मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४८

3
ब्रह्मखण्डः · सेतुखण्डः · 48

रामनाथं समुद्दिश्य कथां पापविनाशिनीम्

श्रीसूत उवाच

रामनाथं समुद्दिश्य कथां पापविनाशिनीम् ॥

प्रवक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः

॥१॥

पांड्यदेशाधिपो राजा पुरासीच्छंकराभिधः ॥

ब्रह्मण्यः सत्यसंधश्च यायजूकश्च धार्मिकः

॥२॥

वेदवेदांगतत्त्वज्ञः परसैन्यविदारणः ॥

चतुरोऽप्याश्रमान्वर्णान्धर्मतः परिपालयन्

॥३॥

वैदिकाचारनिरतः पुराणस्मृतिपारगः ॥

शिवविष्ण्वर्चको नित्यमन्यदैवतपूजकः

॥४॥

महादानप्रदो नित्यं ब्राह्मणानां महात्मनाम् ॥

मृगयार्थं ययौ धीमान्स कदाचित्तपोवनम्

॥५॥

सिंहव्याघ्रेभमहिष क्रूरसत्वभयंकरम् ॥

झिल्लिकाभीषणरवं सरीसृपसमाकुलम्

॥६॥

भीमश्वापदसंपूर्णं दावानलभयंकरम् ॥

महारण्यं प्रविश्याथ शंकरो राजशेखरः

॥७॥

अनेकसैनिकोपेत आखेटिकुलसंकुलः ॥

पादुकागूढचरणो रक्तोष्णीषो हरिच्छदः

॥८॥

बद्धगोधांगुलित्राणो धृतकोदण्डसायकः ॥

कक्ष्याबद्धमहाखङ्गः श्वेताश्ववरमास्थितः

॥९॥

सुवेषधारी सन्नद्धः पत्तिसंघसमावृतः ॥

कांतारेषु च सर्वेषु पर्वतेषु गुहासु च

॥१०॥

समुत्तीर्ण महास्रोता युवा सिंहपराक्रमः ॥

विचचार बलैः साकं दरीषु मृगयन्मृगान्

॥११॥

बध्यतां वध्यतामेष याति वेगान्मृगो वने ॥

एवं वदत्सु सैन्येषु स्वयमुत्प्लुत्य शंकरः

॥१२॥

मृगं हंति महाराजो विगाह्य विपिनस्थलीम् ॥

सिंहान्वराहान्महिषान्कुञ्जराच्छरभांस्तथा

॥१३॥

विनिघ्नन्स मृगानन्यान्वन्याञ्छंकरभूपतिः ॥

कुत्रचिद्विपिनोद्देशे दरीमध्यनिवासिनम्

॥१४॥

व्याघ्रचर्मधरं शांतं मुनिं नियतमानसम् ॥

व्याघ्रबुद्ध्या जघानाशु शरेणानतपर्वणा

॥१५॥

अतिवेगेन विप्रेंद्रास्तत्पत्नीं च ससायकः ॥

निजघान पतिप्राणां निविष्टां पत्युरंतिके

॥१६॥

विलोक्य मातापितरौ तत्पुत्रो निहतौ वने ॥

रुरोद भृशदुःखार्तो विललाप च कातरः

॥१७॥

भोस्तात मातर्मां हित्वा युवां यातौ क्व वाधुना ॥

अहं कुत्र गमिष्यामि को वा मे शरणं भवेत्

॥१८॥

को मामध्यापयेद्वेदाञ्छास्त्रं वा पाठयेत्पितः ॥

अंब मे भोजनं का वा दास्यते सोपदेशकम्

॥१९॥

आचाराञ्च्छिक्षयेत्को वा तात त्वयि मृतेऽधुना ॥

अंब बालं प्रकुपितं का वा मामुपलाप()येत्

॥२०॥

युवां निरागसावद्य केन पापेन सायकैः ॥

निहतौ वै तपोनिष्ठौ मत्प्राणौ मद्गुरू वने

॥२१॥

एवं तयोः सुतो विप्रा मुक्तकण्ठं रुरोद वै ॥

अथ प्रलपितं श्रुत्वा शंकरो विपिने चरन्

॥२२॥

तच्छब्दाभिमुखः सद्यः प्रययौ स दरीमुखम् ॥

तत्रत्या मुनयोऽप्याशु समागच्छंस्तमाश्रमम्

॥२३॥

ते दृष्ट्वा मुनयः सर्वे शरेण निहतं मुनिम् ॥

तत्पत्नीं च हतां विप्रा राजानं च धनुर्धरम्

॥२४॥

विलपंतं सुतं चापि विलोक्य भृशविह्वलाः ॥

पुत्रमाश्वासयामासुर्मा रोदीरिति कातरम्

॥२५॥

मुनय ऊचुः

आढ्ये वापि दरिद्रे वा मूर्खे वा पंडितेऽपि वा ॥

पीने वाथ कृशे वापि समवर्ती परेतराट्

॥२६॥

वने वा नगरे ग्रामे पर्वते वा स्थलांतरे ॥

मृत्योर्वशे प्रयातव्यं सर्वैरपि हि जंतुभिः

॥२७॥

वत्स नित्यं च गर्भस्थैर्जातैरपि च जंतुभिः ॥

युवभिः स्थविरैः सर्वैर्यातव्यं यमपत्तनम्

॥२८॥

वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥

काले प्राप्ते त्वयं देहस्त्यक्तव्यो द्विजपुत्रक

॥२९॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च संकरैः ॥

यातव्यं प्रेतनिलये द्विजपुत्र महामते

॥३०॥

देवाश्च मुनयो यक्षा गंधर्वोरगराक्षसाः ॥

अन्ये च जंतवः सर्वे ब्रह्मविष्णुहरादयः

॥३१॥

सर्वे यास्यंति विलयं न त्वं शोचितुमर्हसि ॥

अद्वयं सच्चिदानंदं यद्ब्रह्मोपनिषद्गतम्

॥३२॥

न तस्य विलयो जन्म वर्धनं चापि सत्तम ॥

मलभांडे नवद्वारे पूयासृक्छोणितालये

॥३३॥

देहेऽस्मिन्बुद्बुदाकारे कृमियूथसमाकुले ॥

कामक्रोधभयद्रोहमोहमात्सर्यकारिणि

॥३४॥

परदारपरक्षेत्रपरद्रव्यैकलोलुपे ॥

हिंसासूयाशुचिव्याप्ते विष्ठामूत्रैकभाजने

॥३५॥

यः कुर्याच्छोभनधियं स मूढः स च दुर्मतिः ॥

बहुच्छिद्रघटाकारे देहेऽस्मिन्नशुचौ सदा

॥३६॥

वायोरवस्थितिः किं स्यात्प्राणाख्यस्य चिरं द्विज ॥

अतो मा कुरु शोकं त्वं जननीं पितरं प्रति

॥३७॥

तौ स्वकर्मवशाद्यातौ गृहं त्यक्त्वा त्विदं क्वचित् ॥

तव कर्मवशात्त्वं च तिष्ठस्यस्मिन्महीतले

॥३८॥

यदा कर्मक्षयस्ते स्यात्तदा त्वं च मरिष्यसि ॥

मरिष्यमाणप्रेतो हि मृतप्रेतस्य शोचति

॥३९॥

यस्मिन्काले समुत्पन्नौ तव माता पिता तथा ॥

न तस्मिंस्त्वं समुत्पन्नस्ततो भिन्ना गतिर्हि वः

॥४०॥

यदि तुल्या गतिस्ते स्यात्ताभ्यां सह महामते ॥

तर्हि त्वयापि यातव्यं मृतौ यत्र हि तौ गतौ

॥४१॥

मृतानां बांधवा ये तु मुंचंत्यश्रूणि भूतले ॥

पिबंत्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै

॥४२॥

अतः शोकं परित्यज्य धृतिं कृत्वा समाहितः ॥

अनयोः प्रेतकार्याणि कुरु त्वं वैदिकानि तु

॥४३॥

शरघातान्मृतावेतौ यस्मात्ते जननी पिता ॥

अतस्तद्दोषशांत्यर्थमस्थीन्यादाय वै तयोः

॥४४॥

रामनाथशिवक्षेत्रे रामसेतौ विमुक्तिदे ॥

स्थापयस्व तथा श्राद्धं सपिंडीकरणादिकम्

॥४५॥

तत्रैव कुरु शुद्ध्यर्थं तयोर्बाह्मणपुत्रक ॥

तेन दुर्मृत्युदोषस्य शांतिर्भवति नान्यथा

॥४६॥

श्रीसूत उवाच

एवमुक्तः स मुनिभिः शाकल्यस्य सुतो द्विजाः ॥

जांगलाख्यस्तयोः सर्वं पितृमेधं चकार वै

॥४७॥

अन्येद्युरस्थीन्यादाय हालास्यं प्रययौ च सः ॥

तस्माद्रामेश्वरं सद्यो गत्वाऽयं जांगलो द्विजः

॥४८॥

मुनिप्रोक्तप्रकारेण तस्मिन्रामेश्वरस्थले ॥

निधाय पित्रोरस्थीनि श्राद्धादीन्यकरोत्तथा

॥४९॥

प्रथमाब्दिकपर्यंतं कार्यं तत्राकरोच्च सः ॥

स्थित्वाब्दं स मुनेः पुत्र एको जांगलसंज्ञकः

॥५॥

आब्दिकांते दिने विप्रो रात्रौ स्वप्ने विलोक्य तु ॥

स्वमातरं च पितरं शंखचक्रगदाधरौ

॥५१॥

गरुडोपरि संविष्टौ पद्ममालाविभूषितौ ॥

शोभितौ तुलसीदाम्ना स्फुरन्मकरकुंडलौ

॥५२॥

कौस्तुभालंकृतोरस्कौ पीतांबरविराजितौ ॥

एवं दृष्ट्वा मुनिसुतो जांगलः सुप्रसन्नधीः

॥५३॥

स्वाश्रमं पुनरागत्य सुखेन न्यवसद्द्विजाः ॥

स्वप्नदृष्टं च वृत्तांतं मातापित्रोः स जांगलः

॥५४॥

तेभ्यो न्यवेदयत्सर्वं ब्राह्मणेभ्योऽतिहर्षितः ॥

श्रुत्वा ते मुनयो वृत्तमासन्संप्रीतमानसाः

॥५५॥

अथ राजानमालोक्य सर्वे तेऽपि महर्षयः ॥

अवदन्कुपिता विप्राः शपंतः शंकरं नृपम्

॥५६॥

पांड्यभूप महामूर्ख क्रौर्याद्ब्राह्मणघातक ॥

स्त्रीहत्या ब्रह्महत्या च कृता यस्मात्त्वयाधुना

॥५७॥

अतः शरीरसंत्यागं कुरु त्वं हव्यवाहने ॥

नोचेत्तव न शुद्धिः स्यात्प्रायश्चित्तशतैरपि

॥५८॥

त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भवेत् ॥

अस्मत्सकाशाद्गच्छ त्वं पांड्यानां कुलपांसन

॥५९॥

इत्युक्तो मुनिभिः पांड्यः शंकरो द्विजपुंगवाः ॥

तथास्तु देहसंत्यागं करिष्ये हव्यवाहने

॥६०॥

ब्रह्महत्याविशुद्ध्यर्थं भवतां सन्निधावहम् ॥

अनुग्रहं मे कुर्वंतु भवंतो मुनिसत्तमाः

॥६१॥

तथा शरीर संत्यागात्पातकं मे लयं व्रजेत् ॥

एवमुक्त्वा मुनीन्सर्वाञ्च्छंकरः पांड्यभूपतिः

॥६२॥

स्वान्मंत्रिणः समाहूय बभाषे वचनं त्विदम् ॥

भो मंत्रिणो ब्रह्महत्या मयाऽकार्यविचारतः

॥६३॥

स्त्रीहत्या च तथा क्रूरा महानरकदायिनी ॥

एतत्पातकशुद्ध्यर्थं मुनीनां वचनादहम्

॥६४॥

प्रदीप्ते ऽग्नौ महाज्वाले परित्यक्ष्ये कलेवरम् ॥

काष्ठान्यानयत क्षिप्रं तैरग्निश्च समिध्यताम्

॥६५॥

मम पुत्रं च सुरुचिं राज्ये स्थापयताचिरात् ॥

मा शोकं कुरुतामात्या दैवतं दुरतिक्रमम्

॥६६॥

इतीरिता नृपतिना मंत्रिणो रुरुदुस्तदा ॥

पांड्यनाथ महाराज रिपूणामपि वत्सल

॥६७॥

वयं हि भवता नित्यं पुत्रवत्परिपालिताः ॥

त्वां विना न प्रवेक्ष्याम पुरीं देवपुरोपमाम्

॥६८॥

हव्यवाहं प्रवेक्ष्यामो महा काष्ठसमेधितम् ॥

तेषां प्रलपितं श्रुत्वा पांड्य शंकरभूपतिः ॥

प्रोवाच मंत्रिणः सर्वान्वचनं सांत्वपूर्वकम्

॥६९॥

शंकर उवाच

किं करिष्यथ भोऽमात्या महापातकिना मया

॥७०॥

सिंहासनं समारुह्य न कर्तुं युज्यते बत ॥

चतुरर्णवपर्यंतधरापालनमंजसा

॥७१॥

मत्पुत्रं सुरुचिं शीघ्रमतः स्थापयतासने ॥

काष्ठान्यानयत क्षिप्रं प्रवेष्टुं हव्यवाहनम्

॥७२॥

मम मंत्रिवरा यूयं विलंबं त्यजताधुना ॥

इत्युक्ता मंत्रिणः काष्ठं समानिन्युः क्षणेन ते

॥७३॥

अग्निं प्रज्वलितं काष्ठैर्दृष्ट्वा शंकरभूपतिः ॥

स्नात्वाचम्य विशुद्धात्मा मुनीनां संनिधौ तदा

॥७४॥

अग्निं प्रदक्षिणीकृत्य तान्मुनीनपि सत्वरम् ॥

अग्निं मुनीन्नमस्कृत्य ध्यात्वा देवमुमापतिम्

॥७५॥

अग्नौ पतितुमारेभे धैर्यमालंब्य भूपतिः ॥

तस्मिन्नवसरे विप्रा मुनीनामपि शृण्वताम्

॥७६॥

अशरीरा समुदभूद्वाणी भैरवनादिनी ॥

भोः शंकर महीपाल मानलं प्रविशाधुना

॥७७॥

ब्रह्महत्यानिमित्तं ते भयं मा भून्महामते ॥

तवोपदेशं वक्ष्यामि रहस्यं वेदसंमितम्

॥७८॥

शृणुष्वावहितो राजन्मदुक्तं क्रियतां त्वया ॥

दक्षिणांबुनिधेस्तीरे गंधमादनपर्वते

॥७९॥

रामसेतौ महापुण्ये महापातकनाशने ॥

रामप्रतिष्ठितं लिगं रामनाथं महेश्वरम्

॥८०॥

सेवस्व वर्षमेकं त्वं त्रिकालं भक्तिपूर्वकम् ॥

प्रदक्षिणप्रक्रमणं नमस्कारं च वै कुरु

॥८१॥

महाभिषेकः क्रियतां रामनाथस्य वै त्वया ॥

नैवेद्यं विविधं राजन्क्रियतां च दिनेदिने

॥८२॥

चन्दनागरुकर्पूरै रामलिंगं प्रपूजय ॥

भारद्वयेन गव्येन ह्याज्येन त्वभिषेचय

॥८३॥

प्रत्यहं च गवां क्षीरैर्द्विभारपरिसंमितैः ॥

मधुद्रोणेन तल्लिंगं प्रत्यहं स्नापय प्रभोः

॥८४॥

प्रत्यहं पायसान्नेन नैवेद्यं कुरु भूपते ॥

प्रत्यहं तिलतैलेन दीपाराधनमाचर

॥८५॥

एतेन तव राजेंद्र रामनाथस्य शूलिनः ॥

स्त्रीहत्य्रा ब्रह्महत्या च तत्क्षणादेव नश्यतः

॥८६॥

दर्शनाद्रामनाथस्य भ्रूणहत्याशतानि च ॥

अयुतं ब्रह्महत्यानां सुरापानायुतं तथा

॥८७॥

स्वर्णस्तेयायुतं राजन्गुरुस्त्रीगमनायुतम् ॥

एतत्संसर्गदोषाश्च विनश्यंति क्षणाद्विभो

॥८८॥

महापातकतुल्यानि यानि पापानि संति वै ॥

तानि सर्वाणि नश्यंति रामनाथस्य सेवया

॥८९॥

महती रामनाथस्य सेवा लभ्येत चेन्नृणाम् ॥

किं गंगया च गयया प्रयागेणाध्वरेण वा

॥९०॥

तद्गच्छ रामसेतुं त्वं रामनाथं भजानिशम् ॥

विलंबं मा कुरु विभो गमने च त्वरां कुरु

॥९१॥

इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥

तच्छ्रुत्वा मुनयः सर्वे त्वरयंति स्म भूपतिम्

॥९२॥

गच्छ शीघं महाराज रामसेतुं विमुक्तिदम् ॥

रामनाथस्य माहात्म्यमज्ञात्वास्माभिरीरितम्

॥९३॥

देहत्यागं कुरुष्वेति वह्नौ प्रज्वलितेऽधुना ॥

अनुज्ञातो मुनिवरैरिति राजा स शंकरः

॥९४॥

चतुरंगबलं पुर्यां प्रापयित्वा त्वरान्वितः ॥

नमस्कृत्य मुनीन्सर्वान्प्रहृष्टेनांतरात्मना

॥९५॥

वृतः कतिपयैः सैन्यैः समादाय धनं बहु ॥

रामनाथस्य सेवार्थमयासीद्गंधमादनम्

॥९६॥

उवास वर्षमेकं च रामसेतौ विशुद्धिदे ॥

एकभुक्तो जितक्रोधो विजितेंद्रियसंचयः

॥९७॥

त्रिसंध्यं रामनाथं च सेवमानः सभक्तिकम् ॥

प्रददौ रामनाथाय दशभारं धनं मुदा

॥९८॥

प्रत्यहं रामनाथस्य महापूजामकारयत् ॥

अकरोच्च धनुष्कोटौ प्रत्यहं भक्तिपूर्वकम्

॥९९॥

स्नानं प्रतिदिनं चान्नं ब्राह्मणेभ्य ददौ मुदा ॥

अशरीरावचःप्रोक्तमखिलं पूजनं तथा

॥१००॥

एवं कृतवतस्तस्य वर्षमेकं गतं द्विजाः ॥

वर्षांते स शुचिर्भूत्वा शंकरस्तुष्टमानसः ॥

तुष्टाव परमेशानं रामनाथं घृणानिधिम्

॥१॥

शंकर उवाच

नमामि रुद्रमीशानं रामनाथमुमापतिम्

॥२॥

पाहि मां कृपया देव ब्रह्महत्यां दहाशु मे ॥

त्रिपुरघ्न महादेव कालकूटविषादन

॥३॥

रक्ष मां त्वं दयासिंधो स्त्रीहत्यां मे विमोचय ॥

गंगाधर विरूपाक्ष रामनाथ त्रिलोचन

॥४॥

मां पालय कृपादृष्ट्या छिन्धि मत्पातकं विभो ॥

कामारे कामसंदायिन्भक्तानां राघवेश्वर

॥५॥

कटाक्षं पातय मयि शुद्धं मां कुरु धूर्जटे ॥

मार्कंडेयभयत्राण मृत्युंजय शिवाव्यय

॥६॥

नमस्ते गिरिजार्धाय निष्पापं कुरु मां सदा ॥

रुद्राक्षमालाभरण चन्द्रशेखर शंकर

॥७॥

वेदोक्तसम्यगाचारयोग्यं मां कुरु ते नमः ॥

सूर्यदंतभिदे तुभ्यं भारतीनासिकाच्छिदे

॥८॥

रामेश्वराय देवाय नमो मे शुद्धिदो भव ॥

आनंदं सच्चिदानंदं रामनाथं वृषध्वजम्

॥९॥

भूयोभूयो नमस्यामि पातकं मे विनश्यतु ॥

भक्त्यैवं स्तुवतस्तस्य रामनाथं महेश्वरम्

॥११०॥

निर्जगाम मुखाद्राज्ञो ब्रह्महत्यातिभीषणा ॥

नीलवस्त्रधरा क्रूरा महारक्तशिरोरुहा

॥११॥

तां ब्रह्महत्यां बीभत्सां नृपवक्त्राद्विनिर्गताम् ॥

निजघान त्रिशूलेन भैरवो रुद्रशासनात्

॥१२॥

हतायां ब्रह्महत्यायां भैरवेण शिवाज्ञया ॥

रामनाथो नृपं प्राह स्तुत्या तस्य प्रसन्नधीः

॥१३॥

श्रीरामनाथ उवाच

पांड्यभूप महाराज स्तोत्रेणानेन तेऽनघ ॥

प्रसन्नोऽहं वरं दास्ये तुभ्यं वरय चेप्सितम्

॥१४॥

स्त्रीहत्याब्रह्महत्याभ्यां यस्ते दोषः स निर्गतः ॥

शुद्धो विधूतपापोऽसि राज्यं पालय पूर्ववत्

॥१५॥

ये मामत्र निषेवंते भक्तियुक्तेन चेतसा ॥

नाशयामि नृणां तेषां ब्रह्महत्यायुतान्यपि

॥१६॥

सुरापानायुतं भूप गुरुस्त्रीगमनायुतम् ॥

स्वर्णस्तेयायुतमपि तत्संसर्गायुतं तथा

॥१७॥

अन्यान्यपि च पापानि नाशयामि न संशयः ॥

मत्सेविनो नरा राजन्न भूयः संसरंति ते

॥१८॥

किं तु सायुज्यरूपां मे मुक्तिं यास्यन्त्यसंशयम् ॥

स्तुवंत्यनेन स्तोत्रेण ये मां भक्तिपुरःसरम्

॥१९॥

नाशयाम्यहमेतेषां महापातकसंचयम् ॥

प्रीतोऽहं तव भक्त्या च स्तोत्रेण मनुजेश्वर

॥१२०॥

यथेष्टं प्रार्थय वरं मत्तस्त्वं वरदान्नृप ॥

एवमुक्तः शिवेनाथ शंकरो नृपपुंगवः ॥

रामनाथं बभाषे तं शंकरं करुणानिधिम्

॥२१॥

नृप उवाच

तव संदर्शनेनाहं कृतार्थोऽस्मि महेश्वर

॥२२॥

इतः परं प्रार्थनीयं मम नास्त्यधुनाधिकम् ॥

मृकण्डुसुतसंतापहारि पादयुगं तव

॥२३॥

दृष्टं मया महादेव नातः प्रार्थ्यं विभोस्ति वै ॥

त्वत्पादपद्मयुगुले निश्चला भक्तिरस्तु मे

॥२४॥

न पुनर्जन्म मे भूयान्मातॄणामुदरेऽशुचौ ॥

ये मत्कृतमिदं स्तोत्रं कीर्तयंति तव प्रभो ॥

ते नराः पापनिर्मुक्तास्त्वत्सेवाफलमाप्नुयुः

॥२५॥

श्रीसूत उवाच

तथास्त्वित्यनुगृह्यैनं रामनाथो द्विजोत्तमाः

॥२६॥

नीलकण्ठो विरूपाक्षो लिंगरूपे तिरोहितः ॥

राजापि रामनाथेन विहितानुग्रहस्ततः

॥२७॥

रामनाथं नमस्कृत्य कृतार्थेनांतरात्मना ॥

स सेनासंवृतः प्रीतः प्रययावात्मनः पुरीम्

॥२८॥

वृत्तांतमेतमवदन्मुनीनां वनवासिनाम् ॥

तेभ्यषिंचन्नृपं राज्ये मुनयः प्रीतमानसाः

॥२९॥

पुत्रदारयुतो राजा प्राप्य राज्यमकण्टकम् ॥

मंत्रिभिः सहितो विप्रा ररक्ष पृथिवीं चिरम्

॥१३०॥

ततोंतकाले संप्राप्ते ध्यायन्रामेश्वरं शिवम् ॥

देहांते रामनाथस्य सायुज्यं प्रययौ शुभम्

॥३१॥

एवं वः कथितं विप्रा रामनाथस्य वैभवम् ॥

चरितं पुण्यमाख्यानं शंकराख्य नृपस्य च

॥३२॥

शृण्वन्पठन्वा मनुजस्त्विममध्यायमादरात् ॥

सर्वपापविनिर्मुक्तो रामनाथं समश्नुते

॥१३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसायां शाकल्यदुर्मरणदोषशांतिपूर्वक शंकरस्त्रीहत्याब्रह्महत्यादोषशांतिवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥