धनुष्कोटिवैभवकथनवर्णनम्
श्रीसूत उवाच
विहिताभिषवो मर्त्यः सर्वतीर्थेऽतिपावने ॥
ब्रह्महत्यादिपापघ्नीं धनुष्कोटिं ततो व्रजेत्
॥१॥यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥
धनुष्कोटिं प्रपश्यंति स्नांति वा कथयंति ये
॥२॥अष्टाविंशतिभेदांस्ते नरकान्नोपभुंजते ॥
तामिस्रमंधतामिस्रं महारौरवरौरवौ
॥३॥कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ॥
कृमिभक्षोंऽधकूपश्च संदंशं शाल्मली तथा
॥४॥सूर्मिर्वैतरणी प्राणरोधो विशसनं तथा ॥
लालाभक्षोऽप्यवीचिश्च सारमेयादनं तथा
॥५॥तथैव वज्रकणकं क्षारकर्दमपातनम् ॥
रक्षोगणाशनं चापि शूलप्रोतं वितोदनम्
॥६॥दंदशूकाशनं चापि पर्यावर्तनसंज्ञितम् ॥
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम्
॥७॥पूयशोणितभक्षं च विषाग्निपरिपीडनम् ॥
अष्टाविंशतिसंख्याकमेवं नरकसंचयम्
॥८॥न याति मनुजो विप्रा धनुष्कोटौ निमज्जनात् ॥
वित्तापत्यकलत्राणां योऽन्येषामपहारकः
॥९॥स कालपाशनिर्बद्धो यमदूतैर्भयानकैः ॥
तामिस्रनरके घोरे पात्यते बहुवत्सरम्
॥१०॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो निहत्य तु भर्तारं भुंक्ते तस्य धनादिकान्
॥११॥पात्यते सोंऽधतामिस्रे महादुःखसमाकुले ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥१२॥भूतद्रोहेण यो मर्त्यः पुष्णाति स्वकुटुंबकम् ॥
स तानिह विहायाशु रौरवे पात्यते ध्रुवम्
॥१३॥विषोल्बणमहासर्पसंकुले यमपूरुषैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥१४॥यः स्वदेहंभरो मर्त्यो भार्यापुत्रादिकं विना ॥
स महारौरवे घोरे पात्यते निजमांसभुक्
॥१५॥स्नाति चेद्धनुषः कोटौ तस्मि न्नासौ निपात्यते ॥
यः पशून्पक्षिणो वापि सप्राणान्निरुणद्धि वै
॥१६॥कृपालेशविहीनं तं क्रव्यादैरपि निंदितम् ॥
कुंभीपाके तप्ततैले पात यंति यमानुगाः
॥१७॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः
॥१८॥स कालसूत्र नरके विस्तृतायुतयोजने ॥
अधस्तादग्निसंतप्त उपर्यर्कमरीचिभिः
॥१९॥खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥२०॥यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ॥
सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः
॥२१॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो राजा राजभृत्यो वा ह्यदंड्ये दंडमाचरेत्
॥२२॥शरीरदंडं विप्रे वा स शूकरमुखे द्विजाः ॥
पात्यते नरके घोरे इक्षुवद्यंत्रपीडितः
॥२३॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
ईश्वराधीनवृत्तीनां हिंसां यः प्राणिनां चरेत्
॥२४॥तैरेव पीड्यमानोऽयं जंतुभिः स्वेन पीडितैः ॥
अंधकूपे महाभीमे पात्यते यमकिंकरैः
॥२५॥तत्रांधकारबहुले विनिद्रो निर्वृतश्चरेत् ॥
चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥२६॥योऽश्नाति पंक्तिभेदेन सस्यसूपादिकं नरः ॥
अकृत्वा पंचयज्ञं वा भुंक्ते मोहेन स द्विजाः
॥२७॥प्रपात्यते यमभटैर्नरके कृमिभोजने ॥
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंच यान्
॥२८॥स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम् ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥२९॥यो हरेद्विप्रवित्तानि स्तेयेन बलतोऽपि वा ॥
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा
॥३०॥अयस्मयाग्निकुंडेषु संदंशैः सोऽतिपीडितः ॥
संदंशे नरके घोरे पात्यते यमपूरुषैः
॥३१॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः
॥३२॥अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ॥
तावयस्मयनारीं च पुरुषं चाप्ययस्मयम्
॥३३॥तप्तावालिंग्य तिष्ठंतौ यावच्चंद्रदिवाकरौ ॥
सूर्म्याख्ये नरके घोरे पात्येते बहुकंटके
॥३४॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
बाधते सर्वजंतून्यो नानो पायैरुपद्रवैः
॥३५॥शाल्मलीनरके घोरे पात्यते बहुकंटके ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥३६॥राजा वा राजभृत्यो वा यः पाषंडमनुव्रतः ॥
भेदको धर्मसेतूनां वैतरण्यां निपात्यते
॥३७॥स्नानि चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
वृषलीसंगदुष्टो यः शौचाद्याचारवर्जितः
॥३८॥त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारत स्तथा ॥
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते
॥३९॥अतिबीभत्सनरके पात्यते यमकिंकरैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥४०॥अश्मभिर्मृगयुर्हन्याद्बाणै र्वा बाधते मृगान् ॥
स विध्यमानो बाणौघैः परत्र यमकिंकरैः
॥४१॥प्राणरोधाख्यनरके पात्यते यमकिंकरैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥४२॥दांभिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ॥
हंत्यसौ परलोकेषु वैशसे नरके द्विजाः
॥४३॥कृन्त्यमानो यमभटैः पात्यते दुःखसंकुले ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते
॥४४॥आत्मभार्यां सवर्णां यो रेतः पाययते तु सः ॥
परत्र रेतःपायी सन्रेतःकुंडे निपात्यते
॥४५॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो दस्युमार्ग माश्रित्य गरदो ग्रामदाहकः
॥४६॥वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ॥
वज्रदंष्ट्राहिकाभिख्ये नरके पात्यते चिरम्
॥४७॥स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
विद्यंते यानि चान्यानि नरकाणि परत्र वै
॥४८॥तानि नाप्नोति मनुजो धनुष्कोटिनिमज्जनात् ॥
धनुष्कोटौ सकृत्स्ना नादश्वमेधफलं लभेत्
॥४९॥आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ॥
न पापे रमते बुद्धिर्न भवेद्दुःखमेव वा
॥५०॥बुद्धेः प्रीति र्भवेत्सम्यग्धनुष्कोटौ निमज्जनात् ॥
तुलापुरुषदानेन यत्फलं लभ्यते नरैः
॥५१॥तत्फलं लभ्यते पुंभिर्धनुष्कोटौ निमज्जनात् ॥
गोसहस्र प्रदानेन यत्पुण्यं हि भवेन्नृणाम्
॥५२॥तत्पुण्यं लभते मर्त्यो धनष्कोटौ निमज्जनात् ॥
धर्मार्थकाममोक्षेषु यंयमिच्छति पूरुषः
॥५३॥तंतं सद्यः समाप्नोति धनुष्कोटौ निमज्जनात् ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
॥५४॥सद्यः पूतो भवेद्विप्रा धनुष्कोटौ निमज्जनात् ॥
प्रज्ञालक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता
॥५५॥मनःशुद्धिर्भवेन्नॄणां धनुष्कोटिनिमज्जनात् ॥
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा
॥५६॥अयुतं गुरुदाराणां गमनं पापकारणम् ॥
स्तेयायुतं सुवर्णानां तत्संसर्गश्च कोटिशः
॥५७॥शीघ्रं विलयमाप्नोति धनुष्कोटौ निमज्जनात् ॥
ब्रह्महत्यासमानानि सुरापानसमानि च
॥५८॥गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ॥
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च
॥५९॥तानि सर्वाणि नश्यंति धनुष्को टि निमज्जनात् ॥
उक्तेष्वेतेषु संदेहो न कर्तव्यः कदाचन
॥६०॥जिह्वाग्रे परशुं तप्तं धारयामि न संशयः ॥
अर्थवादमिमं सर्वं ब्रुवन्वै नारकी भवेत्
॥६१॥संकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ॥
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः
॥६२॥धनुष्कोट्यभिधे तीर्थे सर्वपातकनाशने ॥
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि
॥६३॥इष्टकाम्यप्रदे नित्यं तथैवाज्ञाननाशने ॥
स्थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः
॥६४॥अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ॥
स्नातस्य धनुषः कोटौ नांतकाद्भयमस्ति वै
॥६५॥धनुष्कोटिं प्रपश्यंति तत्र स्नांति च ये नराः ॥
स्तुवंति च प्रशंसंति स्पृशंति च नमंति च ॥
न पिबंति हि ते स्तन्यं मातॄणां द्विजपुंगवाः
॥६६॥ऋषय ऊचुः
धनुष्कोट्याभिधा तस्य कथं सूत समागता
॥६७॥तत्सर्वं ब्रूहि तत्त्वेन विस्तरान्मुनिपुंगव ॥
इति पृष्टो नैमिषीयैराह सूतः पुनश्च तान्
॥६८॥श्रीसूत उवाच
रामेण निहते युद्धे रावणे लोककण्टके ॥
बिभीषणे च लंकायां राजनि स्थापिते ततः
॥६९॥वैदेहीलक्ष्मणयुतो रामो दशरथा त्मजः ॥
सुग्रीवप्रमुखैर्वीरैर्वानरैरपि संवृतः
॥७०॥सिद्धचारणगन्धर्वदेवविद्याधरर्षिभिः ॥
अप्सरोभिश्च सततं स्तूयमाननिजाद्भुतः
॥७१॥लीलाविधृतकोदण्डस्त्रिपुरघ्नो यथा शिवः ॥
सर्वैः परिवृतो रामो गंधमादनमन्वगात्
॥७२॥तत्र स्थितं महात्मानं राघवं रावणांतकम् ॥
प्रांजलिः प्रार्थयामास धर्मज्ञोऽथ विभीषणः
॥७३॥सेतुनानेन ते राम राजानः सर्व एव हि ॥
बलोद्रिक्ताः समभ्येत्य पीडयेयुः पुरीं मम
॥७४॥अतः सेतुमिमं भिंधि धनुष्कोट्या रघूद्वह ॥
इति संप्रार्थितस्तेन पौलस्त्येन स राघवः
॥७९॥बिभेद धनुषः कोट्या स्वसेतुं रघुनं दनः ॥
अतो द्विजास्ततस्तीर्थं धनुष्कोटिरितिश्रुतम्
॥७६॥श्रीरामधनुषः कोट्या यो रेखां पश्यते कृताम् ॥
अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति
॥७७॥धनुष्कोट्यां कृता रेखा रामेण लवणांबुधौ ॥
तद्दर्शनाद्भवेन्मुक्तिर्न जाने स्नानजं फलम्
॥७८॥नर्मदारोधसि तपो महापातक नाशनम् ॥
गंगातीरे तु मरणमपवर्गफलप्रदम्
॥७९॥दानं द्विजाः कुरुक्षेत्रे ब्रह्महत्यादिशोधकम् ॥
तपश्च मरणं दानं धनुष्कोटौ कृतं नरैः
॥८०॥महापातकनाशाय मुक्त्यै चाभीष्टसिद्धये ॥
भवेत्समर्थं विप्रेंद्रा नात्र कार्या विचारणा
॥८१॥तावत्संपीड्यते जंतुः पातकैश्चोपपा तकैः ॥
यावन्नालोक्यते राम धनुष्कोटिर्विमुक्तिदा
॥८२॥भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ॥
क्षीयंते पापकर्माणि धनुष्कोट्यवलो किनः
॥८३॥दक्षिणांभोनिधौ सेतौ रामचन्द्रेण निर्मिता ॥
या रेखा धनुषः कोट्या विभीषणहिताय वै
॥८४॥सैव कैलासपदवीं वैकुण्ठब्र ह्मलोकयोः ॥
मार्गः स्वर्गस्य लोकस्य नात्र कार्या विचारणा
॥८५॥तुल्यं यज्ञफलैः पुण्यैर्धनुष्कोट्यवगाहनम् ॥
सर्वमंत्राधिकं पुण्यं सर्वदा नफलप्रदम्
॥८६॥कायकलेशकरैः पुंसां किं तपोभिः किमध्वरैः ॥
किं वेदैः किमु वा शास्त्रैर्धनुष्कोट्यवलोकिनः
॥८७॥रामचंद्रधनुष्कोटौ स्नानं चेल्लभ्यते नृणाम् ॥
सितासितसरित्पुण्यवारिभिः किं प्रयोजनम्
॥८८॥रामचंद्रधनुष्कोटिदर्शनं लभ्यते यदि ॥
काश्यां तु मरणान्मुक्तिः प्रार्थ्यते किं वृथा नरैः
॥८९॥अनिमज्ज्य धनुष्कोटावनुपोष्य दिनत्रयम् ॥
अदत्त्वा कांचनं गां च दरिद्रः स्यान्न संशयः
॥९०॥धनुष्कोट्य वगाहेन यत्फलं लभते नरः ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः
॥९१॥न तत्फलमवाप्नोति सत्यंसत्यं वदाम्यहम् ॥
धनुष्कोट्यभिधं तीर्थं सर्वतीर्थाधिकं विदुः
॥९२॥दशकोटिसहस्राणि संति तीर्थानि भूतले ॥
तेषां सान्निध्यमस्त्यत्र धनुष्कोटौ द्विजोत्तमाः
॥९३॥अष्टौ वसव आदित्या रुद्राश्च मरुतस्तथा ॥
साध्याश्च सह गन्धर्वाः सिद्धविद्याधरास्तथा
॥९४॥एते चान्ये च ये देवाः सान्निध्यं कुर्वते सदा ॥
तीर्थेऽत्र धनुषः कोटौ नित्यमेव पितामहः
॥९५॥सन्निधत्ते शिवो विष्णुरुमा मा च सरस्वती ॥
धनुष्कोटौ तपस्तप्त्वा देवाश्च ऋषयस्तथा
॥९६॥विपुलां सिद्धिमगमंस्तत्फलेन मुनीश्वराः ॥
स्नायात्तत्र नरो यस्तु पितृदेवांश्च तर्पयेत्
॥९७॥सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥
अत्रैकं भोजयेद्विप्रं यो नरो भक्तिसंयुतः
॥९८॥इह लोके परत्रापि सोनंतसुखमश्नुते ॥
शाकमूलफले वृत्तिं यो न वर्तयते नरः
॥९९॥स नरो धनुषःकोटौ स्नायात्त त्फलसिद्धये ॥
अश्वमेधक्रतुं कर्तुं शक्तिर्यस्य न विद्यते
॥१००॥धनुष्कोटौ स हि स्नायात्तेन तत्फलमश्नुते ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वापि मुनी श्वराः
॥१॥निंद्ययोनौ न जायंते धनुष्कोट्वगाहनात् ॥
मकरस्थे रवौ माघे धनुष्कोटौ तु यो नरः
॥२॥स्नायात्पुण्यं निगदितुं तस्याहं न क्षमो द्विजाः ॥
माघमासे धनुष्कोटाववगाहेत यो नरः
॥३॥स स्नातः सर्वतीर्थेषु गंगादिषु मुनीश्वराः ॥
प्राप्नुयादक्षयाँल्लोकान्मोक्षं चापि लभेत सः
॥४॥जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ॥
तत्सर्वं माघमासेऽत्र मज्जनाद्विलयं व्रजेत्
॥५॥यथा सुराणां सर्वेषामुत्तमो रघुनंदनः ॥
तथैव च धनुष्कोटिः सर्वतीर्थोत्तमा स्मृता
॥६॥तत्र स्नानं माघमासे सर्वाभीष्टप्रदायकम् ॥
त्रिंशद्दिनं माघमासे नियतोऽपि जितेंद्रियः
॥७॥धनुष्कोटौ नरः स्नायादपुनर्भवसिद्धये ॥
एकभुक्तो जितक्रोधो माघमासेऽत्र यो नरः
॥८॥स्नानं करोति विप्रेंद्रा मुच्यते ब्रह्महत्यया ॥
श्रीरामधनुषः कोटी माघमासे नरस्तु यः
॥९॥स्नात्वांते शिवरात्रौ च निराहारो जितेंद्रियः ॥
कृत्वा जागरणं रात्रौ प्रतियामं विशेषतः
॥११०॥राम नाथं महादेवमभ्यर्च्य विधिपूर्वकम् ॥
परेद्युरुदिते सूर्ये धनुष्कोटौ निमज्य च
॥११॥अन्येष्वपि च तीर्थेषु स्नात्वा नियतमानसः ॥
निर्वर्त्य नित्यकर्माणि रामनाथं निषेव्य च
॥१२॥यथाशक्ति द्विजानन्नैर्भोजयित्वा द्विजोत्तमाः ॥
भूमिं गां च तिलान्धान्यं दत्त्वा वित्तं च शक्तितः
॥१३॥ब्राह्मणैरप्यनुज्ञातः स्वयं भुंजति वाग्यतः ॥
एवं कृतवतः पुंसो रामनाथो महेश्वरः
॥१४॥विमोच्य सर्वपापानि भुक्तिं मुक्तिं प्रयच्छति ॥
अतः सर्वप्रयत्नेन माघमासे मुनीश्वराः
॥१५॥स्नातव्यं हि धनुष्कोटौ नरैरत्र मुमुक्षुभिः ॥
धनुष्कोटौ नरः स्नानं सेतावर्धोदये तु यः
॥१६॥करोति तस्य पापानि नश्यंत्येव क्षणाद्द्विजाः ॥
स्नानं महोदये चात्र भुक्तिमुक्तिफलप्रदम्
॥१७॥यः स्नायाद्धनुषः कोटावर्द्धोदयमहो दये ॥
तस्य वश्यास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः
॥१८॥धनुष्कोटौ द्विजाः स्नानमर्द्धोदयमहोदये ॥
विनाप्यद्वैतविज्ञानं सायुज्यप्राप्तिकारणम्
॥१९॥तत्र स्नानं द्विजाः पुंसामर्द्धोदयमहोदये ॥
मन्वाद्युक्तं विना सत्यं प्रायश्चित्तं हि पापिनाम्
॥१२०॥अत्र सेतौ धनुष्कोटावर्धोदयमहो दये ॥
स्नाति चेन्मनुजो विप्राः सत्यं यज्ञं विनाप्ययम्
॥२१॥यज्ञानां फलमाप्नोति संपूर्णं नात्र संशयः ॥
चंद्रसूर्योपरागेषु यः स्नायादत्र मानवः
॥२२॥तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥
चंद्रसूर्योपरागेषु धनुष्कोट्यवगाहनम्
॥२३॥ब्रह्महत्यादिपापानां प्रायश्चित्त मुदीरितम् ॥
श्रीरामधनुषः कोटौ चंद्रसूर्योपरागयोः
॥२४॥स्नानं सायुज्यदं प्रोक्तं सर्वतीर्थफलप्रदम् ॥
चंद्रसूर्योपरागेषु अर्धोदयमहोदये ॥
'
॥२५॥स्नातव्यमत्र मनुजैर्भुक्तिमुक्तिफलेच्छुभिः ॥
अतः सर्वं परित्यज्य गच्छध्वं मुनिपुंगवाः
॥२६॥धनुष्कोटिं महापुण्यां भुक्तिमुक्तिफल प्रदाम् ॥
तत्र गत्वा पितृभ्यश्च कुरुध्वं पिंडदापनम्
॥२७॥आकल्पं पितृतृप्तिः स्यादत्र पिंडनिवापनात् ॥
पितॄणां तृप्तिदं स्थानत्रयं रामेण निर्मितम्
॥२८॥सेतुमूले धनुष्कोट्यां गंधमादनपर्वते ॥
पिंडं दत्त्वा पितृभ्योऽत्र ऋणान्मुक्तो भविष्यति
॥२९॥सेतुमूलं धनुष्कोटिं गंधमादनमेव च ॥
ऋणमोक्ष इति ख्यातं त्रिस्थानं देवनिर्मितम्
॥१३०॥अतः सर्वप्रयत्नेन धनुष्कोटिर्निषेव्यताम् ॥
अत्रागत्य धनुष्कोटौ स्नात्वा नियमपूर्व कम्
॥३१॥द्रोणाचार्यसुतः श्रीमानश्वत्थामा मुनीश्वराः ॥
सुप्तमारणदोषेण घोरेण मुमुचे क्षणात्
॥३२॥एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ॥
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम्
॥१३३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां धनुष्कोटिवैभवकथनवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥