भैरवब्रह्महत्याविमोक्षणवर्णनम्
श्रीसूत उवाच
चक्रतीर्थे नरः स्नात्वा शिवतीर्थं ततो व्रजेत् ॥
यत्र हि स्नानमात्रेण महापातककोटयः
॥१॥तत्संसर्गाश्च नश्यंति तत्क्षणादेव तापसाः ॥
अत्र स्नात्वा ब्रह्महत्यां मुमुचे कालभैरवः
॥२॥ऋषय ऊचुः
कालभैरवरुद्रस्य ब्रह्महत्या महामुने ॥
किमर्थमभवत्सूत तन्नो वक्तुमिहार्हसि
॥३॥श्रीसूत उवाच
वक्ष्यामि मुनयः सर्वे पुरावृत्तं विमुक्तिदम् ॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
॥४॥प्रजापतेश्च विष्णोश्च बभूव कलहः पुरा ॥
किंचित्कारणमुद्दिश्य समस्तजनसन्निधौ
॥५॥अहमेव जगत्कर्ता नान्यः कर्तास्ति कश्चन ॥
अहं सर्वप्रपंचानां निग्रहानुग्रहप्रदः
॥६॥मत्तो नास्त्यधिकः कश्चिन्मत्समो वा सुरेष्वपि ॥
एवं स मनुते ब्रह्मा देवानां सन्निधौ पुरा
॥७॥तदा नारायणः प्राह प्रहसन्द्विजपुंगवाः ॥
किमर्थमेवं ब्रूषे त्वमहंकारेण सांप्रतम्
॥८॥वाक्यमेवंविधं भूयो वक्तुं नार्हसि वै विधे ॥
अहमेव जगत्कर्ता यज्ञो नारायणो विभुः
॥९॥मां विनास्य प्रपञ्चस्य जीवनं दुर्लभं भवेत् ॥
मत्प्रसादाज्जगत्सृष्टं त्वया स्थावरजंगमम्
॥१०॥विवादं कुर्वतोरेवं ब्रह्मविष्ण्वोर्जयैषिणोः ॥
देवानां पुरतस्तत्र वेदाश्चत्वार आगताः ॥
प्रोचुर्वाक्यमिदं तथ्यं परमार्थप्रकाशकम् ॥
वेदा ऊचुः ॥
त्वं विष्णो न जगत्कर्ता न त्वं ब्रह्मन्प्रजापते
॥१२॥किं त्वीश्वरो जगत्कर्ता परात्परतरो विभुः ॥
तन्मायाशक्तिसंक्लृप्तमिदं स्थावरजंगमम्
॥१३॥सर्वदेवाभिवंद्यो हि सांबः सत्यादिलक्षणः ॥
स्रष्टा च पालको हर्ता स एव जगतां प्रभुः
॥१४॥एवं समीरितं वेदैः श्रुत्वा वाक्यं शुभाक्षरम् ॥
ब्रह्मा विष्णुस्तदा तत्र प्रोचतुर्द्विजपुंगवाः
॥१५॥ब्रह्मविष्णू ऊचतुः
पार्वत्यालिंगितः शंभुर्मूर्तिमान्प्रमथाधिपः ॥
कथं भवेत्परं ब्रह्म सर्वसंगविवर्जितम्
॥१६॥ताभ्यामितीरिते तत्र प्रणवः प्राह तौ तदा ॥
अरूपो रूपमादाय महता ध्वनिना द्विजाः
॥१७॥प्रणव उवाच
असौ शंभुर्महादेवः पार्वत्या स्वातिरिक्तया ॥
संक्रीडते कदाचिन्नो किं तु स्वात्मस्वरूपया
॥१८॥असौ शंभुरनीशानः स्वप्रकाशो निरंजनः ॥
विश्वाधिको महादेवो विश्वाधिक इति श्रुतः
॥१९॥सर्वात्मा सर्वकर्तासौ स्वतन्त्रः सर्वभावनः ॥
ब्रह्मन्नयं सृष्टिकाले त्वां नियुंक्ते रजोगुणैः
॥२०॥सत्त्वेन रक्षणे शंभुस्त्वां प्रेषयति केशव ॥
तमसा कालरुद्राख्यं संप्रेरयति संहृतौ
॥२१॥अतः स्वतन्त्रता विष्णो युवयोर्न कदाचन ॥
नापि प्रजापतेरस्ति किं तु शंभोः स्वतन्त्रता
॥२२॥ब्रह्मन्विष्णो युवाभ्यां तु किमर्थं न महेश्वरः ॥
ज्ञायते सर्वलोकानां कर्ता विश्वाधिकस्तथा
॥२३॥सापि शक्तिरुमा देवी न पृथक्छंकरात्सदा ॥
शंभोरानंदभूता सा देवी नागंतुकी स्मृता
॥२४॥अतो विश्वाधिको रुद्रः स्वतंत्रो निर्विकल्पकः ॥
सर्वदेवैरयं वन्द्यो युवाभ्यामपि शंकरः
॥२५॥कर्ता नास्यास्ति रुद्रस्य नाधिकोऽस्माच्च विद्यते ॥
न तत्समोऽपि लोकेषु विद्यते शतशस्तथा
॥२६॥अतो मोहं न कुरुतं ब्रह्मविष्णो युवां वृथा ॥
इत्युक्तं प्रणवेनाथ श्रुत्वा ब्रह्मा च केशवः
॥२७॥मायया मोहितौ शंभोर्नैवाज्ञानममुंचताम् ॥
एतस्मिन्नंतरे ब्रह्मा प्रददर्श महाद्भुतम्
॥२८॥व्याप्नुवद्गगनं सर्वमनंतादित्य सन्निभम् ॥
तेजोमण्डलमाकाशमध्यगं विश्वतोमुखम्
॥२९॥तन्निरूपयितुं ब्रह्मा ससर्जोर्ध्वगतं मुखम् ॥
तपोबलविसृष्टेन पंचमेन मुखेन सः
॥३०॥निरूपयामास विभुस्तत्तेजोमण्डलं मुहुः ॥
तत्प्रजज्वाल कोपेन मुखं तेजोविलोकनात्
॥३१॥अनंतादित्यसंकाशं ज्वलत्तत्पंचमं शिरः ॥
दिधक्षुः प्रलये लोकान्वडवाग्निरिवाबभौ
॥३२॥व्यदृश्यत च तत्तेजः पुरुषो नीललोहितः ॥
दृष्ट्वा स्रष्टा तदा ब्रह्मा बभाषे परमेश्वरम्
॥३३॥वेदाहं त्वां महादेव ललाटान्मे पुरा भवान् ॥
विनिर्गतोऽसि शंभो त्वं रुद्रनामा ममात्मजः
॥३४॥इति गर्वेण संयुक्तं वचः श्रुत्वा महेश्वरः ॥
कालभैरवनामानं पुरुषं प्राहिणोत्तदा
॥३५॥अयुद्ध्यत चिरं कालं ब्रह्मणा कालभैरवः ॥
महादेवांशसंभूतः शूलटंकगदाधरः
॥३६॥युद्ध्वा तु सुचिरं कालं ब्रह्मणा कालभैरवः ॥
वदनं ब्रह्मणः शुभ्रं व्यलोकयत पंचमम्
॥३७॥विलोक्योर्ध्वगतं वक्त्रं पञ्चमं भारतीपतेः ॥
गर्वेण महता युक्तं प्रजज्वालातिकोपितः
॥३८॥ततस्तत्पंचमं वक्त्रं भैरवः प्राच्छिनद्रुषा ॥
ततो ममार ब्रह्माऽसौ कालभैरवहिंसितः
॥३९॥ईश्वरस्य प्रसादेन प्रपेदे जीवितं पुनः ॥
ततो विलोकयामास शंकरं शशिभूषणम्
॥४०॥वासुक्याद्यष्टभोगींद्रविभूषणविभूषितम् ॥
दृष्ट्वा वेधा महादेवं पार्वत्या सह शंकरम्
॥४१॥लेभे माहेश्वरं ज्ञानं महादेवप्रसादतः ॥
ततस्तुष्टाव गिरिशं वरेण्यं वरदं शिवम्
॥४२॥ब्रह्मोवाच
मह्यं प्रसीद गिरिश शशांककृतशेखर ॥
यन्मयापकृतं शंभो तत्क्षमस्व दयानिधे
॥४३॥क्षमस्व मम गर्वं त्वं शंकरेति पुनःपुनः ॥
नमश्चकार सोमं तं सोमार्धकृतशेखरम्
॥४४॥अथ देवः प्रसन्नोऽस्मै ब्रह्मणे स्वांशजाय तु ॥
मा भैरित्यब्रवीच्छंभुर्भैरवं चाभ्यभाषत
॥४५॥ईश्वर उवाच
एष सर्वस्य जगतः पूज्यो ब्रह्मा सनातनः ॥
हतस्यास्य विरिंचस्य धारय त्वं शिरोऽधुना
॥४६॥ब्रह्महत्याविशुद्ध्यर्थं लोकसंग्रहकाम्यया ॥
भिक्षामट कपालेन भैरव त्वं ममाज्ञया
॥४७॥उक्त्वैवं शंकरो विप्रास्तत्रैवांतरधीयत ॥
नीलकण्ठो महादेवो गिरिजार्द्धतनुस्ततः
॥४८॥भैरवं ग्राहयामास वदनं वेधसो द्विजाः ॥
चरस्व पापशुद्ध्यर्थं लोकसंग्रहणाय वै
॥४९॥कपालधारी हस्तेन भिक्षां गृह्णातु भैरवः ॥
इतीरयित्वा गिरिशः कन्यां कांचिद्भयंकरीम्
॥५०॥ब्रह्महत्याभिधां क्रूरां वडवानलसन्निभाम् ॥
तां प्रेरयित्वा गिरिशो भैरवं पुनरब्रवीत्
॥५१॥ईश्वर उवाच
भैरवैतद्व्रतं त्वब्दं ब्रह्महत्याविशुद्धये ॥
चर त्वं सर्वतीर्थेषु स्नाहि शुद्ध्यर्थमात्मनः
॥५२॥ततो वाराणसीं गच्छ ब्रह्महत्याप्रशांतये ॥
वाराणसीप्रवेशेन ब्रह्महत्या तवाधमा
॥५३॥पादशेषा विनष्टा स्याच्चतुर्थांशो न नश्यति ॥
तस्य नाशं प्रवक्ष्यामि तव भैरव तच्छुणु
॥५४॥दक्षिणांभोनिधेस्तीरे गन्धमादनपर्वते ॥
सर्वप्राण्युपकाराय कृतं तीर्थं मया शुभम्
॥५५॥शिवसंज्ञं महापुण्यं तत्र याहि त्वमादरात् ॥
तत्प्रवेशनमात्रेण ब्रह्महत्या तवाशुभा
॥५६॥शिवतीर्थस्य माहात्म्यान्निःशेषं नश्यति ध्रुवम् ॥
उक्त्वैवं भैरवं रुद्रः कैलासं प्रययौ क्षणात्
॥५७॥ततः कपालपाणिस्तु भैरवः शिवचोदितः ॥
देवदानवयक्षादिलोकेषु विचचार सः
॥५८॥तं यांतमनुयाति स्म ब्रह्महत्यातिभीषणा ॥
भैरवः सर्वतीर्थानि पुण्यान्यायतनानि च
॥५९॥चरित्वा लीलया देवस्ततो वाराणसीं ययौ ॥
वाराणसीं प्रविष्टे तु भैरवे शंकरांशजे
॥६०॥चतुर्थांशं विना नष्टा ब्रह्महत्यातिकुत्सिता ॥
चतुर्थांशेन दुद्राव भैरवं शंकरांशजम्
॥६१॥ततः स भैरवो देवः शूलपाणिः कपालधृक् ॥
शिवाज्ञया ययौ पश्चाद्गंधमादनपर्वतम्
॥६२॥शिवतीर्थं ततो गत्वा भैरवः स्नातवान्द्विजाः ॥
स्नानमात्रेण तत्रास्य शिवतीर्थे महत्तरे
॥६३॥निःशेषं विलयं याता ब्रह्महत्यातिभीषणा ॥
अस्मिन्नवसरे शंभुः प्रादुरासीत्तदग्रतः ॥
प्रादुर्भूतो महादेवो भैरवं वाक्यमब्रवीत्
॥६४॥ईश्वर उवाच
निःशेषं ब्रह्महत्या ते शिवतीर्थे निमज्जनात्
॥६५॥नष्टा भैरव नास्त्यत्र संदेहस्तव सुव्रत ॥
इदं कपालं काश्यां त्वं स्थापयस्व क्वचित्स्थले
॥६६॥इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
भैरवोऽपि तदा विप्रा ब्रह्महत्याविमोचितः
॥६७॥शिवतीर्थस्य माहात्म्याद्ययौ वाराणसीं पुरीम् ॥
कपालं स्थापयामास प्रदेशे कुत्रचिद्द्विजाः ॥
कपालतीर्थमित्याख्यामलभत्तत्स्थलं तदा
॥६८॥श्रीसूत उवाच
एवं प्रभावं तत्पुण्यं शिवतीर्थं विमुक्तिदम्
॥६९॥महादुःखप्रशमनं महापातकनाशनम् ॥
नरकक्लेशशमनं स्वर्गदं मोक्षदं तथा
॥७०॥शिवतीर्थस्य माहात्म्यं मया प्रोक्तं विमुक्तिदम् ॥
इदं पठन्सदा मर्त्यो दुःखग्रामाद्विमुच्यते
॥७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शिवतीर्थप्रशंसायां भैरवब्रह्महत्याविमोक्षणवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥