कक्षीवदुद्वाहोद्योगवर्णनम्
सूत उवाच
कुंडे हनुमतः स्नात्वा स्वयं रुद्रेण सेविते ॥
अगस्तितीर्थं विप्रेंद्रास्ततो गच्छेत्समाहितः
॥१॥एतद्विनिर्मितं तीर्थं साक्षाद्वै कुम्भयोनिना ॥
प्रवर्तमाने कलहे पुरा वै मेरुविंध्ययोः
॥२॥निरुद्धभुवनाभोगो ववृधे विंध्यपर्वतः ॥
तदा प्राणिषु सर्वेषु निरुच्छ्वासेषु देवताः
॥३॥कैलासं पर्वतं गत्वा शंभवे तद्व्यजिज्ञपन् ॥
तदा स पार्वतीपाणिग्रहणोत्सुककौतुकी
॥४॥प्रेषयित्वा वसिष्ठादीन्पार्वतीं याचितुं मुनीन् ॥
कुंभज त्वं निगृह्णीष्व विंध्याद्रिमिति सोऽन्वशात्
॥५॥ततः स कुम्भजः प्राह भगवंतं पिनाकिनम् ॥
उद्वाहवेषं ते देव न द्रक्ष्येहं कथं विभो
॥६॥इति विज्ञापितः शंभुः पुनः कुंभजमब्रवीत् ॥
कुंभजोद्वाहवेषं ते पार्वत्या सहितो ह्यहम्
॥७॥वेदारण्ये महापुण्ये दर्शयिष्याम्यसंशयः ॥
तद्गच्छ शीघ्रं विंध्याद्रिं निग्रहीतुं मुनीश्वर
॥८॥एवमुक्तस्ततोगस्त्यो विन्ध्याद्रिं स निगृह्य च ॥
पादाक्रमणमात्रेण समीकुर्वन्महीतलम्
॥९॥चरित्वा दक्षि णान्देशान्गन्धमादनमन्वगात् ॥
स विदित्वा महर्षिस्तु गन्धमादनवैभवम्
॥१०॥तत्र तीर्थं महापुण्यं स्वनाम्ना निर्ममे मुनिः ॥
लोपामुद्रासखस्तत्र वर्ततेऽद्यापि कुंभजः
॥११॥तत्र स्नात्वा च पीत्वा च न भूयो जन्मभाग्भवेत् ॥
इह लोके त्रिकालेपि तत्तीर्थसदृशं द्विजाः
॥१२॥तीर्थं न विद्यते पुण्यं भुक्तिमुक्तिफलप्रदम् ॥
सर्वाभीष्टप्रदं नृणां यत्तीर्थस्नानवैभवात्
॥१३॥सुदीर्घतमसः पुत्रः कक्षीवान्नाम नामतः ॥
लेभे मनोरमां नाम स्वनयस्य सुतां प्रियाम्
॥१४॥कक्षीवतः कथा सेयं पुण्यापापविनाशिनी ॥
तां कथां वः प्रवक्ष्यामि तच्छृणुध्वं मुनीश्वराः
॥१५॥अस्ति दीर्घतमा नाम मुनिः परमधार्मिकः ॥
तस्य पुत्रः समभवत्कक्षीवानिति विश्रुतः
॥१६॥उपनीतः स कक्षीवान्ब्रह्मचारी जितें द्रियः ॥
वेदाभ्यासाय स गुरोः कुले वासमकल्पयत्
॥१७॥उदंकस्य गुरोर्गेहे वसन्दीर्घतमःसुतः ॥
सोऽध्येष्ट चतुरो वेदान्सांगाञ्छास्त्राणि षट् तथा
॥१८॥इतिहासपुराणानि तथोपनिषदोऽपिच ॥
उषित्वा षष्टिवर्षाणि कक्षीवान्गुरुसन्निधौ
॥१९॥प्रयास्यन्स्वगृहं विप्रा गुरवे दक्षि णामदात् ॥
उवाच वै गुरुर्विद्वान्कक्षीवान्ब्रह्मवित्तमः
॥२०॥कक्षीवानुवाच
अहं गृहं प्रयास्यामि कुर्वनुज्ञां महामुने ॥
अवलोक्य कृपादृष्ट्या मां रक्षोदंक सांप्रतम् ॥
उदंकस्त्वेव मुदितः कक्षीवंतमथाब्रवीत्
॥२१॥उदंक उवाच
अनुजानामि कक्षीवन्गच्छ त्वं स्वगृहं प्रति
॥२२॥उद्वाहार्थमुपायं ते वत्स वक्ष्यामि तच्छृणु ॥
रामसेतुं प्रयाहि त्वं गंधमादनपर्वतम्
॥२३॥तत्रागस्त्यकृतं तीर्थं सर्वाभीष्टप्रदा यकम् ॥
भुक्तिमुक्तिप्रदं पुंसां सर्वपापनिबर्हणम्
॥२४॥विद्यते स्नाहि तत्र त्वं सर्वमंगलसाधने ॥
त्रिवर्षं वस तत्र त्वं नियमाचारसंयुतः
॥२५॥वर्षेषु त्रिषु यातेषु चतुर्थे वत्सरे ततः ॥
निर्गमिष्यति मातंगः कश्चित्तीर्थोत्तमात्ततः
॥२६॥चतुर्दंतो महाकायः शरदभ्रसमच्छविः ॥
तं गजं गिरिसंकाशं स्नात्वा तत्र समारुह
॥२७॥आरुह्य तं गजं वत्स स्वनयस्य पुरीं व्रज ॥
चतुर्दंतगजस्थं त्वां दृष्ट्वा शक्रमिवापरम्
॥२८॥राजर्षिः स्वनयो धीमान्हर्षव्याकुललोचनः ॥
स्वकन्यायाः कृते दुःखं त्यजेदेव हृदिस्थितम्
॥२९॥पुरा हि प्रतिजज्ञे सा तस्य पुत्री मनोरमा ॥
चतुर्दंतं महाकायं गजं सर्वांगपांडुरम्
॥३०॥आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥
स्वकन्यायाः प्रतिज्ञां तां समाकर्ण्य स भूपतिः
॥३१॥दुःखाकुलमना भूत्वा सततं पर्यचिंतयत् ॥
स्वनये चिंतयत्येवं नारदः समुपागमत्
॥३२॥तमागतं मुनिं दृष्ट्वा राजर्षिरतिधार्मिकः ॥
प्रत्युद्गम्य मुदा युक्तः पाद्यार्घ्याद्यैरपूजयत्
॥३३॥प्रणम्य नारदं राजा वचनं चेदमब्रवीत् ॥
कन्येयं मम देवर्षे प्रतिज्ञामकरोत्पुरा
॥३४॥चतु र्दंतं महाकायं गजं सर्वांगपांडुरम् ॥
आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति
॥३५॥चतुर्दंतो महाकायो गजः सर्वांगपांडुरः ॥
संभवेदिंद्रभवने भूतले नैव विद्यते
॥३६॥इयं च दुस्तरामेनां प्रतिज्ञां बालिशाऽकरोत् ॥
इयं प्रतिज्ञातितरां सततं बाधते हि माम्
॥३७॥अनूढा हि पितुः कन्या सर्वदा शोकमावहेत् ॥
इति तस्य वचः श्रुत्वा स्वनये नारदोऽब्रवीत्
॥३८॥मा विषीदस्व राजर्षे तस्या ईदृग्विधः पतिः ॥
भविष्यत्यचिरादेव पृथिव्यां ब्राह्मणोत्तमः
॥३९॥कक्षीवानिति विख्यातो जामाता ते भविष्यति ॥
इत्युक्त्वा नारदमुनिर्ययावाकाशमार्गतः
॥४०॥स्व नयस्तद्वचः श्रुत्वा नारदेन प्रभाषितम् ॥
आकांक्षते दिवारात्रं तादृग्विधसमागमम्
॥४१॥अतः सौम्य महाभाग कक्षीवन्बालतापस ॥
अगस्त्यतीर्थमद्य त्वं स्नातुं गच्छ त्वरान्वितः
॥४२॥सर्वमंगलसिद्धिस्ते भविष्यति न संशयः ॥
उदंकेनैवमुक्तोऽथ कक्षीवान्द्विजपुंगवः
॥४३॥अनु ज्ञातश्च गुरुणा प्रययौ गंधमादनम् ॥
संप्राप्यागस्त्यतीर्थं च तत्र सस्नौ जितेंद्रियः
॥४४॥क्षेत्रोपवासमकरोद्दिनमेकं मुनीश्वरः ॥
अपरेद्युः पुनः स्नात्वा पारणामकरोद्द्विजः
॥४५॥रात्रौ तत्रैव सुष्वाप कक्षीवान्धर्मतत्परः ॥
एवं नियमयुक्तस्य तस्य कक्षीवतो मुनेः
॥४६॥एकेन दिवसे नोनं वर्षत्रयमथागमत् ॥
अथ वर्षत्रयस्यांते तस्मिन्नेव दिने मुनिः
॥४७॥अन्वास्य पश्चिमां संध्यां सुखं सुष्वाप तत्तटे ॥
याममात्रावशिष्टायां विभावर्यां महाध्वनिः
॥४८॥उदभूत्प्रलयांभोधिवीचिकोलाहलोपमः ॥
तेन शब्देन महता कक्षीवान्प्रत्यबुध्यत
॥४९॥ततस्तु स्वनयो नाम राजा सानुचरो बली ॥
मृगयाकौतुकी तत्र मधुरापतिराययौ
॥५०॥विनिघ्नन्स गजान्सिंहान्वराहान्महिषान्नुरून् ॥
अन्यान्मृगविशेषांश्च स राजा न्यवधीच्छरैः
॥८५१॥सामात्यो मृगयासक्तो रथवाजिगजैर्युतः ॥
अगस्त्यतीर्थसविधमाससाद भटान्वितः
॥५२॥स राजा मृगयाश्रांतः श्रांतसैनिकसंवृतः ॥
तत्तीर्थतीरप्रांतेषु निषसाद महीपतिः
॥५३॥ततः प्रभाते विमले कक्षी वान्मुनिसत्तमः ॥
अगस्त्यतीर्थे स्नात्वाऽसौ संध्यां पूर्वामुपास्य च
॥५४॥तस्य तीरे जपन्मत्रांस्तस्थौ नियमसंयुतः ॥
अत्रांतरे तीर्थवराद्गज एको विनिर्ययौ
॥५५॥चतुर्दंतो महाकायः कैलास इव मूर्तिमान् ॥
स समुत्थाय तत्तीर्थादगात्कक्षीवदंतिकम्
॥५६॥तमागतमुदंकोक्त लक्षणैरुपलक्षितम् ॥
तदा निरीक्ष्य कक्षीवानारोढुं स्नानमातनोत्
॥५७॥नमस्कृत्य च तत्तीर्थं श्लाघमानो मुहुर्मुहुः ॥
आरुरोह च कक्षीवांश्चतुर्दंतं महागजम्
॥५८॥आरुह्य तं चतुर्दंतं रजताचलसंनिभम् ॥
स्वनयस्य पुरीमेव कक्षीवान्गंतुमैच्छत
॥५९॥तमारूढं चतुर्दंतं श्वेतदंतावलोत्तमम् ॥
स वीक्ष्य निश्चिकायैनं कक्षीवानिति भूपतिः
॥६०॥प्रसन्नहृदयो राजा तस्यांतिकमुपागमत् ॥
तदाभ्याशमुपागम्य कक्षीवंतं नृपोऽब्रवीत्
॥६१॥स्वनय उवाच
त्वं ब्रह्मन्कस्य पुत्रोऽसि नाम किं तव मे वद ॥
गजमेनं समारुह्य कुत्र वा गन्तुमिच्छसि ॥
स्वनयेनैवमुक्तस्तु कक्षीवान्वाक्यमब्रवीत्
॥६२॥कक्षीवानुवाच
पुत्रोऽहं दीर्घतमसः कक्षीवानिति विश्रुतः
॥६३॥स्वनयस्य तु राजर्षेर्गच्छामि नगरं प्रति ॥
अहमुद्वोढुमिच्छामि तस्य कन्या मनोरमाम्
॥६४॥चतुर्दंतगजारूढस्तत्प्रतिज्ञां च पूरयन् ॥
स्वनयस्य सुतापाणिं ग्रहीष्यामि नराधिप
॥६५॥तद्भाषितं समाकर्ण्य श्रोत्रपीयूषवर्षणम् ॥
हर्षसंफुल्लनयनः स्वनयो वाक्यम ब्रवीत्
॥६६॥कक्षीवन्भोः कृतार्थोस्मि स एव स्वनयो ह्यहम् ॥
उद्वोढुमिच्छति भवान्यस्य कन्यां मनोरमाम्
॥६७॥स्वागतं ते मुनिश्रेष्ठ कक्षीवन्बालतापस ॥
मम कन्यां गृहाण त्वं तपोधन मनोरमाम्
॥६८॥तया सह चरन्धर्मान्गार्हस्थ्यं प्रतिपालय ॥
राज्ञोक्तः स तदोवाच कक्षीवान्धर्मतत्परः ॥
राजानं स्वनयं प्रीतं मधुरापुरवासिनम्
॥६९॥कक्षीवानुवाच
पिता दीर्घतमानाम वेदारण्ये मम प्रभो
॥७०॥आस्ते तपश्चरन्सौम्यो नियमाचारतत्परः ॥
तस्यांतिकं प्रेषय त्वं विप्रमेकं धरापते
॥७१॥तथोक्तः स तदा राजा स्वनयो हृष्टमा नसः ॥
अनेकसेनया सार्धं प्राहिणोत्स्वपुरोधसम्
॥७२॥विप्रं सुदर्शनं नाम वेदारण्यस्थलं प्रति ॥
सुदर्शनः समादिष्टः स्वनयेन नृपेण सः
॥७३॥महत्या सेनया सार्धं प्रययौ वेदकाननम् ॥
तत्रोटजे समासीन तं दीर्घतमसं मुनिम्
॥७४॥तपश्चरतमासीनं ध्यायन्वेदाटवी पतिम् ॥
पुरोहितो ददर्शाथ जपंतं मंत्रमुत्तमम्
॥७५॥प्रणाममकरोत्तस्मै मुनये स सुदर्शनः ॥
उवाच दीर्घतमसं मुनिं प्रह्लादयन्निव
॥७६॥सुदर्शन उवाच
कच्चित्ते कुशलं ब्रह्मन्कच्चित्ते वर्धते तपः ॥
आश्रमे कुशलं कच्चित्कच्चिद्धर्मे सुखं वद
॥७७॥पृष्टः सुदर्शनेनैवं मुनिर्दीर्घतमास्तदा ॥
सुदर्शनमुवाचेदमर्घ्यादिविधिपूर्वकम्
॥७८॥दीर्घतमा उवाच
सर्वत्र कुशलं ब्रह्मन्सुदर्शन महामते ॥
मम वेदाटवीनाथकृपया नाशुभं क्वचित्
॥७९॥तवापि कुशलं ब्रह्मन्किं सुखागमनं तथा ॥
किंवाऽऽगमनकार्यं ते सुदर्शन ममाश्रमे
॥८०॥स्वनयस्य पुरोधास्त्वं खलु वेदविदांवरः ॥
तं विहाय महाराज मधुरापुरवासिनम्
॥८१॥महत्या सेनया सार्धं किमर्थं त्वमिहागतः ॥
इत्युक्तो दीर्घतमसा तदानीं स सुदर्शनः
॥८२॥उवाच तं महात्मानं मुनिं ज्वलिततेजसम् ॥
सर्वत्र मे सुखं ब्रह्मन्भवतः कृपया सदा
॥८३॥भगवन्स्व नयो राजा साष्टांगं प्रणिपत्य तु ॥
त्वां प्राह प्रश्रितं वाक्यं मन्मुखेन शृणुष्व तत्
॥८४॥स्वनय उवाच
कक्षीवांस्ते सुतो ब्रह्म न्गंधमादनपर्वते ॥
स्नानं कुर्वन्नगस्त्यस्य तीर्थे संप्रति वर्तते
॥८५॥तस्य रूपं तपो धर्ममाचारान्वैदिकांस्तथा ॥
वेदशास्त्रप्रवीणत्वमाभि जात्यं च तादृशम्
॥८६॥लोकोत्तरमिदं सर्वं विज्ञाय तव नंदने ॥
मनोरमां सुतां तस्मै दातुमिच्छाम्यहं मुने
॥८७॥मृगयाकौतुकी चाहं गंधमादनपर्वतम् ॥
आगतो मुनिशार्दूल वर्त्ते युष्मत्सुतांतिके
॥८८॥पित्रनुज्ञां विना नाहमुद्वहेयं सुतां तव ॥
इति ब्रूते तव सुतः कक्षीवान्मुनिस त्तम
॥८९॥तद्भावां मत्सुतां तस्मै दातुं मेऽनुग्रहं कुरु ॥
प्रैषयं च समीपं ते सेनया च सुदर्शनम्
॥९०॥सुदर्शन उवाच
इति मां भगवन्राजा प्राहिणोत्तव सन्निधिम् ॥
तद्भवाननुमन्यस्व राज्ञस्तस्य चिकीर्षितम्
॥९१॥श्रीसूत उवाच
इत्युक्त्वा विररामाथ स्वनयस्य पुरोहितः ॥
ततो दीर्घतमाः प्राह स्वनयस्य पुरोहितम्
॥९२॥दीर्घतमा उवाच
सुदर्शन भवत्वेवं कथितं स्वनयेन यत् ॥
ममाभीष्टतमं ह्येतत्पाणिग्रहणमंगलम्
॥९३॥आगमिष्याम्यहं विप्र गन्धमादनपर्वतम् ॥
इत्युक्त्वा स मुनिर्विप्रा महादीर्घतमा मुनिः
॥९४॥वेदाटवीपतिं नत्वा भक्तिप्रवणचेतसा ॥
सुदर्शनेन सहितः सेतुमुद्दिश्य निर्ययौ
॥९५॥षट्भिर्दिनैर्मुनिः पुण्यं प्रययौ गन्धमादनम् ॥
अगस्तितीर्थतीरं च गत्वा दीर्घतमा मुनिः
॥९६॥अथ पुत्रं ददर्शाग्रे कक्षीवंतं महामुनिः ॥
कक्षीवान्पितरं दृष्ट्वा ववन्दे नाम कीर्तयन्
॥९७॥ततो दीर्घतमा योगी स्वांकमारोप्य तं सुतम् ॥
मूर्ध्न्युपाघ्राय सस्नेहं सस्वजे पुलकाकुलः
॥९८॥कुशलं परिपप्रच्छ तदा दीर्घतमा ऋषिः ॥
सर्ववेदास्त्वयाधीताः कक्षीवन्किमु वत्सक
॥९९॥शास्त्राण्यपाठीः किं त्वं वा वत्स सर्वं वदस्व मे ॥
इति पृष्टः स्वपित्रा स सर्वं वृत्तं तमव्रवीत्
॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्येऽगस्तितीर्थप्रशंसायां कक्षीवदुद्वाहोद्योगवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥