मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४२

3
ब्रह्मखण्डः · सेतुखण्डः · 42

सकलतीर्थप्रशंसायामृणमोचनादितीर्थमाहात्म्यवर्णनम्

श्रीसूत उवाच

अथातः सर्वतीर्थानां वैभवं प्रवदाम्यहम् ॥

सेतुमध्यनिविष्टानामनुक्तानां मुनीश्वराः

॥१॥

अस्ति तीर्थं महापुण्यं नाम्ना तु ऋणमोचनम् ॥

ऋणानि त्रीणि नश्यंति नराणामत्र मज्जनात्

॥२॥

द्विजस्य जायमानस्य ऋणानि त्रीणि संति हि ॥

ऋषीणां देवतानां च पितॄणां च द्विजोत्तमाः

॥३॥

ब्रह्मचर्याननुष्ठानादृषीणामृणवान्भवेत् ॥

यज्ञादीनामकरणाद्देवानां च ऋणी भवेत्

॥४॥

पुत्रानुत्पादनाच्चैव पितृणामृणवान्भवेत् ॥

विनापि ब्रह्मचर्येण विना यागं विना सुतम्

॥५॥

ऋणमोक्षाभिधे तीर्थे स्नानमात्रेण मानवाः ॥

ऋषिदेवपितॄणां तु ऋणेभ्यो मुक्तिमाप्नुयुः

॥६॥

ब्रह्मचर्येण यज्ञेन तथा पुत्रोद्भवेन च ॥

नैव तुष्यन्ति ऋषयो देवाः पितृगणास्तथा

॥७॥

ऋणमोक्षे यथा स्नानादतुलां तुष्टिमाप्नुयुः ॥

किं चात्र मज्जनात्तीर्थे दरिद्रा अधमर्णिनः

॥८॥

मुक्ता ऋणेभ्यः सर्वेभ्यो धनिनः स्युर्न संशयः ॥

यदत्र मज्जनात्पुंसामृणमुक्तिः प्रजायते

॥९॥

तस्मादुक्तमिदं तीर्थमृणमोचनसंज्ञया ॥

अतोऽत्र ऋणिभिः सर्वैः स्नातव्यं तद्विमुक्तये

॥१०॥

एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥

पांडवैः कृतमप्यत्र तीर्थमस्त्यपरं महत्

॥११॥

यत्रेष्टं धर्मपुत्राद्यैः पांडवैः पंचभिः पुरा ॥

तदेतत्तीर्थमुद्दिश्य भुक्तिमुक्ति फलप्रदम्

॥१२॥

दशकोटिसहस्राणि तीर्थान्यनुत्तमानि हि ॥

पंचपांडवतीर्थेस्मिन्सान्निध्यं कुर्वते सदा

॥१३॥

आदित्पा वसवो रुद्राः साध्याश्च समरुद्गणाः ॥

पांडवानां महातीर्थे नित्यं सन्निहितास्तथा

॥१४॥

अत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ॥

सर्वपापविनिर्मुक्तो ब्रह्म लोके स पूज्यते

॥१५॥

अप्येकं भोजयेद्विप्रमेतत्तीर्थतटेऽमले ॥

तेनासौ कर्मणा त्वत्र परत्रापि च मोदते

॥१६॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्य एव वा ॥

अस्मिंस्तीर्थवरे स्नात्वा वियोनिं न प्रयाति वै

॥१७॥

पांडवानां महातीर्थे पुण्ययोगेषु यो नरः ॥

स्नायात्स मनुज श्रेष्ठो नरकं नैव पश्यति

॥१८॥

पांडवानां महातीर्थं सायं प्रातश्च यः स्मरेत् ॥

स स्नातः सर्वतीर्थेषु गंगादिषु न संशयः

॥१९॥

इंद्रादिदेवता भिश्च यत्रेष्टं दैत्यशांतये ॥

तदन्यद्देवतीर्थाख्यं विद्यते गंधमादने

॥२०॥

देवतीर्थे नरः स्नात्वा सर्वपापविमोचितः ॥

प्राप्नुयादक्षयाँल्लोकान्सर्व कामसमन्वितान्

॥२१॥

जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा ॥

कृतं तद्देवकुंडेस्मिन्स्नानात्सद्यो विनश्यति

॥२२॥

यथा सुराणां सर्वेषा मादिर्वै मधुसूदनः ॥

तथादिः सर्वतीर्थानां देवकुंडमनुत्तमम्

॥२३॥

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ॥

यस्त्वेको देवकुंडेस्मिन्कदाचित्स्नान माचरेत्

॥२४॥

सममेव तयोः पुण्यं नात्र संदेहकारणम् ॥

दुर्लभं देवतीर्थेस्मिन्दानं वासश्च दुर्लभः

॥२५॥

देवतीर्थाभिगमनं स्नानं चाप्य तिदुर्लभम् ॥

देवतीर्थं समासाद्य देवर्षिपितृसेवितम्

॥२६॥

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥

द्विदिनं त्रिदिनं चापि पंच वाथ षडेव वा

॥२७॥

उषित्वा देवकुंडस्थतीरे नरकनाशने ॥

न मातृयोनिमाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम्

॥२८॥

त्रिरात्रस्नानतो ह्यत्र वाजपेयफलं भवेत् ॥

देवतीर्थस्मृतेः सद्यः पापेभ्यो मुच्यते नरः

॥२९॥

अर्चयित्वा पितॄन्देवानेतत्तीर्थतटे नरः ॥

सर्वकामसमृद्धिः स्यात्सर्वयज्ञफलं लभेत्

॥३०॥

एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ॥

तस्मादवश्यं स्नातव्यं देवतीर्थे मुमुक्षुभिः

॥३१॥

ऐहिकामुष्मिकफलप्राप्तिकामैश्च मानवैः ॥

देवतीर्थस्य माहात्म्यं संक्षिप्य कथितं द्विजाः

॥३२॥

विस्तरेणास्य माहात्म्यं मया वक्तुं न पार्य्यते ॥

सुग्रीवतीर्थं वक्ष्यामि रामसेतौ विमुक्तिदे

॥३३॥

अत्र स्नात्वा नरो भक्त्या सूर्यलोकं समश्नुते ॥

सुग्रीवतीर्थे स्नानेन हयमेधफलं भवेत्

॥३४॥

ब्रह्महत्यादि पापानां निष्कृतिश्चापि जायते ॥

सुग्रीवतीर्थगमनाद्गोसहस्रफलं लभेत्

॥३५॥

स्मरणात्तस्य वेदानां पारायणफलं लभेत् ॥

दिनोपवासमात्रेण तस्य तीर्थस्य तीरतः.

॥३६॥

महापात कनाशः स्यात्प्रायश्चित्तं विना द्विजाः ॥

तत्राभिषेकं कुर्वाणः पितृदेवांश्च तर्पयेत्

॥३७॥

आप्तोर्यामस्य यज्ञस्य फलमष्टगुणं भवेत् ॥

सुग्रीवतीर्थस्नानेन नरमेधफलं लभेत

॥३९॥

सुग्रीवतीर्थस्नानेन नरो जातिस्मरो भवेत् ॥

सुग्रीवतीर्थं भो विप्राः प्रयाताभीष्टसिद्धये

॥३९॥

सुग्रीवतीर्थमा हात्म्यमेवं वः कथितं द्विजाः ॥

वैभवं नलतीर्थस्य त्विदानीं प्रब्रवीमि वः

॥४०॥

नलतीर्थे नरः स्नानात्स्वर्गलोकं समश्नुते ॥

नलतीर्थे सकृत्सनानात्सर्वपापाविमोचितः

॥४१॥

अग्निष्टोमातिरात्रादिफलमाप्नोत्यनुत्तमम् ॥

त्रिरात्रमुषितस्तस्मिंस्तर्पयन्पितृदेवताः

॥४२॥

सूर्यवद्भासते विप्रा वाजिमेधफलं लभेत् ॥

नीलतीर्थं प्रवक्ष्यामि महापातकनाशनम्

॥४३॥

अग्निपुत्रेण नीलेन कृतं सेतौ विमुक्तिदम् ॥

नीलतीर्थे नरः स्नानात्सर्वपापविमोचितः

॥४४॥

बहुवर्ण्यस्य यागस्य फलं शतगुणं लभेत् ॥

नीलतीर्थे नरः स्नात्वा सर्वा भीष्टप्रदायिनि

॥४५॥

अग्निलोकमवाप्नोति सर्वकामसमृद्धिमान् ॥

गवाक्षेण कृतं तीर्थं गंधमादनपर्वते

॥४६॥

विद्यते स्नानमात्रेण नरकं नैव याति सः ॥

अगदेन कृतं तीर्थमस्ति सेतौ विमुक्तिदे

॥४७॥

अत्र स्नानेन मनुजो देवेंद्रत्वं समश्नुते ॥

गजेन गवयेनात्र शरभेण महौजसा

॥४८॥

कुमुदेन हरेणापि पनसेन बलीयसा ॥

कृतानि यानि तीर्थानि तथाऽन्यैः सर्ववानरैः

॥४९॥

रामसेतौ महापुण्ये गन्धमादनपर्वते ॥

तेषु तीर्थेषु यः स्नाति सोऽमृतत्वं समश्नुते

॥५०॥

विभीषणकृतं तीर्थमस्ति पापविमोचनम् ॥

महादुःखप्रशमनं महारोगनिबर्हणम्

॥५१॥

महापातकसंघानामनलोपममुत्तमम् ॥

कुंभीपाकादिनरकक्लेशनाशनकारणम्

॥५२॥

दुःस्वप्र नाशनं धन्यं महादारिद्र्यबाधनम् ॥

तत्र यो मनुजः स्नायात्तस्य नास्तीह पातकम्

॥५३॥

स वैकुंठमवाप्नोति पुनरावृत्तिवर्जितम् ॥

विभीषणस्य सचिवैः कृतं तीर्थचतुष्टयम्

॥५४॥

तत्र स्नानेन मनुजः सर्वपापैः प्रमुच्यते ॥

सरयूश्च नदी विप्रा गंधमादनपर्वते

॥५५॥

रामनाथं महादेवं सेवितुं वर्तते सदा ॥

तत्र स्नात्वा नराः सर्वे सर्वपातकवर्जिताः

॥५६॥

सर्वयज्ञतपस्तीर्थसेवाफलमवाप्नुयुः ॥

दशकोटिसहस्राणि तीर्थानि द्विजसत्तमाः

॥५७॥

वसंत्यस्मिन्महापुण्ये गन्धमादनपर्वते ॥

गंगाद्याः सरितः सर्वास्तथा वै सप्तसागराः

॥५८॥

ऋष्याश्रमाणि पुण्यानि तथा पुण्यवनानि च ॥

अनुत्तमानि क्षेत्राणि हीरशंकरयोस्तथा

॥५९॥

सान्निध्यं कुर्वते नित्यं गन्धमादनपर्वते ॥

उपवीतांतरं तीर्थं प्रोक्तवांश्चतुराननः

॥६०॥

त्रयस्त्रिंशत्कोट्योऽत्र देवाः पितृगणैः सह ॥

सर्वैश्च मुनिभिः सार्द्धं यक्षैः सिद्धैश्च किन्नरैः ॥

वसंति सेतौ देवस्य रामच न्द्रस्य चाज्ञया

॥६१॥

श्रीसूत उवाच

एवमुक्तं द्विजश्रेष्ठा तीर्थानां वैभवं मया

॥६२॥

इदं पठन्वा शृण्वन्वा दुःखसंघाद्विमुच्यते ॥

कैवल्यं च समाप्नोति पुनरावृत्तिवर्जितम्

॥६३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सकलतीर्थप्रशंसायामृणमोचनादितीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥