महिषासुरसंहारवर्णनम्
श्रीसूत उवाच
स्वसैन्यमवलोक्याथ महिषो दानवेश्वरः ॥
हतं देव्या महाक्रोधाच्चंडकोपमथाब्रवीत्
॥१॥महिष उवाच
चंडकोप महावीर्य युद्ध्यस्वैनां दुरात्मिकाम् ॥
तथास्त्विति स चोक्त्वाथ चंडकोपः प्रतापवान्
॥२॥अवाकिरद्बाणवर्षैर्देवीं समरमूर्द्धनि ॥
बाणजालानि तस्याशु चंडकोपस्य लीलया
॥३॥छित्त्वा जघान शस्त्रेण चंडकोपस्य सांबिका ॥
चकर्त वाजिनोऽप्यस्य सारथिं च ध्वजं धनुः
॥४॥उन्ममाथ रथं चापि तं बाणैर्हृद्यताडयत् ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः
॥५॥चंडकोपस्ततो देवीं खड्गचर्मधरोऽभ्यगात् ॥
खड्गेन सिंहमाजघ्ने देव्या वाहं महासुरः
॥६॥देवीमपि भुजे सव्ये खड्गेन प्रजघान सः ॥
खङ्गो देव्या भुजे सव्ये व्यशीर्यत सहस्रधा
॥७॥ततः शूले न महता चंडकोपं तदांबिका ॥
जघान हृदये सोऽपि पपात च ममार च
॥८॥चंडकोपे हते तस्मिन्महावीर्ये महाबले ॥
चित्रभानुर्गजारूढो देवीं तामभ्यधावत
॥९॥दिव्यां शक्तिं ससर्जाथ महाघंटारवाकुलाम् ॥
न्यवारयत हुंकारैर्देवी शक्तिं निराकुलाम्
॥१०॥ततः शूलेन सा देवी चित्रभानुं व्यदारयत् ॥
मृते तस्मिंस्ततो युद्धे करालो द्रुतमभ्यगात्
॥११॥करमुष्टिप्रहारेण सोऽपि देव्या निपातितः ॥
ततो देवी मदोन्मत्तं गदया व्यसुमातनोत्
॥१२॥बाष्कलं पट्टिशेनापि चक्रेणापि तथांतिकम् ॥
प्राहिणोद्यमलोकाय दुर्गा देवी द्विजोत्तमाः
॥१३॥एवमन्यान्महाकायान्मंत्रिणो महिषस्य च ॥
शूलेन प्रोथयित्वाथ प्राहिणोद्यमसादनम्
॥१४॥आत्मसैन्ये हते त्वेवं दुर्गया महिषासुरः ॥
माहिषेणाथ रूपेण गणान्देव्या अभक्षयत्
॥१५॥तुण्डेन निजघानैकान्सुराघातैस्तथापरान् ॥
निश्वासवायुभिश्चान्यान्पातयामास रोषितः
॥१६॥देव्या भूतगणं त्वेवं निहत्य महिषासुरः ॥
सिंहं मारयितुं देव्याश्चुक्रोध च ननाद च
॥१७॥ततः सिंहोऽभवत्क्रुद्धो महावीर्यो महाबलः ॥
सुराभि घातनिर्भिन्नमहीतलमहीधरः
॥१८॥महिषासुरमायांतं नखैरेनं व्यदारयत् ॥
चंडिकापि ततः क्रुद्धा वधे तस्याकरोन्मतिम्
॥१९॥बबन्ध पाशैर्महिषं चंडिका कोपमूर्च्छिता ॥
मोचयित्वा ततः पाशांस्त्यक्तमाहिषवेषवान्
॥२॥सिंहवेषोऽभवद्दैत्यो महाबलपराक्रमः ॥
देवी तस्य शिरोयावच्छेत्तुं बुद्धिमधारयत्
॥२१॥तावत्स पुरुषो भूत्वा खड्गपाणिरदृश्यत ॥
अथ तं पुरुषं देवी खड्गहस्तं शरोत्करैः
॥२२॥जघान तीक्ष्णधाराग्रैः परमर्मविदारणैः ॥
ततः स पुरुषो विप्रा गजोऽभूद्धस्तदन्तवान्
॥२३॥दुर्गाया वाहनं सिंहं करेण विचकर्ष च ॥
ततः सिंहः करं तस्य विचकर्त नखांकुरैः
॥२४॥भूयो महासुरो जातो माहिषं वेषमाश्रितः ॥
ततः क्रुद्धा भद्रकाली महत्पानमसेवत
॥२५॥ततः पानवशा न्मत्ता जहासारुणलोचना ॥
महिषः सोऽपि गर्वेण शृंगाभ्यां पर्वतोत्करान्
॥२६॥चंडिकां प्रतिं चिक्षेप सा च तानच्छिनच्छरैः ॥
ततो देवी जग न्माता महिषासुरमब्रवीत्
॥२७॥देव्युवाच
कुरु गर्वं क्षणं मूढ मधु यावत्पिबाम्यहम् ॥
निवृत्तमधुपानाहं त्वां नयिष्ये यमक्षयम्
॥२८॥हते त्वयि दुराधर्षे मया दैवतकंटके ॥
स्वंस्वं स्थानं प्रपद्यंतां सिद्धा साध्या मरुद्गणाः
॥२९॥उक्त्वैवं ताडयामास मुष्टिना महिषासुरम् ॥
ताडितोऽयं ततो देव्या महिषो भृशविह्वलः
॥३॥दक्षिणस्योदधेस्तीरेप्रदुद्राव त्वरान्वितः ॥
अनुदुद्राव तं देवी सिंहमारुह्य वाहनम्
॥३१॥अनुद्रुतस्ततो देव्या महिषो दानवेश्वरः ॥
धर्मपुष्कीरणीतोये दशयोजनमायते
॥३२॥प्रविश्यांतर्हितस्तस्थौ दुर्गाताडनविह्वलः ॥
ततो दुर्गा समासाद्य धर्मपुष्करिणीतटम्
॥३३॥नददर्शासुरं तत्र महिषं चंडिका तदा ॥
अशरीरा ततो वाणी दुर्गा देवीमभाषत
॥३४॥भद्रकालि महादेवि महिषो दानवस्त्वया ॥
ताडितो मुष्टिना भद्रे धर्मपुष्करिणीजले
॥३५॥अस्मिन्नंतर्हितः शेते भयार्तो मारयस्व तम् ॥
येनकेनाप्युपायेन चैनं प्राणैर्वियोजय
॥३६॥एवं वाचाऽशरी रिण्या कथिता चंडिका तदा ॥
प्राह स्ववाहनं सिंहमसुरेंद्रवधोद्यता
॥३७॥मृगेंद्र सिंहविक्रांत महावलपराक्रम ॥
धर्मपुष्कीरणीतोयं निःशेषं पीय तां त्वया
॥३८॥देव्यैवमुक्तः पंचास्यो धर्मपुष्करिणीजलम् ॥
निःशेषं च पपौ विप्रा यथा पांसुर्भवेत्तथा
॥३९॥निरगान्महिषो दीनस्ततस्तस्मा ज्जलाशयात् ॥
आयांतमसुरं देवी पादेनाक्रम्य मूर्द्धनि
॥४०॥कंठं शूलेन तीक्ष्णेन पीडयामास कोपिता ॥
ततो देव्यसिमादाय चकर्तास्य शिरो महत्
॥४१॥एवं स महिषो विप्राः सभृत्यबलवाहनः ॥
दुर्गया निहतो भूमौ पपात च ममार च
॥४२॥ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ॥
स्तुत्वा देवीं ततः स्तोत्रैस्तुष्टा जहृषिरे तदा
॥४३॥अनुज्ञातास्ततो देव्या देवा जग्मुर्यथागतम् ॥
ततो देवी जगन्माता स्व नाम्ना पुरमुत्तमम्
॥४४॥दक्षिणस्य समुद्रस्य तीरे चक्रे तदोत्तरे ॥
ततो देव्यनुशिष्टास्ते देवाः शक्रपुरोगमाः
॥४५॥पूरयामासुरमृतैर्धर्मपुष्क रिणीं तदा ॥
ततो ह्यमृततीर्थाख्यां लेभे तत्तीर्थमुत्तमम्
॥४६॥ततो देवी वरमदात्स्वपुरस्य मुदान्विता ॥
पशव्यं चापरोगं च पुरमेतद्भवत्विति
॥४७॥ददौ तीर्थाय च वरं स्नातानामत्र वै नृणाम् ॥
यथाभिलाषं सिद्धिः स्यादित्युक्त्वा सा दिवं ययौ
॥४९॥श्रीसूत उवाच
यत्स्वनाम्ना चकारेदं देवी पुरमनुत्तमम् ॥
देवीपत्तनमित्युक्तं तेन देव्याः पुरोत्तमम्
॥४९॥देवीपत्तनमारभ्य सुमुहूर्ते दिने द्विजाः ॥
विघ्नेश्वरं प्रणम्यादौ सलिलस्वामिनं तथा
॥५०॥महादेवाभ्यनुज्ञातो रामचंद्रोऽतिधार्मिकः ॥
स्थापयित्वा स्वहस्तेन पाषाणनवकं मुदा
॥५१॥सेतुमारब्धवान्विप्रा यावल्लंकामतंद्रितः ॥
सिंहासनं समारुह्य रामो नलकृतं शुभम्
॥५२॥वानरैः कारयामास सेतुमब्धौ नलादिभिः ॥
पर्वताञ्छाखिनोवृक्षान्दृषदः काष्ठसंचयान्
॥५३॥तृणानि च समाजह्रुर्वानरा वनमध्यतः
॥५४॥नलस्तानि समादाय चक्रे सेतुं महोदधौ ॥
पंचभिर्दिवसैः सेतुर्यावल्लंकासमीपतः
॥५५॥दशयोजनविस्तीर्णश्शतयोजनमायतः ॥
कृतः सेतुर्नलेनाब्धौ पुण्यः पापविनाशनः
॥५६॥देवीपुरस्य निकटे नवपाषाणरूपके ॥
सेतुमूले नरः स्नायात्स्वपापपरिशुद्धये
॥५७॥चक्रतीर्थे तथा स्नायाद्भजेत्सेत्वधिपं हरिम् ॥
देवीपत्तनमारभ्य यत्कृतं सेतुबंधनम्
॥५८॥तत्सेतुमूलं विप्रेंद्रा यथार्थं परिकल्पितम् ॥
सेतोस्तु पश्चिमा कोटिर्दर्भशय्या प्रकीर्तिता
॥५९॥देवीपुरी च प्राक्कोटिरुभयं सेतुमूलकम् ॥
उभयं पुण्यमाख्यातं पवित्रं पापनाशनम्
॥६०॥यत्सेतुमूलं गच्छंति येन मार्गेण वै नराः ॥
तत्तन्मार्गगतास्ते ते तस्मिंस्तस्मिन्विमुक्तिदे
॥६१॥स्नात्वादौ सेतुमूले तु चक्रतीर्थे तथैव च ॥
संकल्पपूर्वकं पश्चाद्गच्छेयुः सेतुबंधनम्
॥६२॥देवीपुरे तथा दर्भशय्यायामपि भूसुराः ॥
चक्रतीर्थे शिवे स्नानं पुण्यपापविनाशनम्
॥६३॥स्मरणादुभयत्रापि चक्रतीर्थस्य वै द्विजाः ॥
भस्मीभवंति पापानि लक्षजन्मकृतान्यपि
॥६४॥जन्मापि विलयं यायान्मुक्तिश्चापि करे स्थिता ॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति
॥६५॥भूलोके यानि तीर्थानि गंगादीनि द्विजोत्तमाः ॥
चक्रतीर्थस्य तान्यद्धा कलां नार्हंति षोडशीम्
॥६६॥आदौ तु नवपाषाणमध्येऽब्धौ स्नानमाचरेत् ॥
क्षेत्रपिंडे ततः कुर्याच्चक्रतीर्थे तथैव च
॥६७॥सेतुनाथं हरिं सेवेत्स्वपापपरिशुद्धये ॥
एवं हि दर्भशय्यायां कुर्युस्तन्मार्गतो गताः
॥६८॥आरूढं रामचंद्रेण यो नमस्कुरुते जनः ॥
सिंहासनं नलकृतं न तस्य नरकाद्भयम्
॥६९॥सेतुमादौ नमस्कुर्याद्रामं ध्यायन्हृदा तदा ॥
रघुवीरपदन्यास पवित्रीकृतपांसवे
॥७०॥दशकंठशिरश्छेदहेतवे सेतवे नमः ॥
केतवे रामचंद्रस्य मोक्षमार्गैकहेतवे
॥७१॥सीताया मानसांभोजभानवे सेतवे नमः ॥
साष्टांगं प्रणिपत्यादौ मंत्रेणानेन वै द्विजाः
॥७२॥ततो वेतालवरदं तीर्थं गच्छेन्महाबलम् ॥
तत्र स्नानादवाप्नोति सिद्धिं पारामिकां नरः
॥७३॥योऽध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ॥
स्वर्गादयस्तस्य न दुर्लभाः स्युः कैवल्यमप्यस्य करस्थमेव
॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चकतीर्थप्रशंसायां देवीपुराभिधानकथने महिषासुरसंहारवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥