मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १०

3
ब्रह्मखण्डः · सेतुखण्डः · 10

पापविनाशप्रभावकथनम्

श्रीसूत उवाच

वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ॥

ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम्

॥१॥

योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ॥

स मार्गो ब्रह्मलोकस्य विश्वकर्त्रा विनिर्मितः

॥२॥

लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥

समुद्राश्च महापुण्या वनान्यप्याश्रमाणि च

॥३॥

पुण्यानि क्षेत्रजातानि वेदारण्या दिकानि च ॥

मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः

॥४॥

लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥

सावित्र्या च सरस्वत्या सहैव चतुराननः

॥५॥

हेरंबः षण्मुखश्चैव देवाश्चेंद्रपुरोगमाः ॥

आदित्यादिग्रहाश्चैव तथाष्टौ वसवो द्विजाः

॥६॥

पितरो लोकपालाश्च तथान्ये देवता गणाः ॥

महापातकसंघानां नाशने लोकपावने

॥७॥

दिवानिशं वसंत्यत्र पर्वते गंधमादने ॥

अत्र गौरी सदा तुष्टा हरेण सह वर्तते ॥

अत्र किन्नरकांतानां क्रीडा जागर्ति नित्यशः ॥

तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत्

॥९॥

तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ॥

पूजयंति सदा कालं शंकरं गिरिजापतिम्

॥१०॥

कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥

अंगलग्नैर्विनश्यंति गन्धमादनमारुतैः

॥११॥

असावुल्लोलकल्लोले तिष्ठन्मध्ये महांबुधौ ॥

आसीन्मुनिगणैः सेव्यः पुरा वै गन्धमादनः

॥१२॥

ततो नलेन सेतौ तु बद्धे तन्मध्यगोचरः ॥

रामाज्ञयाखिलैः सेव्यो बभूव मनुजैरपि

॥१३॥

सेतुरूपं गिरिं तं तु प्रार्थयेद्गंधमादनम् ॥

क्षमाधर महापुण्य सर्वदेवनमस्कृत

॥१४॥

विष्ण्वा दयोऽपि ये देवास्सेवंते श्रद्धया सह ॥

तं भवंतमहं पद्भ्यामाक्रमामि नगोत्तम

॥१५॥

क्षमस्व पादघातं मे दयया पापचेतसः ॥

त्वन्मूर्द्धनि कृतावासं शंकरं दर्शयस्व मे

॥१६॥

प्रार्थयित्वा नरस्त्वेवं सेतुरूपं नगोत्तमम् ॥

ततो मृदुपदं गच्छेत्पावनं गन्धमादनम्

॥१७॥

अब्धौ तत्र नरः स्नात्वा पर्वते गन्धमादने ॥

पिंडदानं ततः कुर्यादपि सर्षपमात्रकम्

॥१८॥

तृप्तिं प्रयांति पितरस्तस्य यावद्युगक्षयः ॥

शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति

॥१९॥

स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः ॥

ततस्तस्योपरि महातीर्थं लोकेषु विश्रुतम्

॥२॥

सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥

अस्ति पुण्यतमं विप्राः पवित्रे गन्धमादने

॥२१॥

यस्य संस्मरणादेव गर्भवासो न विद्यते ॥

तत्प्राप्य तु नरः स्नायात्स्वदे हमलनाशनम् ॥

तत्र स्नानान्नरो याति वैकुण्ठं नात्र संशयः

॥२२॥

ऋषय ऊचुः

सूत पापविनाशाख्य तीर्थस्य ब्रूहि वैभवम् ॥

व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने

॥२३॥

श्रीसूत उवाच

ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे ॥

वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्

॥२४॥

अस्याश्रमपदं पुण्यं ब्रह्माश्रमपदे शुभे ॥

नानावृक्षगणाकीर्णं पार्श्वे हिमवतः शुभे

॥२५॥

वहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥

सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम्

॥२६॥

वृतिभिर्बहुभिः कीर्णं तापसैरुशोभितम् ॥

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः

॥२७॥

नियमव्रतसं पन्नैः समाकीर्णं तपस्विभिः ॥

दीक्षितैर्यागहेतोश्च यताहारैः कृतात्मभिः

॥२८॥

वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ॥

वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः

॥२९॥

स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥

वालखिल्यैश्च मुनिभिः संप्राप्तैश्च मरीचिभिः

॥३०॥

तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥

साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः

॥३१॥

आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥

नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै

॥३२॥

तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥

कुर्वतो विविधान्यज्ञान्संप्रहृष्य स शूद्रकः

॥३३॥

अथास्य बुद्धिरभवत्तपःकर्तुमनुत्तमम् ॥

ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम्

॥३४॥

दृढमतिरुवाच

तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥

तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ

॥३५॥

तस्मादभिगतं मां त्वं यागे दीक्षय सुव्रत ॥

ब्रह्मन्नवरवर्णोऽहं शूद्रो जात्यास्मि सत्तम

॥३६॥

शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥

एवमुक्ते तु शूद्रेण तमाह ब्राह्मणस्तदा

॥३७॥

कुलपतिरुवाच

यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥

श्रूयतां यदि ते बुद्धिः शुश्रूषानिरतो भव

॥३८॥

उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥

उपदेशे महान्दोष उपाध्यायस्य विद्यते

॥३९॥

नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥

न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम्

॥४०॥

काव्यं वा नाटकं वापि तथालंकारमेव च ॥

पुराणमितिहासं च शूद्रं नैव तु पाठयेत्

॥४१॥

यदि चोपदिशेद्विप्रः शूद्रं चैतानि कर्हिचित् ॥

त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसंकुलात्

॥४२॥

शूद्राय चोपदेष्टारं द्विजं चंडालवत्त्यजेत् ॥

शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत्

॥४३॥

अतः शुश्रूष भद्रं ते ब्राह्मणाञ्छ्रद्धया सह ॥

शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता

॥४४॥

नहि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥

एवमुक्तस्तु मुनिना स शूद्रोऽचिंतयत्तदा

॥४५॥

किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे पुरा ॥

यथा स्यान्मम विज्ञानं यतिष्येऽहं तथाद्य वै

॥४६॥

इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥

गत्वाश्रमपदाद्दूरं कृतवानुटजं शुभम्

॥४७॥

तत्र वै देवतागारं पुण्यान्यायतनानिच ॥

पुष्पारामादिकं चापि तटाकखननादिकम्

॥४८॥

श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ॥

अभिषेकांश्च नियमानुपवासादिकानपि

॥४९॥

बलिं च कृत्वा हुत्वा च दैवतान्यभ्यपूजयत् ॥

संकल्पनियमोपेतः फलाहारो जितेंद्रियः

॥५०॥

नित्यं कंदैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥

अतिथीन्पूजयामास यथावत्समुपागतान्

॥५१॥

एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥

अथाश्रममगात्तस्य सुमतिर्नाम नामतः

॥५२॥

द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः ॥

स्वागतेन मुनिं पूज्य तोषयित्वा फलादिकैः

॥५३॥

कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥

इत्थं सप्रणिपाताद्यैरुपचारैस्तु पूजितः

॥५४॥

आशीर्भिरभिनंद्यैनं प्रतिगृह्य च सत्क्रियाम् ॥

तमापृछ्य प्रहृष्टाप्मा स्वाश्रमं पुनराययौ

॥५५॥

एवं दिनेदिने विप्रः शूद्रेस्मिन्पक्षपातवान् ॥

आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम्

॥५६॥

बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना ॥

स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे

॥५७॥

अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥

हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर

॥५८॥

पितृकार्यविधानार्थं देवकार्यार्थमेव च ॥

मंत्रानुपदिश त्वं मे महालयविधिं तथा

॥५९॥

अष्टकाश्राद्धकृत्यं च वैदिकं यच्च किंचन ॥

सर्वमेतद्रहस्यं मे ब्रूहि त्वं वै गुरुर्मतः

॥६०॥

एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥

कारयामास तस्यायं पितृकार्यादिकं तथा

॥६१॥

पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ॥

अथ दीर्घेण कालेन पोषितः शूद्रयोनिना

॥६२॥

त्यक्तो विप्रगणैः सोऽयं पंचत्वमगमद्द्विजः वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि

॥६३॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥

भुक्त्वा क्रमेण नरकांस्तदंते स्था वरोऽभवत्

॥६४॥

गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥

जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः

॥६५॥

अथ चंडालतां प्राप शूद्रयोनिमगात्ततः ॥

गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनंतरम्

॥६६॥

प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ॥

उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः

॥६७॥

वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥

गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा

॥६८॥

रुदन्भ्रमन्स्खल न्मूढः प्रहसन्विलपन्नसौ ॥

शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत्

॥६९॥

दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥

सुतमादाय च स्नेहा दगस्त्यं शरणं ययौ

॥७०॥

भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥

तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम्

॥७१॥

अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम् ॥

एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा

॥७२॥

सुखं न भजते ब्रह्मन्रक्ष तं करुणादृशा ॥

नास्ति मे तनयोऽ प्यन्यः पितॄणामृणमुक्तये

॥७३॥

अस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥

त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते

॥७४॥

अग्रणीः शिवभक्तानामुक्तस्त्वं हि महर्षिभिः ॥

त्वां विनास्य परित्राणं न मेपुत्रस्य विद्यते

॥७५॥

पित्रे कृपां कुरुष्व त्वं दयाशीला हि साधवः ॥

श्रीसूत उवाच ॥

एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः

॥७६॥

ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥

अगस्त्य उवाच ॥

पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते

॥७७॥

सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥

कर्माणि वैदिकान्येष सर्वाण्युपदि देश वै

॥७८॥

अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥

जातो भुवि तदंतेषु स्थावरादिषु योनिषु

॥७९॥

इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥

यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा

॥८०॥

क्रूरेण पातकेनाद्धा पूवजन्मकृतेन वै ॥

उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने

॥८१॥

शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥

दक्षिणांभोनिधौ विप्र सेतुरूपो महागिरिः

॥८२॥

वर्तते दैवतैः सेव्यः पावनो गन्धमादनः ॥

तस्योपरि महातीर्थं नाम्ना पापविनाशनम्

॥८३॥

अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥

भूतप्रेतपिशाचानां वेतालब्रह्म रक्षसाम्

॥८४॥

महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥

सुतमादाय गच्छ त्वं तत्तीर्थं सेतुमध्यगम्

॥८५॥

प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥

स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति

॥८६॥

नैवोपायांतरं तस्य विनाशे विद्यते भुवि ॥

तस्माच्छीघ्रं प्रयाहि त्वं रामसेतुं विमुक्तिदम्

॥८७॥

तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥

मा विलंबं कुरुष्वात्र त्वरया याहि वै द्विज

॥८८॥

इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत् ॥

अनुज्ञातश्च तेनासौ प्रययौ गंधमादनम्

॥८९॥

सुतेन साकं विप्रेंद्रो गत्वा पापविनाशनम् ॥

संकल्पपूर्वं संस्नाप्य दिनत्रयमसौसुतम्

॥९॥

सस्नौ स्वयं च विप्रेंद्राः पिता पापविनाशने ॥

अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा

॥९१॥

समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥

सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः

॥९२॥

देहांते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥

पितापि तत्र स्नानेन देहांते मुक्तिमाप्तवान्

॥९३॥

तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान्क्रमात् ॥

अनेकासु जनित्वा च कुत्सितास्वपियोनिषु

॥९४॥

गृध्रजन्मा भवत्पश्चाद्गंधमादनपर्वते ॥

स कदाचिज्जलं पातुं तीर्थे पापविनाशने

॥९५॥

समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥

तदैव दिव्यदेहः सन्सर्वाभरणभूषितः

॥९६॥

दिव्यमाल्यांबरधरो रक्तचंदनरूषितः ॥

दिव्यं विमानमारुह्य शोभितश्छत्रचामरैः

॥९७॥

उत्तमस्त्रीपरिवृतः प्रययावमरालयम्

॥९८॥

श्रीसूत उवाच

एवं प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥

स्वर्गदं मोक्षदं पुण्यं प्रायश्चित्तकरं तथा ॥

ब्रह्मविष्णुमहे शानैः सेवितं सुरसेवितम्

॥९९॥

पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥

श्रेयोर्थी पुरुषस्तस्मात्स्नायात्पापविनाशने

॥१॥

इत्थं रहस्यं कथितं मुनींद्रास्तद्वैभवं पापविनाशनस्य ॥

यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिंद्यकृत्यौ

॥१०१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये गंधमादनप्रशंसायां पापविनाशप्रभावकथनंनाम दशमोऽध्यायः ॥ १० ॥