रामनाथप्रशंसावर्णनम्
श्रीसूत उवाच
अथेदानीं प्रवक्ष्यामि रामनाथस्य वैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मु्च्यते मानवो भुवि
॥१॥रामप्रतिष्ठितं लिंगं यः पश्यति नरः सकृत् ॥
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम्
॥२॥दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ॥
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः
॥३॥द्वापरे तच्च मासेन तद्दिनेन कलौ युगे ॥
तत्फलं कोटिगुणितं निमिषे निमिषे नृणाम्
॥४॥निःसंदेहं भवेदेवं रामनाथविलोकिनाम् ॥
रामेश्वर महालिंगे तीर्थानि सकलान्यपि
॥५॥विद्यंते सर्वदेवाश्च मुनयः पितरस्तथा ॥
एककालद्विकालं वा त्रिकालं सर्वदैव वा
॥६॥ये स्मरंति महादेवं रामनाथं विमुक्तिदम् ॥
कीर्तयंत्यथवा विप्रास्ते विमुक्ताघपंजराः
॥७॥सच्चिदानंदमद्वैतं सांबं रुद्रं प्रयांति वै ॥
रामेश्वराख्यं यल्लिंगं रामचन्द्रेण पूजि तम्
॥८॥यस्य स्मरणमात्रेण यमपीडापि नो भवेत् ॥
रामेश्वरमहालिंगं येऽर्चयंति सकृन्नराः
॥९॥न मानुषास्ते विज्ञेयाः किं तु रुद्रा न संशयः ॥
रामेश्वरमहालिंगं नार्चितं येन भक्तितः
॥१०॥चिरकालं स संसारे संसरेद्दुःखसंकुले ॥
रामेश्वरमहालिंगं ये पश्यंति सकृन्नराः
॥११॥किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ॥
रामेश्वरमहालिंगं यो न चिंतयति क्षणम्
॥१२॥अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ॥
स जडोंऽधश्च विज्ञेयश्छिद्रं तस्य सदा भवेत्
॥१३॥धनक्षेत्रसुतादीनां तस्य हानिस्तथा भवेत् ॥
रामेश्वरमहालिंगे सकृद्दृष्टे मुनीश्वराः
॥१४॥किं काश्या गयया किं वा प्रयागेणापि किं फलम् ॥
दुर्लभं प्राप्य मानुष्यं मानवा यत्र भूतले
॥१५॥रामनाथमहालिंगं नमस्यंत्यर्चयंति च ॥
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे
॥१६॥रामेश्वरमहालिंगे पूजिते वा स्मृतेपि वा ॥
विष्णुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः
॥१७॥रामनाथमहालिंगं भक्तियुक्ताश्च ये नराः ॥
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः
॥१८॥न ते पश्यंति दुःखानि नैव यांति यमालयम् ॥
ब्रह्महत्यासहस्राणि सुरापानायुतानि च
॥१९॥दृष्टे रामेश्वरे देवे विलयं यांति कृत्स्नशः ॥
ये वांछंति सदा भोगं राज्यं च त्रिदशालये
॥२०॥रामे श्वरमहालिंगं ते नमंतु सकृन्मुदा ॥
यानि कानि च पापानि जन्मकोटिकृतान्यपि
॥२१॥तानि रामेश्वरे दृष्टे विलयं यांति सर्वदा ॥
संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन्
॥२२॥रामेश्वरमहालिंगं नेहामुत्र च दुःखभाक् ॥
रामेश्वरमहालिंगं कीर्तयन्नर्चयन्नपि
॥२३॥अवश्यं रुद्रसारूप्यं लभते नात्र संशयः ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात्
॥२४॥तथा पापानि सर्वाणि रामेश्वरविलोकनात् ॥
रामेश्वरमहालिंगभक्तिरष्टविधा स्मृता
॥२५॥तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ॥
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम्
॥२६॥तन्माहात्म्यकथानां च श्रवणेष्वादरस्तथा ॥
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा
॥२७॥रामेश्वरमहालिंगस्मरणं संततं तथा ॥
रामेश्वरमहालिंगमाश्रित्यैवोपजीवनम्
॥२८॥79b एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपिविद्यते ॥
स एव मुक्तिक्षेत्राणां दायभाक्परिकीर्त्यते
॥२९॥भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता ॥
वेदांतशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम्
॥३०॥सा च मुक्तिर्विना ज्ञानदर्शनश्रवणोद्भवम् ॥
यत्राश्रमं विना विप्रा विरक्तिं च विना तथा
॥३१॥सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ॥
रामेश्वरमहालिंगदर्शनादेव केवलात्
॥३२॥अपुनर्भवदा मुक्तिर्भ विष्यत्यविलंबिता ॥
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः
॥३३॥तुल्या रामेश्वरक्षेत्रे रामनाथप्रसादतः ॥
पापं कृतं मयानेकमिति मा क्रियतां भयम्
॥३४॥मा गर्वः क्रियतां पुण्यं मयाकारीति वा जनैः ॥
रामेश्वरमहालिंगे सांबरुद्रे विलोकिते
॥३५॥न न्यूना नाधिकाश्च स्युः किं तु सर्वे जनाः समाः ॥
रामेश्वरमहालिंगं यः पश्यति सभक्तिकम्
॥३६॥न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ॥
रामेश्वरमहालिंगे भक्तो यः श्वपचोऽपि सन्
॥३७॥तस्मै दानानि देयानि नान्यस्मै च त्रयीविदे ॥
या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम्
॥३८॥सा गतिः सर्वजंतूनां रामेश्वरविलोकिनाम् ॥
रामनाथशिवक्षेत्रे ये वसंति नरा द्विजाः
॥३९॥ते सर्वे पञ्चवक्त्राः स्युश्चंद्रालंकृतमस्तकाः ॥
नागाभरणसंयुक्तास्तथैव वृषभध्वजाः
॥४०॥त्रिनेत्रा भस्मदिग्धांगाः कपालाकृतिशेखराः ॥
साक्षात्सांबा महादेवा भवेयुर्नात्र संशयः
॥४१॥रामनाथशिवक्षेत्रं ये व्रजंति नरा मुदा ॥
पदेपदेऽश्वमेधानां प्राप्नुयुः सुकृतानि ते
॥४२॥रामसेतुं समाश्रित्य रामनाथस्य तुष्टये ॥
ददाति ग्राममेकं यो ब्राह्मणाय सभक्तिकम्
॥४३॥तेन भूः सकला दत्ता सशैलवनकानना ॥
पत्रं पुष्पं फलं तोयं रामनाथाय यो नरः
॥४४॥भक्त्या ददाति तं रक्षेद्रामनाथो ह्यहर्निशम् ॥
रामनाथमहालिंगे सांबे कारुणिके शिवे
॥४५॥अत्यंतदुर्लभा भक्तिस्तत्पूजाप्यतिदुर्लभा ॥
स्तोत्रं च दुर्लभं प्रोक्तं स्मरणं चातिदुर्लभम्
॥४६॥रामनाथेश्वरं लिंगं महादेवं त्रिलोचनम् ॥
शरणं ये प्रपद्यंते भक्तियुक्तेन चेतसा
॥४७॥लाभस्तेषां जयस्तेषा मिह लोके परत्र च ॥
रामनाथमहालिंगविषया यस्य शेमुषी
॥४८॥दिवारात्रं च भवति स वै धन्यतरो भुवि ॥
रामनाथेश्वरं लिंगं यो न पूजयते शिवम्
॥४९॥नायं भुक्तेश्च मुक्तेश्च राज्यानामपि भाजनम् ॥
रामेश्वरमहालिंगं यः पूजयति भक्तितः
॥५०॥भुक्तिमुक्त्योश्च राज्यानामसौ परमभाजनम् ॥
रामनाथार्चनसमं नाधिकं पुण्यमस्ति वै
॥५१॥रामनाथेश्वरं लिंगं द्वेष्टि यो मोहमास्थितः ॥
ब्रह्महत्यायुतं तेन कृतं नरककारणम्
॥५२॥तत्संभाषणमात्रेण मानवो नरकं व्रजेत् ॥
रामनाथपरा देवा रामनाथपरा मखाः
॥५३॥रामनाथपराः सर्वे तस्माद न्यन्न विद्यते ॥
अतः सर्वं परित्यज्य रामनाथं समाश्रयेत्
॥५४॥रामनाथमहालिंगं शरणं याति चेन्नरः ॥
दौर्मत्यं तस्य नास्त्येव शिवलोकं च यास्यति
॥५५॥सर्वयज्ञतपोदानतीर्थस्नानेषु यत्फलम् ॥
तत्फलं कोटिगुणितं रामनाथस्य सेवया
॥५६॥रामनाथेश्वरं लिंगं चिंतयन्घटिका द्वयम् ॥
कुलैकवंशमुद्धृत्य शिवलोके महीयते
॥५७॥दिनमेकं तु यः पश्येद्रामनाथं महेश्वरम् ॥
इहैव धनवान्भूत्वा सोंऽते रुद्रश्च जायते
॥५८॥यः स्मरेत्प्रातरुत्थाय रामनाथं महेश्वरम् ॥
अनेनैव शरीरेण स शिवो वर्तते भुवि
॥५९॥रामनाथमहालिंगद्रष्टुर्दर्शनमात्रतः ॥
अन्येषां प्राणिनां पापं तत्क्षणादेव नश्यति
॥६०॥रामनाथेश्वरं लिंगं मध्याह्ने यस्तु पश्यति ॥
सुरापानसहस्राणि तस्य नश्यंति तत्क्षणात्
॥६१॥सायंकाले पश्यति यो रामनाथं सभक्तिकम् ॥
गुरुस्त्रीगमनोत्पन्नपातकं तस्य नश्यति
॥६२॥सायंकाले महास्तोत्रैः स्तौति रामेश्वरं तु यः ॥
स्वर्णस्तेयसहस्राणि तस्य नश्यंति तत्क्षणात्
॥६३॥स्नानं च धनुषः कोटौ रामनाथस्य दर्शनम् ॥
इति लभ्येत वै पुंसां किं गंगाजलसेवया
॥६४॥रामनाथमहालिंगसेवया यन्न लभ्यते ॥
तदन्यद्धर्मजालेन नैव लभ्येत कर्हिचित्
॥६५॥रामनाथं महालिगं यः कदापि न पश्यति ॥
संकरः स तु विज्ञेयो न पितुर्बीजसंभवः
॥६६॥रामनाथेतिशब्दं यस्त्रिः पठेत्प्रातरुत्थितः ॥
तस्य पूर्वदिनोत्पन्नपातकं नश्यति क्षणात्
॥६७॥रामनाथे महालिंगे भक्तरक्षणदीक्षिते ॥
भोजने विद्यमानेऽपि याचनाः किं प्रयास्यथ
॥६८॥रामनाथमहालिंगे प्रसन्ने करुणानिधौ ॥
नश्यंति सकलाः क्लेशा यथा सूर्योदये हिमम्
॥६९॥प्राणोत्क्रमणवेलायां रामनाथं स्मरेद्यदि ॥
जन्मनेऽसौ न कल्पेत भूयः शंकरतामियात्
॥७०॥रामनाथ महादेव मां रक्ष करुणानिधे ॥
इति यः सततं ब्रूयात्कलिनासौ न बाध्यते
॥७१॥रामनाथ जगन्नाथ धूर्जटे नीललोहित ॥
इति यः सततं ब्रूयाद्बाध्यतेऽसौ न मायया
॥७२॥नीलकण्ठ महादेव रामेश्वरसदाशिव ॥
इति ब्रुवन्सदा जंतुर्नैव कामेन बाध्यते
॥७३॥रामेश्वर यमाराते कालकूटविषादन ॥
इतीरयञ्जनो नित्यं न क्रोधेन प्रपीड्यते
॥७४॥रामनाथालयं यस्तु दारुभिः कुरुते नरः ॥
स पुमान्स्वर्गमाप्नोति त्रिकोटिकुलसंयुतः
॥७५॥इष्टकाभिस्तु यः कुर्यात्स वैकुण्ठमवाप्नुयात् ॥
शिलाभिः कुरुते यस्तु स गच्छेद्ब्रह्मणः पदम्
॥७६॥स्फटिकादिशिलाभेदैः कुर्वन्नस्यालयं जनः ॥
शिवलोकमवाप्नोति विमानवरमास्थितः
॥७७॥रामनाथालयं ताम्रैः कुर्वन्भक्तिपुरःसरम् ॥
शिवसामीप्यमाप्नोति शिवस्यार्द्धासनस्थितः
॥७८॥रामेश्वरालयं रूप्यैः कुर्वन्वै मानवो मुदा ॥
शिवसारूप्यमाप्नोति शिववन्मोदते सदा
॥७९॥रामनाथालयं हेम्ना यः करोति सभक्तिकम् ॥
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम्
॥८०॥रामनाथालयं हेम्ना धनाढ्यः कुरुते नरः ॥
मृदा दरिद्रः कुरुते तयोः पुण्यं समं स्मृतम्
॥८१॥रामनाथमहालिंगस्नानकाले द्विजोत्तमाः ॥
त्रिसंध्यं गेयनृत्ते च मुखवाद्यैश्च काहलम्
॥८२॥वाद्यान्यन्यानि कुरुते यः पुमान्भक्तिपूर्वकम् ॥
स महापातकैर्मुक्तो रुद्रलोके महीयते
॥८३॥योभिषेकस्य समये रामनाथस्य शूलिनः ॥
रुद्राध्यायं च चमकं तथा पुरुषसूक्तकम्
॥८४॥त्रिसुपर्णं पंचशांतिं पावमान्यादिकं तथा ॥
जपेत्प्रीतियुतो विप्रा नरकं न समश्नुते
॥८५॥गवां क्षीरेण दध्ना च पंचगव्यैर्घृतैस्तथा ॥
रामनाथमहालिंगस्नानं नरकनाशनम्
॥८६॥रामनाथमहालिंगं घृतेन स्नापयेच्च यः ॥
कल्पजन्मार्जितं पापं तत्क्षणादेव नश्यति
॥८७॥रामनाथमहालिंगं गोक्षीरैः स्नापयन्नरः ॥
कुलैकविंशमुत्तार्य शिवलोके महीयते
॥८८॥रामनाथमहालिंगं दध्ना संस्नापयन्नरः ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
॥८९॥अभ्यंगं तिलतैलेन रामेश्वरशिवस्य यः ॥
करोति हि सकृद्भक्त्या स कुबेरगृहे वसेत्
॥९०॥रामनाथमहालिंगे स्नानमिक्षुरसेन यः ॥
सकृदप्याचरेद्भ क्त्या चन्द्रलोकं समश्नुते
॥९१॥लिकुचाम्ररसोत्पन्नसारेण स्नापयन्नरः ॥
रामनाथमहालिंगं पितृलोकं समश्नुते
॥९२॥नालिकेरजलैः स्नानं रामनाथमहेश्वरे ॥
ब्रह्महत्यादिपापानां नाशनं परिकीर्तितम्
॥९३॥रामनाथमहालिंगं रंभापक्वैर्विमर्दयन् ॥
विनाश्य सकलं पापं वायुलोके मही यते
॥९४॥वस्त्रपूतेन तोयेन रामनाथं महेश्वरम् ॥
स्नापयन्वारुणं लोकमाप्नोति द्विजसत्तमाः
॥९५॥चंदनोदकधाराभी रामनाथं महेश्वरम् ॥
स्नापयेत्पुरुषो विप्रा गांधर्वं लोकमाप्नुयात्
॥९६॥पुष्पवासिततोयेन हेमसंपृक्तवारिणा ॥
पद्मवासिततोयेन स्नानाद्रामेश्वरस्य तु
॥९७॥महेंद्रासनमारुह्य तेनैव सह मोदते ॥
पाटलोत्पलकल्हारपुन्नागकरवीरकैः ९८ ॥
वासितैर्वारिभिर्विप्रा रामेश्वरमहेश्वरम् ॥
अभिषिच्य महद्भिश्च पातकैः स विमुच्यते
॥९९॥यानि चान्यानि पुष्पाणि सुरभीणि महांति च ॥
तद्गंधवासितैस्तोयैरभिषिच्य दयानिधिम्
॥१००॥रामेश्वरमहालिंगं शिवलोके महीयते ॥
एलाकर्पूरलामज्जवासितैः शुद्धवारिभिः
॥१॥रामेश्वरमहालिंगमभिषिच्य विशुद्धधीः ॥
आग्नेयं लोकमासाद्य सर्वाकामा न्समश्नुते
॥२॥रामनाथाभिषेकार्थं मृद्धटान्यः प्रयच्छति ॥
इह लोके शतायुः स्यात्सर्वकाम समृद्धिमान्
॥३॥ताम्रकुंभप्रदानेन देवेंद्रत्वमवा प्नुयात् ॥
रौप्यकुंभप्रदानेन ब्रह्मलोकं समश्नुते
॥४॥हेमकुंभप्रदानेन शिवलोके महीयते ॥
रत्नकुंभप्रदानेन शिवसामीप्यमश्नुते
॥५॥रामनाथाभिषेकार्थं नैवेद्यार्थमपि द्विजाः ॥
यो गां पयस्विनीं दद्यात्सोऽश्वमेधफलं लभेत्
॥६॥प्राप्नोति शिववेषं च देहांते शिवलोकभाक् ॥
रामसेतौ धनुष्कोटौ रामनाथेत्युदीर्य यः
॥७॥यत्र क्वाप्याचरेत्स्नानं सेतुस्नानफलं लभेत् ॥
सुधाप्रलिप्तं यः कुर्याद्रामनाथशिवालयम्
॥८॥तत्पुण्यं गदितुं नाहं शक्तो वर्षशतादपि ॥
नवीकरोति यो मर्त्यो रामनाथशिवालयम्
॥९॥कर्तुः शतगुणं ज्ञेयं तस्य पुण्यफलं द्विजाः ॥
छिन्नं भिन्नं च यः सम्यग्रामनाथशिवालयम्
॥११०॥करोति भक्त्या पुरुषो ब्रह्महत्यायुतं दहेत् ॥
रामनाथस्य पुरतो दीपानारोपयन्मुदा
॥११॥अविद्यापटलं भित्त्वा याति ब्रह्म सनातनम् ॥
घृतं तैलं तथा मुद्गाञ्छर्करास्तंडुलान्गुडान्
॥१२॥प्रयच्छन्रामनाथाय देवेंद्रपदमश्नुते ॥
रामनाथमहालिंगदर्शनादर्चनात्स्मृतेः
॥१३॥स्पर्शनादपि पापानि विलयं यांति तत्क्षणात् ॥
रामनाथाय यो दद्यान्महाघंटां च दर्पणम्
॥१४॥विमानशतसं भोगैश्चिरं शिवपुरे वसेत् ॥
भेरीमृदंगपटह निःसाणमुरजादिकम्
॥१५॥वंशकांस्यादिवादित्रं तथा वाद्यांतराणि च ॥
प्रयच्छन्रामनाथाय महादे वाय सादरम्
॥१६॥स विमानैर्महाभोगैर्वाद्यघोषसमन्वितैः ॥
अनेकयुगपर्यंतं शिवलोके महीयते
॥१७॥रामनाथं समुद्दिश्य यद्दत्तं स्वल्प मादरात् ॥
तदनंतफलं दातुः परत्र भवति ध्रुवम्
॥१८॥रामेश्वरे महाक्षेत्रे रामनाथस्य सन्निधौ ॥
वसन्मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम्
॥१९॥आयुः प्रयाति त्वरितं त्वरितं याति यौवनम् ॥
त्वरितं संपदो यांति दारपुत्रादयस्तथा
॥१२०॥राजादिभिर्धनं बाध्यं गृहक्षेत्रादिकं तथा ॥
सर्वं च क्षणिकं विप्रा गृहोपकरणादिकम्
॥२१॥तस्मात्सर्वं परित्यज्य संसारस्योपलालनम् ॥
रामेश्वरमहालिंगमापन्नार्तिहरं नृणाम्
॥२२॥श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं च मनीषिभिः ॥
रामेश्वराय देवाय यो वै ग्रामान्प्रयच्छति
॥२३॥स हि प्रारब्धदेहांते शिव एव प्रजा यते ॥
पात्राणामुत्तमं पात्रं रामनाथो महेश्वरः
॥२४॥तस्मै दत्त्वा द्विजाः सत्यमनंतं सुखमश्नुते ॥
रामनाथमहालिंगदर्शनावधि पातकम्
॥२५॥दत्त्वा तस्मै जनः किंचित्सार्वभौमो भवेद्ध्रुवम् ॥
तालवृंतं ध्वजं छत्रं चंदनं गुग्गुलुं तथा
॥२६॥ताम्रकांस्यादिरजतहेमरत्नमयान्ध टान् ॥
प्रयच्छंत्यभिषेकार्थं रामनाथस्य ये नराः
॥२७॥भूमंडलाधिपतयो जायंते ते भवांतरे ॥
रामनाथस्य पूजार्थं पुष्पाण्युत्पादयंति ये
॥२८॥अश्वमेधादियागानां फलान्यद्धाप्नुवंति ते ॥
रामेश्वरे महालिंगे पूजिते नमिते स्मृते
॥२९॥श्रुते दृष्टे च विप्रेंद्रा दुर्लभं नास्ति किंचन ॥
रामनाथमहालिंगं सेवितुं यः पुमान्व्रजेत्
॥१३०॥तं दृष्ट्वा भयमाप्नोति तस्य पापौघ आशु वै ॥
रामनाथो महादेवो दृष्टो यदि भवेन्नृभिः
॥३१॥किंवेदैः किमु वा शास्त्रैः किं वा तीर्थनिषेवणैः ॥
चंदनं कुंकुमं कोष्ठं कस्तूरीं गुग्गुलुं तथा
॥३२॥मृगनाभिं च सरलं दद्याद्रामेश्वराय यः ॥
स भूमाविह जायेत धनाढ्यो वेदपारगः
॥३३॥मुक्ताभरणवस्त्राणि महार्हाणि ददाति यः ॥
रामनाथाय देवाय नासौ दौर्गत्यमाप्नुयात्
॥३४॥रामनाथमहालिंगं गंगातोयैः समाहृतैः ॥
योऽभिषिंचत्यसौ पूज्यः शिवस्यापि न संशयः
॥३५॥यावन्न याति मरणं यावन्नाक्रमते जरा ॥
यावन्नेंद्रियवैकल्यं तावदेव द्विजोत्तमाः
॥३६॥तावदेव महादेवो रामनाथो मुमुक्षुभिः ॥
वन्द्यः पूज्यश्च मंतव्यः स्तुत्यश्च सततं शिवः
॥३७॥रामेश्वरमहालिंगपूजातुल्यो न विद्यते ॥
धर्मः सर्वपुराणेषु सर्वशास्त्रेषु वै तथा
॥३८॥रामनाथेश्वरं देवं महाकारुणिकं प्रभुम् ॥
भक्त्या भजंति ये नित्यं ते भूलोके सुखान्विताः
॥३९॥भुक्त्वा भोगान्बहुसुखान्पुत्रदारयुता भृशम् ॥
एतच्छरीरपातांते मुक्तिं यास्यंति शाश्वतीम्
॥१४०॥श्रीसूत उवाच
एवं वः कथितं विप्रा रामनाथस्य वै भवम् ॥
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम्
॥४१॥स रामनाथसेवायाः फलमाप्नोत्यनुत्तमम् ॥
धनुष्कोटिमहातीर्थस्नानपुण्यं च यास्यति
॥४२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसावर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥