मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २८

3
ब्रह्मखण्डः · सेतुखण्डः · 28

कोटितीर्थं महापुण्यं सेवित्वा केवलं नरः

श्रीसूत उवाच

कोटितीर्थं महापुण्यं सेवित्वा केवलं नरः ॥

स्नातुं जितेंद्रियस्तीर्थं ततः साध्यामृतं व्रजेत्

॥१॥

साध्यामृतं महातीर्थ महापुण्यफलप्रदम् ॥

महादुःखप्रशमनं गन्धमादनपर्वते

॥२॥

अस्ति पापहरं पुंसां सर्वाभीष्टप्रदायकम् ॥

यत्र स्नात्वा नरो भक्त्या सर्वान्कामानवाप्नुयात्

॥३॥

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥

गतिं तां न लभेन्मर्त्यो यां साध्यामृतमज्जनात्

॥४॥

स्पृष्टानि येषामंगानि साध्यामृतजलैः शुभैः ॥

तेषां देहगतं पापं तत्क्षणादेव नश्यति

॥५॥

साध्यामृतजले यस्तु साघमर्षणकृन्नरः ॥

स विधूयेह पापानि विष्णुलोके महीयते

॥६॥

पूर्वे वयसि पापानि कृत्वा कर्माणि यो नरः ॥

पश्चात्साध्यामृतं सेवेत्पश्चात्तापसमन्वितः

॥७॥

अन्ते वयसि मुक्तः स्यात्स नरो नात्र संशयः ॥

साध्यामृते नरः स्नात्वा देहबंधाद्विमुच्यते

॥८॥

साध्यामृतजले स्नाता मनुष्याः पापक र्मिणः ॥

अनेकक्लेशघोराणि नरकाणि न यांति हि

॥९॥

साध्यामृतजले स्नानात्पुंसां या स्याद्गतिर्द्विजाः ॥

न सा गतिर्भवेद्यज्ञैर्न वेदैः पुण्यकर्मभिः

॥१०॥

यावदस्थि मनुष्याणां साध्यामृतजले स्थितम् ॥

तावद्वर्षाणि तिष्ठंति शिवलोके सुपूजिताः

॥११॥

अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥

तथा साध्यामृतस्नायी भित्त्वा पापानि राजते

॥१२॥

वांछिताँल्लभते कामानत्र स्नातो नरः सदा ॥

यत्र स्नात्वा महापुण्ये पुरा राजा पुरूरवाः ॥

विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम्

॥१३॥

ऋषय ऊचुः

कथं सूत महाभाग सहोर्वश्यामरस्त्रिया

॥१४॥

प्रथमं लब्धवान्योगं मर्त्यो राजा पुरूरवाः ॥

विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम्

॥१५॥

हेतुना केन राजानं शशाप तुंबुरुर्मुनिः ॥

एतत्सर्वं समाचक्ष्व विस्तरान्मुनिपुंगव

॥१६॥

सूत उवाच

आसीत्पुरूरवानाम शक्रतुल्यपराक्रमः ॥

राजराजसमो राजा पुरा ह्यमरपूजितः

॥१७॥

धर्मतः पालयामास मेदिनीं स नृपोत्तमः ॥

ईजे च बहुभिर्यज्ञैर्ददौ दानानि सर्वदा

॥१८॥

प्रशासति महीं सर्वां राज्ञि तस्मिन्महामतौ ॥

मित्रावरुणशापेन भुवं प्रापोर्वशी द्विजाः

॥१९॥

सा चचारोर्वशी तत्र राज्ञस्तस्य पुरांतिके ॥

कोकिलालापमधुरवीणयोपवने जगौ

॥२०॥

स राजोपवने रंतुं कदाचिद्धृतकौतुकः ॥

आरूढतुरगः प्रायाल्ललनाशतसंवृतः

॥२१॥

तादृशीमुर्वशीं तत्र करसम्मितमध्यमाम् ॥

उवाच चैनां राजासौ भार्या मम भवेति वै

॥२२॥

सापि कामातुरा तत्र राजानं प्रत्यभाषत ॥

भवत्वेवं नरश्रेष्ठ समयं यदि मे भवान्

॥२३॥

करिष्यति तवाभ्याशे वत्स्यामि धृतकौतुका ॥

करिष्ये समयं सुभ्रु तवाहमिति सोऽब्रवीत्

॥२४॥

अथोर्वशी बभाषे तं पुरूरवसमुत्सुका ॥

पुत्रभूतं मम यदि रक्षस्युरणकद्वयम्

॥२५॥

न नग्नो दृश्यसे राजन्कदापि यदि वै तथा ॥

नोच्छिष्टं मम दद्याश्चेत्तदा वत्स्ये तवांतिके

॥२६॥

घृतमात्राशना चाहं भविष्यामि नृपोत्तम ॥

एवमस्त्विति राजोक्तां तां निनाय निजं गृहम्

॥२७॥

अलकायां स भूपालस्तथा चैत्ररथे वने ॥

रेमे सरस्वतीतीरे पद्मखण्डमनोरमे

॥२८॥

एकषष्टिं स वर्षाणि रममाणस्तयानयत् ॥

तेनोर्वशी प्रतिदिनं वर्धमानानुरागिणी

॥२९॥

स्पृहां न देवलोकेऽपि चकार तनुमध्यमा ॥

नाभवद्रमणीयोऽसौ देवलोकस्तया विना

॥३०॥

अतस्तामानयिष्यामि देवलोकमिति द्विजाः ॥

विश्वावसुर्विचार्यैवं भूर्लोकमगमत्क्षणात्

॥३१॥

उर्वश्याः समयं राज्ञा विश्वावसुरयं सह ॥

विदित्वा सह गन्धर्वैः समवेतो निशांतरे

॥३२॥

उर्वश्याः शयनाभ्याशाज्जग्राहोरणकं जवात् ॥

आकाशे नीयमानस्य तस्य श्रुत्वोर्वशी पतिम्

॥३३॥

अब्रवीन्मत्सुतः केन गृह्यते त्यज्यतामयम् ॥

अनाथा शरणं यामि कं नरं गतचेतना

॥३४॥

पुरूरवाः समाकर्ण्य वाक्यं तस्या निशांतरे ॥

मां न नग्नं निरीक्षेत देवीति न ययौ तदा

॥३५॥

अथान्यमप्युरणकं गन्धर्वाः प्रतिगृह्य ते ॥

ययुस्तस्योरणस्यापि शब्दं शुश्राव चोर्वशी

॥३६॥

अनाथाया मम सुतो गृह्यते तस्करैरिति ॥

चुक्रोश देवी परुषं कं यामि शरणं नरम्

॥३७॥

अमर्षवशमापन्नः श्रुत्वा तद्वचनं नृपः ॥

तिमिरेणावृतं सर्वमिति मत्त्वा स खङ्गधृक्

॥३८॥

दुष्टदुष्ट कुतो यासीत्यभ्यधावद्वचो वदन् ॥

तावत्सौदामिनी दीप्ता गन्ध र्वैर्जनिता भृशम्

॥३९॥

तत्प्रभामंडलैर्देवी राजानं विगतांबरम् ॥

दृष्ट्वा निवृत्तसमया तत्क्षणादेव निर्ययौ

॥४०॥

त्यक्त्वा ह्युरणकौ तत्र गंधर्वा अपि निर्ययुः ॥

राजा मेषौ समादाय हृष्टः स्वशयनांतिकम्

॥४१॥

आगतो नोर्वशीं तत्र ददर्शायतलोचनाम् ॥

तां चापश्यन्विवस्त्रश्च बभ्रामोन्मत्तवद्भुवि

॥४२॥

कुरुक्षेत्रं गतो राजा तटाके पद्मसंकुले ॥

चतुर्भिरप्सरस्त्रीभिः क्रीडमाना ददर्श ताम्

॥४३॥

हे जाये तिष्ठ मनसा घोरेति व्याहरन्मुहुः ॥

एवं बहुप्रकारं वै स सूक्तं प्रालपन्नृपः

॥४४॥

अब्रवीदुर्वशी तं च क्रीडती साप्सरोगणैः ॥

महाराजालमेतेन चेष्टितेन तवानघ

॥४५॥

त्वत्तो गर्भिण्यहं पूर्वमब्दांते भवतात्र वै ॥

आगंतव्यं कुमारस्ते भविष्यत्यतिधार्मिकः

॥४६॥

एकां विभावरीं राजंस्त्वया वत्स्यामि वै तदा ॥

इत्युक्तो नृपतिर्हृष्टः स्वपुरीं प्राविशद्द्विजाः

॥४७॥

तासामप्सरसां सा तु कथयामास तं नृपम् ॥

अयं स पुरुषश्रेष्ठो येनाहं कामरूपिणा

॥४८॥

एतावंतं महाकालमनुरागवशातुरा ॥

उषितास्मि सहानेन सख्यो नृपतिना चिरम्

॥४९॥

एवमुक्तास्ततः सख्यस्तामूचुः साधुसाध्विति ॥

अनेन साकमास्यामः सर्वकालं वयं सखि

॥५०॥

इत्यूचुरुर्वशीं तत्र सखीमप्सरसस्तदा ॥

अब्देऽथ पूर्णे राजापि तटाकांति कमाययौ

॥५१॥

आगतं नृपतिं दृष्ट्वा पुरूरवसमुर्वशी ॥

कुमारमायुषं तस्मै ददौ संप्रीतमानसा

॥५२॥

तेन साकं निशामेकामुषिता सानु रागिणी ॥

पंचपुत्रप्रदं गर्भं तस्मादापाशु सोर्वशी

॥५३॥

उवाच चैनं राजानमुर्वशी परमांगना ॥

वरं दास्यंति गन्धर्वा मत्प्रीत्या तव भूपते

॥५४॥

भवतां प्रार्थ्यतां तेभ्यो वरो राजर्षिसत्तम ॥

इत्युक्तः स तया राजा प्राह गन्धर्वसत्तमान्

॥५५॥

अहं संपूर्णकोशश्च विजिताराति मंडलः ॥

सलोकतां विनोर्वश्याः प्राप्तव्यं नान्यदस्ति मे

॥५६॥

अतस्तया सहोर्वश्या कालं नेतुमहं वृणे ॥

एवमुक्ते नृपेणाथ गन्धर्वास्तुष्ट मानसाः ॥

अग्निस्थालीं प्रदायास्मै प्रोचुश्चैनं नृपं तदा

॥५७॥

गन्धर्वा ऊचुः

अग्निं वेदानुसारी त्वं त्रिधा कृत्वा नृपोत्तम

॥५८॥

इष्ट्वा यज्ञेन चोर्वश्याः सालोक्यं याहि भूपते ॥

इतीरितस्तैरादाय स्थालीमग्नेर्ययौ नृपः

॥५९॥

अहो बतातिमूढोहमिति मध्ये वनं नृपः ॥

उर्वशी न मया लब्धा वह्निस्थाल्या तु किं फलम्

॥६०॥

निधायैव वने स्थालीं स्वपुरं प्रययौ नृपः ॥

अर्धरात्रे व्यतीतेऽसौ विनिद्रोऽचिंतयत्स्वयम्

॥६१॥

उर्वशीलोकसिद्ध्यर्थं मम गन्धर्वपुंगवैः ॥

अग्निस्थाली संप्रदत्ता सा च त्यक्ता मया वने

॥६२॥

आहरिष्ये पुनः स्थालीमित्युत्थाय ययौ वनम् ॥

नाग्निस्थालीं ददर्शासौ वने तत्र पुरूरवाः

॥६३॥

शमीगर्भमथाश्वत्थमग्निस्थाने विलोक्य सः ॥

व्यचिंतयन्मया स्थाली निक्षिप्तात्र वने पुरा

॥६४॥

सा चाश्वत्थः शमीगर्भः समभूदधुना त्विह ॥

तस्मादेनं समादाय वह्निरूपमहं पुरम्

॥६५॥

गत्वा कृत्वारणीं सम्यक्तदुत्पन्नाग्निमादरात् ॥

उपास्यामीति निश्चित्य स्वपुरं गतवान्नृपः

॥६६॥

रमणीयारणीं चक्रे स्वांगुलैः प्रमिता मसौ ॥

निर्माणसमये राजा गायत्रीमजपद्द्विजाः

॥६७॥

गायत्र्याः पठ्यमानाया यानि संत्यक्षराणि हि ॥

तावदंगुलिमर्यादामकरोदरणीं नृपः

॥६८॥

तत्र निर्मथनादग्नित्रयमुत्पाद्य भूपतिः ॥

उर्वशीलोकसंप्राप्तिफलमुद्दिश्य कांक्षितम्

॥६९॥

वेदानुसारी नृपतिर्जुहावाग्नित्रयं मुदा ॥

तेनैव चाग्निविधिना बहून्यज्ञानथातनोत्

॥७०॥

तेन गन्धर्वलोकांश्च संप्राप्य जगतीपतिः ॥

सहोर्वश्या चिरं रेमे देवलोके द्विजोत्तमाः

॥७१॥

अथ सर्वामरोपेतः कदाचिद्बलवृत्रहा ॥

नृत्यं सुरांगनानां वै व्यलोकयत संसदि

॥७२॥

पुरूरवा नृपोप्यायात्तदा देवेंद्रसंसदम् ॥

द्रष्टुं सुरांगनानृत्यं मनोहारि दिवौकसाम्

॥७३॥

एकैकशस्ताः शक्रस्य ननृतुः पुरतोंऽगनाः ॥

अथोर्वशी समागत्य ननर्त पुरतो हरेः

॥७४॥

नृत्ताभिनयसामर्थ्यगर्वयुक्ता तदोर्वशी ॥

तं पुरूरवसं दृष्ट्वा जहासातिमनोहरा

॥७५॥

जहास तत्र राजापि तां विलोक्य तदोर्वशीम् ॥

हाससंकुपितस्तत्र नाट्याचार्योऽथ तुंबुरुः ॥

शशाप तावुभौ कोपादुर्वशीं च नृपोत्तमम्

॥७६॥

तुंबुरुरुवाच

अनेकदेवसंपूर्णसभायामत्र यत्कृतम्

॥७७॥

युवाभ्यां हसितं नृत्तमध्ये निष्कारणं वृथा ॥

तस्माज्झटिति राजेंद्र वियोगो युवयोः क्षणात्

॥७८॥

भूयादिति शशापैनं सर्वदैवतसंनिधौ ॥

अथ शप्तो नृपस्तत्र नाट्याचार्येण दुःखितः

॥७९॥

जगाम शरणं तत्र पाहिपाहीति वज्रिणम् ॥

उवाच दीनया वाचा पुरुहूतं पुरूरवाः

॥८०॥

उर्वश्या सह सालोक्यसिद्ध्यर्थमहमिष्टवान् ॥

अतस्तस्मा वियोगो मेऽसह्यः स्यात्पाकशासन

॥८१॥

इत्युक्तवंतं तं प्राह सहस्राक्षः शचीपतिः ॥

शापमोक्षं प्रवक्ष्यामि मा भैषीस्त्वं नृपोत्तम

॥८२॥

दक्षिणांभोनिधौ पुण्ये गंधमादनपर्वते ॥

साध्यामृतमिति ख्यातं तीर्थमस्ति महत्तरम्

॥८३॥

सेवितं सर्वदेवैश्च सिद्धचारणकिन्नरैः ॥

सनकादि महायोगिमुनिवृंदनिषेवितम्

॥८४॥

भुक्तिमुक्तिप्रदं पुंसां सर्वशापविमोक्षदम् ॥

अस्ति तीर्थं भवांस्तत्र गच्छस्व त्वरया नृप

॥८५॥

सर्वेषाममृतं स्नानादत्र साध्यं यतस्ततः ॥

साध्यामृतमिति ख्यातं सर्वलोकेषु विश्रुतम्

॥८६॥

तत्र स्नानात्तवोर्वश्याः पुनर्योगो भविष्यति ॥

मम लोके निवासश्च भविष्यति न संशयः

॥८७॥

इति प्रतिसमादिष्टो नृपः संप्रीतमानसः ॥

साध्यामृतं महातीर्थं समुद्दिश्य ययौ क्षणात्

॥८८॥

सस्नौ साध्यामृते तत्र महापातकनाशने ॥

तत्र स्नानान्नृपो विप्राः सद्यः शापेन मोचितः

॥८९॥

स्नानानंतरमेवासावुर्वश्या सह संगतः ॥

तया सह विमानस्थः प्रययावमरावतीम्

॥९०॥

रेमे पुनस्तया सार्धं देववद्देवमंदिरे ॥

एवंप्रभावं तत्तीर्थं साध्यामृतमनुत्तमम्

॥९१॥

पुरूरवा सहोर्वश्या यत्र स्नानेन संगतः ॥

अतोऽत्र तीर्थे यः स्नायान्महापातकनाशने

॥९२॥

वांछिताँल्लभते कामान्यास्यति स्वर्गमुत्तमम् ॥

निष्कामः स्नाति चेद्वि प्रा मोक्षमाप्नोति मानवः

॥९३॥

इमं पवित्रं पापघ्नमध्यायं पठते तु यः ॥

शृणुयाद्वा मनुष्योऽसौ वैकुंठे लभते स्थितिम्

॥९४॥

एवं वः कथितं विप्रा वैभवं पापनाशनम् ॥

साध्यामृतस्य तीर्थस्य विस्तराच्छ्रद्धया मया

॥९५॥

यत्पुरा सनकादिभ्यः प्रोक्तवांश्चतुराननः

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये साध्यामृततीर्थप्रशंसायां पुरूरवःशापविमोक्षणवर्णनंनामाष्टाविंशो अध्यायः ॥ २८ ॥