मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ८

3
ब्रह्मखण्डः · सेतुखण्डः · 8

भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय

ऋषय ऊचुः

भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय ॥

त्वन्मुखाद्वै कथाः श्रुत्वा श्रोत्रकामृतवर्षिणीः

॥१॥

तृप्तिर्न जायतेऽस्माकं त्वद्वचोमृतपायिनाम् ॥

अतः शुश्रूषमाणानां भूयो ब्रूहि कथाः शुभाः

॥२॥

वेतालवरदंनाम चक्रतीर्थस्य दक्षिणे ॥

तीर्थमस्ति महापुण्यमित्यवादीद्भवान्पुरा

॥३॥

वेतालवरदाभिख्या तीर्थस्यास्यागता कथम् ॥

किंप्रभावं च तत्तीर्थमेतन्नो वक्तुमर्हसि

॥४॥

श्रीसूत उवाच

साधुपृष्टं हि युष्माभिरतिगुह्यं मुनीश्वराः ॥

शृणुध्वं मनसा सार्द्धं ब्रवीम्यत्यद्भुतां कथाम्

॥५॥

पामरा अपि मोदन्ते यां वै श्रुत्वा कथां शुभाम् ॥

कथा चेयं महापुण्या पुरा कैलासपर्वते

॥६॥

केलिकालेषु पावत्यै शंभुना कथिता द्विजाः ॥

तां ब्रवीमि कथामेनामत्यद्भुततरां हि वः

॥७॥

पुरा हि गालवोनाम महर्षिः सत्यवाक्छुचिः ॥

चिंतयानः परं ब्रह्म तपस्तेपे निजाश्रमे

॥८॥

तस्य कन्या महाभागा रूपयौवनशालिनी ॥

नाम्ना कांतिमती बाला व्यचरत्पितुरंतिके

॥९॥

आहरंती च पुष्पाणि बल्यर्थं तस्य वै मुनेः ॥

वेदिसंमार्जनादीनि समिदाहरणानि च

॥१०॥

कुर्वती पितरं बाला सम्यक्परिचचार ह ॥

कदाचित्सा तु वल्यर्थं पुष्पाण्याहर्तुमुद्यता

॥११॥

तस्मिन्वने कांतिमती सुदूरमगमत्तदा ॥

तत्र पुष्पाणि रम्याणि समाहृत्य च पेटके

॥१२॥

तूर्णं निववृते बाला पितृशुश्रूषणे रता ॥

निवर्तमानां तां कन्यां विद्याधरकुमारकौ

॥१३॥

सुदर्शनसुकर्णाख्यौ विमानस्थौ ददर्शतुः ॥

तां दृष्ट्वा गालवसुतां रूपयौवनशालिनीम्

॥१४॥

कामस्य पत्नीं ललितां रतिं मूर्तिमतीमिव ॥

सुदर्शनाभिधो ज्येष्ठो विद्याधरकुमारकः

॥१५॥

हर्षसंफुल्लनयनश्चकमे काममोहितः ॥

पूर्णचन्द्राननां तां वै वीक्षमाणो मुहुर्मुहुः

॥१६॥

तया रिरंसुकामोऽसौ विमानाग्रादवातरत् ॥

तामुपेत्य मुनेः कन्यामित्युवाच सुदर्शनः

॥१७॥

सुदर्शन उवाच

कासि भद्रे सुता कस्य रूपयौवनशालिनी ॥

रूपमप्रतिमं ह्येतदाह्लादयति मे मनः

॥१८॥

त्वां दृष्ट्वा रतिसंकाशां बाधते मां मनोभवः ॥

सुकण्ठनामधेयस्य विद्याधरपतेरहम्

॥१९॥

आत्मजो रूपसंपन्नो नाम्ना चैव सुदर्शनः ॥

प्रतिगृह्णीष्व मां भद्रे रक्ष मां करुणादृशा

॥२०॥

भर्तारं मां समासाद्य सर्वान्भोगानवाप्स्यसि ॥

इत्याकर्ण्य वचस्तस्य विद्याधरसुतस्य सा

॥२१॥

तदा कांतिमती वाक्यं धर्मयुक्तमभाषत ॥

सुदर्शन महाभाग विद्याधरपतेः सुत

॥२२॥

आत्मजां मां विजानीहि गालवस्य महात्मनः ॥

कन्या चाहमनूढास्मि पितृशु श्रूषणे रता

॥२३॥

बल्यर्थं हि पितुश्चाहं पुष्पाण्याहर्तुमागता ॥

आहरंत्याश्च पुष्पाणि याम एको न्यवर्तत

॥२४॥

मद्विलंबेन स मुनिर्देव तार्चनतत्परः ॥

कोपं विधास्यते नूनं तपस्वी मुनिपुंगवः

॥२५॥

तच्छीघ्रमद्य गच्छामि पुष्पाण्यप्याहृतानि मे ॥

कन्याश्च पितुराधीना न स्वतन्त्राः कदाचन

॥२६॥

यदि मामिच्छति भवान्पितरं मम याचय ॥

इति विद्याधरसुतमुक्त्वा कांतिमती तदा

॥२७॥

पितुराशंकिता तूर्णमा श्रमं गन्तुमुद्यता ॥

गच्छन्तीं तां समालोक्य विद्याधरकुमारकः

॥२८॥

तूर्णं जग्राह केशेषु धावित्वा मदनार्दितः ॥

अभ्येत्य निजकेशेषु गृह्णन्ते तं विलोक्य सा

॥२९॥

उच्चैश्चक्रंद सहसा कुररीव मुनेः सुता ॥

अस्माद्विद्याधरसुताज्जनक त्राहि मां विभो

॥३०॥

बलाद्गृह्णाति दुष्टात्मा विद्याधरसुतोऽद्य माम् ॥

इत्थमुच्चैः प्रचुक्रोश स्वाश्रमान्नातिदूरतः

॥३१॥

तदाक्रंदितमाकर्ण्य गन्धमादनवासिनः ॥

मुनयस्तु पुरस्कृत्य गालवं मुनिपुंगवम्

॥३२॥

किमेतदिति विज्ञातुं तं देशं तूर्णमाययुः ॥

तं देशं तु समागत्य सर्वे ते ऋषिपुंगवाः

॥३३॥

विद्याधरगृहीतां तां ददृशुर्मु निकन्यकाम् ॥

विद्याधरसुतं चान्यमंतिके समुपस्थितम्

॥३४॥

एतद्दृष्ट्वा महायोगी गालवो मुनिपुंगवः ॥

गतः कोपवशं किंचिद्दुराप्मानं शशाप तम्

॥३५॥

कृतवानीदृशं कार्यं यत्त्वं विद्याधराधम ॥

तद्याहि मानुषीं योनिं स्वस्य दुष्कर्मणः फलम्

॥३६॥

संप्राप्य मानुषं जन्म बहुदुःखसमाकुलम् ॥

अचिरेण तु कालेन तस्मिन्नेव तु जन्मनि

॥३७॥

मनुष्यैरपि निंद्यं तद्वेतालत्वं प्रयास्यसि ॥

मांसानि शोणितं चैव सर्वदा भक्षयिष्यसि

॥३८॥

वेताला राक्षसप्राया बलाद्गृह्णन्ति योषितः ॥

तस्मात्त्वं मानुषो भूत्वा वेतालत्वमवाप्स्यसि ॥

३९? ॥

तव दुष्कर्मणो योऽसावनुमंता कनिष्ठकः ॥

सुकर्ण इति विख्यातो भविता सोपि मानुषः

॥४०॥

किंतु साक्षान्न कृतवान्यतोऽसावीदृशीं क्रियाम् ॥

तन्मानुषत्व मेवास्य वेतालत्वं तु नो भवेत्

॥४१॥

विज्ञप्तिकौतुकाभिख्यं यदा विद्याधराधिपम् ॥

द्रक्ष्यतेऽसौ कनिष्ठस्ते तदा शापाद्विमोक्ष्यते

॥४२॥

ईदृशस्यतु यः कर्ता महापापस्य कर्मणः ॥

स त्वं संप्राप्य मानुष्यं तस्मिन्नेव तु जन्मनि

॥४३॥

वेतालजन्म संप्राप्य चिरं लोके चरिष्यसि ॥

इत्युक्त्वा गालवः कन्यां गृहीत्वा मुनिभिः सह

॥४४॥

विद्याधरसुतौ शप्त्वा स्वाश्रमं प्रति निर्ययौ ॥

ततस्तस्मिन्महाभागे निर्याते मुनिपुंगवे

॥४५॥

सुदर्शनसुकर्णाख्यौ विद्याधरपतेः सुतौ ॥

मुनिशापेन दुःखार्तौ चिंतयामासतुर्भृशम्

॥४६॥

कर्तव्यं तौ विनिश्चित्य सुदर्शनसुकर्णकौ ॥

गोविंदस्वामिनामानं यमुनातटवासिनम्

॥४७॥

ब्राह्मणं शीलसंपन्नं पितृत्वे परिकल्प्य तौ ॥

परित्यज्य स्वकं रूपमजायेतां तदा त्मजौ

॥४८॥

विजयाशोकदत्ताख्यौ तस्य पुत्रौबभूवतुः ॥

सुतो विजयदत्ताख्यो ज्येष्ठो जज्ञे सुदर्शनः

॥४९॥

अशोकदत्तनामा तु सुकर्णश्च कनिष्ठकः ॥

विजयाशोकदत्तौ तु क्रमाद्यौवनमापतुः

॥५०॥

एतस्मिन्नेव कालेतु यमुनायास्तटे शुभे ॥

अनावृष्ट्या तु दुर्भिक्षमभूद्द्वादशवार्षि कम्

॥५१॥

गोविंदस्वामिनामा तु ब्राह्मणो वेदपारगः ॥

दुर्भिक्षोपहतां दृष्ट्वा तदानीं स निजां पुरीम्

॥५२॥

प्रययौ काशनिगरं सपुत्रः सह भार्यया ॥

स प्रयागं समासाद्य द्वं दृष्ट्वा महावटम्

॥५३॥

कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ॥

गोविंदस्वामिनामा तु नमश्चक्रे स तं मुनिम्

॥५४॥

सपुत्रस्य सभार्यस्य सोऽवादीदाशिषो मुनिः ॥

इदं च वचनं प्राह गोविंदस्वामिनं प्रति

॥५५॥

ज्येष्ठेनानेन पुत्रेण सांप्रतं ब्राह्मणोत्तम ॥

क्षिप्रं विजयदत्तेन वियोगस्ते भविष्यति

॥५६॥

इति तस्य वचः श्रुत्वा गोविंदस्वामिनामकः ॥

सूर्ये चास्तं गते तत्र सांध्यं कर्म समाप्य च

॥५७॥

सभार्यः ससुतो विप्रः सुदूराध्वसमाकुलः ॥

उवास तस्यां शर्वर्य्यां शून्ये वै देवतालये

॥५८॥

तदा त्वशोकदत्तश्च ब्राह्मणी च समाकुलौ ॥

वस्त्रेणास्तीर्य पृथिवीं रात्रौ निद्रां समापतुः

॥५९॥

ततो विजयदत्तस्तु दूरमार्गविलंघनात् ॥

बभूवात्यंतमलसो भृशं शीतज्वरार्दितः

॥६०॥

गोविंदस्वामिना पित्रा शीतवबाधानिवृत्तये ॥

गाढमालिंग्यमानोऽपि शीतबाधां न सोऽत्यजत्

॥६१॥

बाधतेऽत्यर्थमधुना तात मां शीतलो ज्वरः ॥

एतद्बाधानिवृत्त्यर्थं वह्निमानय मा चिरम्

॥६२॥

इति पुत्रवचः श्रुत्वा सर्वत्राग्निं गवेषयन् ॥

अलब्धवह्निः प्रोवाच पुन रभ्येत्य पुत्रकम्

॥६३॥

न वह्निं पुत्र विंदामि मार्गमाणोऽपि सर्वशः ॥

रात्रिमध्ये तु संप्राप्ते द्वारेषु पिहितेषु च

॥६४॥

निद्रापरवशाः पौरा नैव दास्यंति पावकम् ॥

इत्थं विजयदत्तोऽसावुक्तः पित्रा ज्वरातुरः

॥६५॥

ययाचे वह्निमेवासौ पितरं दीनया गिरा ॥

शीतज्वरसमुद्भूतशीतबाधाप्रपीडितम्

॥६६॥

हिमशीकरवान्वायुर्द्विगुणं बाधतेऽद्य माम् ॥

वह्निर्न लब्ध इति वै मिथ्यैवोक्तं पितस्त्वया

॥६७॥

दूरादेष पुरोभागे ज्वालामालासमाकुलः ॥

शिखाभिर्लेलिहानोभ्रं दृश्यते पश्य पावकः

॥६८॥

तं वह्निमानय क्षिप्रं तात शीतनिवृत्तये ॥

इत्युक्तवन्तं तं पुत्रं स पिता प्रत्यभाषत

॥६९॥

नानृतं वच्मि पुत्राद्य सत्यमेव ब्रवीम्यहम् ॥

वह्निमान्योऽयमुद्देशो दूरादेव विलोक्यते

॥७०॥

पितृकाननदेशं तं पुत्र जानीहि सांप्रतम् ॥

यद्येषोभ्रंलिहज्वालः पुरस्ताज्ज्वलतेऽनलः

॥७१॥

पुत्र वित्रासजनकं तं जानीहि चितानलम् ॥

अमंगलो न सेव्योऽयं चिताग्निः स्पर्शदूषितः

॥७२॥

तस्य चायुःक्षयं याति सेवते यश्चितानलम् ॥

तस्मात्तवायुर्हानिर्मा भूयादिति मया सुत

॥७३॥

अमंगलस्तथा स्पृश्यो नानीतोऽयं चितानलः ॥

इत्युक्तवंतं पितरं स दीनः प्रत्यभाषत

॥७४॥

अयं शवानलो वा स्यादध्वरानल एव वा ॥

सर्वथानीयतामेष नोचेन्मे मरणं भवेत्

॥७५॥

पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ॥

गोविंदस्वामिनामा तु श्मशानं शीघ्रमभ्यगात्

॥७६॥

गोविंदस्वामिनि गते समाहर्तुं चितानलम् ॥

तूर्णं विजयदत्तोऽपि तदा गच्छंतमन्वयात्

॥७७॥

संप्राप्य तापनिकटं विकीर्णास्थि चितानलम् ॥

आलिंगन्निव सोद्वेगं शनैर्निर्वृतिमाप्तवान्

॥७९॥

अथावादीत्स पितरं तदिदं परिवर्तुलम् ॥

अतिदीप्तं विभात्यग्नौ किं रक्तांबुजसन्निभम्

॥७९॥

इति तस्य वचः श्रुत्वा पुत्रस्य ब्राह्मणोत्तमः ॥

निपुणं तं निरूप्यैतद्वचनं पुनरब्रवीत्

॥८०॥

गोविंदस्वाम्युवाच

एतत्कपालमनलज्वालावलयवर्तुलम् ॥

वसाकीकसमांसाढ्यमेतद्रक्तांबुजोपमम्

॥८१॥

द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तत् ॥

येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत्

॥८२॥

कपालघट्टनाद्रक्तं यत्संसक्तं मुखे तदा ॥

जिह्वया लेलिहानोऽसौ मुहुस्तद्रक्तमा स्वदत्

॥८३॥

आस्वाद्यैवं समादाय तत्कपालं समाकुलः ॥

पीत्वा वसां महाकायो बभूवातिभयंकरः

॥८४॥

सद्यो वेता लतां प्राप तीक्ष्णदंष्ट्रस्तदा निशि ॥

तस्याट्टहासघोषेण दिशश्च प्रदिशस्तदा

॥८५॥

द्यौरतरिक्षं भूमिश्च स्फुटिता इव सर्वशः ॥

तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते

॥८६॥

मा कृथाः साहसमिति प्रादुरासीद्वचो दिवि ॥

स दिव्यां गिरमाकर्ण्य वेतालोऽतिभयंकरः

॥८७॥

पितरं तं परित्यज्य महावेगसमन्वितः ॥

तूर्णमाकाशमाविश्य प्रययावस्खलद्गतिः

॥८८॥

स गत्वा दूरमध्वानं वेतालैः सह संगतः ॥

तमागतं समालोक्य वेतोलास्सर्व एव ते

॥८९॥

कपालस्फोटनादेष वेतालत्वं यदाप्तवान् ॥

कपालस्फोटनामानमाह्वयांचक्रिरे ततः

॥९०॥

ततः कपालस्फोटो ऽसौ वेतालैः सर्वतो वृतः ॥

नरास्थिभूषणाख्यस्य सद्यो वेतालभूपतेः

॥९१॥

अन्तिकं सहसा प्राप महाबलसमन्वितः ॥

नरास्थिभूषणश्चैनं सेनाप तिमकल्पयत्

॥९२॥

तं कदाचित्तु गन्धर्वश्चित्रसेनाभिधो बली ॥

नरास्थिभूषणं संख्ये न्यवधीत्सोऽपि संस्थितः

॥९३॥

नरास्थिभूषणे तस्मि न्गन्धर्वेण हते युधि ॥

तदा कपालस्फोटोऽसौ तत्पदं समवाप्तवान्

॥९४॥

विद्याधरेन्द्रस्य सुतः सुदर्शनो मनुष्यतां वै प्रथमं स गत्वा ॥

वेतालतां प्राप्य महर्षिशापात्क्रमाच्च वेतालपतिर्बभूव

॥९५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनवेतालत्वप्राप्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥