अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम्
श्रीसूत उवाच
अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम् ॥
तत्तीर्थं सकलैः पूर्वं गंधमादनपर्वते
॥१॥सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः ॥
रावणादिषु रक्षःसु हतेषु तदनंतरम्
॥२॥तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा ॥
तीर्थाय च वरं प्रादुः कपयः कामरूपिणः
॥३॥अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः ॥
ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः
॥४॥अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् ॥
अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवंति हि
॥५॥अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् ॥
कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन्
॥६॥व्रजेच्छतपदं विप्राः स यायात्परमं पदम् ॥
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति
॥७॥एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः ॥
रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे
॥८॥स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम् ॥
कपिभिः प्रार्थितो विप्रा रामचंद्रोऽतिहर्षितः
॥९॥तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् ॥
अत्र तीर्थे निमग्नानां गंगास्नानफलं लभेत्
॥१०॥प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा ॥
अग्निष्टोमादियागानां फलं भूयादनुत्तमम्
॥११॥गायत्र्यादिमहामंत्रजपपुण्यं तथा भवेत् ॥
गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम्
॥१२॥चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत्
॥१३॥कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः ॥
एवं रामेण दत्ते तु वरे तत्र कुतूहलात्
॥१४॥षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा ॥
वरुणोग्निस्तथा वायुः कुबेरश्चंद्रमा अपि
॥१५॥आदित्यो निर्ऋतिश्चैव साध्याश्च वसवस्तथा ॥
अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा
॥१६॥अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः ॥
कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे
॥१७॥योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥
रामदत्तवरं तीर्थं श्लाघंते बहुधा तदा
॥१८॥सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि ॥
कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम्
॥१९॥कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति ॥
इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा
॥२०॥तस्मादवश्यं गंतव्यं कपितीर्थं मुमुक्षुभिः ॥
रंभा कौशिकशापेन शिलाभूता पुरा द्विजाः
॥२१॥तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ ॥
अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते
॥२२॥मुनय ऊचुः
रंभां किमर्थमशपत्कौशिकः सूतनंदन ॥
कथं गता शिलाभूता कपितीर्थं सुरांगना ॥
एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम
॥२३॥श्रीसूत उवाच
विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये
॥२४॥स कदाचिन्महाराजः सेनापरिवृतो बली ॥
मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी
॥२५॥अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ ॥
आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना
॥२६॥तथास्त्वित्यब्रवीत्सोयं दंडवत्प्रणतो नृपः ॥
कामधेनुप्रभावेन विश्वामित्राय भूभुजे
॥२७॥आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनंदनः ॥
कामधेनुप्रभावं वै ज्ञात्वा कुशिकनंदनः
॥२८॥वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् ॥
प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात्
॥२९॥कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः ॥
महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च
॥३०॥वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसंचयान् ॥
सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः
॥३१॥तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनंदनः ॥
एकेन ब्रह्मदंडेन निजघ्न स्वतपोबलात्
॥३२॥ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः ॥
ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ
॥३३॥पूर्वासु पश्चिमांतासु त्रिषु दिक्षु तपोऽचरत् ॥
प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः
॥३४॥उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि
॥३५॥दिव्यं वर्षसहस्रं तु निराहारो जितेंद्रियः ॥
निरालोको जितश्वासो जितक्रोधः सुनिश्चलः
॥३६॥ग्रीष्मे पंचाग्निमध्यस्थः शिशिरे वारिषु स्थितः ॥
वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः
॥३७॥ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः ॥
उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः ॥
जंभारिणा च सहिता रंभां प्रोचुरिदं वचः
॥३९॥देवा ऊचुः
रंभे त्वं हिमवच्छैले कौशिकीतीरगं मुनिम्
॥३९॥विश्वामित्रं तपस्यंतं विलोभय विचेष्टितैः ॥
यथा तत्तपसो विघ्नो भविष्यति तथा कुरु
॥४०॥एवमुक्ता तदा रंभा देवैरिंद्रपुरोगमैः ॥
प्रत्युवाच सुरान्सर्वान्प्रांजलिः प्रणता तदा
॥४१॥रंभोवाच
अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः ॥
स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः
॥४२॥त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् ॥
इत्युक्तो रंभया तत्र जंभारिस्ताम भाषत
॥४३॥इन्द्र उवाच
रंभे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् ॥
अहमप्यागमिष्यामि त्वत्सहायः समन्मथः
॥४४॥कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति ॥
अतिसुंदररूपा त्वं प्रलोभय महामुनिम्
॥४५॥इतींद्रकथिता रंभा विश्वामित्राश्रमं ययौ ॥
तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता
॥४६॥सा मुनिं लोभयामास मनोहरविचेष्टितः ॥
पिकोपि तस्मिन्समये चुकूजानंदयन्मनः
॥४७॥श्रुत्वा पिकस्वरं रंभां दृष्ट्वा च मुनिपुंगवः ॥
संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् ॥
शशाप रंभां क्रोधेन विश्वामित्रस्तपोधनः
॥४८॥विश्वामित्र उवाच
यस्मात्कोपयसे रंभे मां त्वं कोपजयैषिणम्
॥४९॥शिला भवात्र तस्मात्त्वं रंभे वर्षशतायुतम् ॥
तदंतरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि
॥५०॥विश्वामित्रस्य शापेन तदंते सा शिलाऽभवत् ॥
बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः
॥५१॥विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः ॥
लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः
॥५२॥बहुकालं शिलाभूता रंभाप्यासीत्तदाश्रमे ॥
तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य संमतः
॥५३॥श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः ॥
चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ
॥५४॥अंगारकेति विख्याता राक्षसी काचिदागता ॥
तस्याश्रममतिक्रूरा मेघस्वनमहास्वना
॥५५॥मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा ॥
उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम्
॥५६॥अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् ॥
शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम्
॥५७॥राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता ॥
वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा
॥५८॥दक्षिणांबुनिधेस्तीरं धावति स्म भयार्दिता ॥
धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता
॥५९॥पपातोपरि राक्षस्या मज्जंत्याः कपितीर्थके ॥
मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि
॥६०॥विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् ॥
शिलारूपं परित्यज्य रंभारूपमुपेयुषी
॥६१॥देवैः कुसुमधाराभिरभिवृष्टा मनोरमा ॥
दिव्यं विमानमारूढा दिव्यांबरविराजिता
॥६२॥हारकेयूरकटकनासाभरणभूषिता ॥
उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता
॥६३॥कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः ॥
निषेव्य रामनाथं च शंकरं शशिभूषणम्
॥६४॥आखण्डलपुरीं रम्यां प्रययावमरावतीम् ॥
राक्षसी सापि शापेन कुम्भजस्य महौजसः
॥६५॥घृताची देववेश्या हि राक्षसीरूपमागता ॥
साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ
॥६६॥एवं रंभाघृताच्यौ ते कपितीर्थे निमज्जनात् ॥
अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः
॥६७॥राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते ॥
तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके
॥६८॥यः शृणोतीममध्यायं पठते वापि मानवः ॥
प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम्
॥६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कपितीर्थप्रशंसायां रंभाघृताचीशापविमोक्षणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥