गायत्रीसरस्वतीसन्निधानकथनम्
श्रीसूत उवाच
अथातः संप्रवक्ष्यामि मुनयो लोकपावनम् ॥
गायत्र्या च सरस्वत्या माहात्म्यं मुक्तिदं नृणाम्
॥१॥शृण्वतां पठतां चैव महापातकनाशनम् ॥
महापुण्यप्रदं पुंसा नरकक्लेशनाशनम्
॥२॥गायत्र्यां च सरस्वत्यां ये स्नांति मनुजा मुदा ॥
न तेषां गर्भवासः स्यात्किं तु मुक्तिर्भवेद्ध्रुवम्
॥३॥सरस्वत्याश्च गायत्र्या गन्धमादनपर्वते ॥
ब्रह्मपत्न्योः सन्निधानात्तन्नाम्ना कथिते इमे
॥४॥ऋषय ऊचुः
गायत्र्याश्च सरस्वत्या गन्धमादनपर्वते ॥
किमर्थं संनिधानं वै सूताभूत्तद्वदस्व नः
॥५॥सूत उवाच
प्रजापतिः पुरा विप्राः स्वां वै दुहितरं मुदा ॥
वाङ्नाम्नीं कामुको भूत्वा स्पृहयामास मोहनः
॥६॥अथ प्रजापतेः पुत्री स्वस्मिन्वै तस्य कामिताम् ॥
विलोक्य लज्जिता भूत्वा रोहिद्रूप दधार सा
॥७॥ब्रह्मापि हरिणो भूत्वा तया रन्तुमनास्तदा ॥
गच्छतीमनुयातिस्म हरिणीरूपधारिणीम्
॥८॥तं दृष्ट्वा देवताः सर्वाः पुत्रीगमनसादरम् ॥
करोत्यकार्यं ब्रह्मायं पुत्रीगमनलक्षणम्
॥९॥इति निन्दंति तं विप्राः स्रष्टारं जगतां पतिम् ॥
निषिद्धकृत्यनिरतं तं दृष्ट्वा परमेष्ठिनम्
॥१०॥हरः पिनाकमादाय व्याधरूपधरः प्रभुः ॥
आकर्णपूर्ण कृष्टेन पिनाकधनुषा शरम्
॥११॥संयोज्य वेधसं तेन विव्याध निशितेन सः ॥
त्रिपुरांतक बाणेन विद्धोऽसौ न्यपतद्भुवि
॥१२॥तस्य देहादथोत्थाय महज्ज्योतिर्महाप्रभम् ॥
आकाशे मृगशीर्षाख्यं नक्षत्रमभवत्तदा
॥१३॥आर्द्रानक्षत्ररूपी सन्हरोऽप्यनुजगाम तम् ॥
पीडयन्मृगशीर्षाख्यं नक्षत्रं ब्रह्मरूपिणम्
॥१४॥अधुनापि मृगव्याधरूपेण त्रिपुरांतकः ॥
अंबरे दृश्यते स्पष्टं मृगशीर्षांतिके द्विजाः
॥१५॥एवं विनिहते तस्मिञ्च्छंभुना परमेष्ठिनि ॥
अनंतरं तु गायत्रीसरस्वत्यौ शुचार्पिते
॥१६॥भर्तृहीने मुनिश्रेष्ठा भर्तृजीवनकांक्षया ॥
किं करिष्यावहे ह्यावामित्यन्योयं विचार्य तु
॥१७॥स्वपतिप्राणसिद्ध्यर्थं गायत्री च सरस्वती ॥
सर्वोत्कृष्टं शिवस्थानं गन्धमादनपर्वतम्
॥१८॥सर्वाभीष्टप्रदं पुंसां तपः कर्तुं समुद्यते ॥
जग्मतुर्नियमोपेतं तपः कर्तुं शिवं प्रति
॥१९॥स्नानार्थमात्मनो विप्रा गायत्री च सरस्वती ॥
तीर्थद्वयं स्वनाम्ना वै चक्रतुः पापनाशनम्
॥२०॥तत्र त्रिषवणस्नानं प्रत्यहं चक्रतुर्मुदा ॥
बहुकालमनाहारे कामक्रोधादिवर्जिते
॥२१॥अत्युग्रनियमो पेते शिवध्यानपरायणे ॥
पंचाक्षरमहामन्त्रजपैकनियते शुभे
॥२२॥स्वपतेर्जीवनार्थं वै गायत्री च सरस्वती ॥
महादेवं समुद्दिश्य तप एवं प्रचक्रतुः
॥२३॥तयोरथ तपस्तुष्टो महादेवो महेश्वरः ॥
सन्निधत्ते महामूर्तिस्तपसां फलदित्सया
॥२४॥ततः सन्निहितं शंभुं पार्वतीरमणं शिवम् ॥
गणेशकार्त्तिकेयाभ्यां पार्श्वयोः परिसेवितम
॥२५॥दृष्ट्वा संतुष्टचित्ते ते गायत्री च सरस्वती ॥
स्तोत्रैस्तुष्टुवतुः स्तुत्यं महादेवं घृणा निधिम्
॥२६॥गायत्रीसरस्वत्यावूचतुः
नमो दुर्वारसंसारध्वांतध्वंसैकहेतवे ॥
ज्वलज्ज्वालावलीभीमकालकूटविषादिने
॥२७॥जगन्मोहन पंचास्त्रदेहनाथैकहेतवे ॥
जगदंतकरक्रूर यमांतक नमोऽस्तु ते
॥२८॥गंगातरंगसंपृक्तजटामण्डलधारिणे ॥
नमस्तेस्तु विरूपाक्ष बाल शीतांशुधारिणे
॥२९॥पिनाकभीमटंकारत्रासितत्रिपुरौकसे ॥
नमस्ते विविधाकारजगत्स्रष्टृशिरश्छिदे
॥३०॥शांतामलकृपादृष्टिसंरक्षितमृ कण्डुज ॥
नमस्ते गिरिजानाथ रक्षावां शरणागते
॥३१॥महादेव जगन्नाथ त्रिपुरांतक शंकर ॥
वामदेव महादेव रक्षावां शरणागते
॥३२॥इति ताभ्यां स्तुतः शम्भुर्देवदेवो महेश्वरः ॥
अब्रवीत्प्रीतिसंयुक्तो गायत्रीं च सरस्वतीम्
॥३३॥महादेव उवाच
भोः सरस्वति गायत्रि प्रीतोऽस्मि युवयोरहम् ॥
वरं वरयतं मत्तो यद्वा मनसि वर्तते
॥३४॥इत्युक्ते ते तु गायत्रीसरस्वत्यौ हरेण वै ॥
अब्रूतां पार्वतीकांतं महादेवं घृणानिधिम्
॥३५॥गायत्रीसरस्वत्यावूचतुः
भगन्नावयोर्देव भर्त्तारं चतुराननम् ॥
सप्राणं कुरु सर्वेश कृपया करुणाकर
॥३६॥त्वमावयोः पिता देव तवाप्यावां सुते उभे ॥
रक्षावां पतिदानेन तस्मात्त्वं त्रिपुरांतक
॥३७॥स एवं प्रार्थितः शम्भुस्ताभ्यां ब्राह्मणपुंगवाः ॥
एवमस्त्विति संप्रोच्य गायत्रीं च सरस्वतीम्
॥३८॥तदेव वेधसः कायं शिरसा योक्तुमुत्सुकः ॥
तत्रैव वेधसः कायं शिरोभिः सहसुव्रताः
॥३९॥भूतैरानाययामास नंदिभृंगिमुखैस्तदा ॥
शिरांसि तान्यनेकानि कायेन सह शंकरः
॥४०॥क्षणात्संधारयामास वाणीगायत्रिसंनिधौ ॥
संधितोऽथ हरेणासौ चतुर्वक्त्रो जगत्पतिः
॥४१॥उत्तस्थौ तत्क्षणादेव सुप्तोत्थित इव द्विजाः ॥
ततः प्रजापतिर्दृष्ट्वा शंकरं शशिभूषणम् ॥
तुष्टाव वाग्भिरग्र्याभिर्भार्याभ्यां च समन्वितः
॥४२॥ब्रह्मोवाच
नमस्ते देवदेवेश करुणाकर शंकर
॥४३॥पाहि मां करुणासिंधो निषिद्धाचरणात्प्रभो ॥
मम त्वत्कृपया शंभो निषिद्धाचरणे क्वचित्
॥४४॥मा प्रवृत्तिर्भवेद्भूयो रक्ष मां त्वं तथा सदा ॥
तथैवास्त्विति संप्राह ब्रह्माणं गिरिजापतिः
॥४५॥इतः परं प्रमादं त्वं मा कुरुष्व विधे पुनः ॥
उत्पथं प्रतिपन्नानां पुंसां शास्तास्मि सर्वदा
॥४६॥एवमुक्त्वा चतुर्वक्त्रं महादेवो द्विजोत्तमाः ॥
सरस्वतीं च गायत्रीं प्रोवाच प्रीणयन्गिरा
॥४७॥महादेव उवाच
युवयोर्मत्प्रसादेन हे गायत्रि सरस्वति ॥
अयं भर्ता समायातः सप्राणश्चतुराननः
॥४८॥सहानेन ब्रह्मलोकं यातं मा भूद्विलंबता ॥
युवयोः संनिधानेन सदा कुंडद्वयेऽत्र वै
॥४९॥भविष्यति नृणां मुक्तिः स्नानात्सायुज्यरूपिणी ॥
युष्मन्नाम्ना च गायत्रीसर स्वत्याविति द्वयम्
॥५०॥इदं तीर्थं सर्वलोके ख्यातिं यास्यति शाश्वतीम् ॥
सर्वेषामपि तीर्थानामिदं तीर्थद्वयं सदा
॥५१॥शुद्धिप्रदं तथा भूयान्महापातकनाशनम् ॥
महाशांतिकरं पुंसां सर्वाभीष्टप्रदायकम्
॥५२॥मम प्रसादजननं विष्णुप्रीतिकरं तथा ॥
एतत्तीर्थद्वयसमं न भूतं न भविष्यति
॥५३॥अत्र स्नानाद्धि सर्वेषां सर्वाभीष्टं भविष्यति ॥
इदं कुंडद्वयं लोके भवतीभ्यां कृतं महत्
॥५४॥युष्मन्नाम्ना प्रसिद्धं च भविष्यति विमुक्तिदम् ॥
गायत्र्युपास्तिरहिता वेदाभ्यासविवर्जिताः
॥५५॥औपासनविहीनाश्च पंचयज्ञविवर्जिताः ॥
युष्मत्कुंडद्वये स्नानात्तत्त त्फलमवाप्नुयुः
॥५६॥अन्ये च ये पातकिनो नित्यानुष्ठानवर्जिताः ॥
स्नात्वा कुंडद्वये तत्र शुद्धाः स्युर्द्विजसत्तमाः
॥५७॥सरस्वतीं च गाय त्रीमेवमुक्त्वा महेश्वरः ॥
क्षणादंतरधात्तत्र सर्वेषामेव पश्यताम्
॥५८॥पतिं लब्ध्वाऽथ गायत्रीसरस्वत्यौ मुदान्विते ॥
तेन साकं ब्रह्मलोकं जग्म तुर्द्विजसत्तमाः
॥५९॥श्रीसूत उवाच
एवं वः कथितं विप्रा गंधमादनपर्वते ॥
संनिधानं सरस्वत्या गायत्र्याश्च सहेतुकम्
॥६०॥यः शृणोतीममध्यायं पठते वा सभक्तिकम् ॥
एतत्तीर्थद्वयस्नानफलमाप्नोत्यसंशयः
॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहि तायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां गंधमादने गायत्रीसरस्वतीसन्निधानकथनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥