सेतुनिर्माणादिवर्णनम्
ऋषय ऊचुः
कथं सूत महाभाग रामेणाक्लिष्टकर्मणा ॥
सेतुर्बद्धो नदीनाथे ह्यगाधे वरुणालये
॥१॥सेतौ च कति तीर्थानि गंधमादनपर्वते ॥
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम
॥२॥श्रीसूत उवाच
रामेण हि यथासेतुर्निबद्धो वरुणालये ॥
तदहं संप्रवक्ष्यामि युष्माकं मुनिपुंगवाः
॥३॥आज्ञया हि पितू रामो न्यवसद्दंडकानने ॥
सीतालक्ष्मणसंयुक्तः पंचवट्यां समाहितः
॥४॥तस्मिन्निव सतस्तस्य राघवस्य महात्मनः ॥
रावणेन हृता भार्या मारीचच्छद्मना द्विजाः
॥५॥मार्गमाणो वने भार्यां रामो दशरथात्मजः ॥
पंपातीरे जगा मासौ शोकमोहसमन्वितः
॥६॥दृष्टवान्वानरं तत्र कंचिद्दशरथात्मजः ॥
वानरेणाथ पृष्टोऽयं को भवानिति राघवः
॥७॥आदितः स्वस्य वृत्तांत्तं तस्मै प्रोवाच तत्त्वतः ॥
अथ राघवसंपृष्टो वानरः को भवानिति
॥८॥सोपि विज्ञापयामास राघवाय महात्मने ॥
अहं सुग्रीवसचिवो हनूमा न्नाम वानरः
॥९॥तेन च प्रेरितोऽभ्यागां युवाभ्यां सख्यमिच्छता ॥
आगच्छतं तद्भद्रं वां सुग्रीवांतिकमाशु वै
॥१०॥तथास्त्विति स रामो पि तेन साकं मुनीश्वराः ॥
सुग्रीवांतिकमागप्य सख्यं चक्रेऽग्निसाक्षिकम्
॥११॥प्रतिजज्ञेऽथ रामोऽपि तस्मै वालिवधं प्रति ॥
सुग्रीवश्चापि वै देह्याः पुनरानयनं द्विजाः
॥१२॥इत्येवं समयं कृत्वा विश्वास्य च परस्परम् ॥
मुदा परमया युक्तौ नरेश्वरकपीश्वरौ
॥१३॥आसाते ब्राह्मणश्रेष्ठा ऋष्यमूकगिरौ तथा ॥
सुग्रीवप्रत्ययार्थं च दुंदुभेः कायमाशु वै
॥१४॥पादांगुष्ठेन चिक्षेप राघवो बहुयोजनम् ॥
सप्तताला विनिर्भिन्ना राघवेण महात्मना
॥१५॥ततः प्रीतमना वीरः सुग्रीवो राममब्रवीत् ॥
इंद्रादिदेवताभ्योऽपि नास्ति राघव मे भयम्
॥१६॥भवान्मित्रं मया लब्धो यस्मादति पराक्रमः ॥
अहं लंकेश्वरं हत्वा भार्यामानयितास्मि ते
॥१७॥ततः सुग्रीवसहितो रामचंद्रो महाबलः ॥
सलक्ष्मणो ययौ तूर्णं किष्किंधां वालिपालिताम्
॥१८॥ततो जगर्ज सुग्रीवो वाल्यागमनकांक्षया ॥
अमृष्यमाणो वाली च गर्जितं स्वानुजस्य वै
॥१९॥अंतःपुराद्विनिष्क्रम्य युयुधेऽवरजेन सः ॥
वालिमुष्टिप्रहारेण ताडितो भृशविह्वलः
॥२०॥सुग्रीवो निर्गतस्तूर्णं यत्र रामो महाबलः ॥
ततो रामो महाबाहुस्सुग्रीवस्य शिरोधरे
॥२१॥लतामाबध्य चिह्नं तु युद्धायाचोदयत्तदा ॥
गर्जितेन समाहूय सुग्रीवो वालिनं पुनः
॥२२॥रामप्रेरणया तेन बाहुयुद्धमथाकरोत् ॥
ततो वालिनमाजघ्ने शरेणैकेन राघवः
॥२३॥हते वालिनि सुग्रीवः किष्किंधां प्रत्यपद्यत ॥
ततो वर्षास्वतीतासु सुग्रीवो वानराधिपः
॥२४॥सीतामानयितुं तूर्णं वानराणां महाचमूम् ॥
समादाय समागच्छदंतिकं नृपपुत्रयोः
॥२५॥प्रस्थापयामास कपीन्सीतान्वेषणकांक्षया ॥
विदितायां तु वैदेह्या लंकायां वायुसूनुना
॥२६॥दत्ते चूडामणौ चापि राघवो हर्षशोकवान् ॥
सुग्रीवेणानुजेनापि वायुपुत्रेण धीमता
॥२७॥तथान्यैः कपिभिश्चैव जांबवन्नलमुख्यकैः ॥
अन्वीयमानो रामोऽसौ मुहूर्तेऽभिजिति द्विजाः
॥२८॥विलंघ्य विविधा न्देशान्महेंद्रं पर्वतं ययौ ॥
चक्रतीर्थं ततो गत्वा निवासमकरोत्तदा
॥२९॥तत्रैव तु स धर्मात्मा समागच्छद्विभीषणः ॥
भ्राता वै राक्षसेंद्रस्य चतुर्भिः सचिवैः सह
॥३०॥प्रतिजग्राह रामस्तं स्वागतेन महात्मना ॥
सुग्रीवस्य तु शंकाऽभूत्प्रणिधिः स्यादयं त्विति
॥३१॥राघवस्तस्य चेष्टाभिः सम्यक्स्वचरितैर्हितैः ॥
अदुष्टमेनं दृष्ट्वैव तत एनमपूजयत्
॥३२॥सर्वराक्षसराज्ये तमभ्यषिंचद्विभीषणम् ॥
चक्रे च मंत्रिप्रवरं सदृशं रविसूनुना
॥३३॥चक्रतीर्थं समासाद्य निवसद्रघुनंदनः ॥
चिंतयन्राघवः श्रीमान्सुग्रीवादीनभाषत
॥३४॥मध्ये वानरमु ख्यानां प्राप्तकालमिदं वचः ॥
उपायः को नु भवतामेतत्सागरलंघने
॥३५॥इयं च महती सेना सागरश्चापि दुस्तरः ॥
अंभोराशिरयं नीलश्चंचलोर्म्मिसमाकुलः
॥३६॥उद्यन्मत्स्यो महानक्रशंखशुक्तिसमाकुलः ॥
क्वचिदौर्वानलाक्रांतः फेनवानतिभीषणः
॥३७॥प्रकृष्टपवनाकृष्टनीलमेघसमन्वितः ॥
प्रलयांभोधरारावः सारवाननिलोद्धतः
॥३८॥कथं सागरमक्षोभ्यं तरामो वरुणा लयम् ॥
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्
॥३९॥उपायैरधिगच्छामो यथा नदनदीपतिम् ॥
कथं तरामः सहसा ससैन्या वरुणालयम्
॥४०॥शतयोजनमायातं मनसापि दुरासदम् ॥
अतो नु विघ्ना बहवः कथं प्राप्या च मैथिली
॥४१॥कष्टात्कष्टतरं प्राप्ता वयमद्य निराश्रयाः ॥
महाजले महावाते समुद्रे हि निराश्रये
॥४२॥उपायं कं विधास्यामस्तरणार्थं वनौकसाम् ॥
राज्याद्भ्रष्टो वनं प्राप्तो हृता सीता मृतः पिता
॥४३॥इतोऽपि दुःसहं दुःखं यत्सागरविलंघनम् ॥
धिग्धिग्गर्जितमंभोधे धिगेतां वारिराशिताम्
॥४४॥कथं तद्वचनं मिथ्या महर्षेः कुम्भजन्मनः ॥
हत्वा त्वं रावणं पापं पवित्रे गंधमादने ॥
पापोपशमनायाशु गच्छस्वेति यदीरितम्
॥४५॥श्रीसूत उवाच
इति रामवचः श्रुत्वा सुग्रीवप्रमुखास्तदा
॥४६॥ऊचुः प्रांजलयः संर्मे राघवं तं महाबलम् ॥
नौभिरेनं तरिष्यामः प्लवैश्च विविधैरिति
॥४७॥मध्ये वानरकोटीनां तदोवाच विभीषणः ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति
॥४८॥खनितः सागरैरेष समुद्रो वरुणालयः ॥
कर्तुमर्हति रामस्य तज्ज्ञातेः कार्यमंबुधिः
॥४९॥विभीषणेनैवमुक्तो राक्षसेन विपश्चिता ॥
सांत्वयन्राघवः सर्वान्वानरानिदमब्रवीत्
॥५०॥शतयोजन विस्तारमशक्ताः सर्ववानराः ॥
तर्तुं प्लवोडुपैरेनं समुद्रमतिभीषणम्
॥५१॥नावो न संति सेनाया बह्व्या वानरपुंगवाः ॥
वणिजामुपघातं च कथमस्मद्विधश्चरेत्
॥५२॥विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वा परः ॥
प्लवोडुपप्रतारोऽतो नैवात्र मम रोचते
॥५३॥विभीषेणोक्तमे वेदं मोदते मम वानराः ॥
अहं त्विमं जलनिधिमुपास्ये मार्गसिद्धये
॥५४॥नो चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं तदा ॥
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः
॥५५॥इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ॥
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे
॥५६॥तदा रामः कुशा स्तीर्णे तीरे नदनदीपतेः ॥
संविवेश महाबाहुर्वेद्यामिव हुताशनः
॥५७॥शेषभोगनिभं बाहुमुपधाय रघूद्वहः ॥
दक्षिणो दक्षिणं बाहुमुपास्ते मकरालयम्
॥५८॥तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ॥
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः
॥५९॥स त्रिरात्रोषितस्तत्र नयज्ञो धर्मतत्परः ॥
उपास्तेस्म तदा रामः सागरं मार्गसिद्धये
॥६०॥न च दर्शयते मन्दस्तदा रामस्य सागरः ॥
प्रयतेनापि रामेण यथार्हमपि पूजितः
॥६१॥तथापि सागरो रामं न दर्शयति चात्मनः ॥
समुद्राय ततः क्रुद्धो रामो रक्तांतलोचनः
॥६२॥समीपवर्तिनं चेदं लक्ष्मणं प्रत्यभाषत ॥
अद्य मद्बाणनिर्भिन्नैर्मकरैर्वरुणालयम्
॥६३॥निरुद्धतोयं सौमित्रे करिष्यामि क्षणादहम् ॥
सशंखशुक्ताजालं हि समीनमकरं शनैः
॥६४॥अद्य बाणैरमोघास्त्रैर्वारिधिं परिशोषये ॥
क्षमया हि समायुक्तं मामयं मकरालयः
॥६९॥असमर्थं विजानाति धिक्क्षमामीदृशे जने ॥
न दर्शयति साम्ना मे सागरो रूपमात्मनः
॥६६॥चापमानय सौमित्रे शरांश्चाशीविषोपमान् ॥
सागरं शोषयिष्यामि पद्भ्यां यांतु प्लवंगमाः
॥६७॥एनं लंघितमर्यादं सहस्रोर्मिसमाकुलम् ॥
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्
॥६८॥महार्णवं शोषयिष्ये महादानवसंकुलम् ॥
महामकरनक्राढ्यं महावीचिसमाकुलम्
॥६९॥एवमुक्त्वा धनुष्पाणिः क्रोधपर्याकुलेक्षणः ॥
रामो बभूव दुर्धर्षस्त्रिपुरघ्नो यथा शिवः
॥७०॥आकृष्य चापं कोपेन कम्पयित्वा शरैर्जगत् ॥
मुमोच विशिखानुग्रांस्त्रिपुरेषु यथा भवः
॥७१॥दीप्ता बाणाश्च ये घोरा भासयन्तो दिशो दश ॥
प्राविशन्वारिधेस्तोयं दृप्तदानवसंकुलम्
॥७२॥समुद्रस्तु ततो भीतो वेपमानः कृतांजलिः ॥
अनन्यशरणो विप्राः पाता लात्स्वयमुत्थितः
॥७३॥शरणं राघवं भेजे कैवल्यपदकारणम् ॥
तुष्टाव राघवं विप्रा भूत्वा शब्दैर्मनोरमैः
॥७४॥समुद्र उवाच
नमामि ते राघव पादपंकजं सीतापते सौख्यद पादसेवनात् ॥
नमामि ते गौतमदारमोक्षजं श्रीपादरेणुं सुरवृन्दसेव्यम्
॥७६॥सुन्दप्रियादेहविदारिणे नमो नमोस्तु ते कौशिकयागरक्षिणे ॥
नमो महादेवशरासभेदिने नमो नमो राक्षससंघनाशिने
॥७६॥रामराम नमस्यामि भक्तानामिष्टदायिनम् ॥
अवतीर्णो रघुकुले देवकार्यचिकीर्षया
॥७७॥नारायणमनाद्यंतं मोक्षदं शिवमच्युतम् ॥
रामराम महाबाहो रक्ष मां शरणागतम्
॥७८॥कोपं संहर राजेंद्र क्षमस्व करुणालय ॥
भूमिर्वातो वियच्चापो ज्योतींषि च रघूद्वह
॥७९॥यत्स्वभावानि सृष्टानि ब्रह्मणा परमेष्ठिना ॥
वर्तंते तत्स्वभा वानि स्वभावो मे ह्यगाधता
॥८०॥विकारस्तु भवेद्गाध एतत्सत्यं वदाम्यहम् ॥
लोभात्कामाद्भयाद्वापि रागाद्वापि रघूद्वह
॥८१॥न वंशजं गुणं हातुमुत्सहेयं कथंचन ॥
तत्करिष्ये च साहाय्यं सेनायास्तरणे तव
॥८२॥इत्युक्तवन्तं जलधिं रामोऽवादीन्नदीपतिम् ॥
ससैन्योऽहं गमि ष्यामि लंकां रावणपालिताम्
॥८३॥तच्छोषमुपयाहि त्वं तरणार्थं ममाधुना ॥
इत्युक्तस्तं पुनः प्राह राघवं वरुणालयः
॥८४॥शृणुष्वाव हितो राम श्रुत्वा कर्तव्यमाचर ॥
यद्याज्ञया ते शुष्यामि ससैन्यस्य यियासतः
॥८५॥अन्येऽप्याज्ञापयिष्यंति मामेवं धनुषो बलात् ॥
उपायमन्यं वक्ष्यामि तरणार्थं बलस्य ते
॥८१६॥अस्ति ह्यत्र नलोनाम वानरः शिल्पिसंमतः ॥
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः
॥८७॥स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ॥
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति
॥८८॥सेतुना तेन गच्छ त्वं लंकां रावणपालि ताम् ॥
उक्त्वेत्यंतर्हिते तस्मिन्रामो नलमुवाच ह
॥८९॥कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि महामते ॥
तदाऽब्रवीन्नलो वाक्यं रामं धर्मभृतां वरम्
॥९०॥अहं सेतुं विधास्यामि ह्यगाधे वरुणालये ॥
पित्रा दत्तवरश्चाहं सामर्थ्ये चापि तत्समः
॥९१॥मातुर्मम वरो दत्तो मन्दरे विश्वक र्मणा ॥
शिल्पकर्मणि मत्तुल्यो भविता ते सुतस्त्विति
॥९२॥पुत्रोऽहमौरसस्तस्य तुल्यो वै विश्वकर्मणा ॥
अद्यैव कामं बध्नंतु सेतुं वानरपुं गवाः
॥९३॥ततो रामनिसृष्टास्ते वानरा बलवत्तराः ॥
पर्वतान्गिरिशृंगाणि लतातृणमहीरुहान्
॥९४॥समाजह्रुर्महाकाया गरुडानिलरंहसः ॥
नलश्चक्रे महासेर्तुमध्ये नदनदीपतेः
॥९५॥दशयोजनविस्तीर्णं शतयोजनमायतम् ॥
जानकीरमणो रामः सेतुमेवमकारयत्
॥९६॥नलेन वानरेन्द्रेण विश्वकर्मसुतेन वै ॥
तमेवं सेतुमासाद्य रामचन्द्रेण कारितम्
॥९७॥सर्वे पातकिनो मर्त्या मुच्यन्ते सर्वपातकैः ॥
व्रतदान तपोहोमैर्न तथा तुष्यते शिवः
॥९८॥सेतुमज्जनमात्रेण यथा तुष्यति शंकरः ॥
न तुल्यं विद्यते तेजोयथा सौरेण तेजसा
॥९९॥सेतुस्नानेन च तथा न तुल्यं विद्यते क्वचित् ॥
तत्सेतुमूलं लंकायां यत्ररामो यियासया
॥१००॥वानरैः सेतुमारेभे पुण्यं पाप प्रणाशनम् ॥
तद्दर्भशयनं नाम्ना पश्चाल्लोकेषु विश्रुतम्
॥१०१॥एवमुक्तं मया विप्राः समुद्रे सेतुबंधनम् ॥
अत्र तीर्थान्यनेकानि संति पुण्यान्यनेकशः
॥१०२॥न संख्यां नामधेयं वा शेषो गणयितुं क्षमः ॥
किं त्वहं प्रब्रवीम्यद्य तत्र तीर्थानि कानिचित्
॥१०३॥चतुर्विंशति तीर्थानि संति सेतौ प्रधानतः ॥
प्रथमं चकतीर्थं स्याद्वेतालवरदं ततः
॥१०४॥ततः पापविनाशार्थं तीर्थं लोकेषु विश्रुतम् ॥
ततः सीतासरः पुण्यं ततो मंगलतीर्थकम्
॥१०५॥ततः सकलपापघ्नी नाम्ना चामृतवापिका ॥
ब्रह्मकुण्डं ततस्तीर्थं ततः कुंडं हनूमतः
॥१०६॥आगस्त्यं हि ततस्तीर्थं रामतीर्थ मतः परम् ॥
ततो लक्ष्मणतीर्थं स्याज्जटातीर्थमतः परम्
॥१०७॥ततो लक्ष्म्याः परं तीर्थमग्नितीर्थमतः परम् ॥
चक्रतीर्थं ततः पुण्यं शिवतीर्थमतः परम्
॥१०८॥ततः शंखाभिधं तीर्थं ततो यामुनतीर्थकम् ॥
गंगातीर्थं ततः पश्चाद्गयातीर्थमनन्तरम्
॥१०९॥ततः स्यात्कोटितीर्थाख्यं साध्यानाममृतं ततः ॥
मानसाख्यं ततस्तीर्थं धनुष्कोटिस्ततः परम्
॥११०॥प्रधानतीर्थान्येतानि महापापहराणि च ॥
कथितानि द्विजश्रेष्ठास्सेतुमध्यगतानि वै
॥१११॥यथा सेतुश्च बद्धोऽभूद्रामेण जलधौ महान् ॥
कथितं तच्च विप्रेन्द्राः पुण्यं पापहारं तथा
॥११२॥यच्छ्रुत्वा च पठित्वा च मुच्यते मानवो भुवि
॥११३॥अध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ॥
सो नंतमाप्नोति जयं परत्र पुनर्भवक्लेशमसौ न गच्छेत्
॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुनिर्माणादिवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥