मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २०

3
ब्रह्मखण्डः · सेतुखण्डः · 20

शुकचित्तशुद्धिवर्णनम्

श्रीसूत उवाच

लक्ष्मणस्य महातीर्थे ब्रह्महत्याविनाशने ॥

स्नात्वा स्वचित्तशुद्ध्यर्थं जटातीर्थं ततो व्रजेत्

॥१॥

जन्ममृत्युजराक्रांतसंसारातुरचेतसाम् ॥

अज्ञाननाशकं नास्ति जटातीर्थादृते द्विजाः

॥२॥

लोके मुमुक्षवः केचिच्चित्तशुद्धिमभीप्सवः ॥

वाचा पठंति वेदांतांस्तूष्णीन्नानुभवंति ते

॥३॥

पूर्वपक्षमहाग्राहे सिद्धांतझषसंकुले ॥

वेदांताब्धाविहाज्ञानं मुह्यंति पतिता द्विजाः

॥४॥

प्रथमं चित्तशुद्ध्यर्थं वेदांतान्संपठंति ये ॥

विवदंते पठित्वा ते कलहं च वितन्वते

॥५॥

चित्तशुद्धिर्न वेदांताद्बहुव्यामोहकारणात् ॥

ततो वयं न वेदांतान्मुनींद्रा बहु मन्महे

॥६॥

चित्तशुद्धिं यदीच्छध्वं लघूपायेन तापसाः ॥

उद्घोषयामि सर्वेषां जटातीर्थं निषेवत

॥७॥

पुरा सर्वोपकारार्थं तीर्थमज्ञाननाशनम् ॥

एतद्विनिर्मितं साक्षाच्छम्भुना गन्धमादने

॥८॥

निहते रावणे विप्रा जटां रामस्तु धार्मिकः ॥

क्षालयामास यत्तोये तज्जटातीर्थमुच्यते

॥९॥

वर्षाणां षष्टिसाहस्रं जाह्नवीजलमज्जनम् ॥

गोदावर्यां सकृत्स्नानं सिंहस्थे च बृहस्पतौ

॥१०॥

तावत्सहस्रस्नानानि सिंहं देवगुरौ गते ॥

गोमत्यां लभ्यते वर्षैस्तज्जटातीर्थदर्शनात्

॥११॥

जटातीर्थे मनुष्याणां स्नातानां द्विजपुंगवाः ॥

अन्तःकरणशुद्धिः स्यात्ततोऽज्ञानं विनश्यति

॥१२॥

अज्ञाननाशे ज्ञानं स्यात्ततो मुक्तिमवाप्स्यसि ॥

अखण्डसच्चिदानंदसंपूर्णः स्यात्ततः परम्

॥१३॥

अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥

पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च

॥१४॥

पुरा मुनिवरं कृष्णं भावि तात्मानमच्युतम् ॥

पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥

प्रणम्य शिरसा व्यासं शुकः पप्रच्छ वै द्विजाः

॥१५॥

श्रीशुक उवाच

भगवंस्तात सर्वज्ञ ब्रूहि गुह्यमनुत्तमम्

॥१६॥

अन्तःकरणशुद्धिः स्यात्तथाज्ञानविनाशनम् ॥

ज्ञानोदयश्च येन स्यादंते मुक्तिश्च शाश्वती

॥१७॥

तमुपायं वदस्वाद्य स्नेहान्मम महामुने ॥

वेदांताश्चेतिहासाश्च पुराणादीनि कृत्स्नशः

॥१८॥

अधीतानि मया त्वत्तः शोधयंति न मानसम् ॥

अतो मे चित्तशुद्धिः स्याद्यथा तात तथा वद

॥१९॥

इति पृष्टस्तदा व्यासः शुकेन मुनिसत्तमाः ॥

रहस्यं कथयामास येनाविद्या विन श्यति

॥२०॥

व्यास उवाच

शुक वक्ष्यामि ते गुह्यमविद्याग्रन्थिभेदनम् ॥

बुद्धिशुद्धिप्रदं पुंसां जन्मादिभयनाशनम्

॥२१॥

रामसेतौ महापुण्यं गन्धमादनपर्वते ॥

विद्यते पापसंहारि जटातीर्थमिति श्रुतम्

॥२२॥

जटां स्वां शोधयामास यत्र रामो हरिः स्वयम् ॥

रामो दाशरथिः श्रीमांस्तीर्थाय च वरं ददौ

॥२३॥

स्नाति येऽत्र समागत्य जटातीर्थेऽतिपावने ॥

अन्तःकरणशुद्धिश्च तेषां भूयादिति स्म सः

॥२४॥

विना यज्ञं विना ज्ञानं विना जाप्यमुपोषणम् ॥

स्नानमात्राज्जटातीर्थे बुद्धिशुद्धिर्भवेन्नृणाम्

॥२५॥

सर्वदानसमं पुण्यं स्नानादत्र भविष्यति ॥

दुर्गाण्यनेन तरति पुण्यलोकान्समश्नुते

॥२६॥

महत्त्वमश्नुते स्नानाज्जटातीर्थे शुभोदके ॥

जटातीर्थं विना नान्यदंतःकरण शुद्धये

॥२७॥

विद्यते नियमो वापि जपो वा नान्यदेवता ॥

धन्यं यशस्यमायुष्यं सर्वलोकेषु विश्रुतम्

॥२८॥

पवित्राणां पवित्रं च जटातीर्थं शुकाधुना ॥

सर्वपापप्रशमनं मंगलानां च मंगलम्

॥२९॥

भृगुर्वै वारुणिः पूर्वं वरुणं पितरं शुक ॥

बुद्धिशुद्धिप्रदोपायमपृच्छत्पावनं शुभम् ॥

प्रोवाच वरुणस्तस्मै बुद्धिशुद्धिप्रदं शुभम्

॥३०॥

वरुण उवाच

रामसेतौ भृगो पुण्ये गन्धमादनपर्वते

॥३१॥

Esoteric aspect of Jata Temple details at Jataa Teertha स्नानमात्राज्जटा तीर्थे बुद्धिशुद्धिर्भवेद्ध्रुवम् ॥

स पितुर्वचनात्सद्यो भृगुर्वै वरुणात्मजः

॥३२॥

गत्वा स्नात्वा जटातीर्थे बुद्धिशुद्धिमवाप्तवान् ॥

विनष्टाज्ञानसंतानस्तया शुद्ध्या तदा भृगुः

॥३३॥

उत्पन्नाद्वैतविज्ञानः स्वपितुर्वरुणादयम् ॥

अखण्डसच्चिदानंदपूर्णाकारोऽभवच्छुक

॥३४॥

शंकरांशोऽपि दुर्वासा जटातीर्थेऽभिषेकतः ॥

मनःशुद्धिमवाप्याशु ब्रह्मानंदमयोऽभवत्

॥३५॥

दत्तात्रेयोऽपि विष्ण्वंशस्तीर्थेऽस्मिन्नभिषेचनात् ॥

शुद्धांतःकरणो भूत्वा ब्रह्माकारोऽभवच्छुक

॥३६॥

इच्छेदज्ञाननाशं यः स स्नायात्तु जटाभिधे ॥

तीर्थे शुद्धतमे पुण्ये सर्वपापविनाशने

॥३७॥

जटातीर्थमतस्त्वं च शुक गच्छ महामते ॥

मनःशुद्धिप्रदं तस्मिन्स्नानं च कुरु पुण्यदे

॥३८॥

पित्रैवमुक्तो व्यासेन शुकः पुत्रस्तदा द्विजाः ॥

रामसेतुं महापुण्यं गन्धमादनपर्वतम्

॥३९॥

अगमत्स्नातुकामः सञ्जटातीर्थे विशुद्धिदे ॥

स्नात्वा संकल्पपृर्वं च जटातीर्थे शुको मुनिः

॥४०॥

मनःशुद्धिमनुप्राप्य तेन चाज्ञाननाशने ॥

स्वस्वरूपं समापन्नः परमानंदरूपकम्

॥४१॥

ये चाप्यन्ये मनःशुद्धिकामाः संति द्विजोत्तमाः ॥

जटातीर्थे तु ते सर्वे स्नातुं भक्तिपुरःसरम

॥४२॥

अहो जना जटातीर्थे कामधेनुसमे शुभे ॥

विद्यमानेऽपि किं तुच्छे रमंतेन्यत्र मोहिताः

॥४३॥

भुक्तिकामो लभेद्भुक्तिं मुक्तिकामस्तु तां लभेत् ॥

स्नानमात्राज्जटातीर्थे सत्यमुक्तं मया द्विजाः

॥४४॥

वेदानुवच नात्पुण्याद्यज्ञाद्दानात्तपोव्रतात् ॥

उपवासाज्जपाद्योगान्मनःशुद्धिर्नृणां भवेत्

॥४५॥

विनाप्येतानि विप्रेंद्रा जटातीर्थेऽतिपावने ॥

स्नानमात्रान्मनःशुद्धिर्ब्राह्मणानां ध्रुवं भवेत्

॥४६॥

जटातीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥

शंकरो वेत्ति तत्तीर्थं हरिर्वेत्ति विधिस्तथा

॥४७॥

जटातीर्थसमंतीर्थं न भूतं न भविष्यति ॥

जटातीर्थस्य तीरे यः क्षेत्रपिंडं समाचरेत्

॥४८॥

गयाश्राद्धसमंपुण्यंतस्य स्यान्नात्र संशयः ॥

जटातीर्थे नरः स्नात्वा न पापेन विलिप्यते ॥

दारिद्र्यं न समाप्नोति नेयाच्च नरकार्णवम्

॥४९॥

श्रीसूत उवाच

एवं वः कथितं विप्रा जटातीर्थस्य वैभवम्

॥५०॥

यत्र व्याससुतो योगी स्नात्वा पापविमोचने ॥

अवाप्तवान्मनःशुद्धिमद्वैतज्ञानसाधनाम्

॥५१॥

यस्त्विमं पठतेऽध्यायं शृणुते वा समाहितः ॥

स विधूयेह पापानि लभते वैष्णवं पदम्

॥५२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये जटातीर्थप्रशंसायां शुकचित्तशुद्धिवर्णनंनाम विंशोऽध्यायः ॥ २० ॥