मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २३

3
ब्रह्मखण्डः · सेतुखण्डः · 23

चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनम्

श्रीसूत उवाच

अग्नितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥

स्नानं कृत्वा विशुद्धात्मा चक्रतीर्थं ततो व्रजेत्

॥१॥

यंयं कामं समुद्दिश्य चक्रतीर्थे द्विजोत्तमाः ॥

स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते

॥२॥

पुराहिर्बुध्न्यनामा तु महर्षिः संशित व्रतः ॥

सुदर्शनमुपास्तास्मिंस्तपस्वी गंधमादने

॥३॥

तपस्यंतं मुनिं तत्र राक्षसा घोररूपिणः ॥

अबाधंत सदा विप्रास्तपोविघ्नैकतत्पराः

॥४॥

सुदर्शनं तदागत्य भक्तरक्षणवांछया ॥

यातुधानान्बाधमानान्न्यवधीर्लीलया पुरा

॥५॥

तदाप्रभृति तच्चक्रं भक्तप्रार्थनया द्विजाः ॥

अहिर्बुध्न्यकृते तीर्थे सन्निधानं सदाऽकरोत्

॥६॥

तदाप्रभृति तत्तीर्थं चक्रतीर्थमितीर्यते ॥

सुदर्शनप्रसादेन तत्र तीर्थे निमज्जनात्

॥७॥

रक्षःपिशाचा दिकृता पीडा नास्त्येव कर्हिचित् ॥

स्नात्वास्मिन्पावने तीर्थे छिन्नपाणिः पुरा रविः ॥

स हिरण्यमयौ पाणी लब्धवांस्तीर्थवैभवात्

॥८॥

ऋषय ऊचुः

छिन्नपाणिः कथमभूदादित्यः सूतनंदन ॥

यथा च लब्धवान्पाणी सौवर्णौ तद्वदस्व नः

॥९॥

श्रीसूत उवाच

इंद्रादयः सुराः पूर्वं संततं दैत्यपीडिताः

॥१०॥

किं कुर्म इति संचित्य संभूय सममंत्रयन् ॥

बृहस्पतिं पुरस्कृत्य मंत्रयित्वा चिरं सुराः

॥११॥

तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥

ते ब्रह्माणं समासाद्य दृष्ट्वा स्तुत्वा च भक्तितः

॥१२॥

ततो व्यजिज्ञपस्तस्मै स्वेषामागमकारणम् ॥

सुरा ऊचुः ॥

भगवन्भारतीनाथ दैत्या ह्यस्मान्बलोत्कटाः

॥१३॥

बाधंते सततं देव तत्र ब्रूहि प्रतिक्रियाम् ॥

इत्युक्तः स सुरैर्ब्रह्मा तानाह कृपया वचः

॥१४॥

ब्रह्मोवाच

मा भैष्ट यूयं विबुधास्तत्रोपायं ब्रवीम्यहम् ॥

माहेश्वरं महायज्ञमसुराणां विनाशनम्

॥१५॥

प्रारभध्वं सुरा यूयं मुनिभिस्तत्त्वदर्शिभिः ॥

अयं च दैवतैः सर्वैर्विधिलोभं विना कृतः

॥१६॥

माहेश्वरो महायज्ञः क्रियतां गंधमादने ॥

यदि ह्यन्यत्र तं यज्ञं कुर्युस्तद्विबुधर्षभाः

॥१७॥

यज्ञविघ्नं तदा कुर्युर्दुरात्मानः सुरद्विषः ॥

क्रियते यद्ययं यज्ञो गंधमादनपर्वते

॥१८॥

सुदर्शनप्रसादेन नैव विघ्नो भवेत्तदा ॥

अहिर्बुध्न्याभिधानस्य महर्षेर्गंधमादने

॥१९॥

अनुग्रहाय तत्तीर्थे सन्निधत्ते सुदर्शनम् ॥

अतः कुरुध्वं भो यूयं तं यज्ञं गंधमादने

॥२०॥

नातिदूरे चक्रतीर्थादसुराणां विनाशकम् ॥

ततस्ते ब्रह्मवचसा सहसा गंधमादनम्

॥२१॥

बृहस्पतिं पुरस्कृत्य जग्मुर्यज्ञचिकीर्षया ॥

ते प्रणम्य महात्मानमहिर्बुध्न्यं मुनीश्वरम्

॥२२॥

अकल्पयन्यज्ञवाटन्नातिदूरे तदाश्रमात् ॥

यज्ञकर्मसु निष्णातैः सहितास्ते तपोधनैः

॥२३॥

इष्टिमारेभिरे देवा असुराणां विनाशिनीम् ॥

तस्मिन्कर्मणि होतासीत्स्वयमेव बृहस्पतिः

॥२४॥

बभूव मैत्रावरुणो जयंतः पाकशासनिः ॥

अच्छावाको बभूवात्र वसूनामष्टमो वसुः

॥२५॥

ग्रावस्तुदभवत्तत्र शक्तिपुत्रः पराशरः ॥

अष्टावक्रो महातेजा अध्वर्युधुरमूढवान्

॥२६॥

तत्र प्रतिप्रस्थाताभूद्विश्वामित्रो महामुनिः ॥

नेष्टा बभूव वरुण उन्नेता च धनेश्वरः

॥२७॥

ब्रह्मा बभूव सविता यज्ञस्यार्धधुरं वहन् ॥

बभूव ब्राह्मणाच्छंसी वसिष्ठो ब्रह्मणोत्तमः

॥२८॥

आग्नीध्रोऽभूच्छुनःशेपः पोता जातश्च पावकः ॥

उद्गाता वायुरभवत्प्रस्तोता च परेतराट्

॥२९॥

प्रतिहर्ता तु तत्रासीदगस्त्यः कुंभसंभवः ॥

सुब्रह्मण्यो मधुच्छंदा विश्वामित्रात्मजो महान्

॥३०॥

यजमानः स्वयमभूद्देवराजः पुरंदरः ॥

उपद्रष्टा बभूवात्र व्यासपुत्रः शुको मुनिः

॥३१॥

ततस्ते ऋत्विजः सर्वे देवराजं पुरंदरम् ॥

विधिवद्दीक्षयांचक्रुस्तत्र माहेश्वरे क्रतौ

॥३२॥

प्रावर्तत महायज्ञ एवं वै गंधमादने ॥

सुदर्शनप्रभावेन दुःसहेनातिपीडिताः

॥३३॥

नाविंदन्नसुरास्तत्र रंध्रं यज्ञे प्रवर्तिते ॥

एवन्निरंतरायोऽसौ प्रावर्तत महा क्रतुः

॥३४॥

भक्षयंश्च हरिस्तत्र जज्वाल हुतवाहनः ॥

विधिवत्कर्मजालानि कृत्वाध्वर्युरसंभ्रमात्

॥३५॥

मंत्रपूतं पुरोडाशं जुहवामास पावके ॥

हुतशेषं पुरोडाशं विभज्याध्वर्युरादरात्

॥३६॥

ऋत्विग्भ्यो होतृमुख्येभ्यः प्रददौ पापनाशनम् ॥

सवित्रे ब्रह्मणे चैकमत्युग्रतरतेजसम्

॥३७॥

ददौ तत्र पुरोडाशभागं प्राशित्रनामकम् ॥

प्रतिजग्राह पाणिभ्यां प्राशित्रं सविता तदा

॥३८॥

सवित्रा स्पृष्टमात्रं सत्तत्प्राशित्रं दुरासदम् ॥

तस्य पाणी प्रचिच्छेद पश्यतां सर्वऋत्विजाम्

॥३९॥

ततः संछिन्नपाणिः स प्राशित्रेणोग्रतेजसा ॥

किमेतदिति संत्रस्तो विषण्णवदनोऽभवत्

॥४०॥

सविता ऋत्विजः सर्वान्समाहूयेदमब्रवीत् ॥

सवितोवाच ॥

पुरोडाशस्य भागोऽयं मम प्राशित्रनामकः

॥४१॥

दत्तश्चिच्छेद मत्पाणी मिषत्स्वेव भवत्स्वपि ॥

अतो भवंतः संभूय सर्व एव हि ऋत्विजः

॥४२॥

कल्पयंतामिमौ पाणी नोचेद्यज्ञं निहन्म्यमुम् ॥

सवितुर्वाक्यमाकर्ण्य ते सर्वे समचिंतयन्

॥४३॥

तत्र मध्ये मुनींद्राणां देवानां चैव सर्वशः ॥

अष्टावक्रो महातेजा ऋत्विजस्तानभाषत

॥४४॥

अष्टावक्र उवाच

शृणुध्वमृत्विजः सर्वे मम वाक्यं समाहिताः ॥

मयि जीवति विप्रेंद्रा विरिंचानां शतं गतम्

॥४५॥

जायंते च म्रियंते च चतुराननकोटयः ॥

पश्यन्नेव च तान्सर्वानहं प्राणानधारयम्

॥४६॥

तत्र लोकेश्वराभिख्ये वर्तमाने प्रजापतौ ॥

विप्रो हरिहरोनाम निवसञ्छयामलापुरे

॥४७॥

व्याधेनारण्यवासेन केल्यर्थं लक्ष्यवेधिना ॥

छिन्नपादोऽभवद्बाणैर्लक्ष्य मध्यं समागतः

॥४८॥

स गंधमादनं प्राप्य मुनिभिः प्रेरितस्तदा ॥

स्नात्वा च मुनितीर्थेऽस्मिन्प्राप्तवांश्चरणौ पुरा

॥४९॥

तदा पुण्यमिदं तीर्थं मुनितीर्थमितीरितम् ॥

इदानीं चक्रतीर्थाख्यं चक्रनाम त्वविंदत

॥५०॥

तदत्र क्रियतां स्नानं प्राशित्रच्छिन्नपाणिना ॥

मुनितीर्थे सवित्रापि युष्माकं यदि रोचते

॥५१॥

ऋत्विजः कथितास्त्वेवमष्टावक्रमहर्षिणा ॥

सवितारमभाषंत सर्व एव प्रहर्षिताः

॥५२॥

सवितः स्नाहि तीर्थेऽ स्मिंस्तव पाणी भविष्यतः ॥

अष्टावक्रो यथा प्राह तथा कुरु समाहितः

॥५३॥

ततः स सविता गत्वा चक्रतीर्थं महत्तरम् ॥

सस्नौ पाण्योरवाप्त्यर्थमिष्टदायिनि तत्र सः

॥५४॥

उत्तिष्ठन्नेव स तदा तत्र स्नात्वा सभक्तिकम् ॥

युक्तो हिरण्मयाभ्यां तु पाणिभ्यां समदृश्यत

॥५५॥

हिरण्यपाणिं तं दृष्ट्वा जहृषुः सर्वऋत्विजः ॥

ततः समाप्य तं यज्ञं दैत्यसंघान्विजित्य च

॥५६॥

इंद्रादयः सुराः सर्वे सुखिताः स्वर्गमाययुः ॥

तस्मादेतत्समागत्य तीर्थं सर्वैश्च मानवैः

॥५७॥

सेवनीयं प्रयत्नेन स्वस्वाभीष्टस्य सिद्धये ॥

अंधैश्च कुणिभिर्मूकैर्बधिरैः कुब्जकैरपि

॥५८॥

खंजैः पंगुभिरप्येतदंगहीनैस्तथापरैः ॥

संछिन्नपाणिचरणैः संछिन्नान्यांगसंचयैः

॥५९॥

मनुष्यैश्च तथान्यैश्च विकलांगस्य पूर्तये ॥

सेवनीयमिदं तीर्थं सर्वाभीष्टप्रदायकम्

॥६०॥

एवं वः कथितं विप्राश्चक्रतीर्थस्य वैभवम् ॥

यत्र स्नात्वा पुरा छिन्नौ पाणी प्राप प्रभाकरः

॥६१॥

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥

अंगानि विकलान्यस्य पूर्णानि स्युर्न संशयः

॥६२॥

मोक्षकामस्य मर्त्यस्य मुक्तिः स्यान्नात्र संशयः

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥