मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ३८

3
ब्रह्मखण्डः · सेतुखण्डः · 38

सूत कद्रुः कथं मुक्ता क्षीरकुंडनिमज्जनात्

ऋषय ऊचुः

सूत कद्रुः कथं मुक्ता क्षीरकुंडनिमज्जनात् ॥

छलं कथं कृतवती सपत्न्यां पापनिश्चया

॥१॥

कस्य पुत्री च सा कद्रूः सपत्नीसा च कस्य वै ॥

किमर्थमजयत्कद्रूः स्वसपत्नीं छलेन तु ॥

एतन्नः श्रद्दधानानां ब्रूहि सूत कृपानिधे

॥२॥

श्रीसूत उवाच

शृणुध्वं मुनयः सर्वे इतिहासं महाफलम् ॥

पुरा कृतयुगे विप्राः प्रजापतिसुते उभे

॥३॥

कद्रूश्च विनता चेति भगिन्यौ संबभूवतुः ॥

भार्ये ते कश्यपस्यास्तां कद्रूश्च विनता तथा

॥४॥

विनता सुषुवे पुत्रावरुणं गरुडं तथा ॥

भर्त्तुः सकाशात्कद्रूश्च लेभे सर्पान्बहून्सुतान्

॥५॥

अनंतवासुकिमुखान्विषदर्पसमन्वितान् ॥

एकदा तु भगिन्यौ ते कद्रूश्च विनता तथा

॥६॥

अपश्यतां समायांतमुच्चैःश्रवसमं तिकात् ॥

विलोक्य कद्रूस्तुरगं विनतामिदमब्रवीत्

॥७॥

श्वेतोऽश्ववालो नीलो वा विनते ब्रूहि तत्त्वतः ॥

इत्युक्त्वा विनता विप्राः कद्रूं तामिदमब्र वीत् ॥

तुरंगः श्वेतवालो मे प्रतिभाति सुमध्यमे ॥

किं वा त्वं मन्यसे कद्रूरिति तां विनताऽब्रवीत्

॥९॥

पृष्ट्वैवं विनतां कद्रूर्बभाषे स्वमतं च सा ॥

कृष्णवालमहं मन्ये हयमेनमनिंदिते

॥१०॥

ततः पराजये कृत्वा दासीभावं पणं मिथः ॥

व्यतिष्ठेतां महाभागे सपत्न्यौ ते द्विजोत्तमाः

॥११॥

ततः कद्रूर्निजसुतान्वासुकिप्रमुखानहीन् ॥

तस्या नाहं यथा दासी तथा कुरुत पुत्रकाः

॥१२॥

तस्याभीप्सितसिद्ध्यर्थमित्यवोचद्भृशा तुरा ॥

युष्माभिरुच्चैःश्रवसो बालः प्रच्छाद्यतामिति

॥१३॥

नांगीचक्रुर्मतं तस्या नागाः कद्रू रुषा तदा ॥

अशपत्कुपिता पुत्राञ्ज्वलंती रोषमूर्च्छिता

॥१४॥

पारीक्षितस्य सर्वेऽद्धा यूयं सत्रे मरिष्यथ ॥

इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा

॥१५॥

प्रणम्य पादयोः कद्रूं दीनो वचनमब्रवीत् ॥

अहमुच्चैःश्रवोवालं विधास्याम्यंजनप्रभम्

॥१६॥

मा भीरंब त्वया कार्येत्यवादीच्छापविक्लवः ॥

श्वेतमुच्चैःश्रवोवालं ततः कर्कोटकोरगः

॥१७॥

छादयित्वा स्वभोगेन व्यतनोदंजनद्युतिम् ॥

अथ ते विनताकद्र्वौ दास्ये कृतपणे उभे

॥१८॥

देवराजहयं द्रष्टुं संरंभादभ्यगच्छ ताम् ॥

शशांकशंखमाणिक्यमुक्तैरावतकारणम्

॥१९॥

युगांतकालशयनं योगनिद्राकृतो हरेः ॥

अतीत्य कद्रूविनते समुद्रं सरितां पतिम्

॥२०॥

ददृशतुर्हयं गत्वा देवराजस्य वाहनम् ॥

कृष्णवालं हयं दृष्ट्वा विनता दुःखिताऽभवत्

॥२१॥

दुःखितां विनतां कद्रूर्दासीकृत्ये न्ययुंक्त सा ॥

एतस्मिन्नंतरे तार्क्ष्योऽप्यंडमुद्भिद्य वह्निवत्

॥२२॥

प्रादुर्बभूव विप्रेंद्रा गिरिमात्रशरीरवान् ॥

दृष्ट्वा तद्देहमाहात्म्यमभूत्त्रस्तं जगत्त्रयम्

॥२३॥

ततस्तं तुष्टुवुर्देवा गरुडं पक्षिणां वरम् ॥

दृष्ट्वा तद्देहमाहात्म्यं त्रस्तं स्याद्भुवनत्रयम्

॥२४॥

इत्यालोच्योपसंहृत्य देहमत्यंतभीषणम् ॥

अरुणं पृष्ठमारोप्य मातुरंतिकमभ्यगात्

॥२५॥

अथाह विनतां कद्रूः प्रणतामतिविह्वलाम् ॥

चेटि नागालयं गंतुमुद्योगो मम वर्तते

॥२६॥

त्वत्पुत्रो गरुडोतो मां मत्पुत्रांश्च वहत्विति ॥

ततश्च विनता पुत्रं गरुडं प्रत्यभाषत

॥२७॥

अहं कद्रूमिमां वक्ष्ये त्वं सर्पान्वह तत्सुतान् ॥

तथेति गरुडो मातुः प्रत्यगृह्णद्वचो द्विजाः

॥२८॥

अवहद्विनता कद्रूं सर्वांस्तान्गरुडोऽवहत् ॥

रविसामीप्यगाः सर्पास्तत्करैराहतास्तदा

॥२९॥

अस्तौषीद्वज्रिणं कद्रूः सुतानां तापशांतये ॥

सर्वतापं जलासारैर्देवराजोऽप्यशामयत

॥३०॥

नीयमानास्तदा सर्पा गरुडेन बलीयसा ॥

गत्वा तं देशमचिरादवदन्विनतासुतम्

॥३१॥

वयं द्वीपांतरं गंतुं सर्वे द्रष्टुं कृतत्वराः ॥

वह त्वमस्मान्गरुड चेटीसुत ततः क्षणात्

॥३२॥

ततो मातर मप्राक्षीद्विनतां गरुडो द्विजाः ॥

अहं कस्माद्वहामीमांस्त्वं चेमां वहसे सदा

॥३३॥

चेटीपुत्रेति मामेते कि भणंति सरीसृपाः ॥

सर्वमेतद्वद त्वं मे मातस्तत्त्वेन पृच्छतः

॥३४॥

पृष्टैवं जननी तेन गरुडं प्राब्रवीत्सुतम् ॥

भगिन्या क्रूरया पुत्र च्छलेनाहं पराजिता

॥३५॥

तस्या दासी भवाम्यद्य चेटीपुत्रस्ततो भवान् ॥

अतस्त्वं वहसे सर्पान्वहाम्येनामहं सदा

॥३६॥

इत्यादि सर्ववृत्तांतमादितोऽस्मै न्यवेदयत् ॥

अथ तां गरुडोऽवा दीन्मातरं विनतासुतः

॥३७॥

अस्माद्दास्याद्विमोक्षार्थं किं कार्यं ते मयाधुना ॥

इति पृष्टा सुतेनाथ विनता तमभाषत

॥३८॥

सर्पान्पृच्छस्व गरुड मम मातृविमोक्षणे ॥

युष्माकं मातुः किं कार्यं मयेति वदताधुना

॥३९॥

इति मात्रा समुदितो गरुडः पन्नगान्प्रति ॥

गत्वाऽपृच्छद्विज श्रेष्ठास्तेऽप्येनमवदंस्तदा

॥४०॥

यदा हरिष्यसे शीघ्रं सुधां त्वममरालयात् ॥

दास्यान्मुक्ता भवेन्माता वैनतेय तवाद्य हि

॥४१॥

ततो मातरमागम्य गरुडः प्रणतोऽब्रवीत् ॥

सुधामंब ममानेतुं गच्छतो भक्ष्यमर्पय

॥४२॥

इतीरिता सुतं प्राह माता तं विनता सुतम् ॥

समुद्रमध्ये वर्तंते शबराः कतिचित्सुत

॥४३॥

तान्भक्षयित्वा शबरानमृतं त्वमिहानय ॥

तत्र कश्चिद्द्विजः कामी शवरीसंगकौतुकी

॥४४॥

त्यज तं ब्राह्मणं कंठं दहंतं ब्रह्मतेजसा ॥

पक्षादीनि तवांगानि पांतु देवा मरुन्मुखाः

॥४५॥

इति स्वमातुराशीर्भिर्गरुडो वर्धितो ययौ ॥

शबरालयमभ्येत्य तस्य भक्षय तो मुखम्

॥४६॥

आवृतं प्राविशन्व्याधा वयांसीव दरीं गिरेः ॥

अथ स ब्राह्मणोऽप्यागात्तत्कंठं मुनिपुंगवाः

॥४७॥

कण्ठं दहन्तं विप्रं तमुवाच विनतासुतः ॥

विप्र पापोऽप्यवध्यो हि निर्याहि त्वमतो बहिः

॥४८॥

एवमुक्तस्तदा विप्रो गरुडं प्रत्यभाषत ॥

किराती मम भार्यापि निर्गंतव्या मया सह

॥४९॥

एवमस्त्विति तं विप्रमुवाच पतगेश्वरः ॥

ततः स गरुडो विप्रमुज्जगार सभार्यकम्

॥५०॥

विप्रोऽप्यभीप्सितान्देशान्निषाद्या सह निर्ययौ ॥

शबरान्भक्षयित्वाऽथ गरुडः पक्षिणां वरः

॥५१॥

आत्मनः पितरं वेगात्कश्यपं समुपेयिवान् ॥

कुत्र यासीति तत्पृष्टो गरुडस्तम भाषत

॥५२॥

मातुर्दास्यविमोक्षाय सुधामाहर्तुमागमम् ॥

बहून्किराताञ्जग्ध्वापि तृप्तिर्मम न जायते

॥५३॥

अपर्यंतक्षुधा ब्रह्मन्बाधते मामह र्निशम् ॥

तन्निवृत्तिप्रदं भक्ष्यं ममार्पय तपोधन

॥५४॥

येनाहं शक्नुयां तात सुधामाहर्तुमोजसा ॥

इतीरितः सुतं प्राह कश्यपो विनतोद्भवम्

॥५५॥

कश्यप उवाच

मुनिर्विभावसुर्नाम्ना पुरासीत्तस्य सानुजः ॥

सुप्रतीक इति भ्राता तावुभौ वंशवैरिणौ

॥५६॥

अन्योन्यं शेपतुर्विप्रा महाक्रोधसमाकुलौ ॥

गजोऽभवत्सुप्रतीकः कूर्मोऽभूच्च विभावसुः

॥५७॥

एवं वित्तविवादात्तौ शेपतुर्भ्रातरौ मिथः ॥

गजः षड्यो जनोच्छ्रायो द्विगुणायामसंयुतः

॥५८॥

कूर्मस्त्रियोजनोच्छ्रयो दशयोजनविस्तृतः ॥

बद्धवैरावुभावेतौ सरस्यस्मिन्विहंगम

॥५९॥

पूर्ववैरमनुस्मृत्य युध्येते जेतुमिच्छया ॥

उभौ तौ भक्षयित्वा त्वं सुधामाहर तृप्तिमान्

॥६०॥

एवं पित्रेरितः पक्षी गत्वा तद्गजकच्छपौ ॥

समुद्धत्य महाकायौ महाबलपराक्रमौ

॥६१॥

वहन्नखाभ्यां संतीर्थं विळंबाभिधमभ्यगात् ॥

तत्रागतं समालोक्य पक्षिराजं द्विजोसमाः

॥६२॥

तत्तीरजो महावृक्षो रोहिणाख्यो महोच्छ्रयः ॥

वैनतेयमिदं प्राह महाबलपराक्रमम्

॥६३॥

एनामारुह मच्छाखां शतयोजनमायताम् ॥

स्थित्वात्र गजकूर्मौ त्वं भक्षयस्व खगोत्तम

॥६४॥

इत्युक्तस्तरुणा पक्षी स तत्रास्ते मनोजवः ॥

तद्भारात्सा तरोः शाखा भग्नाऽभूद्द्विजसत्तमाः

॥६५॥

वालखिल्यमुनींस्तस्मिल्लँबमानानधोमुखान् ॥

दृष्ट्वा तत्पातशंकावाँस्तां शाखां गरुडोऽग्रहीत्

॥६६॥

गजकूर्मो च तां शाखां गृहीत्वा यांतमं बरे ॥

पिता तस्याब्रवीत्तत्र गरुडं विनतासुतम्

॥६७॥

त्यजेमां निर्जने शैले शाखां तं विनतोद्भव ॥

इत्युक्तः स तथा गत्वा शाखां निष्पुरुषे नगे

॥६८॥

विन्यस्याभक्षयत्पक्षी तौ तदा गजकच्छपौ ॥

अथोत्पातः समभवत्तस्मिन्नवसरे दिवि

॥६९॥

दृष्ट्वोत्पातं बलारातिः पप्रच्छ स्वपुरोहितम् ॥

उत्पातकारणं जीव किमत्रेति पुनःपुनः ॥

बृहस्पतिस्तदा शक्रं प्रोवाच द्विजसत्तमाः

॥७०॥

बृहस्पतिरुवाच

काश्यपो हि मुनिः पूर्वमयजत्क्रतुना हरे

॥७१॥

सर्वान्नृषीन्सुरान्सिद्धान्यक्षान्गंधर्वकिन्नरान् ॥

यज्ञसंभारसिद्ध्यर्थं प्रेषयामास स द्विजाः

॥७२॥

वालखिल्यान्ससंभारान्ह्रस्वानंगुष्ठमात्रकान् ॥

मज्जतो गोष्पदजले दृष्ट्वा हसितवान्भवान्

॥७३॥

भवतावमताः क्रुद्धा वालखिल्यास्तदा हरे ॥

जुहुवुर्यज्ञवह्नौ ते क्रोधेन ज्वलिताननाः

॥७४॥

देवेंद्रभयदः शत्रुः कश्यपस्य सुतोऽस्त्विति ॥

तस्य पुत्रोऽद्य गरुडः सुधाहरणकौतुकी

॥७५॥

समागच्छति तद्धेतुरयमुत्पात आगतः ॥

इत्युक्तः सोऽब्रवीदिंद्रो देवानग्निपुरोगमान्

॥७६॥

सुधामाहर्तुमायाति पक्षी सा रक्ष्यतामिति ॥

इतींद्रप्रेरिता देवा ररक्षुः सायुधाः सुधाम्

॥७७॥

पक्षिराजस्तदाभ्यागाद्देवानायुधधारिणः ॥

महाबलं ते गरुडं दृष्ट्वाऽकम्पंत वै सुराः

॥७८॥

गरुडस्य सुराणां च ततो युद्धमभून्महत् ॥

अखंडि पक्षितुण्डेन भौवनोऽमृतपालकः

॥७९॥

तदा निजघ्नुगर्रुडं देवाः शस्त्रैरनेकशः ॥

अतीव गरुडो देवैर्बाधितः शस्त्रपाणिभिः

॥८०॥

पक्षाभ्यामाक्षिपद्दूरे देवानग्निपुरोगमान् ॥

तत्पक्षविक्षिता देवास्तदा परमकोपनाः

॥८१॥

नाराचान्भिंदि पालांश्च नानाशस्त्राणि चाक्षिपन् ॥

ततस्तु गरुडो वेगाद्देवदृष्टिविलोपिनीम्

॥८२॥

धूलिमुत्थापयामास पक्षाभ्यां विनतासुतः ॥

वायुना शमयामासुस्तान्पांसूंस्त्रिदशोत्तमाः

॥८३॥

रुद्रान्वसूंस्तथादित्यान्मरुतोऽन्यान्सुरांस्तथा ॥

गरुडः पक्षतुंडाभ्यां व्यथितानकरोद्द्विजाः

॥८४॥

पलायितेषु देवेषु सोऽद्राक्षीज्ज्वलनं पुरः ॥

ज्वलंतं परितस्त्वग्निं शमापयितुमुद्ययौ

॥८५॥

स सहस्रमुखो भूत्वा तैः पिबञ्छतशो नदीः ॥

तमग्निं नाशयामास तैः पयोभिस्त्वरान्वितः

॥८६॥

सितधारं भ्रमच्चक्रं सुधारक्षकमंतिके ॥

दृष्ट्वा तदरिरंध्रेण संक्षिप्तांगोतराविशत्

॥८७॥

ततो ददर्श द्वौ सर्पो व्यक्तास्यौ भीषणाकृती. ॥

याभ्यां दृष्टोपि भस्म स्यात्तौ सर्पौ गरुडस्तदा

॥८८॥

आच्छिद्य पक्षतुंडाभ्यां गृहीत्वाऽमृतमुद्ययौ ॥

यंत्रमुत्पाट्य चोद्यंतं गरुडं प्राह माधवः

॥८९॥

तव तुष्टोऽस्मि पक्षीश वरं वरय सुव्रत ॥

अथ पक्षी तमाह स्म कमलानायकं हरिम्

॥९०॥

तवोपरि स्थितिर्मे स्यान्मा भूतां च जरामृती ॥

तथास्त्विति हरिः प्राह वरं मद्व्रियतामिति

॥९१॥

इत्युक्तस्तं हरिः प्राह मम त्वं वाहनं भव ॥

स्यंदनोपरि केतुश्च मम त्वं विनतासुत

॥९२॥

तथास्त्विति खगोप्याह कमलापतिमच्युतम् ॥

हृतामृतं खगं श्रुत्वा तत आखंडलो जवात्

॥९३॥

अभिद्रुत्याशु कुलिशं पक्षे चिक्षेप पक्षिणः ॥

ततो विहस्य गरुडः पाकशासनमब्रवीत्

॥९४॥

कुलिशस्य निपातान्मे न हरे कापि वेदना ॥

सफलो वज्रपातस्ते भूयाच्च सुरनायक

॥९५॥

इतीरयन्पत्रमेकं व्यसृजत्पक्षतस्तदा ॥

शोभनं पर्णमस्येति सुपर्ण इति सोभ वत्

॥९६॥

तस्मिन्सुपर्णे हेमाभे सर्वे विस्मयमाययुः ॥

ततस्तु गरुडः शक्रमब्रवीद्द्विजपुंगवाः

॥९७॥

भवता साकमखिलं जगदेतच्चराचरम् ॥

देवेंद्र सततं वोढुममोघा शक्तिरस्ति मे

॥९८॥

नाखण्डलसहस्रं मे रणे लभ्यं हरे भवेत् ॥

इति ब्रुवाणं गरुडमब्रवीत्पाकशासनः

॥९९॥

किं तेऽमृतेन कार्यं स्याद्दीयताममृतं मम ॥

इमां सुधां भवान्दद्याद्येभ्यो हि विनतोद्भव

॥१००॥

तेऽधुनाऽमृतपानेन जरामरणवर्जिताः ॥

अस्मद्भ्योऽधिकवीर्याः स्युर्बाधेरंस्त्रिदशांस्तथा

॥१॥

इति ब्रुवंतं देवेन्द्रं गरुडोऽप्यब्रवीद्द्विजाः ॥

यत्रैतत्स्थापयिष्यामि तत्रागत्य भवानिदम्

॥२॥

गृह्णातु झटितीत्युक्तो गरुडं प्राह वृत्रहा ॥

प्रीतोऽहं तव दास्यामि वरं वृणु महामते

॥३॥

इत्युक्तवन्तं गरुडः पाकशासनमब्रवीत् ॥

दास्ये छलप्रयोक्तारो मम मातुः सरीसृपाः

॥४॥

भक्ष्या भवंतु नित्यं मे पाकशासन वृत्रहन् ॥

इति तेनेरितः शकस्तथास्त्वित्यवदच्च तम्

॥५॥

अथायं गरुडो विप्रा धारयन्नमृतं ययौ ॥

यांतं तमनुयाति स्म गरुडं पाकशासनः

॥६॥

वेगेन स द्विजश्रेष्ठाः सुधाहरणकौतुकी ॥

मातुरभ्याशमागत्य सर्पान्प्राह स पक्षिराट्

॥७॥

कुशेषु न्यस्यते सर्पास्सुधैवमधुना मया ॥

स्नात्वा तद्भुङ्ध्वममृतं शुचयः सुसमाहिताः

॥८॥

मोक्षोऽपि मम मातुः स्याद्दासीभावाद्धि पन्नगाः ॥

तथास्त्वित्यवदन्सर्पा गरुडं विनतासुतम्

॥९॥

मुक्ता तदैव विनता दासीभावाद्द्विजोत्तमाः ॥

सर्पास्तेऽमृतभक्षार्थं स्नातुं सर्वे ययुस्तदा

॥११०॥

तस्मिन्नवसरे शक्रस्तामादाय सुधां ययौ ॥

स्नात्वागत्य भुजंगास्ते तत्रादृष्ट्वा तदा सुधाम्

॥११॥

जिह्वाभिर्लिलिहुर्द र्भानेषु न्यस्ता सुधेति हि ॥

तदाप्रभृति सर्पाणां जिह्वा दर्भाग्रपाटिताः

॥१२॥

द्विधाभवन्मुनिश्रेष्ठा द्विजिह्वास्तेन ते स्मृताः ॥

सुधासंयोगतो दर्भाः प्रय युश्च पवित्रताम्

॥१३॥

मोचयित्वा च गरुडो दासीभावात्स्वमातरम् ॥

शशापकुपितः कद्रूं छद्मना जितमातरम्

॥१४॥

कद्रूस्त्वं जननीं यन्मे छलेन जितवत्यसि ॥

भर्तुस्त्वं परिचर्यायामतो नार्हा भविष्यसि

॥१५॥

शप्त्वैवं गरुडः कद्रूं प्रययौ स यथेच्छया ॥

कद्रूश्च विनता चोभे ययतुर्भर्तुरंतिकम्

॥१६॥

कश्यपो विमुखस्तत्र कद्रूं कोपादथाब्रवीत् ॥

यस्माच्छलेन विनतां कद्रूर्निर्जितवत्यसि

॥१७॥

अतो मत्परिचर्यायां न योग्यासि दुरात्मिके ॥

स्त्रियं वा पुरुषं वापि नारी वा पुरुषोऽपि वा

॥१८॥

छलाद्विजयते योऽसौ स महापातकी भवेत् ॥

छलाद्विजयिना सार्धं संभाष्य ब्रह्महा भवेत्

॥१९॥

स्तेयी सुरापी विज्ञेयो गुरुदाररतश्च सः ॥

संसर्गदोषदुष्टश्च मुनिभिः परिकीर्त्यते

॥१२०॥

त्वया संभाषणाद्दोषो मम स्यान्नरकप्रदः ॥

तस्मात्प्रयाहि कद्रूस्त्वं मत्समीपाद्धि दारुणे

॥२१॥

छलजेत्रा सपंक्तौ यो भुंजीत मनुजो भुवि ॥

तेन संभाषणात्सद्यः पतेद्धि नरकार्णवे

॥२२॥

विलोक्य च्छलजेतारं तस्य पापस्य शांतये ॥

आदित्यं वा जलं वापि पावकं वा विलोकयेत्

॥२३॥

छलजेता यत्र तिष्ठेदाश्रमेऽपि गृहेऽपिवा ॥

वस्तव्यं न हि तत्रान्यैर्वसन्नरकमश्नुते

॥२४॥

अतो निर्याहि निर्याहि मम त्वं दृष्टिमार्गतः ॥

स्वाश्रमात्सरलामेनां विनतां जितवत्यसि

॥२५॥

इति धिक्कृत्य सहसा कद्रूं तां कश्यपस्तदा ॥

विनतां स्वच्छशीलां तां स्वीचकार महामतिः

॥२६॥

कद्रूरित्थं सपरुषं कथिता कश्यपेन सा ॥

रुदंती भृशदुःखार्ता पादयोस्तस्य चापतत्

॥२७॥

पतितां पादयोर्दृष्ट्वा कश्यपो मुनिपुंगवः ॥

न जग्राहैव कद्रूं तां स्मरन्पापं तया कृतम्

॥२८॥

ततः प्रणम्य विनता कश्यपं वाक्यमब्रवीत् ॥

भगवन्भगिनीमेनां स्वीकुरुष्व कृपानिधे

॥२९॥

अज्ञानान्मुग्धया पापं कद्र्वा यदधुना कृतम् ॥

क्षंतुमर्हसि तत्सर्वं दयाशीला हि साधवः

॥१३०॥

जनन्या गरुडस्यैव कथितः कश्यपो मुनिः ॥

उवाच विनते नैनां विना पापस्य निष्कृतिम्

॥३१॥

ग्रहीष्यामि दुराचारां त्रिस्त्वां शपथयाम्यहम् ॥

कश्यपस्य वचः श्रुत्वा विनता पुनरब्रवीत्

॥३२॥

भगिन्या मम पापस्य ब्रह्मंस्त्वं ब्रूहि निष्कृतिम् ॥

येनेयं परिचर्यायां तव योग्या भविष्यति

॥३३॥

तयैवमुदितो विप्रा मारीचः कश्यपस्तदा ॥

ध्यात्वा मुहूर्तं मनसा पश्चादिदमभाषत

॥३४॥

दक्षिणांबुनिधेस्तीरे फुल्लग्रामे विमुक्तिदे ॥

अस्ति क्षीरसरोनाम तीर्थं पापविनाशनम्

॥६५॥

तत्तीर्थस्नानमात्रेण दोषश्चास्या विनश्यति ॥

प्रायश्चित्तायुतेनापि तत्तीर्थे मज्जनं विना

॥३६॥

न नश्यत्येष दोषो ऽस्यास्तदेषा यातु तत्सरः ॥

भर्त्रैवमुदिते कद्रूस्तं प्रणम्य द्विजोत्तमम्

॥३७॥

तत्क्षणात्प्रययौ क्षीरं सरः पुत्रसहायिनी ॥

सा कद्रूः पुत्र सहिता गत्वा कतिपयैर्दिनैः

॥३८॥

प्राप्य क्षीरसरः पुण्यं प्रयता विजितेंद्रिया ॥

सस्नौ नियमपूर्वं च संकल्प्य क्षीरकुंडके

॥३९॥

उपोष्य त्रिदिनं सस्नौ तस्मिन्क्षीरसरोजले ॥

चतुर्थे दिवसे तस्यां कुर्वत्यां स्नानमादरात् ॥

अदेहा व्योमगावाणी समुत्तस्थौ द्विजोत्तमाः

॥१४०॥

अशरीरिण्युवाच

कद्रूस्त्वं मज्जनादत्र च्छलजेतृत्वदोषतः

॥४१॥

विमुक्ता भर्तृशुश्रूषायोग्या चासि न संशयः ॥

शापोपि गरुडोक्तस्ते लयं यातोऽत्र मज्जनात्

॥४२॥

गच्छ भर्तृसकाशं त्वं सोऽपि त्वां स्वीकरिष्यति ॥

इत्युक्त्वा विररामाथ व्योमवागशरीरिणी

॥४३॥

तस्यै वाचे नमस्कृत्य कद्रूः सा प्रीतमानसा ॥

तीर्थं प्रदक्षिणीकृत्य नत्वा पुत्रसमन्विता

॥४४॥

प्रययौ भर्तुरभ्याशं तच्छुश्रूषणकौतुकात् ॥

आगतातां समालोक्य स्नातां क्षीरसरोजले

॥४५॥

ज्ञात्वा विधूतपापां च कश्यपः स समाधिना ॥

अंगीचकार पत्नीं तामात्मशुश्रूषणोचि ताम्

॥४६॥

एवं वः कथितं विप्राः कद्रूपापविमोक्षणम् ॥

मज्जनान्मुक्तिदं पुंसां पुण्ये क्षीरसरोजले

॥४७॥

यः शृणोतीममध्यायं पठते वापि मानवः ॥

स क्षीरकुंडस्नानस्य लभते फलमुत्तमम्

॥४८॥

अश्वमेधादियज्ञानां समग्रं फलमश्नुते ॥

गंगादिसर्वतीर्थेषु स स्नातो भवति ध्रुवम्

॥४९॥

यः पठेदिममध्यायं क्षीरकुंडप्रशंसनम् ॥

गोसहस्रप्रदातॄणां प्राप्नोत्यविकलं फलम्

॥१५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशसायां कद्रूकृतच्छलदोषशांतिकथावर्णनं-नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥