रामनाथलिंगप्रतिष्ठाकारणवर्णनम्
श्रीराम उवाच
पंपारण्ये वयं दीनास्त्वया वानरपुंगव ॥
आश्वासिताः कारयित्वा सख्यमादित्यसूनुना
॥१॥त्वां दृष्ट्वा पितरं बन्धून्कौसल्यां जननीमपि ॥
न स्मरामो वयं सर्वान्मे त्वयोपकृतं बहु
॥२॥मदर्थं सागरस्तीर्णो भवता बहु योजनः ॥
तलप्रहाराभिहतो मैनाकोऽपि नगोत्तमः
॥३॥नागमाता च सुरसा मदर्थं भवता जिता ॥
छायाग्रहां महाक्रूराम वधीद्राक्षसीं भवान्
॥४॥सायं सुवेलमासाद्य लंकामाहत्य पाणिना ॥
अयासी रावणगृहं मदर्थं त्वं महाकपे
॥५॥सीतामन्विष्य लंकायां रात्रौ गतभयो भवान् ॥
अदृष्ट्वा जानकीं पश्चादशोकवनिकां ययौ
॥६॥नमस्कृत्य च वैदेहीमभिज्ञानं प्रदाय च ॥
चूडामणिं समादाय मदर्थं जानकीकरात्
॥७॥अशोकवनिकावृक्षानभांक्षीस्त्वं महाकपे ॥
ततस्त्वशीतिसाहस्रान्किंकरान्नाम राक्षसान्
॥८॥रावणप्रतिमान्युद्धे पत्यश्वेभरथाकुलान् ॥
अवधीस्त्वं मदर्थे वै महाबलपराक्रमान्
॥९॥ततः प्रहस्ततनयं जंबुमालिनमागतम् ॥
अवधीन्मंत्रितनयान्सप्त सप्तार्चिवर्चसः
॥१०॥पंच सेनापतीन्पश्चादनयस्त्वं यमालयम् ॥
कुमारमक्षमवधीस्ततस्त्वं रणमूर्धनि
॥११॥तत इन्द्रजिता नीतो राक्षसेंद्र सभां शुभाम् ॥
तत्र लंकेश्वरं वाचा तृणीकृत्यावमन्य च
॥१२॥अभांक्षीस्त्वं पुरीं लंकां मदर्थं वायुनंदन ॥
पुनः प्रतिनिवृत्तस्त्वमृष्यमूकं महागिरिम्
॥१३॥एवमादि महादुःखं मदर्थं प्राप्तवानसि ॥
त्वमत्र भूतले शेषे मम शोकमुदीरयन्
॥१४॥अहं प्राणान्परित्यक्ष्ये मृतोऽसि यदि वायुज ॥
सीतया मम किं कार्यं लक्ष्मणेनानुजेन वा
॥१५॥भरतेनापि किं कार्यं शत्रुघ्नेन श्रियापि वा ॥
राज्येनापि न मे कार्यं परेतस्त्वं कपे यदि
॥१६॥उत्तिष्ठ हनुमन्वत्स किं शेषेऽद्य महीतले ॥
शय्यां कुरु महाबाहो निद्रार्थं मम वानर
॥१७॥कन्दमूलफलानि त्वमाहारार्थं ममाहर ॥
स्नातुमद्य गमिष्यामि शीघ्रं कलशमानय
॥१८॥अजिनानि च वासांसि दर्भांश्च समुपाहर ॥
ब्रह्मास्त्रेणावबद्धोऽहं मोचितश्च त्वया हरे
॥१९॥लक्ष्मणेन सह भ्रात्रा ह्यौषधानयनेन वै ॥
लक्ष्मणप्राणदाता त्वं पौलस्त्यमदनाशनः
॥२०॥सहायेन त्वया युद्धे राक्षसा न्रावणादिकान् ॥
निहत्यातिबलान्वीरानवापं मैथिलीमहम्
॥२१॥हनूमन्नंजनासूनो सीताशोकविनाशन ॥
कथमेवं परित्यज्य लक्ष्मणं मां च जानकीम्
॥२२॥अप्रापयित्वायोध्यां त्वं किमर्थं गतवानसि ॥
क्व गतोसि महावीर महाराक्षसकण्टक
॥२३॥इति पश्यन्मुखं तस्य निर्वाक्यं रघुनंदनः ॥
प्ररुदन्नश्रुजालेन सेचयामास वायुजम्
॥२४॥वायुपुत्रस्ततो मूर्च्छामपहाय शनैर्द्विजाः ॥
पौलस्त्यभयसंत्रस्तलोकरक्षार्थमागतम्
॥२५॥आश्रित्य मानुषं भावं नारायणमजं विभुम् ॥
जानकीलक्ष्मणयुतं कपिभिः परिवारितम्
॥२६॥कालांभोधरसंकाशं रणधूलिसमुक्षितम् ॥
जटामण्डलशोभाढ्यं पुण्डरीकायतेक्षणम्
॥२७॥खिन्नं च बहुशो युद्धे ददर्श रघुनंदनम् ॥
स्तूयमानममित्रघ्नं देवर्षिपितृकिन्नरैः
॥२८॥दृष्ट्वा दाशरथिं रामं कृपाबहुलचेतसम् ॥
रघुनाथकरस्पर्शपूर्णगात्रः स वानरः
॥२९॥पतित्वा दण्डवद्भूमौ कृतांजलिपुटो द्विजाः ॥
अस्तौषीज्जानकीनाथं स्तोत्रैः श्रुतिमनोहरैः
॥३०॥हनूमानुवाच
नमो रामाय हरये विष्णवे प्रभविष्णवे ॥
आदिदेवाय देवाय पुराणाय गदाभृते
॥३१॥विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ॥
प्रहृष्टवानरानीकजुष्टपादांबुजाय ते
॥३२॥निष्पिष्ट राक्षसेंद्राय जगदिष्टविधायिने ॥
नमः सहस्रशिरसे सहस्रचरणाय च
॥३३॥सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ॥
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः
॥३४॥हरये नारसिंहाय दैत्यराजविदारिणे ॥
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर
॥३५॥त्रिविक्रमाय भवते बलियज्ञ विभेदिने ॥
नमो वामनरूपाय नमो मंदरधारिणे
॥३६॥नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ॥
नमः परशुरामाय क्षत्रियांतकराय ते
॥३७॥नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ॥
महादेव महाभीम महाकोदण्डभेदिने
॥३८॥क्षत्रियांतकरक्रूरभार्गवत्रासकारिणे ॥
नमोऽस्त्वहिल्या संतापहारिणे चापहारिणे
॥३९॥नागायुतवलोपेतताटकादेहहारिणे ॥
शिलाकठिनविस्तारवालिवक्षोविभेदिने
॥४०॥नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ॥
दशस्यंदनदुःखाब्धिशोषणागस्त्यरूपिणे
॥४१॥अनेकोर्मिसमाधूतसमुद्रमदहारिणे ॥
मैथिलीमानसां भोजभानवे लोकसाक्षिणे
॥४२॥राजेंद्राय नमस्तुभ्यं जानकीपतये हरे ॥
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन
॥४३॥रामाय रामचन्द्राय वरेण्याय सुखात्मने ॥
विश्वामित्रप्रियायेदं नमः खरविदारिणे
॥४४॥प्रसीद देवदेवेश भक्तानामभयप्रद ॥
रक्ष मां करु णासिंधो रामचन्द्र नमोऽस्तु ते
॥४५॥रक्ष मां वेदवचसामप्यगोचर राघव ॥
पाहि मां कृपया राम शरणं त्वामुपैम्यहम्
॥४६॥रघुवीर महामोहमपाकुरु ममाधुना ॥
स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु
॥४७॥सर्वावस्थासु सर्वत्र पाहि मां रघुनंदन ॥
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये
॥४८॥त्वमेव त्वन्महत्त्वं वै जानासि रघुनंदन ॥
इति स्तुत्वा वायुपुत्रो रामचंद्रं घृणानिधिम्
॥४९॥सीतामप्यभितुष्टाव भक्तियुक्तेन चेतसा ॥
जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम्
॥५०॥दारिद्र्यरणसंहर्त्रीं भक्तानामिष्टदायिनीम् ॥
विदेहराजतनयां राघवानंदकारिणीम्
॥५१॥भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ॥
पौलस्त्यैश्वर्यसंहर्त्रीं भक्ताभीष्टां सरस्वतीम्
॥५२॥पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ॥
अनुग्रहपरामृद्धिमनघां हरिवल्लभाम्
॥५३॥आत्मविद्यां त्रयीरूपामुमारूपां नमाम्य हम् ॥
प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम्
॥५४॥नमामि चन्द्रभगिनीं सीतां सर्वांगसुंदरीम् ॥
नमामि धर्मनिलयां करुणां वेदमातरम्
॥५५॥पद्मालयां पद्महस्तां विष्णुवक्षस्थलालयाम् ॥
नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम्
॥५६॥आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ॥
नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ॥
सीतां सर्वानवद्यांगीं भजामि सततं हृदा
॥५७॥श्रीसूत उवाच
स्तुत्वैवं हनुमान्सीतारामचन्द्रौ सभक्तिकम्
॥५८॥आनंदाश्रुपरिक्लिन्नस्तूष्णीमास्ते द्विजोत्तमाः ॥
य इदं वायुपुत्रेण कथितं पापनाशनम्
॥५९॥स्तोत्रं श्रीरामचंद्रस्य सीतायाः पठतेऽन्वहम् ॥
स नरो महदैश्वर्यमश्नुते वांछितं स दा
॥६०॥अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्विनीः ॥
आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम्
॥६१॥एतत्स्तोत्रं सकृ द्विप्राः पठन्नाप्नोत्यसंशयः ॥
एतत्स्तोत्रस्य पाठेन नरकं नैव यास्यति
॥६२॥ब्रह्महत्यादिपापानि नश्यंति सुमहांत्यपि ॥
सर्वपापविनिर्मुक्तो देहांते मुक्तिमाप्नुयात्
॥६३॥इति स्तुतो जगन्नाथो वायुपुत्रेण राघवः ॥
सीतया सहितो विप्रा हनूमंतमथाब्रवीत्
॥६४॥श्रीराम उवाच
अज्ञानाद्वा नरश्रेष्ठ त्वयेदं साहसं कृतम् ॥
ब्रह्मणा विष्णुना वापि शक्रादित्रिदशैरपि
॥६५॥नेदं लिंगं समुद्धर्तुं शक्यते स्थापितं मया ॥
महादेवापराधेन पतितोऽस्यद्य मूर्च्छितः
॥६६॥इतः परं मा क्रियतां द्रोहः सांबस्य शूलिनः ॥
अद्यारभ्य त्विदं कुंडं तव नाम्ना जगत्त्रये
॥६७॥ख्यातिं प्रयातु यत्र त्वं पतितो वानरोत्तम ॥
महापातकसंघानां नाशः स्यादत्र मज्जनात्
॥६८॥महादेवजटाजाता गौतमी सरितां वरा ॥
अश्वमेधसहस्रस्य फलदा स्नायिनां नृणाम्
॥६९॥ततः शतगुणा गंगा यमुना च सरस्वती ॥
एतन्नदीत्रयं यत्र स्थले प्रवहते कपे
॥७०॥मिलित्वा तत्र तु स्नानं सहस्रगुणितं स्मृतम् ॥
नदीष्वेतासु यत्स्नानात्फलं पुंसां भवेत्कपे
॥७१॥तत्फलं तव कुंडेऽस्मिन्स्नानात्प्राप्नोत्यसंशयम् ॥
दुर्लभं प्राप्य मानुष्यं हनूमत्कुंडतीरतः
॥७२॥श्राद्धं न कुरुते यस्तु भक्तियुक्तेन चेतसा ॥
निराशास्तस्य पितरः प्रयांति कुपिताः कपे
॥७३॥कुप्यंति मुनयोऽप्यस्मै देवाः सेंद्राः सचारणाः ॥
न दत्तं न हुतं येन हनूमत्कुंडतीरतः
॥७४॥वृथाजीवित एवासाविहामुत्र च दुःखभाक् ॥
हनूमत्कुंडसविधे येन दत्तं तिलोदकम् ॥
मोदंते पितरस्तस्य घृतकुल्याः पिबंति च
॥७५॥श्रीसूत उवाच
श्रुत्वैतद्वचनं विप्रा रामेणोक्तं स वायुजः
॥७६॥उत्तरे रामनाथस्य लिंगं स्वेनाहृतं मुदा ॥
आज्ञया रामचन्द्रस्य स्थापयामास वायुजः
॥७७॥प्रत्यक्षमेव सर्वेषां कपिलांगूलवेष्टितम् ॥
हरोपि तत्पुच्छजा तं बिभर्ति च वलित्रयम् ॥
तदुत्तरायां ककुभि गौरीं संस्थापयन्मुदा
॥७८॥श्रीसूत उवाच
एवं वः कथितं विप्रा यदर्थं राघवेण तु ॥
लिंगं प्रतिष्ठितं सेतौ भुक्तिमुक्तिप्रदं नृणाम्
॥७९॥यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते
॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाकारणवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥