निधिचरितकथनम्
श्रीसूत उवाच
अथातः संप्रवक्ष्यामि सेतुमाधववैभवम् ॥
शृणुध्वं मुनयो भक्त्या पुण्यं पापहरं परम्
॥१॥पुरा पुण्यनिधिर्नाम राजा सोमकुलोद्भवः ॥
मधुरां पालयामास हालास्येश्वरभूषिताम्
॥२॥कदाचित्स महीपालश्चतुरंगबलान्वितः ॥
सांऽतःपुरपरीवारो मधुरायां निजं सुतम्
॥३॥स्थापयित्वा रामसेतुं प्रययौ स्नानकौतुकी ॥
तत्र गत्वा धनुष्कोटौ स्नात्वा संकल्पपूर्वकम्
॥४॥अन्येष्वपि च तीर्थेषु तत्रत्येषु नृपोत्तमः ॥
सस्नौ रामेश्वरं देवं सिषेवे च सभक्तिकम्
॥५॥एवं स बहुकालं वै तत्रैव न्यवसत्सुखम् ॥
रामसेतौ वसन्पुण्ये गन्धमादनपर्वते
॥६॥विष्णुप्रीतिकरं यज्ञं कदाचिदकरोन्नृपः ॥
यज्ञावसाने राजासौ मुदावभृथकौतुकी
॥७॥सस्नौ रामधनुष्कोटौ सदारः सपरिच्छदः ॥
सेवित्वा रामनाथं च स वेश्म प्रययौ द्विजाः
॥८॥एवं निवसमानेऽस्मिन्राज्ञि पुण्यनिधौ तदा ॥
कदाचिद्धरिणा लक्ष्मीर्विनोदकलहाकुला
॥९॥हरिणा समयं कृत्वा नृपभक्तिं परीक्षितुम् ॥
विष्णुना प्रेषिता लक्ष्मीर्वैकुंठात्कमलालया
॥१०॥अष्टवर्षवयोरूपा प्रययौ गंधमादने ॥
तत्रागत्य धनुष्कोटौ तस्थौ सा कमलालया
॥११॥तस्मिन्नवसरे राजा ययौ गुणनिधिर्द्विजाः ॥
स्नातुं रामधनुष्कोटौ सदारः सहसैनिकः
॥१२॥तत्र गत्वा स राजाऽयं स्नात्वा नियमपूर्वकम् ॥
तुलापुरुषमुख्यानि कृत्वा दानानि कृत्स्नशः
॥१३॥प्रयातुकामो भवनं कन्यां कांचिद्ददर्श सः ॥
अतीवरूपसंपन्नामष्टवर्षां शुचिस्मिताम्
॥१४॥दृष्ट्वा नृपस्तां पप्रच्छ कन्यां चारुविलोचनाम् ॥
चारुस्मितां चारुदतीं बिंबोष्ठीं तनुमध्यमाम्
॥१५॥पुण्यनिधिरुवाच
का त्वं कन्ये सुता कस्य कुतो वा त्वमिहागता ॥
अत्रागमेन किं कार्यं तव वत्से शुचिस्मिते
॥१६॥एवं नृपस्तां पप्रच्छ कन्यामुत्पललोच नाम् ॥
एवं पृष्टा तदा कन्या नृपं तमवदद्विजाः
॥१७॥न मे माता पिता नास्ति न च मे बांधवास्तथा ॥
अनाथाहं महाराज भविष्यामि च ते सुता
॥१८॥त्वद्गृहेऽहं निवत्स्यामि तात त्वां पश्यतीसदा ॥
हठात्कृष्यति यो वा मां ग्रहीष्यति करेण तम्
॥१९॥यदि शासिष्यसे भूप तदाहं तव मंदिरे ॥
वत्स्यामि ते सुता भूत्वा पितर्गुणनिधे चिरम्
॥२०॥एवमुक्तस्तदा प्राह कन्यां गुणनिधिर्नृपः ॥
अहं सर्वं करिष्यामि त्वदुक्तं कन्यके शुभे
॥२१॥ममापि दुहिता नास्ति पुत्रोऽस्त्येकः कुलोद्वहः ॥
तव यस्मिन्रुचिर्भद्रे त्वां तस्मै प्रददाम्यहम्
॥२२॥आगच्छ मद्गृहं कन्ये मम चांतःपुरे वस ॥
मद्भार्यायाः सुता भूत्वा यथाकाममनिंदिते
॥२३॥इत्युक्ता सा नृपेणाथ कन्या कमललोचना ॥
तथा स्त्विति नृपं प्रोच्य तेन साकं ययौ गृहम्
॥२४॥राजा स्वभार्याहस्ते तां प्रददौ कन्यकां शुभाम् ॥
अब्रवीच्च स्वकां भार्यां राजा विन्ध्यावलिं तदा
॥२५॥आवयोः कन्यका चेयं राज्ञि विंध्यावले शुभे ॥
रक्षेमां सर्वथा त्वं वै पुरुषांतरतः प्रिये
॥२६॥इतीरिता नृपेणासौ भार्या विंध्या वलिस्तदा ॥
ओमित्युक्त्वाथ तां कन्यां पुत्रीं जग्राह पाणिना
॥२७॥पोषिता पालिता राज्ञा सुतवत्कन्यका च सा ॥
न्यवात्सीत्सुसुखं राज्ञो भवने लालिता सदा
॥२८॥अथ विष्णुर्जगन्नाथो लक्ष्मीमन्वेष्टुमादरात् ॥
आरूढविनतानन्दो वैकुंठान्निर्ययौ द्विजाः
॥२९॥विनिर्गत्य स वैकुंठा द्विलंघितवियत्पथः ॥
बभ्राम च बहून्देशाल्लँक्ष्मीं तत्र न दृष्टवान्
॥३०॥रामसेतुमथागच्छद्गंधमादनपर्वते ॥
अन्विष्य सर्वतो रामसेतुं बभ्राम चेंदि राम्
॥३१॥एतस्मिन्नेव काले सा पुष्पावचयकौतुकात् ॥
सखीभिः कन्यकायासीद्भवनोद्यानपादपान्
॥३२॥पुष्पाण्यवचिनोति स्म सखीभिः सह कानने ॥
तत्रागत्य ततो विष्णुर्विप्ररूपधरो द्विजाः
॥३३॥गंगांभो विदधत्स्कंधे वहञ्छत्रं करंण च ॥
गंगास्नायिद्विजस्येव रचयन्वेषमात्मनः
॥३४॥धारयन्दक्षिणे पाणौ कुशाग्रंथिपवित्रकम् ॥
भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रावलिशोभितः
॥३५॥प्रजपञ्छिवनामानि धृतरुद्राक्ष मालिकः ॥
सोत्तरीयः शुचिर्विप्राः समायातो जनार्दनः
॥३६॥तमागतं द्विजं दृष्ट्वा स्तब्धाऽतिष्ठत कन्यका ॥
अपश्यदष्टवर्षां तां वल्लभां पुष्प हारिणीम्
॥३७॥दृष्ट्वा स त्वरया विप्रः कन्यां मधुरभाषिणीम् ॥
हठात्कृत्य करेणासौ जग्राह गरुडध्वजः
॥३८॥तदा चुक्रोश सा कन्या सखीभिः सह कानने ॥
तमाक्रोशं समाकर्ण्य राजा स तु समागतः
॥३९॥प्रययौ भवनोद्यानं वृतः कतिपयैर्भटैः ॥
गत्वा पप्रच्छ तां कन्यां तत्सखीरपि भूपतिः
॥४०॥किमर्थमधुना क्रुष्टं सखीभिः सह कन्यके ॥
त्वया तु भवनोद्याने तत्र कारणमुच्यताम्
॥४१॥केन त्वं परिभूतासि हठात्कृष्य सुते मम ॥
इति पृष्टा तमाचष्ट कन्या गुणनिधिं नृपम् ॥
बाष्पपूर्णानना खिन्ना रुषिता भृशकातरा
॥४२॥कन्योवाच
अयं विप्रो हठात्कृत्य जगृहे पांड्यनाथ माम्
॥४३॥तातात्र वृक्षमूलेऽसौ स तिष्ठत्यकुतोभयः ॥
तदाकर्ण्य वचस्तस्या राजा गुणनिधिः सुधीः
॥४४॥जग्राह तरसा विप्रमविद्वांस्तद्बलं हठात् ॥
रामनाथालयं नीत्वा निगृह्य च हठात्तदा
॥४५॥बद्ध्वा निगडपाशाभ्या मानयन्मंडपं च तम् ॥
आत्मपुत्रीं समाश्वास्य शुद्धांतमनयन्नृपः
॥४६॥स्वयं च प्रययौ रम्यं भवनं नृपपुंगवः ॥
ततो रात्रौ स्वपन्राजा स्वप्ने विप्रं ददर्श तम्
॥४७॥शंखचक्रगदापद्मवनमालाविभूषितम् ॥
कौस्तुभालंकृतोरस्कं पीतांबरधरं हरिम्
॥४८॥कालमेघच्छविं कांतं गरुडोपरि संस्थितम् ॥
चारुस्मितं चारुदंतं लसन्मकरकुण्डलम्
॥४९॥विष्वक्सेनप्रभृतिभिः किंकरैरुपसेवितम् ॥
शेषपर्यंकशयनं नारदादि मुनिस्तुतम्
॥५०॥ददर्श च स्वकां कन्यां विकासिकमलस्थिताम् ॥
धृतपंकजहस्तां तां नीलकुञ्चितमूर्धजाम्
॥५१॥विष्णुवक्षस्थल्रावासां समुन्नतपयोधराम् ॥
दिग्गजैरभिषिक्तांगीं श्यामां पीतांबरावृताम्
॥५२॥स्वर्णपंकजसंक्लृप्तमालालंकृतमूर्धजाम् ॥
दिव्याभरणशोभाढ्यां चारुहा रविभूषिताम्
॥५३॥अनर्घरत्नसंक्लृप्तनासाभरणशोभिताम् ॥
सुवर्णनिष्काभरणां कांचीनूपुरराजिताम्
॥५४॥महालक्ष्मीं ददर्शासौ राजा रात्रौ स्वकां सुताम् ॥
एवं दृष्ट्वा नृपः स्वप्ने विप्रं तं स्वसुतामपि
॥५५॥उत्थितः सहसा तल्पात्कन्यागृहमवाप च ॥
तथैव दृष्टवान्कन्यां यथा स्वप्ने ददर्श ताम्
॥५६॥अथोदिते सवितरि कन्यामादाय भूमिपः ॥
रामनाथालयं प्राप ब्राह्मणं न्यस्तवान्यतः
॥५७॥स मंडपवरे विप्रं ददर्श हरिरूपिणम् ॥
यथा ददर्श स्वप्ने तं वनमालादिचिह्नितम् ॥
विष्णुं विज्ञाय तुष्टाव नृपतिर्हरिमीश्वरम्
॥५८॥पुण्यनिधिरुवाच
नमस्ते कमलाकांत प्रसीद गरुडध्वज
॥५९॥शार्ङ्गपाणे नमस्तुभ्यमपराधं क्षमस्व मे ॥
नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते
॥६०॥कौस्तुभालंकृतांकाय नमः श्रीवत्सलक्ष्मणे ॥
नमस्ते ब्रह्मपुत्राय दैत्यसंघविदारिणे
॥६१॥अशेषभुवनावासनाभिपंकजशालिने ॥
मधुकैटभसंहर्त्रे रावणांतकराय ते
॥६२॥प्रह्रादरक्षिणे तुभ्यं धरित्रीपतये नमः ॥
निर्गुणायाप्रमेयाय विष्णवे बुद्धिसाक्षिणे
॥६३॥नमस्ते श्रीनिवासाय जग द्धात्रे परात्मने ॥
नारायणाय देवाय कृष्णाय मधुविद्विषे
॥६४॥नमः पंकजनाभाय नमः पंकजचक्षुषे ॥
नमः पंकजहस्तायाः पतये पंकजांघ्रये
॥६५॥भूयोभूयो जगन्नाथ नमः पंकजमालिने ॥
दयामूर्त्ते नमस्तुभ्यमपराधं क्षमस्व मे
॥६६॥मया निगडपाशाभ्यां यः कृतो मधुसूदन ॥
अनयस्त्वत्स्वरूपमविदित्वा कृतः प्रभो
॥६७॥अतो मदपराधोऽयं क्षंतव्यो मधुसूदन ॥
एवं स्तुत्वा महाविष्णुं राजा पुण्यनिधिर्द्विजाः
॥६८॥लक्ष्मीं तुष्टाव जननीं सर्वेषां प्राणिनां मुदा ॥
नमो देवि जगद्धात्रि विष्णुवक्षस्थलालये
॥६९॥नमोब्धिसंभवे तुभ्यं महालक्ष्मि हरिप्रिये ॥
सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः
॥७०॥संध्यायै च प्रभायै च धात्र्यै भूत्यै नमोनमः ॥
श्रद्धायै चैव मेधायै सरस्वत्यै नमोनमः
॥७१॥यज्ञविद्ये महाविद्ये गुह्यविद्येतिशोभने ॥
आत्मविद्ये च देवेशि मुक्तिदे सर्वदेहिनाम्
॥७२॥त्रयीरूपे जगन्मातर्जगद्रक्षाविधायिनि ॥
रक्ष मां त्वं कृपादृष्ट्या सृष्टिस्थित्यंतकारिणि
॥७३॥भूयोभूयो नमस्तुभ्यं ब्रह्ममात्रे महेश्वरि ॥
इति स्तुत्वा महालक्ष्मीं प्रार्थयामास माधवम्
॥७४॥यदज्ञानान्मया विष्णो त्वयि दोषः कृतोऽधुना ॥
पादे निगडबंधेन स द्रोहः क्षम्यतां त्वया
॥७६॥लोकास्ते शिशवः सर्वे त्वं पिता जगतां हरे ॥
सुताऽपराधः पितृभिः क्षंतव्यो मधुसूदन
॥७६॥अपराधिनां च दैत्यानां स्वरूपमपि दत्तवान् ॥
भवान्विष्णो ममापीममपराधं क्षमस्व वै
॥७७॥जिघांसयापि भगवन्नागतां पूतनां पुरा ॥
अनयस्त्वत्पदांभोजं तन्मां रक्ष कृपानिधे ॥
लक्ष्मीकांत कृपादृष्टिं मयि पातय केशव
॥७८॥श्रीसूत उवाच
इति संप्रार्थितो विष्णु राज्ञा तेन द्विजोत्तमाः ॥
प्राह गंभीरया वाचा नृपं पुण्यनिधिं ततः
॥७९॥विष्णुरुवाच
राजन्न भीस्त्वया कार्या मद्बंधननिमित्तजा
॥८०॥भक्तवश्यत्वमधुना तव प्रतिहितं मया ॥
मम प्रीतिकरं यज्ञमकरोद्यद्भवानिह
॥९१॥अतस्त्वं मम भक्तोसि राजन्पुण्यनिधेऽधुना ॥
तेनाहं तव वश्योऽस्मि भक्तिपाशेन यंत्रितः
॥८२॥भक्तापराधं सततं क्षमाम्यहमरिं दम ॥
त्वद्भक्तिं ज्ञातुकामेन मया संप्रेरिता त्वियम्
॥८३॥लक्ष्मीर्मम प्रिया राजंस्त्वयासंरक्षिताऽधुना ॥
तेनाहं तव तुष्टोऽस्मि मत्स्वरूपा त्वियं सदा
॥८४॥अस्यां यो भक्तिमांल्लोके स मद्भक्तोऽभिधीयते ॥
अस्यां यो विमुखो राजन्स मद्द्वेषी स्मृतः सदा
॥८५॥त्वमिमां भक्तिसं युक्तो यस्मात्पूजितवानसि ॥
मत्पूजापि कृता तस्मान्मदभिन्ना त्वियं यतः
॥८६॥अतस्त्वया नापराधः कृतो मयि नरेश्वर ॥
किं तु पूजैव विहिता तां त्वयार्चयता मम
॥९७॥त्वया मद्भार्यया साकं संकेतोऽकारि यत्पुरा ॥
तत्संकेताभिगुत्यर्थं मां यद्बंधितवानसि
॥८८॥तेन प्रीतोस्मि ते राजँल्लक्ष्मीः संरक्षिताऽधुना ॥
मत्स्वरूपा च सा लक्ष्मीर्जगन्माता त्रयीमयी
॥८९॥तद्रक्षां कुर्वता भूप त्वया यद्बंधनं मम ॥
तत्प्रियं मम राजेंद्र मा भयं क्रियतां त्वया
॥९०॥इयं लक्ष्मीस्तव सुता सत्यमेव न संशयः ॥
इतीरितेऽथ हरिणा लक्ष्मीः प्रोवाच भूपतिम्
॥९१॥लक्ष्मीरुवाच
राजन्प्रीतास्मि ते चाहं रक्षिता यद्गृहे त्वया ॥
त्वद्भक्तिशोधनार्थं वा अहं विष्णुरुभावपि
॥९२॥विनोद कलहव्याजादागताविह भूपते ॥
तव योगेन भक्त्या च तुष्टावावां परंतप
॥९३॥आवयोः कृपया राजन्सुखं ते भवतात्सदा ॥
सर्वभूमंडलैश्वर्यं सदा ते भवतु ध्रुवम्
॥९४॥आवयोः पादयुगले भक्तिर्भवतु ते ध्रुवा ॥
देहांते मम सायुज्यं पुनरावृत्तिवर्जितम्
॥९५॥नित्यं भवतु ते राजन्मा भूत्ते पापधीस्तथा ॥
सदा धर्मे भव धीर्विष्णुभक्तियुता तव
॥९६॥एवमुक्त्वा नृपं लक्ष्मीर्विष्णोर्वक्षस्थलं ययौ ॥
अथ विष्णुरुवाचेदं राजानं द्विज पुंगवाः
॥९७॥यथा त्वयात्र बद्धोहं निगडेन नृपोतम ॥
तद्रूपेणैव वत्स्यामि सेतुमाधवसंज्ञितः
॥९८॥मयैव कारितः सेतुस्तद्रक्षार्थमहं नृप ॥
भूतराक्षससंघेभ्यो भयानामुपशांतये
॥९९॥ब्रह्मापि सेतुरक्षार्थं वसत्यत्रदिवानिशम् ॥
शंकरो रामनाथाख्यो नित्यं सेतौ वसत्यथ
॥१००॥इंद्रादिलोकपालाश्च वसंत्यत्रमुदान्विताः ॥
अतोऽहमत्रवत्स्यामि सेतुमाधवसंज्ञया
॥१॥सेतुसंरक्षणार्थं वै सर्वोपद्रवशांतये ॥
सर्वेषामिष्टसिद्ध्यर्थं सर्वपापोपशांतये
॥२॥त्वया निगडबद्धं मां सेवते येऽत्र मानवाः ॥
ते यांति मम सायुज्यं सर्वाभीष्टं तथा नृप
॥३॥मम लक्ष्म्यास्तव तथा चरितं ये पठंति वै ॥
न ते यास्यंति दारिद्र्यं किं त्वैश्वर्यं व्रजंति ते
॥४॥त्वत्कृतं यदिदं स्तोत्रं मम लक्ष्म्या विशांपते ॥
ये पठंति च शृण्वंति लिखंति च मुदान्विताः
॥५॥न तेषां पुनरावृत्तिर्मम लोकात्कदाचन ॥
इत्युक्त्वा स हरिस्तत्र नृपं पुण्यनिधिं तदा
॥६॥तत्रैव पूर्णरूपेण संनि धत्ते स्म सर्वदा ॥
नृपः पुण्यनिधिर्विप्राः सेतुमाधवरूपिणम्
॥७॥विष्णुं प्रणम्य भक्त्या तु महापूजां विधाय च ॥
सेवित्वा रामनाथं च स्वमेव भवनं ययौ
॥८॥यावज्जीवमसौ तत्र सेतौ न्यवसदुत्तमे ॥
मधुरायां निजं पुत्रं स्थापयामास पालकम्
॥९॥तत्रैव निवसन्राजा देहांते मुक्तिमाप्तवान् ॥
विंध्यावलिश्च तत्पत्नी तमेवानुममार सा ॥
पतिव्रता पतिप्राणा प्रययौ सापि सद्गतिम्
॥११०॥श्रीसूत उवाच
येत्र भक्तियुता नित्यं सेवंते सेतुमाधवम्
॥११॥न तेषां पुनरावृत्तिः कैलासाज्जातु जायते ॥
सेतुमाधवसेवा ये न कुर्वंत्यत्र मानवाः
॥१२॥न तेषां रामनाथस्य सेवा फलवती भवेत् ॥
गृहीत्वा सैकतं सेतोर्गंगायां निक्षिपेद्यदि
॥१३॥विभज्य माधवपुरे वैकुंठे स वसेन्नरः ॥
गंगां जिगमिषुर्विप्राः सेतुमाधवसन्निधौ
॥१४॥संकल्प्य गंगां निर्गच्छेत्सा यात्रा सफला भवेत् ॥
आनीय गंगासलिलं रामेशमभि षिच्य च
॥१५॥सेतौ निक्षिप्य तद्भारं ब्रह्म प्राप्नोत्यसंशयः ॥
इति वः कथितं विप्राः सेतुमाधववैभवम्
॥१६॥एतत्पठन्वा शृण्वन्वा वैकुंठे लभते गतिम्
॥११७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीय ब्रह्मखण्डे सेतुमाहात्म्ये सेतुमाधवप्रशंसायां पुण्य निधिचरितकथनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥