मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ३२

3
ब्रह्मखण्डः · सेतुखण्डः · 32

दविमोक्षणवर्णनम्

श्रीसूत उवाच

भूयोऽपिसंप्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ॥

युष्माकमादरेणाहं नैमिषारण्यवा सिनः

॥१॥

नंदोनाम महाराजः सोमवंशसमुद्भवः ॥

धर्मेण पालयामास सागरांतां धरामिमाम्

॥२॥

तस्य पुत्रः समभवद्धर्मगुप्त इति श्रुतः ॥

राज्य रक्षाधुरं नंदो निजपुत्रे निधाय सः

॥३॥

जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ॥

ताते तपोवनं याते धर्मगुप्ताभिधो नृपः

॥४॥

मेदिनीं पालया मास धर्मज्ञो नीतितत्परः ॥

ईजे बहुविधैर्यज्ञैर्देवानिंद्रपुरोगमान्

॥५॥

ब्राह्मणेभ्यो ददौ वित्तं क्षेत्राणि च बहूनि सः ॥

सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति

॥६॥

बभूवुर्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ॥

कदाचिद्धर्मगुप्तोऽयमारूढस्तुरगोत्तमम्

॥७॥

वनं विवेश विप्रेंद्रा मृगयारसकौ तुकी ॥

तमालतालहिंतालकुरवाकुलदिङ्मुखे

॥८॥

विचचार वने तस्मिन्सिंहव्याघ्रभयानके ॥

मत्तालिकुलसंनादसंमूर्छितदिगंतरे

॥९॥

पद्म कल्हारकुमुदनीलोत्पलवनाकुलैः ॥

तटाकैरपि संपूर्णे तपस्विजनमंडिते

॥१०॥

तस्मिन्वने संचरतो धर्मगुप्तस्य भूपतेः ॥

अभूद्विभावरी विप्रास्त मसावृतदिङ्मुखा

॥११॥

राजापि पश्चिमां संध्यामुपास्य नियमान्वितः ॥

जजाप तत्र च वने गायत्रीं वेदमातरम्

॥१२॥

सिंहव्याघ्रादिभीत्या स्मिन्वृक्षमेकं समास्थिते ॥

राजपुत्रे तदाभ्यागादृक्षः सिंहभयार्दितः

॥१३॥

अन्वधावतं तं ऋक्षमैकः सिंहो वनेचरः ॥

अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत्

॥१४॥

आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥

वृक्षस्थितं महात्मानं महाबलपराक्रमम्

॥१५॥

उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥

मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह

॥१६॥

महासत्त्वो महाकायो महादंष्ट्रासमाकुलः ॥

वृक्षमूलं समायातः सिंहो यमतिभीषणः

॥१७॥

रात्र्यर्धं भज निद्रा त्वं रक्ष्यमाणो मयादितः ॥

ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते

॥१८॥

इति तद्वाक्यमादाय सुप्ते नंदसुते हरिः ॥

प्रोवाच ऋक्षं सुप्तोऽयं नृपश्च त्यज्यतामिति

॥१९॥

तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः ॥

भवान्धर्मं न जानीषे मृगराज वनेचर

॥२०॥

विश्वासघातिनां लोके महाकष्टा भवंति हि ॥

न हि मित्रद्रुहां पापं नश्येयज्ञायुतैरपि

॥२१॥

ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् ॥

विश्वस्तघातिनां पापं न नश्येज्जन्मकोटिभिः

॥२२॥

नाहं मेरुं महाभारं मन्ये पंचास्य भूतले ॥

महाभारमिमं मन्ये लोके विश्वासघातकम्

॥२३॥

एवमुक्तेऽथ ऋक्षेण सिंहस्तूष्णीमभूत्तदा ॥

धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे

॥२४॥

ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥

एवमुक्तेऽथ सिंहेन राजा सुप्तमशंकितः

॥२५॥

स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥

पात्यमानस्ततो राज्ञा नखालंबितपादपः

॥२६॥

ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥

स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत

॥२७॥

कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥

ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम्

॥२८॥

यस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥

मच्छापात्त्वमतः शीघ्रमुन्मत्तश्चर भूपते

॥२९॥

इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥

नृसिंहस्त्वं महायक्षः कुबेरसचिवः पुरा

॥३॥

हिमवद्गिरिमासाद्य कदाचित्त्वं वधूसखः ॥

अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा

॥३१॥

गौतमोप्युटजाद्दैवात्समिदाहरणाय वै ॥

निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत्

॥३२॥

यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥

अतः सिंहत्वमद्यैव भविता ते न संशयः

॥३३॥

इति गौतमशापेन सिंहत्वमगमत्पुरा ॥

कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा

॥३४॥

कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥

अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम्

॥३५॥

एतत्सर्वमहं ध्याना ज्जानामीह मृगाधिप ॥

इत्युक्ते ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः

॥३६॥

यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥

ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम्

॥३७॥

अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥

गौतमः शापकाले मे शापांतमपि चोक्तवान्

॥३८॥

ध्यानकाष्ठे न संवाद ऋक्षरूपेण ते यदा ॥

तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि

॥३९॥

इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुंगवः ॥

अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने

॥४०॥

ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥

इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट्

॥४१॥

विमानवरमा रुह्य प्रययावलकापुरीम् ॥

तस्मिन्गते तु यक्षेशे ध्यानकाष्ठो महामुनिः

॥४२॥

अव्याहतेष्टगमनो यथेष्ठः प्रययौ महीम् ॥

ध्यानकाष्ठे गते तस्मि न्कामरूपधरे मुनौ

॥४३॥

धर्मगुप्तौ मुनेः शापादुन्मत्तः प्रययौ पुरीम् ॥

उन्मत्तरूपं तं दृष्ट्वा मंत्रिणस्तु नृपोत्तमम्

॥४४॥

पितुः सकाशमा निन्यू रेवातीरे मनोरमे ॥

तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य ते

॥४५॥

ज्ञात्वा तु पुत्रवृत्तांतं नन्दस्तस्य पिता तदा ॥

पुत्रमादाय तरसा जैमिनेरन्तिकं ययौ ॥

तस्मै निवेदयामास पुत्रवृत्तान्तमादितः

॥४६॥

भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः

॥४७॥

अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ॥

इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः

॥४८॥

ध्यात्वा तु सुचिरं कालं नृपं नंदमथाब्रवीत् ॥

ध्यानकाष्ठस्य शापेन ह्युन्म त्तस्ते सुतोऽभवत्

॥४९॥

तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ॥

दक्षिणांबुनिधौ सेतौ पुण्ये पापविनाशने

॥५०॥

धनुष्कोटिरिति ख्यातं तीर्थमस्ति महत्तरम् ॥

पवित्राणां पवित्रं च मंगलानां च मंगलम्

॥५१॥

श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥

नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महीपते

॥५२॥

उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥

इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम्

॥५३॥

नंदः पुत्रं समादाय धनुष्कोटिं ययौ तदा ॥

तत्र च स्नापयामास पुत्रं नियमपूर्वकम्

॥५४॥

स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥

स्वयं सस्नौ स नन्दोपि धनुष्कोटौ सभक्तिकम्

॥५५॥

उषित्वा दिनमेकं तु सपुत्रस्तु पिता तदा ॥

सेवित्वा रामनाथं च सांबमूर्तिं घृणानिधिम्

॥५६॥

पुत्रमापृच्छय नंदस्तं प्रययौ तपसे वनम् ॥

गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः

॥५७॥

प्रददौ रामनाथाय बहुवित्तानि भक्तितः ॥

ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा

॥५८॥

प्रययौ मंत्रिभिः सार्धं स्वां पुरीं तदनंतरम् ॥

धर्मेण पालयामास राज्यं निहतकण्टकम्

॥५९॥

पितृपैतामहं विप्रा धर्मगुप्तोऽतिधार्मिकः ॥

उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः

॥६०॥

ग्रस्ता भवंति विप्रेंद्रास्तेऽपि चात्र निमज्जनात् ॥

धनुष्कोटौ विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम्

॥६१॥

परित्यज्य धनुष्कोटिं तीर्थमन्यद्व्रजेत्तु यः ॥

सिद्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते

॥६२॥

धनुष्कोटिर्धनुष्कोटिर्धनुष्कोटिरिति द्विजाः ॥

त्रिः पठन्तो नरा ये तु यत्र क्वापि जलाशये

॥६३॥

स्नांति सर्वे नरास्ते वै यास्यंति ब्रह्मणः पदम् ॥

एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा

॥६४॥

यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥

स्वर्णस्तेयादयश्चान्ये नश्येयुः पापसंचयाः

॥६५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां धर्मगुप्तोन्मा दविमोक्षणवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥