मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४९

3
ब्रह्मखण्डः · सेतुखण्डः · 49

अथातः संप्रवक्ष्यामि रामनाथस्य शूलिनः

श्रीसूत उवाच

अथातः संप्रवक्ष्यामि रामनाथस्य शूलिनः ॥

स्तोत्राध्यायं महापुण्यं शृणुत श्रद्धया द्विजाः

॥१॥

रामः प्रतिष्ठिते लिंगे तुष्टाव परमेश्वरम् ॥

लक्ष्मणो जानकी सीता सुग्रीवाद्याः कपीश्वराः

॥२॥

ब्रह्मप्रभृतयो देवाः कुम्भजाद्या महर्षयः ॥

अस्तुवन्भक्तिसंयुक्ताः प्रत्येकं राघवेश्वरम्

॥३॥

तद्वक्ष्याम्यानुपूर्व्येण शृणुतादरपूर्वकम् ॥

एतच्छ्रवणमात्रेण मुक्तः स्या न्मानवो द्विजाः

॥४॥

श्रीराम उवाच

नमो महात्मने तुभ्यं महामायाय शूलिने ॥

स्वपदांबुजभक्तार्तिहारिणे सर्प हारिणे

॥५॥

नमो देवाधिदेवाय रामनाथाय साक्षिणे ॥

नमो वेदांतवेद्याय योगिनां तत्त्वदायिने

॥६॥

सर्वदानंदपूर्णाय विश्वनाथाय शंभवे ॥

नमो भक्तभयच्छेदहेतुपादाब्जरेणवे

॥७॥

नमस्तेऽखिलनाथाय नमः साक्षात्परात्मने ॥

नमस्तेऽद्भुतवीर्याय महापातकनाशिने

॥८॥

कालकालाय कालाय कालातीताय ते नमः ॥

नमोऽविद्यानिहंत्रे ते नमः पापहराय च

॥९॥

नमः संसारतप्तानां तापनाशैकहेतवे ॥

नमो मद्ब्रह्महत्याविनाशिने च विषाशिने

॥१०॥

नमस्ते पार्वतीनाथ कैलासनिलयाव्यय ॥

गंगाधर विरूपाक्ष मां रक्ष सकलापदः

॥११॥

तुभ्यं पिनाकहस्ताय नमो मदनहारिणे ॥

भूयोभूयो नमस्तुभ्यं सर्वावस्थासु सर्वदा

॥१२॥

लक्ष्मण उवाच

नमस्ते रामनाथाय त्रिपुरघ्नाय शंभवे ॥

पार्वतीजीवितेशाय गणेशस्कन्दसूनवे

॥१३॥

नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ॥

नमः शिवाय सोमाय मार्कंडेय भयच्छिदे

॥१४॥

नमः सर्वप्रपंचस्य सृष्टिस्थित्यंतहेतवे ॥

नम उग्राय भीमाय महादेवाय साक्षिणे

॥१५॥

सर्वज्ञाय वरेण्याय वरदाय वराय ते ॥

श्रीकण्ठाय नमस्तुभ्यं पंचपातकभेदिने

॥१६॥

नमस्तेऽस्तु परानंदसत्यविज्ञानरूपिणे ॥

नमस्ते भवरोगघ्न स्नायूनां पतये नमः

॥१७॥

पतये तस्कराणां ते वनानां पतये नमः ॥

गणानां पतये तुभ्यं विश्वरूपायसाक्षिणे

॥१८॥

कर्मणा प्रेरितः शम्भो जनिष्ये यत्रयत्र तु ॥

तत्रतत्र पदद्वंद्वे भवतो भक्तिरस्तु मे

॥१९॥

असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ॥

वैदिकाचारमार्गे च रतिः स्याद्भवते नमः

॥२०॥

सीतोवाच

परमकारण शंकर धूर्जटे गिरिसुतास्तनकुंकुमशोभित ॥

मम पतौ परिदेहि मतिं सदा न विषमां परपूरुषगोचराम्

॥२१॥

गंगाधर विरूपाक्ष नीललोहित शंकर ॥

रामनाथ नमस्तुभ्यं रक्ष मा करुणाकर

॥२२॥

नमस्ते देवदेवेश नमस्ते करुणालय ॥

नमस्ते भवभीतानां भवभीतिविमर्दन

॥२३॥

नाथ त्वदीयचरणांबुजचिंतनेन निर्द्धूय भास्करसुताद्भयमाशु शम्भो ॥

नित्यत्वमाशु गतवान्स मृकंडुपुत्रः किं वा न सिध्यति तवाश्रयणात्परेश

॥२४॥

परेशपरमानंद शरणागतपालक ॥

पातिव्रत्यं मम सदा देहि तुभ्यं नमोनमः

॥२५॥

हनूमानुवाच

देवदेव जगन्नाथ रामनाथ कृपानिधे ॥

त्वत्पादांभोरुहगता निश्चला भक्तिरस्तु मे

॥२६॥

यं विना न जगत्सत्ता तद्भानमपि नो भवेत् ॥

नमः सद्भानरूपाय रामनाथाय शंभवे

॥२७॥

अंगद उवाच

यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् ॥

न भासते नमस्तस्मै रामनाथाय शंभवे

॥२८॥

जांबुवानुवाच

सर्वानंदो यदानंदो भासते परमार्थतः ॥

नमो रामेश्वरायास्मै परमानंदरूपिणे

॥२९॥

नील उवाच

यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ॥

तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे

॥३०॥

नल उवाच

ब्रह्मविष्णुमहेशाना यदविद्याविजृंभिताः ॥

नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते

॥३१॥

कुमुद उवाच

यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः ॥

कल्पितं कारणायास्मै रामनाथाय शंभवे

॥३२॥

पनस उवाच

जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृंभितम् ॥

जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे

॥३३॥

गज उवाच

यत्स्वरूपापरिज्ञानात्कार्याणां परमा णवः ॥

कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा

॥३४॥

तमहं परमानंदं रामनाथं महेश्वरम् ॥

आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम्

॥३५॥

गवाक्ष उवाच

अज्ञानपाशबद्धानां पशूनां पाशमोचकम् ॥

रामेश्वरं शिवं शांतमुपैमि शरणं सदा

॥३६॥

गवय उवाच

साध्वस्तजगदाधारं चंद्रचूडमुमापतिम् ॥

रामनाथं शिवं वन्दे संसारामयभेषजम्

॥३७॥

शरभ उवाच

अंतःकरणमात्मेति यदज्ञानाद्विमोहितैः ॥

भण्यते रामनाथं तमात्मानं प्रणमाम्यहम्

॥३८॥

गन्धमादन उवाच

रामनाथमुमानाथं गणनाथं च त्र्यंबकम् ॥

सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम्

॥३९॥

सुग्रीव उवाच

संसारांभोधि मध्ये मां जन्ममृत्युजले भये ॥

पुत्रदारधनक्षेत्रवीचिमालासमाकुले

॥४०॥

मज्जद्ब्रह्मांडखंडे च पतितं नाप्तपारकम् ॥

क्रोशंतमवशं दीनं विषयव्या लकातरम्

॥४१॥

व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिदम् ॥

मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते

॥४२॥

विभीषण उवाच

संसारवनमध्ये मां विनष्टनिजमार्गके ॥

व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे

॥४३॥

बाल्ययौवनवार्धक्यमहाभीमांधकूपके ॥

क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते

॥४४॥

त्रासभूकंटकाढ्ये च सीदंतमधुनांधकम् ॥

शोभनां पदवीं शंभो नय रामेश्वराधुना

॥४५॥

सर्वे वानरा ऊचुः

निंद्यानिंद्येषु सर्वत्र जनित्वा योनिषु प्रभो ॥

कुंभीपाकादिनरके पतित्वा च पुनस्तथा

॥४६॥

जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते ॥

संसारे पतितानस्मान्रामनाथ दयानिधे

॥४७॥

अनाथान्विवशान्दीनान्क्रोशतः पाहि शंकर ॥

नमस्तेस्तु दयासिंधो रामनाथ महेश्वर

॥४८॥

ब्रह्मोवाच

नमस्ते लोकनाथाय रामनाथाय शंभवे ॥

प्रसीद मम सर्वेश मदविद्यां विनाशय

॥४९॥

इंद्र उवाच

यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥

तमहं शंकरं वंदे रामनाथमुमापतिम्

॥५०॥

यम उवाच

पुत्रौ गणेश्वरस्कंदौ वृषो यस्य च वाहनम् ॥

तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये

॥५१॥

वरुण उवाच

यस्य पूजाप्रभावेन जित मृत्युर्मृकंडुजः ॥

मृत्युंजयमुपासेऽहं रामनाथं हृदा तु तम्

॥५२॥

कुबेर उवाच

ईश्वराय लसत्कर्णकुंडलाभरणाय ते ॥

लाक्षारुणशरीराय नमो रामेश्वराय वै

॥५३॥

आदित्य उवाच

नमस्तेऽस्तु महादेव रामनाथ त्रियंबक ॥

दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव

॥५४॥

सोम उवाच

नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ॥

रामनाथ दयांभोधे स्मशाननिलयाय ते

॥५५॥

अग्निरुवाच

इन्द्राद्यखिलदिक्पालसंसेवितपदांबुज ॥

रामनाथाय शुद्धाय नमो दिग्वाससे सदा

॥५६॥

वायुरुवाच

हराय हरिरूपाय व्याघ्रचर्मांबराय च ॥

रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव

॥५७॥

बृहस्पतिरुवाच

अहंतासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ॥

रामनाथ ममाज्ञानमाशु नाशय ते नमः

॥५८॥

शुक्र उवाच

वंचकानामलभ्याय महामंत्रार्थरूपिणे ॥

नमो द्वैतविहीनाय रामनाथाय शंभवे

॥५९॥

अश्विनावूचतुः

आत्मरूपतया नित्यं योगिनां भासते हृदि ॥

अनन्य भानवेद्याय नमस्ते राघवेश्वर

॥६०॥

अगस्त्य उवाच

आदिदेव महादेव विश्वेश्वर शिवाव्यय ॥

रामनाथांबिकानाथ प्रसीद वृष भध्वज

॥६१॥

अपराधसहस्रं मे क्षमस्व विधुशेखर ॥

ममाहमिति पुत्रादावहंतां मम मोचय

॥६२॥

सुतीक्ष्ण उवाच

क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ॥

नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम्

॥६३॥

विश्वामित्र उवाच

श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ॥

त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य

॥६४॥

गालव उवाच

दानानि यज्ञा नियमास्तपांसि गंगादितीर्थेषु निमज्जनानि ॥

रामेश्वरं त्वां न नमंति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र

॥६५॥

वसिष्ठ उवाच

कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ॥

नमेत चेत्तानि लयं व्रजेयुर्यथांधकारो रवितेजसाऽद्धा

॥६६॥

अत्रिरुवाच

दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवंतमीशम् ॥

पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम्

॥६७॥

अंगिरा उवाच

यो रामनाथं मनुजो भवंतमुपेत्य बंधून्प्रणमन्स्मरेत ॥

संतारयेत्तानपि सर्वपापात्किम द्भुतं तस्य कृतार्थतायाम्

॥६८॥

गौतम उवाच

श्रीरामनाथेश्वर गूढमेत्तद्रहस्यभूतं परमं विशोकम् ॥

त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वंति हि तेऽपि धन्याः

॥६९॥

शतानंद उवाच

वेदांतविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ॥

शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ

॥७०॥

भृगुरुवाच

रामनाथ तव पादपंकजं द्वंद्वचिंतनविधूतकल्मषः ॥

निर्भयं व्रजति सत्सुखाद्वयं सुप्रभं त्वथ अमोघचिद्धनम्

॥७१॥

कुत्स उवाच

रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ॥

रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः

॥७२॥

काश्यप उवाच

रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ॥

वेदशास्त्र जपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम्

॥७३॥

श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रांतिकाले भवान्या च साकम् ॥

मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम्

॥७४॥

गन्धर्वा ऊचुः

रामनाथ त्वमस्माकं भजतां भवसागरे ॥

अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः

॥७५॥

किन्नरा ऊचुः

रामनाथ भवारण्ये व्याधिव्याघ्रभयानके ॥

त्वामंतरेण नास्माकं पदवीदर्शको भवेत्

॥७६॥

यक्षा ऊचुः

रामनाथेंद्रियारातिबाधा नो दुःसहा सदा ॥

तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे

॥७७॥

नागा ऊचुः

अचिन्त्यमहिमानं त्वा रामनाथ वयं कथम् ॥

स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते

॥७८॥

किंपुरुषा ऊचुः

नानायोनौ च जननं मरणं चाप्यनेकशः ॥

विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते

॥७९॥

विद्याधरा ऊचुः

अंबिकापतये तुभ्यमसंगाय महात्मने ॥

नमस्ते रामनाथाय प्रसीद वृषभध्वज

॥८०॥

वसव ऊचुः

रामनाथगणेशाय गणवृंदार्चितांघ्रये ॥

गंगाधराय गुह्याय नमस्ते पाहि नः सदा

॥८१॥

विश्वेदेवा ऊचुः

ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् ॥

रामनाथाय सांबाय नमोऽस्मान्रक्ष शंकर

॥८२॥

मरुत ऊचुः

परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः ॥

नमस्ते रामनाथाय स्वयंभानाय शंभवे

॥८३॥

साध्या ऊचुः

स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने ॥

रामेश्वराय देवाय नमोऽविद्या विभेदिने

॥८४॥

सर्वे देवा ऊचुः

सच्चिदानंदसंपूर्णं द्वैतवस्तुविवर्जितम् ॥

ब्रह्मात्मानं स्वयंभानमादिमध्यांतवर्जितम्

॥८५॥

अविक्रियमसंगं च परिशुद्धं सनातनम् ॥

आकाशादिप्रपंचानां साक्षिभूतं परामृतम्

॥८६॥

प्रमातीतं प्रमाणानामपि बोधप्रदायिनम् ॥

आविर्भावतिरोभाव संकोचरहितं सदा

॥८७॥

स्वस्मिन्नध्यस्तरूपस्य प्रपंचस्यास्य साक्षिणम् ॥

निर्लेपं परमानंदं निरस्तसकलक्रियम्

॥८८॥

भूमानंदं महात्मानं चिद्रूपं भोगवर्जितम् ॥

रामनाथं वयं सर्वे स्वपातकविशुद्धये

॥८९॥

चिन्तयामः सदा चित्ते स्वात्मानंदबुभुत्सवः ॥

रक्षास्मान्करुणासिन्धो राम नाथ नमोऽस्तु ते

॥९॥

रामनाथाय रुद्राय नमः संसारहारिणे ॥

ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया

॥९१॥

विभीषणसचिवा ऊचुः

वरदाय वरेण्याय त्रिनेत्राय त्रिशूलिने ॥

योगिध्येयाय नित्याय रामनाथाय ते नमः

॥९२॥

सूत उवाच

इति रामादिभिः सर्वैः स्तुतो रामेश्वरः शिवः ॥

प्राह सर्वान्समाहूय रामादीन्द्विजसत्तमाः

॥९३॥

रामराम महाभाग जानकीरमण प्रभो ॥

सौमित्रे जानकि शुभे हे सुग्रीव मुखास्तथा

॥९४॥

अन्ये ब्रह्ममुखा यूयं शृणुध्वं सुसमास्थिताः ॥

स्तोत्राध्यायमिमं पुण्यं युष्माभिः कृतमादरात्

॥९५॥

ये पठंति च शृण्वंति श्रावयंति च मानवाः ॥

मदर्चनफलं तेषां भविष्यति न संशयः

॥९६॥

रामचंद्रधनुष्कोटिस्नानपुण्यं च वै भवेत् ॥

वर्षमेकं रामसेतौ वासपुण्यं भविष्यति

॥९७॥

गन्धमादनमध्यस्थसर्वर्तीर्थाभिमज्जनात् ॥

यत्पुण्यं तद्भवेत्तेन नात्र संशयकारणम्

॥९८॥

उक्त्वैवं रामनाथोऽपि स्वात्मलिंगे तिरोदधे ॥

स्तोत्राध्यायमिमं पुण्यं नित्यं संकीर्तयन्नरः

॥९९॥

जरामरणनिर्मुक्तो जन्मदुःखविवर्जितः ॥

रामनाथस्य सायुज्यमुक्तिं प्राप्नोत्यसंशयः

॥१००॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामादिभी रामनाथस्तोत्रकथनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥