चक्रतीर्थप्रथावर्णनम्
ऋषय ऊचुः
चतुर्विंशतितीर्थानि यान्युक्तानि त्वया मुने ॥
तेषां प्रधानतीर्थानां सेतौ पापविनाशने
॥१॥आदिमस्य तु तीर्थस्य चक्रतीर्थमिति प्रथा ॥
कथं समागता सूत वदास्माकं हि पृच्छताम्
॥२॥श्रीसूत उवाच
चतुर्विंशतितीर्थानां प्रधानानां द्विजोत्तमाः ॥
यदुक्तमादिमं तीर्थं सर्वलोकेषु विश्रुतम्
॥३॥स्मरणात्तस्य तीर्थस्य गर्भवासो न विद्यते ॥
विलयं यांति पापानि लक्षजन्मकृतान्यपि
॥४॥तस्मिंस्तीर्थे सकृत्स्नाना त्स्मरणात्कीर्तनादपि ॥
लोके ततोधिकं तीर्थं तत्तुल्यं वा द्विजोत्तमाः
॥५॥न विद्यते मुनिश्रेष्ठाः सत्यमुक्तमिदं मया ॥
गंगा सरस्वती रेवा पंपा गोदावरी नदी
॥६॥कालिंदी चैव कावेरी नर्मदा मणिकर्णिका ॥
अन्यानि यानि तीर्थानि नद्यः पुण्या महीतले
॥७॥अस्य तीर्थस्य विप्रेंद्राः कोट्यंशेनापि नो समाः ॥
धर्मतीर्थमिति प्राहुस्तत्तीर्थं हि पुराविदः
॥८॥यथा समागता तस्य चक्रतीर्थमिति प्रथा ॥
तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः
॥९॥सेतुमूलं हि तत्प्रोक्तं तद्दर्भशयनं मतम् ॥
तत्रैव चक्रतीर्थं तु महापातकमर्द्दनम्
॥१०॥पुरा हि गालवोनाम मुनिर्विष्णुपरायणः ॥
दक्षिणांभोनिधेस्तीरे हालास्यादविदूरतः
॥११॥फुल्लग्रामसमीपे च तथा क्षीरसरोंतिके ॥
धर्म पुष्करिणीतीरे सोऽतप्यत महत्तपः
॥१२॥युगानामयुतं ब्रह्म गृणन्विप्राः सनातनम् ॥
दयायुक्तो निराहारः सत्यवान्विजितेंद्रियः
॥१३॥आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥
सर्वभूतहितो दांतः सर्वद्वंद्वविवर्जितः
॥१४॥वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत ॥
किंचित्कालं जलाहारो वायुभक्षः कियत्समाः
॥१५॥एवं पंचसहस्राणि वर्षाणि स महामुनिः ॥
अतप्यत तपो घोरं देवैरपि सुदुष्करम्
॥१६॥ततः पंचसहस्राणि वर्षाणि मुनिपुंगवः ॥
निराहारो निरालोको निरुच्छ्वासो निरास्पदः
॥१७॥वर्षास्वासारसहनं हेमंतेषु जलेशयः ॥
ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः
॥१८॥जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम् ॥
तताप सुमहातेजा गालवो मुनिपुंगवः
॥१९॥एवं त्वयुतव वर्षाणि स समतीतानि वै मुनेः ॥
अथ तत्तपसा तुष्टो भगवान्कमलापतिः
॥२०॥प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः ॥
विकचांबुजपत्राक्षः सूर्यकोटिसमप्रभः
॥२१॥विनतानंदनारूढश्छत्रचामरशोभितः ॥
हारकेयूरमुकुटकटकादिविभूषितः
॥२२॥विष्वक्सेनसुनंदादिकिंकरैः परिवारितः ॥
वीणावेणुमृदंगादिवादकैर्नारदादिभिः
॥२३॥उपगीयमानविजयः पीतांबरविराजितः ॥
लक्ष्मीविराजितोरस्को नीलमेघसमच्छविः
॥२४॥धुनानः पद्ममेकेन पाणिना मधुसूदनः ॥
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः
॥२५॥मंदस्मितेन सकलं मोहयन्भुवनत्रयम् ॥
स्वभासा भासयन्सर्वान्दिशो दश च भूसुराः
॥२६॥कंठलग्रेन मणिना कौस्तुभेन च शोभितः ॥
सुवर्णवेत्रहस्तैश्च सौविदल्लैरनेकशः
॥२७॥अनन्यदुर्लभाचिंत्यगीयमाननिजाद्भुतः ॥
सुभक्तसुलभो देवो लक्ष्मीकांतो हरिः स्वयम्
॥२८॥सन्न्यधत्त पुरस्तस्य गालवस्य महामुनेः ॥
आविर्भूतं तदा दृष्ट्वा श्रीवत्सांकितवक्षसम्
॥२९॥पीतांबरधरं देवं तुष्टिं प्राप महामुनिः ॥
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्
॥३०॥गालव उवाच
नमो देवादिदेवाय शंखचक्रगदाभृते ॥
नमो नित्याय शुद्धाय सच्चिदानंदरूपिणे
॥३१॥नमो भक्तार्ति हंत्रे ते हव्यकव्यस्वरूपिणे ॥
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यंतकारिणे
॥३२॥नमः परेशाय नमो विभूम्ने नमोस्तु लक्ष्मीपतये विधात्रे ॥
नमोस्तु सूर्येंदुविलोचनाय नमो विरिंच्याद्यभिवंदिताय
॥३३॥यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥
स्रमस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशनाय
॥३४॥वेदांतवेद्याय रमेश्वराय वैकुण्ठवासाय विधातृपित्रे ॥
नमोनमः सत्यजनार्तिहारिणे नारायणायामितविक्रमाय
॥३५॥नमस्तुभ्यं भग वते वासुदेवाय शार्ङ्गिणे ॥
भूयोभूयो नमस्तुभ्यं शेषपर्यंकशायिने
॥३६॥इति स्तुत्वा हरिं विप्रास्तूष्णीमास्ते स गालवः ॥
श्रुत्वा स्तुतिं श्रुति सुखां हरिस्तस्यमहात्मनः
॥३७॥अवाप परमं तोषं शंखचक्रगदाधरः ॥
अथालिंग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा
॥३८॥बभाषे प्रीतिसं युक्तो वरो वै व्रियतामिति ॥
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि च गालव
॥३९॥नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥
गालव उवाच ॥
नारायण रमानाथ पीतांबर जगन्मय
॥४०॥जनार्दन जगद्धामन्गोविंद नरकांतक ॥
त्वद्दर्शनात्कृतार्थोऽस्मि सर्वस्मादधिकस्तथा
॥४१॥त्वां न पश्यंत्यधर्मिष्ठा यतस्त्वं धर्मपालकः ॥
यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा
॥४२॥तं वेद्मि परमात्मानं किमस्मा दधिकं वरम् ॥
योगिनो यं न पश्यन्ति यं न पश्यंति कर्मठाः
॥४३॥तं पश्यामि परात्मानं किमस्मादधिकं वरम् ॥
एतेन च कृतार्थोऽस्मि जनार्दन जगत्पते
॥४४॥यन्नामस्मृतिमात्रेण महापातकिनोऽपिच ॥
मुक्तिं प्रयांति मुनयस्तं पश्यामि जनार्दनम्
॥४५॥त्वत्पादपद्मयुगले निश्चला भक्तिरस्तुमे ॥
हरिरुवाच ॥
मयि भक्तिर्दृढा तेऽस्तु निष्कामा गालवाधुना
॥४६॥शृणु चाप्यपरं वाक्यमुच्यमानं मया मुने ॥
मदर्थं कर्म कुर्वाणो मद्ध्यानो मत्परायणः
॥४७॥एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ॥
अस्मिन्नेवाश्रमे वासं कुरुष्व मुनिपुंगव
॥४८॥धर्मपुष्करिणी चेयं पुण्या पापविनाशिनी ॥
अस्यास्तीरे तपः कुर्वंस्तपःसिद्धिमवाप्नुयात्
॥४९॥धर्मः पुरा समागत्य दक्षिणस्योदधेस्तटे ॥
तपस्तेपे महादेवं चिंतयन्मनसा तदा
॥५०॥स्नानार्थमेकं तीर्थं च चक्रे धर्मो महामुने ॥
धर्मपुष्करिणी तेन प्रसिद्धा तत्कृता यतः
॥५१॥त्वया यथा तपस्तप्तमिदानीं मुनिसत्तम ॥
तथा तप्तं तपस्तेन धर्मेण हरसेविना
॥५२॥तपसा तस्य तुष्टः सञ्छूलपाणिर्महेश्वरः ॥
प्रादुरासीस्त्वया दीप्त्या दिशोदशविभासयन्
॥५३॥अथाश्रममनुप्राप्तं महादेवं कृपानिधिम् ॥
धर्मः परमसन्तुष्टस्तुष्टाव परमेश्वरम्
॥५४॥धर्म उवाच
प्रणमामि जगन्नाथमीशानं प्रणवात्मकम् ॥
समस्तदेवतारूपमादिमध्यांतवर्जितम्
॥५५॥ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्य हम् ॥
समस्तजगदाधारमनन्तमजमव्ययम्
॥५६॥यमामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥
नमो लोकाधिनाथाय वंचते परिवंचते
॥५७॥नमोऽस्तु नीलकण्ठाय पशूनां पतये नमः ॥
नमः कल्मषनाशाय नमो मीढुष्टमाय च
॥५८॥नमो रुद्राय देवाय कद्रुद्राय प्रचेतसे ॥
नमः पिनाकहस्ताय शूलहस्ताय ते नमः
॥५९॥नमश्चैतन्यरूपाय पुष्टीनां पतये नमः ॥
नमः पंचास्यदेवाय क्षेत्राणां पतये नमः
॥६०॥इति स्तुतो महादेवः शंकरोलोकशंकरः ॥
धर्मस्य परमां तुष्टिमापन्नस्तमुवाच वै
॥६१॥महेश्वर उवाच
प्रीतोस्म्यनेन स्तोत्रेण तव धर्म महामते ॥
वरं मत्तो वृणीष्व त्वं मा विलंबं कुरुष्व वै
॥६२॥ईश्वरेणैवमुक्तस्तु धर्मो देवमथाब्रवीत् ॥
वाहनं ते भविष्यामि सदाहं पार्वतीपते
॥६३॥अयमेव वरो मह्यं दातव्यस्त्रिपुरांतक ॥
तवोद्वहनमात्रेण कृतार्थोऽहं भवामि भोः
॥६४॥इत्थं धर्मेण कथितो देवो धर्ममथाब्रवीत् ॥
ईश्वर उवाच ॥
वाहनं भव मे धर्म सर्वदा लोकपूजितः
॥६५॥मम चोद्वहने शक्तिरमोघा ते भविष्यति ॥
त्वत्सेविनां सदा भक्तिर्मयि स्यान्नात्र संशयः
॥६६॥इत्युक्ते शंकरेणाथ धर्मोपि वृषरूपधृक् ॥
उवाह परमेशानं तदाप्रभृति गालव
॥६७॥महादेवस्तमारुह्य धर्मं वै वृषरूपिणम् ॥
शोभमानो भृशं धर्ममुवाच परमामृतम्
॥६८॥ईश्वर उवाच
त्वया कृतं हि यत्तीर्थं दक्षिणस्योदधेस्तटे ॥
धर्मपुष्करिणीत्येषा लोके ख्याता भविष्यति
॥६९॥अस्यास्तीरे जपोहोमो दानं स्वाध्याय एव च ॥
अन्ये च धर्मनिवहाः क्रियमाणा नरैर्मुदा
॥७॥अनंतफलदा ज्ञेया नात्र कार्या विचारणा ॥
इति दत्त्वा वरं तस्मै धर्मतीर्थाय शंकरः
॥७१॥आरुह्य वृषभं धर्मं कैलासं पर्वतं ययौ ॥
धर्मपुष्करिणीतीरे गालव त्वमतोधुना
॥७२॥शरीरपातपर्यंतं तपः कुर्वन्समाहितः ॥
वस त्वं मुनि शार्दूल पश्चान्मामाप्स्यसे ध्रुवम्
॥७३॥यदा ते जायते भीतिस्तदा तां नाशयाम्यहम् ॥
ममायुधेन चक्रेण प्रेरितेन मया क्षणात्
॥७४॥इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ॥
श्रीसूत उवाच ॥
तस्मिन्नंतर्हिते विष्णौ गालवो मुनिपुंगवः
॥७५॥धर्मपुष्करिणीतीरे विष्णुध्यानपरायणः ॥
त्रिकालमर्चयन्विष्णुं शालग्रामे विमुक्तिदे
॥७६॥उवास मतिमान्धीरो विरक्तो विजितेंद्रियः ॥
कदाचिन्माघमासे तु शुक्लपक्षे हरेर्दिने
॥७७॥उपोष्य जागरं कृत्वा रात्रौ विष्णुमपूजयत् ॥
स्नात्वा परेद्युर्द्वादश्यां धर्मपुष्करिणीजले
॥७८॥संध्यावन्दनपूर्वाणि नित्यकर्माणि चाकरोत् ॥
ततः पूजां विधातुं स हरेः समुपचक्रमे
॥७९॥तुलस्यादीनि पुष्पाणि समाहृत्य च गालवः ॥
विधाय पूजां कृष्णस्य स्तोत्रमेतदुदैरयत्
॥८०॥गालव उवाच
सहस्रशिरसं विष्णुं मत्स्यरूपधरं हरिम् ॥
नमस्यामि हृषीकेशं कूर्मवाराहरूपिणम्
॥८१॥नारसिंहं वामनाख्यं जाम दग्न्यं च राघवम् ॥
बलभद्रं च कृष्णं च कल्किं विष्णुं नमाम्यहम्
॥८२॥वासुदेवमनाधारं प्रणतार्तिविनाशनम् ॥
आधारं सर्वभूतानां प्रणमामि जनार्दनम्
॥८३॥सर्वज्ञं सर्वकर्तारं सच्चिदानंदविग्रहम् ॥
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्दनम्
॥८४॥एवं स्तुवन्महा योगी गालवो मुनिपुंगवः ॥
धर्मपुष्करिणीतीरे तस्थौ ध्यानपरायणः
॥८५॥एतस्मिन्नंतरे कश्चिद्राक्षसो गालवं मुनिम् ॥
आययौ भक्षितुं घोरः क्षुधया पीडितो भृशम्
॥८६॥गालवं तरसा सोऽयं राक्षसो जगृहे तदा ॥
गृहीतस्तरसा तेन गालवो नैऋतेन सः
॥८७॥प्रचुक्रोश दयां भोधिमापन्नानां परायणम् ॥
नारायणं चक्रपाणिं रक्षरक्षेति वै मुहुः
॥८८॥परेश परमानंद शरणागतपालक ॥
त्राहि मां करुणासिंधो रक्षोवशे मुपागतम्
॥८९॥लक्ष्मीकांत हरे विष्णो वैकुंठ गरुडध्वज ॥
मां रक्ष रक्षसाक्रांतं ग्राहाक्रांतं गजं यथा
॥९०॥दामोदर जगन्नाथ हिरण्यासुर मर्द्दन ॥
प्रह्रादमिव मां रक्ष राक्षसेनातिपीडितम्
॥९१॥इत्येवं स्तुवतस्तस्य गालवस्य द्विजोत्तमाः ॥
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिवृषा कपिः
॥९२॥स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥
प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना
॥९३॥आजगामाथ वेगेन धर्मपुष्करिणी तटम् ॥
अनंतादित्यसंकाशमनंताग्निसमप्रभम्
॥९४॥महाज्वालं महानादं महासुरविमर्दनम् ॥
दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे
॥९५॥द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम् ॥
शिरश्चकर्त सहसा ज्वालामालादुरासदम्
॥९६॥ततस्तु गालवो दृष्ट्वा राक्षसं पतितं भुवि ॥
मुदा परमया युक्तस्तुष्टाव च सुदर्शनम्
॥९७॥गालव उवाच
विष्णुचक्रं नमस्तेस्तु विश्वरक्षणदीक्षित ॥
नारायणकरांभोजभूषणाय नमोऽस्तु ते
॥९८॥युद्धेष्वसुरसंहारकुशलाय महारव ॥
सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशिने
॥९९॥रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥
स्वामिन्सुदर्शन विभो धर्मर्तीर्थे सदा भवान्
॥१००॥संनिधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ॥
गालवेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ॥
तं प्राह गालवमुनिं प्रीणयन्निव सौहृदात्
॥१०१॥सुदर्शन उवाच
गालवैतन्महापुण्यं धर्मतोर्थमनुत्तमम्
॥१०२॥अस्मिन्वसामि सततं लोकानां हितकाम्यया ॥
त्वत्पीडां परिचिंत्याह राक्षसेन दुरात्मना
॥१०३॥प्रेरितो विष्णुना विप्र त्वरया समुपागतः ॥
त्वत्पीडकोथ निहतो मयायं राक्षसाधमः
॥१०४॥मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥
पुष्करिण्यामहं त्वस्यां धर्मस्य मुनिपुंगव
॥१०५॥सततं लोकरक्षार्थं संनिधानं करोमि वै ॥
अस्यां मत्संनिधानात्ते तथान्येषामपि द्विज
॥१०६॥इतः परं न पीडा स्याद्भूतराक्षससंभवा ॥
धर्मपुष्करिणी ह्येषा सर्वपापविनाशिनी
॥१०७॥देवीपट्टणपर्यंता कृता धर्मेण वै पुरा ॥
अत्र सर्वत्र वत्स्यामि सर्वदा मुनिपुंगव
॥१०८॥अस्या मत्संनिधा नात्स्याच्चक्रतीर्थमिति प्रथा ॥
स्नानं येऽत्र प्रकुर्वंति चक्रतीर्थे विमुक्तिदे ॥
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥
विधूतपापा यास्यंति तद्विष्णोः परमं पदम्
॥११०॥पितॄनुद्दिश्य पिंडानां दातारो येऽत्र गालव ॥
स्वर्गं प्रयांति ते सर्वे पितरश्चापि तर्प्पिताः
॥१११॥इत्युक्त्वा विष्णुचक्रं तद्गालवस्यापि पश्यतः ॥
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः
॥११२॥धर्मापुष्कारिणीं तां तु प्राविशत्पापनाशिनीम् ॥
श्रीसूत उवाच ॥
धर्मतीर्थस्य विप्रंद्राश्चक्रतीर्थमिति प्रथा
॥११३॥प्राप्ता यथा तत्कथितं युष्माकं हि मया मुदा ॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति
॥११४॥अत्र स्नाता नरा विप्रा मोक्षभाजो न संशयः ॥
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ॥
चक्र तीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥
इह लोके सुखं प्राप्य परत्रापिसुखं लभेत्
॥११६॥यो धर्मतीर्थं च तथैव गालवं कुर्वाणगत्युग्रसमाधियो गम् ॥
सुदर्शनं राक्षसनाशनं च स्मरेत्सकृद्वा न स पापभाग्जनः
॥११७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे. सेतुमाहात्म्ये गालवाख्याने धर्मतीर्थस्य चक्रतीर्थप्रथावर्णनंनाम तृतीयो ऽध्यायः ॥ ३ ॥