मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४७

3
ब्रह्मखण्डः · सेतुखण्डः · 47

ब्रह्महत्योत्पत्तिहेतुनिरूपणम्

ऋषय ऊचुः

राक्षसस्य वधात्सूत रावणस्य महामुने ॥

ब्रह्महत्या कथमभूद्राघवस्य महात्मनः

॥१॥

ब्राह्मणस्य वधात्सूत ब्रह्महत्याभिजायते ॥

न ब्राह्मणो दशग्रीवः कथं तद्वद नो मुने

॥२॥

ब्रह्महत्या भवेत्क्रूरा रामचंद्रस्य धीमतः ॥

एतन्नः श्रद्दधानानां वद कारुण्यतोऽधुना

॥३॥

इति पृष्टस्ततः सूतो नैमिषारण्यवासिभिः ॥

वक्तुं प्रचक्रमे तेषां प्रश्नस्योत्तरमुत्तमम्

॥४॥

श्रीसूत उवाच

ब्रह्मपुत्रो महातेजाः पुलस्त्योनाम वै द्विजाः ॥

बभूव तस्य पुत्रोऽभूद्विश्रवा इति विश्रुतः

॥५॥

तस्य पुत्रः पुलस्त्य स्य विश्रवा मुनिपुंगवाः ॥

चिरकालं तपस्तेपे देवैरपि सुदुष्करम्

॥६॥

तपः कुर्वति तस्मिंस्तु सुमाली नाम राक्षसः ॥

पाताललोकाद्भूलोकं सर्वं वै विचचार ह

॥७॥

हेमनिष्कांगदधरः कालमेघनिभच्छविः ॥

समादाय सुतां कन्यां पद्महीनामिव श्रियम्

॥८॥

विचरन्स महीपृष्ठे कदाचित्पुष्पकस्थितम् ॥

दृष्ट्वा विश्रवसः पुत्रं कुबेरं वै धनेश्वरम्

॥९॥

चिंतयामास विप्रेंद्राः सुमाली स तु राक्षसः ॥

कुबेरसदृशः पुत्रो यद्यस्माकं भविष्यति

॥१०॥

वयं वर्द्धामहे सर्वे राक्षसा ह्यकुतोभयाः ॥

विचार्यैवं निजसुतामब्रवीद्राक्षसेश्वरः

॥११॥

सुते प्रदानकालोऽद्य तव कैकसि शोभने ॥

अद्य ते यौवनं प्राप्तं तद्देया त्वं वराय हि

॥१२॥

अप्रदानेन पुत्रीणां पितरो दुःखमाप्नुयुः ॥

किं च सर्वगुणोत्कृष्टा लक्ष्मीरिव सुते शुभे

॥१३॥

प्रत्याख्यानभयात्पुंभिर्न च त्वं प्रार्थ्यसे शुभे ॥

कन्यापितृत्वं दुःखाय सर्वेषां मानकांक्षिणाम्

॥१४॥

न जानेऽहं वरः को वा वरयेदिति कन्यके ॥

सा त्वं पुलस्त्यतनयं मुनिं विश्रवसं द्विजम्

॥१५॥

पितामहकुलोद्भूतं वरयस्व स्वयंगता ॥

कुबेरतुल्यास्तनया भवेयुस्ते न संशयः

॥१६॥

कैकसी तद्वचः श्रुत्वा सा कन्या पितृगौरवात् ॥

अंगीचकार तद्वाक्यं तथास्त्विति शुचिस्मिता

॥१७॥

पर्णशालां मुनिश्रेष्ठा गत्वा विश्रवसो मुनेः ॥

अतिष्ठदंतिके तस्य लज्जमाना ह्यधोमुखी

॥१८॥

तस्मिन्नवसरे विप्राः पुलस्त्यतनयः सुधीः ॥

अग्निहोत्रमुपास्ते स्म ज्वलत्पावकसन्निभः

॥१९॥

संध्याकालमतिक्रूरमविचिंत्य तु कैकसी ॥

अभ्येत्य तं मुनिं सुभ्रूः पितुर्वचनगौरवात्

॥२०॥

तस्थावधोमुखी भूमिं लिखत्यंगुष्ठकोटिना ॥

विश्रवास्तां विलोक्याथ कैकसीं तनुमध्यमाम् ॥

उवाच सस्मितो विप्राः पूर्णचंद्रनिभाननाम्

॥२१॥

विश्रवा उवाच

शोभने कस्य पुत्री त्वं कुतो वा त्वमिहागता

॥२२॥

कार्यं किं वा त्वमुद्दिश्य वर्तसेऽत्र शुचिस्मिते ॥

यथार्थतो वदस्वाद्य मम सर्वमनिंदिते

॥२३॥

इतीरिता कैकसी सा कन्या बद्धांजलिर्द्विजाः ॥

उवाच तं मुनिं प्रह्वा विनयेन समन्विता

॥२४॥

तपः प्रभावेन मुने मदभिप्रायमद्य तु ॥

वेत्तुमर्हसि सम्यक्त्वं पुलस्त्यकुलदीपन

॥२५॥

अहं तु कैकसी नाम सुमालिदुहिता मुने ॥

मत्तातस्याज्ञया ब्रह्मंस्तवांतिकमुपागता

॥२६॥

शेष त्वं ज्ञानदृष्ट्याद्य ज्ञातुमर्हस्यसंशयः ॥

क्षणं ध्यात्वा मुनिः प्राह विश्रवाः स तु कैकसीम्

॥२७॥

मया ते विदितं सुभ्रूर्मनोगतमभीप्सितम् ॥

पुत्राभिलाषिणी सा त्वं मामगाः सांप्रतं शुभे

॥२८॥

सायंकालेऽधुना क्रूरे यस्मान्मां त्वमुपागता ॥

पुत्राभिलाषिणी भूत्वा तस्मात्त्वां प्रब्रवीम्यहम्

॥२९॥

शृणुष्वावहिता रामे कैकसी त्वमनिंदिते ॥

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्

॥३०॥

जनयिष्यसि पुत्रांस्त्वं राक्षसान्क्रूरकर्मणः ॥

श्रुत्वा तद्वचनं सा तु कैकसी प्रणिपत्य तम्

॥३१॥

पुलस्त्यतनयं प्राह कृतांजलिपुटा द्विजाः ॥

भगवदीदृशाः पुत्रास्त्वत्तः प्राप्तुं न युज्यते

॥३२॥

इत्युक्तः स मुनिः प्राह कैकसीं तां सुमध्यमाम् ॥

मद्वंशानुगुणः पुत्रः पश्चिमस्ते भविष्यति

॥३३॥

धार्मिकः शास्त्रविच्छांतो न तु राक्षसचेष्टितः ॥

इत्युक्ता कैकसी विप्राः काले कतिपये गते

॥३४॥

सुषुवे तनयं क्रूरं रक्षोरूपं भयंकरम् ॥

द्विपंचशीर्षं कुमतिं विंशद्बाहुं भयानकम्

॥३५॥

ताम्रोष्ठं कृष्णवदनं रक्तश्मश्रु शिरोरुहम् ॥

महादंष्ट्रं महाकायं लोकत्रासकरं सदा

॥३६॥

दशग्रीवाभिधः सोऽभूत्तथा रावण नामवान् ॥

रावणानंतरं जातः कुम्भकर्णाभिधः सुतः

॥३७॥

ततः शूर्पणखा नाम्ना क्रूरा जज्ञे च राक्षसी ॥

ततो बभूव कैकस्या विभीषण इति श्रुतः

॥३८॥

पश्चिमस्तनयो धीमान्धार्मिको वेदशास्त्रवित् ॥

एते विश्रवसः पुत्रा दशग्रीवादयो द्विजाः

॥३९॥

अतो दशग्रीववधात्कुम्भकर्णवधादपि ॥

ब्रह्महत्या समभवद्रामस्याक्लिष्टकर्मणः

॥४०॥

अतस्तच्छांतये रामो लिंगं रामेश्वराभिधम् ॥

स्थापयामास विधिना वैदिकेन द्विजोत्तमाः

॥४१॥

एवं रावणघातेन ब्रह्महत्यासमुद्भवः ॥

समभूद्रामचंद्रस्य लोककांतस्य धीमतः

॥४२॥

तत्सहैतुकमाख्यातं भवतां ब्रह्मघातजम् ॥

पापं यच्छांतये रामो लिंगं प्रातिष्ठिपत्स्वयम्

॥४३॥

एवं लिंगं प्रतिष्ठाप्य रामचन्द्रोऽतिधार्मिकः ॥

मेने कृतार्थमात्मानं ससीता वरजो द्विजाः

॥४४॥

ब्रह्महत्या गता यत्र रामचंद्रस्य भूपतेः ॥

तत्र तीर्थमभूत्किंचिद्ब्रह्महत्याविमोचनम्

॥४५॥

तत्र स्नानं महापुण्यं ब्रह्महत्याविनाशनम् ॥

दृश्यते रावणोऽद्यापि छायारूपेण तत्र वै

॥४६॥

तदग्रे नागलोकस्य बिलमस्ति महत्तरम् ॥

दशग्रीववधोत्पन्नां ब्रह्महत्यां बलीयसीम्

॥४७॥

तद्बिलं प्रापयामास जानकीरमणो द्विजाः ॥

तस्योपरि बिलस्याथ कृत्वा मण्डपमुत्तमम्

॥४८॥

भैरवं स्थापयामास रक्षार्थं तत्र राघवः ॥

भैरवाज्ञापरित्रस्ता ब्रह्महत्या भयंकरी

॥४९॥

नाशक्नोत्तद्बिलादूर्ध्वं निर्गंतुं द्विजसत्तमाः ॥

तस्मिन्नेव बिले तस्थौ ब्रह्महत्या निरुद्यमा

॥५०॥

रामनाथमहालिंगं दक्षिणे गिरिजा मुदा ॥

वर्तते परमानंदशिवस्यार्धशरीरिणी

॥५१॥

आदित्यसोमौ वर्तेते पार्श्वयोस्तत्र शूलिनः ॥

देवस्य पुरतो वह्नी रामनाथस्य वर्तते

॥५२॥

आस्ते शतक्रतुः प्राच्यामाग्नेयां च तथाऽनलः ॥

आस्ते यमो दक्षिणस्यां रामनाथस्य सेवकः

॥५३॥

नैर्ऋते निर्ऋतिर्विप्रा वर्तते शंकरस्य तु ॥

वारुण्यां वरुणो भक्त्या सेवते राघवेश्वरम्

॥५४॥

वायव्ये तु दिशो भागे वायुरास्ते शिवस्य तु ॥

उत्तरस्यां च धनदो रामनाथस्य वर्तते

॥५५॥

ईशान्येऽस्य च दिग्भागे महेशो वर्तते द्विजाः ॥

विनायक कुमारौ च महादेवसुतावुभौ

॥५६॥

यथाप्रदेशं वर्तेते रामनाथालयेऽधुना ॥

वीरभद्रादयः सर्वे महेश्वरगणेश्वराः

॥५७॥

यथाप्रदेशं वर्तंते रामनाथालये सदा ॥

मुनयः पन्नगाः सिद्धा गन्धर्वाप्सरसां गणाः

॥५८॥

संतुष्यमाणहृदया यथेष्टं शिवसन्निधौ ॥

वर्तंते रामनाथस्य सेवार्थं भक्तिपूर्वकम्

॥५९॥

रामनाथस्य पूजार्थं श्रोत्रियान्ब्राह्मणान्बहून् ॥

रामेश्वरे रघुपतिः स्थापयामास पूजकान्

॥६०॥

रामप्रतिष्ठितान्विप्रान्हव्यकव्यादिनार्चयेत् ॥

तुष्टास्ते तोषिताः सर्वा पितृभिः सहदेवताः

॥६१॥

तेभ्यो बहुधनान्ग्रामान्प्रददौ जानकीपतिः ॥

रामनाथमहादेव नैवेद्यार्थमपि द्विजाः

॥६२॥

बहून्ग्रामान्बहुधनं प्रददौ लक्ष्मणाग्रजः ॥

हारकेयूरकटकनिष्काद्याभरणानि च

॥६३॥

अनेकपट्ट वस्त्राणि क्षौमाणि विविधानि च ॥

रामनाथाय देवाय ददौ दशरथात्मजः

॥६४॥

गंगा च यमुना पुण्या सरयूश्च सरस्वती ॥

सेतौ रामेश्वरं देवं भजंते स्वाघशांतये

॥६५॥

एतदध्यायपठनाच्छ्रवणादपि मानवः ॥

विमुक्तः सर्वपापेभ्यः सायुज्यं लभते हरेः

॥६६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामस्य ब्रह्महत्योत्पत्तिहेतुनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥