुतेन सः ॥
पातालं प्राविशत्तत्र न्यवसत्पूजितस्सुखम्
॥१३२॥धृतराष्ट्रस्य तनयां भगिनीं किन्नरस्य च ॥
ललिताख्यां गुणोपेतां प्रियां भेजे नृपात्मजः
॥१३३॥सा तस्माज्जनयामास पुत्रमप्रतिमौजसम् ॥
ततः सा ललिता प्राह त्वरितोदयनं प्रति
॥१३४॥ललितोवाच
अहं विद्या धरी पूर्वं सुकर्णी नाम नामतः ॥
शापात्सर्पत्वमाप्तास्मि शापांतो गर्भ एष मे
॥१३५॥ततोऽमुं प्रतिगृह्णीष्व पुत्रमप्रतिमौजसम् ॥
तांबूलीं स्रजमम्लानां वीणां घोषवतीमपि
॥१३६॥तथेति प्रतिजग्राह तत्सर्वं नृपनंदनः. ॥
पश्यतां सर्वसर्पाणां साप्यगच्छद्विहायसम्
॥१३७॥ततः सोऽपि गृहीत्वा तु वीणां मालां च पुत्रकम् ॥
दुःखितामात्मजननीं द्रष्टुकामस्त्वरान्वितः
॥१३८॥श्वशुरादीननुज्ञाप्य सहसा स्वाश्रमं ययौ ॥
जननीं शोकसंतप्तामाश्वस्तां जमदग्निना
॥१३९॥समेत्य तोषयामास वृत्तं चास्यै न्यवेदयत् ॥
तदा प्रहृष्टहृदया सा बभूव मृगावती
॥१४०॥अत्रांतरे स शबरः कौशांब्यां वणिजं ययौ ॥
सहस्रानीकनामांकं विक्रेतुं मणिकंकणम्
॥१४१॥राजमुद्रां समालोक्य कंकणे स वणिग्वरः ॥
शबरेण समं गत्वा सर्वं राज्ञे न्यवेदयत्
॥१४२॥ततः सहस्रानीकोऽयं तत्प्राप्य मणिकंकणम् ॥
मृगावतीविप्रयोगविषाग्निपरिपीडितः
॥१४३॥तद्बाहुसंगपीयूष शीकरासारशीतलम् ॥
कंकणं हृदये न्यस्य विललाप सुदुःखितः
॥१४४॥उवाच च कथं लब्धं कंकणं शबर त्वया ॥
स चैवमुक्तस्तत्प्राप्ति क्रमं तस्मै न्यवेदयत्
॥१४५॥शबरस्य वचः श्रुत्वा सहस्रानीकभूपतिः ॥
प्रतस्थे मंत्रिभिः सार्द्धं प्रियालोकनकौतुकी
॥१४६॥यत्रेंदुभास्क रमुखा लभंते सहसोदयम् ॥
तमेव गिरिमुद्दिश्य सहसा सोऽभ्यगच्छत
॥१४७॥किंचिन्मार्गं समुल्लंघ्य तस्थौ विश्रांतसैनिकः ॥
तस्मिन्विनिद्रे दयितासंगमध्यानतत्परे
॥१४८॥वसंतको विचित्रास्तु कथयामास वै कथाः ॥
तत्कथाश्रवणेनैव तां रात्रिं स निनाय वै
॥१४९॥ततः कालेन ककुभं प्राप्य जंभारिपालिताम् ॥
जमदग्न्याश्रमं गत्वा निर्वैरहरिकुंजरम्
॥१५०॥तपस्यंतं मुनिं दृष्ट्वा शिरसा प्रणनाम सः ॥
आशीर्वादेन स मुनिः प्रतिजग्राह तं नृपम्
॥१५१॥विधिवत्पूजयामास पाद्यार्घ्याचमनीयकैः ॥
उवाच च महीपालं धर्मार्थसहितं वचः
॥१५२॥नरनाथ मृगावत्यां जातोऽयं तनयस्तव ॥
यशोनिधिर्महातेजा रामचंद्र इवापरः
॥१९३॥भविष्यति दिशां जेता सिंहसंहननो युवा ॥
पौत्र एष महाभाग तथा द्युदयनात्मजः
॥१५४॥इयं मृगावती भार्या पाति व्रत्यपरायणा ॥
तदेतांस्त्रीन्महाराज प्रतिगृह्णीष्व मा चिरम्
॥१५५॥उक्त्वैवं मुनिना दत्तांस्तान्गृहीत्वा महीपतिः ॥
प्रियासहायः स्वपुरीं प्रतस्थे मंत्रिभिर्वृतः
॥१५६॥ततः प्रविश्य कौशांबीं नगरीं स नृपोत्तमः ॥
स्मरञ्छक्रस्य वचनं मानुषं जन्म कुत्सयन्
॥१५७॥महीमुदयनायैव ददौ पुत्राय धीमते ॥
तस्मिन्नुदयने पुत्र राज्यपालनदक्षिणे
॥१५८॥राज्यभारं विनिक्षिप्य स शापविनिवृत्तये ॥
वसंतकरुमण्वद्भ्यां मृगावत्या च भार्यया
॥१५९॥यौगन्धरायणेनापि मंत्रिपुत्रेण संयुतः ॥
चक्रतीर्थे महापुण्ये दक्षिणस्योदधेस्तटे
॥१६०॥स्नानं कर्तुं ययौ तूर्णं सर्वतीर्थोत्त मोत्तमे ॥
वाहनैर्वातरंहोभिरचिराल्लवणोदधिम्
॥१६१॥संप्राप्य चक्रतीर्थं च स्नानं चक्रुर्यथाविधि ॥
तेषु च स्नातमात्रेषु चक्रतीर्थे नृपादिषु
॥१६२॥विनष्टं तत्क्षणादेव मानुष्यमतिकुत्सितम् ॥
ततो विधूतपापास्ते स्वं रूपं प्रतिपेदिरे
॥१६३॥दिव्यांबरधराः सर्वे दिव्यमाल्यानुलेपनाः ॥
विमानानि महार्हाणि समारुह्य विभूषिताः
॥१६४॥तत्तीर्थं बहु मन्वानाः स्वशापच्छेदकारणम् ॥
पश्यतां सर्वलोकानां स्वर्गलोकं ययुस्तदा
॥१६५॥तदाप्रभृति ते सर्वे ज्ञात्वा तत्तीर्थवैभवम् ॥
पावने चक्रतीर्थेऽस्मिन्स्नानं कुर्वंति सर्वदा
॥१६६॥एवं प्रभावं तत्तीर्थं ये समागत्य मानवाः ॥
स्नानं सकृच्च कुर्वंति ते सर्वे स्वर्गवासिनः
॥१६७॥एवं वः कथितं विप्रा विधूमचरितं महत् ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
यं यं कामयते कामं तं सर्वं शीघ्रमाप्नुयात्
॥१६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामलंबुसाविधूमशापविमोचनंनाम पञ्चमोऽध्यायः ॥ ५ ॥
छ ॥ तुलनीय - कथासरित्सागरे उदयनस्य जन्मकथा