मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १५

3
ब्रह्मखण्डः · सेतुखण्डः · 15

धर्मसखशतपुउत्रावाप्तिवर्णनम्

श्रीसूत उवाच

ब्रह्मकुण्डे महापुण्ये स्नानं कृत्वा समाहितः ॥

नरो हनूमतः कुण्डमथ गच्छेद्विजोत्तमाः

॥१॥

पुरा हतेषु रक्षःसु समाप्ते रणकर्मणि ॥

रामादिषु निवृत्तेषु गंधमादनपर्वते

॥२॥

सर्व लोकोपकाराय हनूमान्मारुतात्मजः ॥

सर्वतीर्थोत्तमं चक्रे स्वनाम्ना तीर्थमुत्तमम्

॥३॥

विदित्वा वैभवं यस्य स्वयं रुद्रेण सेव्यते ॥

तस्य तीर्थस्य सदृशं न भूतं न भविष्यति

॥४॥

यत्र स्नाता नरा यांति शिवलोकं सनातनम् ॥

यस्मिंस्तीर्थे महापुण्ये महापातकनाशने

॥५॥

सर्वलोकोपकाराय निर्मिते वायुसूनुना ॥

सर्वाणि नरकाण्यासञ्च्छून्यान्येव चिराय वै

॥६॥

वैभवं तस्य तीर्थस्य शंकरो वेत्ति वा न वा ॥

यत्र धर्मसखोनाम राजा केकयवंशजः

॥७॥

भक्त्या सह पुरा स्नात्वा शतं पुत्रानवाप्त वान् ॥

ऋषय ऊचुः ॥

सूत धर्मसखस्याद्य चरितं वक्तुमर्हसि ॥

हनूमत्कुण्डतीर्थे यो लेभे स्नात्वा शतं सुतान्

॥८॥

श्रीसूत उवाच

शृणुध्वमृषयो यूयं चरितं तस्य भूपतेः

॥९॥

अद्य धर्मसखस्याहं प्रवक्ष्यामि समासतः ॥

राजा धर्मसखोनाम विजितारिः सुधार्मिकः

॥१०॥

बभूव नीतिमान्पूर्वं प्रजापालनतत्परः ॥

तस्य भार्याशतं विप्रा वभूव पतिदैवतम्

॥११॥

स पालयन्महीं राजा सशैलवनकाननाम् ॥

तासु भार्यासु तनयं नाविंदद्वंशवर्द्धनम्

॥१२॥

पुत्रार्थं स महीपालो बहूयत्नानथाकरोत् ॥

५ अकरोच्च महादानं पुत्रार्थं स महीपतिः

॥१३॥

अश्वमेधादिभिर्यज्ञैरयजच्च सुरान्प्रति ॥

तुलापुरुषमुख्यानि ददौ दानानि भूरिशः

॥१४॥

आमध्यरात्रमन्नानि सर्वेभ्योऽप्यनिवारितम् ॥

प्रायच्छद्बहुसूपानि सस्योपेतानि भूमिपः

॥१५॥

पितॄनुद्दिश्य च श्राद्धमकरोद्विधिपूर्वकम् ॥

संतानदायिनो मंत्राञ्जजाप नियतेद्रियः

॥१६॥

एवमादीन्बहून्धर्मान्पुत्रार्थं कृतवान्नृपः ॥

पुत्रमुद्दिश्य सततं कुर्वन्धर्माननुत्तमान्

॥१७॥

राजा दीर्घेण कालेन वृद्धतां प्रत्यपद्यत ॥

कदाचित्तस्य वृद्धस्य यतमानस्य भूपतेः

॥१८॥

पुत्रस्सुचंद्रनामाभूज्ज्येष्ठपत्न्यां मनोरमः ॥

जातं पुत्रं जनन्यस्ताः सर्वा वैषम्यवर्जिताः

॥१९॥

समं संवर्द्धयामासुः क्षीरादिभिरनुत्तमाः ॥

राज्ञश्च सर्वमातॄणां पौराणाम्मंत्रिणां तथा

॥२०॥

मनोनयनसंतोषजनकोऽयं सुतोऽभवत् ॥

लालयानः सुतं राजा मुदं लेभे परात्पराम्

॥२१॥

आंदोलिकाशयानस्य सूनोस्तस्य कदाचन ॥

वृश्चिकोऽकुट्टयत्पादे पुच्छेनोद्यद्विषाग्निना

॥२२॥

कुट्टनाद्वृश्चिकस्यासावरुदत्तनयो भृशम् ॥

ततस्तन्मातरः सर्वाः प्रारुदञ्च्छोककातराः

॥२३॥

परिवार्यात्मजं विप्राः सध्वनिः संकुलोऽभवत् ॥

आर्तध्वनिं स शुश्राव राजा धर्मसखस्तदा

॥२४॥

उपविष्टः सभामध्ये सहामात्यपुरोहितः ॥

अथ प्रातिष्ठिपद्राजा सौविदल्लं स वेदितुम्

॥२५॥

अन्तःपुरबहिर्द्वारं सौविदल्लः समेत्य सः ॥

षंढवृद्धान्समाहूय वाक्यमेतदभाषत

॥२६॥

षंढाः किमर्थमधुना रुदत्यन्तःपुर स्त्रियः ॥

तत्परिज्ञायतां तत्र गत्वा रोदनकारणम्

॥२७॥

एतदर्थं हि मां राजा प्रेरयामास संसदि ॥

इत्युक्तास्तु परिज्ञाय निदानं रोदनस्य ते

॥२८॥

निर्गम्यांतःपुरात्तस्मै यथावृत्तं न्यवेदयत् ॥

स षंढकवचः श्रुत्वा सौविदल्लः सभां गतः

॥२९॥

राज्ञे निवेदयामास पुत्रं वृश्चिकपीडितम् ॥

ततो धर्मसखो राजा श्रुत्वा वृत्तांतमीदृशम्

॥३०॥

त्वरमाणः समुत्थाय सामात्यः सपुरोहितः ॥

प्रविश्यांतःपुरं सार्द्धं मांत्रिकैर्विषहा रिभिः

॥३१॥

चिकित्सयामास सुतमौषधाद्यैरनेकशः ॥

जातस्वास्थ्यं ततः पुत्रं लालयित्वा स भूपतिः

॥३२॥

मानयित्वा च मंत्रज्ञान्रत्नकां चनमौक्तिकैः ॥

निष्क्रम्यांतःपुराद्राजा भृशं चिंतासमाकुलः

॥३३॥

ऋत्विक्पुरोहितामात्यैस्तां सभां सनुपाविशत् ॥

तत्र धर्मसखो राजा समासीनो वरासने ॥

उवाचेदं वचो युक्तमृत्विजः सपुरोहितान्

॥३४॥

धर्मसख उवाच

दुःखायैवैकपुत्रत्वं भवति ब्राह्मणो त्तमाः

॥३५॥

एकपुत्रत्वतो तृणां वरा चैव ह्यपुत्रता ॥

नित्यं व्यपाययुक्तत्वाद्वरमेव ह्यपुत्रता ॥

अहं भार्याशतं विप्रा उदवोढ विचिंत्य तु

॥३६॥

वयश्च समतिक्रांतं सपत्नीकस्य मे द्विजाः ॥

प्राणा मम च भार्याणामस्मिन्पुत्रे व्यवस्थिताः

॥३७॥

तन्नाशे मम भार्याणां सर्वासां च मृतिर्ध्रुवा ॥

ममापि प्राणनाशः स्यादेकपुत्रस्य मारणे

॥३८॥

अतो मे बहुपुत्रत्वं केनोपायेन वै भवेत् ॥

तमुपायं मम ब्रूत ब्राह्मणा वेदवि त्तमाः

॥३९॥

एकैकः शतभार्यासु पुत्रो मे स्याद्यथा गुणी ॥

तत्कर्म व्रत यूयं तु शास्त्रमालोक्य धर्मतः

॥४०॥

महता लघुना वापि कर्मणा दुष्करेण वा ॥

फलं यद्यपि तत्साध्यं करिष्येऽहं न संशयः

॥४१॥

युष्माभिरुदितं कर्म करिष्यामि न संशयः ॥

कृतमेव हि तद्वित्त शपेऽहं सुकृतैर्मम

॥४२॥

अस्ति चेदीदृशं कर्म येन पुत्रशतं भवेत् ॥

तत्कर्म कुत्र कर्तव्यं मयेति वदताधुना

॥४३॥

इति पृष्टास्तदा राज्ञा ऋत्विजः सपुरोहिताः ॥

संभूय सर्वे राजानमिदमूचुः सुनिश्चितम्

॥४४॥

ऋत्विज ऊचुः

अस्ति राजन्प्रवक्ष्यामो येन पुत्रशतं तव ॥

भवेद्धर्मेण महता शतभार्यासु कैकय

॥४५॥

अस्ति कश्चिन्महापुण्यो गन्धमादनपर्वतः ॥

दक्षिणांबुधिमध्ये यः सेतुरूपेण वर्तते

॥४६॥

सिद्धचारणगंधर्वदेवर्षिगणसंकुलः ॥

दर्शनात्स्पर्शनान्नृणां महापातकनाशनः

॥४७॥

तत्रास्ति हनुमत्कुंडमिति लोकेषु विश्रुतम् ॥

महादुःखप्रशमनं स्वर्गमोक्षफलप्रदम्

॥४८॥

नरकक्लेशशमनं तथा दारिद्र्यमोचनम् ॥

पुत्रप्रदमपुत्राणामस्त्रीणां स्त्रीपदं नृणाम्

॥४९॥

तत्र त्वं प्रयतः स्नात्वा सर्वाभीष्टप्रदायिनीम् ॥

पुत्रीयेष्टिं च तत्तीरे कुरुष्व सुसमाहितः

॥५०॥

तेन ते शतभार्यासु प्रत्येकं तनयो नृप ॥

एकैकस्तु भवेच्छीघ्रं मा कुरु ष्वात्र संशयम्

॥५१॥

तथोक्तो नृपतिर्विप्रैऋत्विक्भिः सपुरोहितैः ॥

तत्क्षणेनैव ऋत्विक्भिर्भार्याभिश्च पुरोधसा

॥५२॥

वृतोमात्यैश्च भृत्यैश्च यज्ञसंभारसंयुतः ॥

प्रययौ दक्षिणांभोधौ गन्धमादनपर्वतम्

॥५३॥

हनुमत्कुंडमासाद्य तत्र सस्नौ ससैनिकः ॥

मासमात्रं स तत्तीरे न्यवस त्स्नानमाचरन्

॥५४॥

ततो वसंते संप्राप्ते चैत्रमासि नृपोत्तमः ॥

इष्टिमारब्धवांस्तत्र पुत्रीयां सपुरोहितः

॥५५॥

सम्यक्कर्माणि चक्रुस्ते ऋत्विजः सपुरोधसः ॥

सपत्नीकस्य राजर्षेस्तथाधर्मसखस्य तु

॥५६॥

इष्टौ तस्य समाप्तायां हनूमत्कुंडतीरतः ॥

पुरोहितो हुतोच्छिष्टं प्राश यद्राजयोषितः

॥५७॥

ततो धर्मसखो राजा हनूमत्कुंडवारिषु ॥

सम्यक्चकारावभृथस्नानं भार्याशतान्वितः

॥५८॥

ऋत्विक्भ्यो दक्षिणाः प्रादादसंख्यातास्तु भूरिशः ॥

ग्रामांश्च प्रददौ राजा बाह्मणेभ्यो द्विजोत्तमाः

॥५९॥

सामात्यः सपरीवारः सपत्नीकः स धार्म्मिकः ॥

राजा ततो निववृते पुरीं स्वां प्रति नंदितः

॥६०॥

ततः कतिपये काले गते दशममामि वै ॥

शतं भार्याः शतं पुत्रान्सुषुवुर्गुणवत्तरान्

॥६१॥

अथ प्रीतमना राजा वीरो धर्मसखो महान् ॥

स्नातः शुद्धश्च संकल्प्य जातकर्माकरोत्तदा

॥६२॥

गोभूतिलहिरण्यादि ब्राह्मणेभ्यो ददौ बहु ॥

द्वौ पुत्रौ ज्येष्ठभार्यायाः पूर्वजोऽवरजस्तदा

॥६३॥

सर्वे ववृधिरे पुत्रा एकाधिकशतं द्विजाः ॥

प्रौढेषु तेषु राजासौ तेभ्यो राज्यं विभज्य तु

॥६४॥

दत्त्वा च प्रययौ सेतुं सभार्यो गन्धमादनम् ॥

हनुमत्कुंडमासाद्य तपोऽतप्यत तत्तटे

॥६५॥

महान्कालो व्यतीयाय राज्ञ स्तस्य तपस्यतः ॥

राज्ञो धर्मसखस्यास्य ध्यायमानस्य शूलिनम्

॥६६॥

ततो बहुतिथे काले गते धर्मसखो नृपः ॥

कालधर्मं ययौ तत्र धार्म्मिकश्शांतमानसः

॥६७॥

पत्न्योपि तस्य राजर्षेरनुजग्मुः पतिं तदा ॥

ज्येष्ठपुत्रः सुचन्द्रोपि संस्कृत्य पितरं ततः

॥६८॥

अकरोच्छ्राद्ध पर्यंतं कर्माणि श्रद्धया सह ॥

राजा सभार्यो वैकुंठं मरणादत्र जग्मिवान्

॥६९॥

सुचन्द्रमुख्यास्ते सर्वे राजपुत्रा महौजसः ॥

स्वस्वराज्यं बुभुजिरे भ्रातरस्त्यक्तमत्सराः

॥७०॥

एवं वः कथितं विप्रा हनूमत्कुंडवैभवम् ॥

राज्ञो धर्मसखस्यापि चरित्रं परमाद्भुतम्

॥७१॥

तत्सर्वं कामसि द्ध्यर्थं स्नायात्कुंडे हनृमतः

॥७२॥

अध्यायमेनं पठते मनुष्यः शृणोति वा यः सुसमाहितो द्विजाः ॥

सोऽनंतमाप्नोति सुखं परत्र क्रीडेत सार्द्धं दिवि देववृन्दैः

॥७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये हनुमत्कुंडप्रशंसायां धर्मसखशतपुउत्रावाप्तिवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥