मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४१

3
ब्रह्मखण्डः · सेतुखण्डः · 41

अथातः संप्रवक्ष्यामि गायत्रीं च सरस्वतीम्

श्रीसूत उवाच

अथातः संप्रवक्ष्यामि गायत्रीं च सरस्वतीम् ॥

लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः

॥१॥

कश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थद्वये शुभे ॥

स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात्

॥२॥

ऋषय ऊचुः

मुने कश्यपनामासावकरोत्किं हि पातकम् ॥

स्नात्वा तीर्थद्वयेप्यत्र यस्मान्मुक्तोऽभवत्क्षणात्

॥३॥

एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ॥

त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते

॥४॥

श्रीसूत उवाच

गायत्र्याश्च सरस्वत्या माहात्म्यप्रतिपादकम् ॥

इतिहासं प्रवक्ष्यामि शृण्वतां पापनाशनम्

॥५॥

अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ॥

अध्यास्ते हास्तिनपुरं पालयन्धर्मतो महीम्

॥६॥

स राजा जातु विपिने चचार मृगया रतः ॥

षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः

॥७॥

नष्टमेकं स विपिने मार्गयन्मृगमादरात् ॥

ध्यानारूढं मुनिं दृष्ट्वा प्राह तं चीरवाससम्

॥८॥

मया बाणेन विपिने मृगो विद्धोऽधुना मुने ॥

दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः

॥९॥

समाधिनिष्ठो मौनित्वान्न किं चिदपि सोऽब्रवीत् ॥

ततो धनुरटन्याऽसौ स्कंधे तस्य महामुनेः

॥१०॥

निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ ॥

मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै

॥११॥

सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमाः ॥

सखायं शृङ्गिणं प्राह कृशाख्यः स सखा ततः

॥१२॥

पिता तव मृतं सर्पं स्कंधेन वहतेऽधुना ॥

मा भूद्दर्पस्तव सखे मा कृथास्त्वं मदं वृथा

॥१३॥

सोऽवदत्कुपितः शृंगी दित्सुश्शापं नृपाय वै ॥

मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः

॥१४॥

स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ॥

शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम्

॥१५॥

शमीकाख्यः पिता तस्य श्रुत्वा शप्तं सुतेन तम् ॥

नृपं प्रोवाच तनयं शृंगिणं मुनिपुंगवः

॥१६॥

रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ॥

अराजके वयं लोके स्थास्यामः कथमंजसा

॥१७॥

क्रोधेन पातकमभून्न त्वया प्राप्यते सुखम् ॥

यः समुत्पादितं कोपं क्षमयैव निरस्यति

॥१८॥

इह लोके परत्रासावत्यंतं सुखमेधते ॥

क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम्

॥१९॥

ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ॥

भो गौ मुख गत्वा त्वं वद भूपं परीक्षितम्

॥२०॥

इमं शापं मत्सुतोक्तं तक्षकाहिविदंशनम् ॥

पुनरायाहि शीघ्रं त्वं मत्समीपे महामते

॥२१॥

एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ॥

समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम्

॥२२॥

दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ॥

शमीकस्य सुतः शृंगी शशाप त्वां रुषान्वितः

॥२३॥

एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ॥

दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः

॥२४॥

एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ॥

एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम्

॥२५॥

इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ॥

गते गौरमुखे पश्चाद्राजा शोकपरायणः

॥२६॥

अभ्रंलिहमथोत्तुंगमेकस्तंभं सुविस्तृतम् ॥

मध्येगंगं व्यतनुत मंडपं नृपपुंगवः

॥२७॥

महागारुडमंत्रज्ञैरौषधज्ञैश्चिकित्सकैः ॥

तक्षकस्य विषं हंतुं यत्नं कुर्वन्समाहितः

॥२८॥

अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ॥

आस्ते तस्मिन्नृपस्तुंगे मंडपे विष्णुभक्तिमान्

॥२९॥

तस्मिन्नवसरे विप्रः काश्यपो मांत्रिकोत्तमः ॥

राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात्

॥३०॥

सप्तमेऽहनि विप्रेंद्रो दरिद्रो धनकामुकः ॥

अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ

॥३१॥

मध्येमार्गं विलोक्याथ कश्यपं प्रत्यभाषत ॥

ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने

॥३२॥

इति पृष्टस्तदावादीत्काश्यपस्तक्षकं द्विजाः ॥

परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना

॥३३॥

दक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ॥

इत्युक्तवंतं तं विप्रं तक्षकः पुनरब्रवीत्

॥३४॥

तक्षकोहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ॥

न शक्यो ऽब्दशतेनापि महामंत्रायुतैरपि

॥३५॥

चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ॥

अनेकयोजनोच्छ्रायमिमं वटतरुं त्वहम्

॥३६॥

दशाम्युज्जीवयैनं त्वं समर्थोऽस्ति ततो भवान् ॥

इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा

॥३७॥

अभवद्भस्मसात्सोऽपि वृक्षोऽत्यंतं समूर्च्छितः ॥

पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान्

॥३८॥

तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ॥

तं नरं न विजिज्ञाते तौ च काश्यपतक्षकौ

॥३९॥

काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ॥

तन्मंत्रशक्तिं पश्यंतु सर्वे विप्रा हि नोऽधुना

॥४०॥

इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ॥

अजीवयन्मन्त्रशक्त्या काश्यपो मांत्रिकोत्तमः

॥४१॥

नरोऽपि तेन वृक्षेण साकमुज्जीवितोऽभवत् ॥

अथाब्रवीत्तक्षकस्तं काश्यपं मंत्रकोविदम्

॥४२॥

यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ॥

यत्ते राजा धनं दद्यात्ततोपि द्विगुणं धनम्

॥४३॥

ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ॥

इत्युक्त्वानर्घ्यरत्नानि तस्मै दत्त्वा स तक्षकः

॥४४॥

न्यवर्तयत्काश्यपं तं ब्राह्मणं मंत्रको विदम् ॥

अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः

॥४५॥

स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ॥

सोऽब्रवीत्तक्षकः सर्वान्सर्पानाहूय तत्क्षणे

॥४६॥

यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ॥

उपहारफलान्याशु प्रयच्छत परीक्षिते

॥४७॥

तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ॥

तक्षकोपि तदा तत्र कस्मिंश्चिद्बदरीफले

॥४८॥

कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥

अथ राजा प्रदत्तानि सर्पैर्ब्राह्मणरूपकैः

॥४९॥

परीक्षिन्मंत्रवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥

कौतूहलेन जग्राह स्थूलमेकं फलं करे

॥५०॥

अस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ॥

मिथ्या ऋषिवचो मा भूदिति तत्रत्यमानवाः

॥५१॥

अन्योयमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तथा ॥

एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत

॥५२॥

फले रक्तकृमिः सर्वे राज्ञा चापि परीक्षिता ॥

अयं किं मां दशेदद्य कृमिरित्युक्तवा न्नृपः

॥५३॥

निदधे तत्फलं कर्णे सकृमि द्विजसत्तमाः ॥

तक्षकोऽस्मिन्स्थितः पूर्वं कृमिरूपी फले तदा

॥५४॥

निर्गत्य तत्फलादाशु नृपदे हमवेष्टयत् ॥

तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात्

॥५५॥

अनंतरं नृपो विप्रास्तक्षकस्य विषाग्निना ॥

दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा

॥५६॥

कृत्वोर्ध्वदैहिकं तस्य नृपस्य सपुरोहिताः ॥

मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम्

॥५७॥

राजानमभ्यषिंचन्वै गजद्रक्ष णवांछया ॥

तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः

॥५८॥

यो ब्राह्मणो मुनिश्रेष्ठाः स सर्वैर्निंदितो जनैः ॥

बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः

॥५९॥

अवस्थानं न लेभेऽसौ ग्रामे वाप्याश्रमेऽपि वा ॥

यान्यान्देशानसौ यातस्तत्रतत्रमहाजनैः

॥६०॥

तत्तद्देशान्निरस्तः स शाकल्यं शरणं ययौ ॥

प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ॥

इदं विज्ञापयामास शाकल्याय महात्मने

॥६१॥

काश्यप उवाच

भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ

॥६२॥

मुनयो ब्राह्मणाश्चान्ये मां निंदंति सुहृज्जनाः ॥

नास्याहं कारणं जाने किं मां निंदंति मानवाः

॥६३॥

ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥

स्तेयं संसर्गदोषो वा मया नाचरितः क्वचित्

॥६४॥

अन्यान्यपि हि पापानि न कृतानि मया मुने ॥

तथापि निंदंति जना वृथा मां बांधवादयः

॥६५॥

जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ॥

उक्तोऽथ काश्यपेनैवं शाकल्याख्यो महामुनिः ॥

क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः

॥६६॥

शाकल्य उवाच

परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान्

॥६७॥

अयासीदर्धमार्गे तु तक्षकेण निवारितः ॥

चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम्

॥६८॥

यो न रक्षति लोभेन तमाहुर्ब्रह्मघातकम् ॥

क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा

॥६९॥

यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ॥

ब्रह्महा स सुरापी च स्तेयी च गुरुतल्पगः

॥७०॥

संसर्गदोषदुष्टश्च नापि तस्य हि निष्कृतिः ॥

कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा

॥७१॥

कृतघ्न स्यापि शास्त्रेषु प्रायश्चित्तं हि विद्यते ॥

विषरोगातुरं यस्तु समर्थोपि न रक्षति

॥७२॥

न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥

न तेन सह पंक्तौ च भुंजीत सुकृती जनः

॥७३॥

न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥

तत्संभाषणमात्रेण महापातकभाग्भवेत्

॥७४॥

परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ॥

विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता

॥७५॥

व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ॥

अरक्षित्वा नृपं तं त्वं वचसा तक्षकस्य यत्

॥७६॥

निवृत्तस्तेन विप्रेंद्रैर्बांधवैरपि दूष्यसे ॥

स परीक्षिन्महाराजो यद्यपि क्ष णजीवितः

॥७७॥

तथापि यावन्मरणं बुधैः कार्यं चिकित्सनम् ॥

यावत्कण्ठगताः प्राणा मुमूर्षोर्मानवस्य हि

॥७८॥

तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ॥

इति प्राहुः पुरा श्लोकं भिषग्वैद्याब्धिपारगाः

॥७९॥

अतश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥

अर्धमार्गे निवृत्तस्त्वं तेन तं हतवानसि ॥

शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत

॥८०॥

काश्यप उवाच

ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत

॥८१॥

येन मां प्रतिगृह्णीयुर्बांधवाः ससुहृज्जनाः

॥८२॥

कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ॥

काश्यपेनैवमुक्तस्तु शाकल्योपि मुनीश्वरः ॥

क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा

॥८३॥

शाकल्य उवाच

अस्य पापस्य शात्यर्थमुपायं प्रवदामि ते

॥८४॥

तत्कर्त्तव्यं त्वया शीघ्रं विलंबं मा कृथा द्विज ॥

दक्षिणांबुनिधौ सेतौ गंधमादनपर्वते

॥८५॥

अस्ति तीर्थद्वयं विप्रा गायत्री च सरस्वती ॥

तत्र त्वं स्नानमात्रेण शुद्धो भूयाश्च तत्क्षणे

॥८६॥

गायत्र्या च सरस्वत्या जलवात स्पृशो नरः ॥

विधूय सर्वपापानि स्वर्गं यास्यंति निर्मलाः

॥८७॥

तद्याहि शीघ्र विप्र त्वं गायत्रीं च सरस्वतीम् ॥

इत्युक्तः काश्यपस्तेन शाकल्येन द्विजोत्तमाः

॥८८॥

नत्वा मुनिं च शाकल्यं तमापृच्छ्य मुनीश्वरम् ॥

तेन चैवाभ्यनुज्ञातः प्रययौ गन्धमादनम्

॥८९॥

तत्र गत्वा च गायत्रीसरस्वत्यौ च काश्यपः ॥

नत्वा तीर्थद्वयं भक्त्या दण्डपाणिं च भैरवम्

॥९०॥

संकल्पपूर्वं तत्तीर्थे सस्नौ नियमसंयुतः ॥

तीर्थद्वये स्नानमात्रान्मुक्तपापोऽथ काश्यपः

॥९१॥

तीर्थद्वयस्य तीरेऽसौ किंचित्कालं तु तस्थिवान् ॥

तस्मिन्काले च गायत्रीसरस्वत्यौ मुनीश्वराः

॥९२॥

प्रादुर्बभूवतुर्मूर्ते सर्वाभरणभूषिते ॥

देव्यौ ते स नमस्कृत्य काश्यपो भक्तिपूर्वकम्

॥९३॥

के युवां रूपसंपन्ने सर्वालंकारसंयुते ॥

इति पप्रच्छ दृष्ट्वा ते काश्यपो हृष्टमानसः ॥

तेन पृष्टे च गायत्रीसरस्वत्यौ तमूचतुः

॥९४॥

गायत्रीसरस्वत्यावूचतुः

काश्यपावां हि गायत्रीसरस्वत्यौ विधिप्रिये

॥९५॥

एतत्तीर्थस्वरूपेण नित्यं वर्तावहे त्वतः ॥

अत्र तीर्थद्वये स्नानादावां तुष्टे तवाधुना

॥९६॥

वरं मत्तो वृणीष्व त्वं यदिष्टं काश्यप द्विज ॥

स्नांति तीर्थद्वये येऽत्र दास्यावस्तदभीप्सितम्

॥९७॥

श्रुत्वा वचस्तद्गायत्रीसरस्वत्योः स काश्यपः ॥

तुष्टाव वाग्भिरग्र्याभिस्ते देव्यौ वेधसः प्रिये

॥९८॥

काश्यप उवाच

चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ॥

विद्यास्वरूपे गायत्री सरस्वत्यौ शुभे उभे

॥९९॥

सृष्टिस्थित्यंतकारिण्यौ जगतो वेदमातरौ ॥

हव्यकव्यस्वरूपे च चंद्रादित्यविलोचने

॥१००॥

सर्वदेवाधिपे वाणी गायत्र्यौ सततं भजे ॥

गिरिजा कमला चापि युवामेव जगद्धिते

॥१॥

युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ॥

युष्मन्निमेषात्सततं जगतां प्रलयो भवेत्

॥२॥

उन्मेषात्सृष्टिरभवद्भोगायत्रि सरस्वति ॥

युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै

॥३॥

मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ॥

स्वीकुर्वंतु मुनिश्रेष्ठा ब्राह्मणा बांधवास्तथा

॥४॥

इतः परं पापकृत्ये मा मे बुद्धिः प्रवर्तताम् ॥

धर्मे प्रवर्ततां नित्यमयमेव वरो मम

॥५॥

दीयतां भो महादेव्यौ नान्यमिच्छाम्यहं वरम् ॥

इति ते प्रार्थिते तेन काश्यपेन द्विजोत्तमाः

॥६॥

सरस्वती च गायत्री द्वे देव्यौ ब्रह्मणः प्रिये ॥

काश्यपं प्रोचतुः प्रीते जनन्यौ जगतां सदा

॥७॥

काश्यपैतद्वरं सर्वं प्रार्थितं यत्त्वयाऽधुना ॥

अनुग्रहादावयोस्तदचिरेण तवास्तु हि

॥८॥

इत्युक्त्वा तं तु गायत्रीसरस्वत्यौ क्षणेन वै ॥

तिरोधानं गते विप्रास्तस्मिंस्तीर्थद्वये तदा

॥९॥

काश्यपोऽपि कृतार्थः सन्स्व देशं प्रति निर्ययौ ॥

बांधवा ब्राह्मणाः सर्वे काश्यपं गतकिल्बिषम्

॥११०॥

प्रत्यगृह्णंश्च गायत्रीसरस्वत्योर्निमज्जनात् ॥

एवं वः कथितं विप्रा काश्यपस्य विमोक्षणम्

॥११॥

पातकेभ्यो हि गायत्रीसरस्त्योर्निमजनात् ॥

पठते त्विममध्यायं शृणुते वा समाहितः

॥१२॥

यो गायत्र्यां सरस्वत्यां स स्नातफलमश्नुते

॥११३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां काश्यपपापशांतिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥