मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १८

3
ब्रह्मखण्डः · सेतुखण्डः · 18

कुंभसंभवतीर्थेऽस्मिन्विधायाभिषवं नरः

श्रीसूत उवाच

कुंभसंभवतीर्थेऽस्मिन्विधायाभिषवं नरः ॥

रामकुंडं ततः पुण्यं गच्छेत्पापविमुक्तये

॥१॥

रघुनाथसरः पुण्यं द्विजाः पापहरं तथा ॥

रघुनाथसरस्तीरे कृतो यज्ञोऽल्पदक्षिणः

॥२॥

संपूर्णफलदो भूयात्स्वाध्यायोऽपि जपस्तथा ॥

रघुनाथ सरस्तीरे मुष्टिमात्रमपि द्विजाः

॥३॥

दत्तं चेद्वेदविदुषे तदनंतगुणं भवेत् ॥

रामतीर्थं समुद्दिश्य वक्ष्यामि मुनिपुंगवाः

॥४॥

इतिहासं महापुण्यं सर्वपातकनाशनम् ॥

सुतीक्ष्णनामा विप्रेंद्रो मुनिर्नियतमानसः

॥५॥

अगस्त्यशिष्यो रामस्य चरणाब्जविचिंतकः ॥

रामचंद्रसरस्तीरे तपस्तेपे सुदुष्करम्

॥६॥

जपन्षडक्षरं मंत्रं रामचंद्राधिदैवतम् ॥

नित्यं स पंचसाहस्रं मत्रराजमतंद्रितः

॥७॥

जजाप कुर्वन्स्नानं च रघुनाथसरोजले ॥

भिक्षाशी नियताहारो जितक्रोधो जितेंद्रियः

॥८॥

एवं सुतीक्ष्णो विप्रेंद्रा बहुकालमवर्तत ॥

ततः कदाचित्स मुनीरामं ध्याय न्सदा हृदि ॥

तुष्टाव सीतासहितं रामचंद्रं सभक्तिकम्

॥९॥

सुतीक्ष्ण उवाच

नमस्ते जानकीनाथ नमस्ते हनुमत्प्रिय

॥१०॥

नमस्ते कौशिकमुनेर्यागरक्षणदीक्षित ॥

नमस्ते कौसलेयाय विश्वामित्रप्रियाय च

॥११॥

नमस्ते हरकोदण्डभंजकामरसेवित ॥

मारीचांतक राजेंद्र ताटकाप्राणनाशन

॥१२॥

कबंधारे हरे तुभ्यं नमो दशरथात्मज ॥

जामदग्न्यजिते तुभ्यं खरविध्वंसिने नमः

॥१३॥

नमः सुग्रीवनाथाय नमो वालिहराय ते ॥

विभीषणभयक्लेशहारिणे मलहारिणे

॥१४॥

अहल्यादुःखसंहर्त्रे नमस्ते भरताग्रज ॥

अंभोधिगर्वसंहर्त्रे तस्मिन्सेतु कृते नमः

॥१५॥

तारकब्रह्मणे तुभ्यं लक्ष्मणाग्रज ते नमः ॥

रक्षःसंहारिणे तुभ्यं नमो रावणमर्द्दिने

॥१६॥

कोदण्डधारिणे तुभ्यं सर्व रक्षाविधायिने ॥

इति स्तुवन्मुनिः सोऽयं सुतीक्ष्णो राममन्वहम्

॥१७॥

निनाय कालमनिशं रामचंद्रनिषण्णधीः ॥

एवमभ्यसतस्तस्य राम मन्त्रं षडक्षरम्

॥१८॥

स्तुवतो रामचंद्रं च स्तोत्रेणानेन सुव्रताः ॥

तीर्थे च रघुनाथस्य कुर्वतः स्नानमन्वहम्

॥१९॥

अभवन्निश्चला भक्ती रामचंद्रेतिनिर्मला ॥

अभूदद्वैतविज्ञानं प्रत्यगात्मैकलक्षणम्

॥२०॥

अनधीतत्रयीज्ञानं तथैवाश्रुतवेदनम् ॥

परकायप्रवेशे च सामर्थ्यमभवद्द्विजाः

॥२१॥

आकाशगमने शक्तिः कलावैदग्ध्यमेव च ॥

अश्रुतानां च शास्त्राणामभिज्ञानं विना गुरुम्

॥२२॥

गमनं सर्वलोकेषु प्रति घातविवर्जितम् ॥

अतींद्रियार्थद्रष्टृत्वं देवैः संभाषणं तथा

॥२३॥

पिपीलिकादिजंतूनां वार्ताज्ञानमपि द्विजाः ॥

ब्रह्मविष्णुमहादेवलोकेषु गमनं तथा

॥२४॥

चतुर्दशसु लोकेषु स्वाधीनगमनं तथा ॥

एतान्यन्यानि सर्वाणि योगिलभ्यानि सत्तमाः

॥२५॥

सुतीक्ष्णस्याभवन्विप्रा रामा तीर्थनिषेवणात् ॥

एवंप्रभावं तत्तीर्थं महापातकनाशनम्

॥२६॥

महासिद्धिकरं पुण्यमपमृत्युविनाशनम् ॥

भुक्तिमुक्तिप्रदं पुंसां नरकक्लेशना शनम्

॥२७॥

रामभक्तिप्रदं नित्यं संसारोच्छेदकारणम् ॥

अस्य तीरे महल्लिंगं स्थापयित्वा रघूद्वहः ॥

पूजयामास तल्लिंगं लोकानुग्रहका म्यया

॥२८॥

रामतीर्थे महापुण्ये स्नात्वा तल्लिंगदर्शनात् ॥

नराणां मुक्तिरेव स्यात्किमुतान्या विभूतयः

॥२९॥

तत्र स्नात्वा शिवं दृष्ट्वा धर्म पुत्रः पुरा द्विजाः ॥

अनृतोक्तिसमुद्भूतदोषान्मुक्तोऽभवत्क्षणात्

॥३०॥

ऋषय ऊचुः

असत्यमुदितं कस्माद्धर्मपुत्रेण सूतज ॥

यद्दोषशांतये सस्नौ रामतीथेऽतिपावने

॥३१॥

श्रीसूत उवाच

युष्माकमृषयो वक्ष्ये यथोक्तमनृतं रणे ॥

छलेन धर्मपुत्रेण यन्नष्टं रामतीर्थके

॥३२॥

अन्योन्यं पांडवा विप्रा धर्मपुत्रादयः पुरा ॥

धृतराष्ट्रस्य पुत्राश्च दुर्नोधनमुखास्तदा

॥३३॥

महद्वै वैरमासाद्य राज्यार्थं विप्रसत्तमाः ॥

महत्या सेनया सार्द्धं कुरुक्षेत्रे समेत्य च

॥३४॥

अयुध्यन्समरे वीराः समरेष्वनिवर्तिनः ॥

युद्धं कृत्वा दशदिनं गांगेयः पतितो भुवि

॥३५॥

ततः पंचदिनं भूयो धृष्टद्युम्नेन वीर्यवान् ॥

आचार्यो युयुधे द्रोणो महाबलपराक्रमः

॥३६॥

अनेकास्त्राणि शस्त्राणि द्रोणाचर्यो महाबली ॥

विसृजन्पांडवानीकं पीडयामास वीर्यवान्

॥३७॥

अथ दिव्यास्त्रविच्छूरो धृष्टद्युम्नो महाबलः ॥

अभिनद्बाणवर्षेण द्रोणसेनामनेकधा

॥३८॥

धृष्टद्युम्नं तदा द्रोणः शरवर्षैरवाकिरत् ॥

पार्थसेना तथा द्रोणबाणवर्षातिपीडिता

॥३९॥

दशदिक्षु भयाक्रांता विद्रुता द्विजसत्तमाः ॥

ततोऽर्जुनो रणे द्रोणं युयुधे रथिनां वरः

॥४०॥

रणप्रवीणयोस्तत्र विजयद्रोणयो रणे ॥

द्रष्टुं समागतैर्देवैरभूद्व्योमनिरं तरम्

॥४१॥

द्रोणफाल्गुनयोर्विप्रा नास्ति युद्धोपमा भुवि ॥

सामर्षयोस्तदाचार्यशिष्ययोरभवद्रणः

॥४२॥

द्रोणफाल्गुनयोर्युद्धं द्रोणफाल्गुन योरिव ॥

बहु मेनेऽथ मनसा द्रोणोऽर्जुनपराक्रमम्

॥४३॥

ततो द्रोणो महावीर्यं प्रियशिष्यं स फाल्गुनम् ॥

विहाय पांचालबलं समयुध्यत वीर्यवान्

॥४४॥

सविंशतिसहस्राणि दश तत्रायुतानि च ॥

द्रोणाचार्योऽवधीद्राज्ञां युद्धे सगजवाजिनाम्

॥४५॥

धृष्टद्युम्नोऽथ कुपितो द्रोण मभ्यहनच्छरैः ॥

द्रोणश्च पट्टिशं गृह्य धृष्टद्युम्नमताडयत्

॥४६॥

शरैर्विव्याध तं युद्धे तीक्ष्णैरग्निशिखोपमैः ॥

परङ्मुखोऽभवत्तत्र धृष्ट द्युम्नः शराहतः

॥४७॥

ततो विरथमागत्य धृष्टद्युम्नं वृकोदरः ॥

स्वं स्यंदनं समारोप्य द्रोणाचार्यमथाब्रवीत्

॥४८॥

स्वकर्मभिरसंतुष्टाः शिक्षितास्त्रा द्विजाधमाः ॥

न युद्ध्येरन्यदि क्रूरा न नश्येरन्नृपा रणे

॥४९॥

अहिंसा हि परो धर्मो ब्राह्मणानां सदा स्मृतः ॥

हिंसया दारपुत्रादीन्रक्षंते व्याधजातयः

॥५०॥

हिंसीस्त्वमेकपुत्रार्थे युद्धे स्थित्वा बहून्नृपान् ॥

स चापि ते सुतो ब्रह्मन्हतः शेते रणाजिरे

॥५१॥

तथापि लज्जा ते नास्ति शोकोऽपीह न जायते ॥

वचनं त्विति भीमस्य सत्यं श्रुत्वा युधिष्ठिरात्

॥५२॥

निजायुधं स तत्याज पपात स्यंदनो परि ॥

योगवित्प्रायमातस्थे द्रोणाचार्यस्तदा द्विजाः

॥५३॥

तदंतरं परिज्ञाय द्रोणाचार्यस्य पार्श्वतः ॥

खङ्गपाणिः शिरच्छेत्तुमभ्यधावद्रणा जिरे

॥५४॥

वार्यमाणोऽपि पार्थाद्यैस्तच्छिरश्छेत्तुमुद्ययौ ॥

योगवित्त्वाद्द्रोणमूर्ध्नो ज्योतिरूर्ध्वं दिवं ययौ

॥५५॥

दृष्टं कृष्णार्जुनकृपधर्मपुत्रादि भिर्मृधे ॥

द्रोणस्यास्य गतप्राणाच्छरीरादच्छिनच्छिरः

॥५६॥

भारद्वाजे हते युद्धे कौरवाः प्राद्रवन्भयात् ॥

जहृषुः पांडवा विप्रा धृष्टद्युम्नादय स्तदा

॥५७॥

सेनां तां विद्रुतां दृष्ट्वा द्रौणिरूचे सुयोधनम् ॥

एतद्द्रवति कि सैन्यं त्यक्तप्रहरणं नृप

॥५८॥

तदा दुर्योधनो राजा स्वयं वक्तु मशक्नुवन् ॥

युद्धे द्रोणवधं वक्तुं कृपाचार्यमचोदयत् ॥

द्रौणयेऽथ कृपाचार्यो वधमूचे गुरोस्तदा

॥५९॥

कृप उवाच

अश्वत्थामंस्तव पिता ब्रह्मास्त्रेण मृधे रिपून् ॥

हत्वा निनाय सदनं यमस्य शतशो बली

॥६०॥

दुराधर्षतमं दृष्ट्वा तद्वीर्यं केशवस्तदा ॥

पांडवान्प्राह विप्रेंद्र वाक्यं वाक्यविशारदः

॥६१॥

केशव उवाच

द्रोणं जेतुमुपायोऽस्ति पांडवा युधि दुर्जयम्

॥६२॥

अश्वत्थात्मा तव सुतो हतो द्रोण मृधेऽधुना ॥

सत्यवादी वदेदेवं यदि प्रामाणिको जनः

॥६३॥

द्रोणो निवर्तेत रणात्तदा त्यक्त्वायुधं क्षणात् ॥

अत एनां मृषावार्तां धर्मराजोऽधुना वदेत्

॥६४॥

नान्यथा शक्यते जेतुं द्रोणो युद्धविशारदः ॥

धर्माज्जेतुमशक्यं चेद्धर्मं त्यक्त्वाऽप्यरिं जयेत्

॥६५॥

इति केशववाक्यं तच्छ्रुत्वा भीमः पृथासतः ॥

पितरं ते समभ्येत्य मिथ्यावाक्यमभाषत

॥६६॥

अश्वत्थामा हतो द्रोण युद्धेऽत्र पतितोऽधुना ॥

द्रोणाचार्योपि तद्वाक्यममन्यत यथार्थतः

॥६७॥

अविश्वस्य पुनः सोऽथ धर्मजं प्राप्य चाब्रवीत् ॥

धर्मात्मज मृधे सूनुरश्वत्थामा ममाधुना

॥६८॥

हतः किं त्वं वदस्वाद्य सत्यवादी भवान्मतः ॥

धर्मपुत्रोऽसत्यभीरुरासीच्चारिजयोत्सुकः

॥६९॥

किं कर्तव्यं मयाद्येति दोलालोलमना अभूत् ॥

स दृष्ट्वा भीमनिहतमश्वत्थामाभिधं गजम्

॥७०॥

अश्वत्थामा हतो युद्धे भीमेनाद्य रणे महान् ॥

इत्थं द्रोणं बभाषेऽसौ धर्मपुत्रश्छलोक्तितः

॥७१॥

तच्छ्रुत्वा त्वत्पिता शस्त्रं त्यक्त्वा युद्धान्न्यवर्त्तत ॥

अथ धर्मसुतः प्राह परं वारण इत्यपि

॥७२॥

त्यक्तं शस्त्रं न गृह्णीयां युद्धे पुनरिति स्म सः ॥

प्रतिजज्ञे तव पिता वत्स द्रोणो बली पुनः

॥७३॥

अतः शस्त्रं न जग्राह प्रतिज्ञाभंगकातरः ॥

धृष्टद्युम्नं तदा दृष्ट्वा पिता ते मृत्युमात्मनः

॥७४॥

मत्वा प्रायोपवेशेन रथोपस्थे स योगवित् ॥

अशयिष्ट समाधिस्थः प्राणानायम्य वाग्यतः

॥७५॥

ततो निर्भिद्य मूर्धानं तत्प्राणा निर्ययुः क्षणात् ॥

तदा मृतस्य द्रोणस्य वत्स खङ्गेन तच्छिरः

॥७६॥

केशागृहीत्वा हस्तेन धृष्टद्युम्नोऽच्छिनद्युधि ॥

मावधीरिति पार्थाद्याः प्रोचुः सर्वे च सैनिकाः ॥

सर्वैर्निवार्यमाणोपि त्वत्तातं पार्श्वतोऽवधीत्

॥७७॥

श्रीसूत उवाच

पितरं निहतं श्रुत्वा रुदन्द्रौणिश्चिरं द्विजाः

॥७८॥

कोपेन महता तत्र ज्वलन्वाक्यमथाब्रवीत ॥

अनृतं प्रोच्य पितरं न्यस्तशस्त्रं चकार यः

॥७९॥

पितरं मेऽद्य तं पार्थमप्यन्या थ पांडवान् ॥

गृहीत्वा केशपाशं यस्त्यक्तशस्त्रशिरोऽहनत्

॥८०॥

छद्मना पार्षतं तं च हनिष्याम्यचिरादहम् ॥

कृष्णेन सह पश्यंतु पाण्डवा मत्पराक्रमम्

॥८१॥

इति द्रौणिर्द्विजास्तत्र प्रतिजज्ञे भयंकरम् ॥

ततोस्तं गत आदित्ये राजानः सर्व एव ते

॥८२॥

उभये निहते द्रोणे प्राविशन्पटमण्डपम् ॥

अष्टादशदिनैरेवं निवृत्तमभवद्रणम्

॥८३॥

शल्यं कर्णं तथान्यांश्च दुर्योधनमुखांस्ततः ॥

धार्तराष्ट्रान्निहत्याजौ धर्मराजो युधिष्ठिरः

॥८४॥

स्वीयानां च परेषां च मृतानां सांपरायिकम् ॥

अकरोद्विधिवद्विप्राः सार्धं धौम्या दिभिर्द्विजैः

॥८५॥

वंदित्वा धृतराष्ट्रं च सर्वे संभूय पाण्डवाः ॥

धृतराष्ट्राभ्यनुज्ञाता हतशिष्टजनैर्वृताः

॥८६॥

संप्राप्य हास्तिनपुरं प्राविशंस्ते स्वमंदिरम् ॥

ततः कतिपयाहःसु गतेषु किल नागराः

॥८७॥

धौम्यादिमुनिभिः सार्धं धर्मजस्य महात्मनः ॥

राज्या भिषेचनं कर्तुं प्रारभंत मुनीश्वराः ॥

राज्याभिषेचने तस्य प्रवृत्ते धर्मजस्य तु ॥

अशरीरा ततो वाणी बभाषे धर्मनंदनम्

॥८९॥

धर्म पुत्र महाभाग रिपूणामपि वत्सल ॥

राज्याभिषेकं मा कार्षीर्नार्हस्त्वं राज्यपालने

॥९०॥

यतस्त्वं छद्मनाचार्यमुक्त्वा सत्यं द्विजोत्तमम् ॥

न्यस्त शस्त्रं रणे राजन्नघातयदलज्जकः

॥९१॥

अतस्ते पापबाहुल्यं विद्यते धर्मनंदन ॥

प्रायश्चित्तमकृत्वास्य राज्यपालनकर्मणि

॥९२॥

नार्हता विद्यते यस्मात्प्रायश्चित्तमतश्चर ॥

इत्युक्त्वा विररामाथ सा तु वागशरीरिणी

॥९३॥

ततो धर्मसुतो राजा तद्वाक्यं भृशकातरः ॥

मूढोऽहं साहसी क्रूरः पिशुनो लोभमोहितः

॥९४॥

तुच्छराज्याभिलाषेण कृतवान्पापमीदृशम् ॥

एतत्पापविशुद्ध्यर्थं किं करिष्यामि का गतिः

॥९५॥

किं वा दानं प्रदास्यामि कुत्र यास्यामि वा पुनः ॥

इति शोकसमाविष्टे तस्मिन्राजनि धर्मजे

॥९६॥

कृष्णद्वैपायनो व्यासस्समायातस्तदंतिकम् ॥

ततोऽभिवंद्य तं व्यासं प्रत्युत्थाय कृतांजलिः

॥९७॥

संपूज्यार्घ्यादिना विप्रा भक्तियुक्तेन चेतसा ॥

अदेहवाचा यत्प्रोक्तं तत्सर्वमखिलेन सः

॥९८॥

व्यासाय श्रावयामास दुःखितो धर्मनंदनः ॥

श्रुत्वा तदखिलं वाक्यं धर्मजस्य महामुनिः ॥

ध्यात्वा तु सुचिरं कालं ततो वक्तुं प्रच क्रमे

॥९९॥

व्यास उवाच

मा कार्षीस्त्वं भयं राजन्नुपायं प्रब्रवीमि ते ॥

अस्य पापस्य शांत्यर्थं श्रुत्वानुष्ठीयतां त्वया

॥१००॥

युधिष्ठिर उवाच

किं तद्ब्रूहि महायोगिन्पाराशर्य कृपानिधे ॥

येन मे पापनाशः स्यादचिरात्तद्वदाधुना

॥१०१॥

व्यास उवाच

दक्षिणांभोनिधौ सेतौ गंधमादनपर्वते

॥१०२॥

रामसेतौ महाराज रामतीर्थमिति श्रुतम् ॥

अस्ति पुण्यं सरः सिद्धं महापातकनाशनम्

॥३॥

यस्य दर्शनमात्रेण महापातककोटयः ॥

प्रयांति विलयं सद्यस्तमः सूर्योदये यथा

॥४॥

रामतीर्थं यदा पश्येत्स्वयं रामेण निर्मितम् ॥

तदैव ब्रह्महत्याया मुच्यते नात्र संशयः

॥५॥

तत्र गत्वा महाराज रामतीर्थे विमुक्तिदे ॥

स्नाहि ते पापशुद्धिः स्याद्राज्यरक्षार्हतापि च

॥६॥

दानं कुरुष्व तत्तीरे गोभूमितिलवाससाम् ॥

सुवर्णरजतानां च दानं कुरु युधिष्ठिर ॥

अवश्यमेतत्पापानां शुद्धिस्ते न चिराद्भवेत्

॥७॥

श्रीसूत उवाच

व्यासेन धर्मपुत्रोऽयमेवमुक्तो द्विजोत्तमाः

॥९॥

तत्क्षणेनैव धौम्येन सहितः सानुजस्तदा ॥

सहदेवं प्रतिष्ठाप्य राज्ये धर्मात्मजस्तदा

॥९॥

रामसेतुं समुद्दिश्य प्रतस्थे वाहनं विना ॥

दिनैः कतिपयैरेव रामसेतुं जगाम सः

॥११०॥

रामतीर्थं समासाद्य धौम्येन सह पांडवः ॥

पुरोहितोक्तमार्गेण संकल्प्य विधिपूर्वकम्

॥११॥

सस्नौ रामसरस्तीर्थे पुण्ये पापविनाशने ॥

स्नात्वाचम्य विशुद्धात्मा क्षेत्रपिंडं प्रदाय च

॥१२॥

व्यासो क्ताखिलदानानि प्रददौ स युधिष्ठिरः ॥

मासमेकं निराहारः सस्नौ तत्र स धर्मजः

॥१३॥

प्रत्यहं च ददौ दानं वित्तलोभं विना द्विजाः ॥

एक मासे गते त्वेवं कस्मिंश्चिद्दिवसे ततः

॥१४॥

आह धर्मात्मजं वाणी पुनरप्यशरीरिणी ॥

राजंस्ते विलयं यातं सर्वं पापं युधिष्ठिर

॥१५॥

छले नासत्यवचनादाचार्यस्य वधेन यः ॥

दोषस्ते समभूत्पूर्वं सोऽपि नष्टः परंतप

॥१६॥

याहि स्वनगरं राजन्गत्वा पालय मेदिनीम् ॥

अभिषेचय चात्मानं राज्यरक्षार्हतास्ति ते

॥१७॥

इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥

ततो धर्मात्मजः प्रीतस्तामुद्दिश्य दिशं प्रति

॥१८॥

नमस्कृत्वाशरीरिण्यै तस्यै वाचे सहानुजः ॥

प्रययौ हास्तिनपुरं सुप्रीतेनांतरात्मना

॥१९॥

अभिषिक्तोऽथ राज्येऽसौ पालयामास मेदिनीम् ॥

इत्थं धर्मात्मजो विप्रा रामतीर्थनिमज्जनात्

॥१२०॥

गतपापो विशुद्धात्मा योग्योऽभूद्राज्यरक्षणे ॥

एवं वः कथितं चित्रं रामतीर्थस्य वैभवम्

॥२१॥

सर्वपापहरं पुण्यं भक्तिमुक्तिप्रदायकम् ॥

यत्र स्नानाद्विमुक्तोऽभून्मिथ्यादोषात्स धर्मजः

॥२२॥

पठंति येऽ ध्यायमिदं द्विजोत्तमाः शृण्वंति वा ये मनुजा विपातकाः ॥

यास्यंति कैलासमनन्यलभ्यं गत्वा न संयांति पुनश्च जन्म

॥१२३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां मंहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामतीर्थप्रशंसायां धर्मपुत्रमिथ्या कथनदोषशांतिवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥