भूयोऽप्यहं प्रवक्ष्यामि सेतुमुद्दिश्य वैभवम्
श्रीसूत उवाच
भूयोऽप्यहं प्रवक्ष्यामि सेतुमुद्दिश्य वैभवम् ॥
युष्माकमादरेणाहं शृणुध्वं मुनिपुंगवाः
॥१॥स्थानानामपि सर्वेषामेतत्स्थानं महत्तरम् ॥
अत्र जप्तं हुतं तप्तं दत्तं चाक्षय मुच्यते
॥२॥अस्मिन्नेव महास्थाने धनुष्कोटौ निमज्जनात् ॥
वाराणस्यां दशसमावासपुण्यफलं भवेत्
॥३॥तस्मिंस्थले धनुष्कोटौ स्नात्वा रामेश्वरं शिवम् ॥
दृष्ट्वा नरो भक्तियुक्तस्त्रिदिनानि वसेद्द्विजाः
॥४॥पुण्डरीकपुरे तेन दशवत्सरवासजम् ॥
पुण्यं भवति विप्रेंद्रा महापातकनाश नम्
॥५॥अष्टोत्तरसहस्रं तु मंत्रमाद्यं षडक्षरम् ॥
अत्र जप्त्वा नरो भक्त्या शिवसायुज्यमाप्नुयात्
॥६॥मध्यार्जुने कुंभकोणे मायूरे श्वेतकानने ॥
हालास्ये च गजारण्ये वेदारण्ये च नैमिषे
॥७॥श्रीपर्वते च श्रीरंगे श्रीमद्वृद्धगिरौ तथा ॥
चिदंबरे च वल्मीके शेषाद्रावरुणाचले
॥८॥श्रीमद्दक्षिणकैलासे वेंकटाद्रौ हरिस्थले ॥
कांचीपुरे ब्रह्मपुरे वैद्येश्वरपुरे तथा
॥९॥अन्यत्रापि शिवस्थाने विष्णुस्थाने च सत्तमाः ॥
वर्षवासभवं पुण्यं धनुष्कोटौ नरो मुदा
॥१०॥माघमासे यदि स्नायादाप्नोत्येव न संशयः ॥
इमं सेतुं समुद्दिश्य द्वौ समुद्राविति श्रुतिः
॥११॥विद्यते ब्राह्मणश्रेष्ठा मातृभूता सनातनी ॥
अदो यद्दारुरित्यन्या यत्रास्ति मुनिपुंगवाः
॥१२॥विष्णोः कर्माणि पश्यंती सेतुवैभवशंसिनी ॥
श्रुतिरस्ति तथान्यापि तद्विष्णोरिति चापरा
॥१३॥इतिहासपुराणानि स्मृतयश्च तपोधनाः ॥
एकवाक्यतया सेतुमाहात्म्यं प्रबुवंति हि
॥१४॥चंद्रसूर्योपरागेषु कुर्व न्सेत्ववगाहनम् ॥
अविमुक्ते दशाब्दं तु गंगास्नानफलं लभेत्
॥१५॥कोटिजन्मकृतं पापं तत्क्षणेनैव नश्यति ॥
अश्वमेधसहस्रस्य फलमाप्नोत्य नुत्तमम्
॥१६॥विषुवायनसंक्रांतौ शशिवारे च पर्वणि ॥
सेतुदर्शनमात्रेण सप्तजन्मार्जिताशुभम्
॥१७॥नश्यते स्वर्गतिं चैव प्रयांति द्विजपुंगवाः ॥
मकरस्थे रवौ माघे किंचिदभ्युदिते रवौ
॥१८॥स्नात्वा दिनत्रयं मर्त्यो धनुष्कोटौ विपातकः ॥
गंगादिसर्वतीर्थेषु स्नानपुण्यमवाप्नुयात्
॥१९॥धनुष्कौटौ नरः कुर्यात्स्नानं पंचदिनेषु यः ॥
अश्वमेधादिपुण्यं च प्राप्नुयाद्ब्राह्मणोत्तमाः
॥२०॥चांद्रायणादिकृच्छ्राणामनुष्ठानफलं लभेत् ॥
चतुर्णामपि वेदानां पारायणफलं तथा
॥२१॥माघमासे दशाहःसु धनुष्कोटौ निमज्जनात् ॥
ब्रह्महत्यायुतं नश्येन्नात्र कार्या विचारणा
॥२२॥माघमासे धनुष्कोटौ दशपंचदिनानि यः ॥
स्नानं करोति मनुजः स वैकुंठमवाप्नुयात्
॥२३॥माघमासे रामसैतौ स्नानं विंशद्दि नं चरन् ॥
शिवसामीप्यमाप्नोति शिवेन सह मोदते
॥२४॥पंचविंशद्दिनं स्नानं कुर्वन्सारूप्यमाप्नुयात् ॥
स्नानं त्रिंशद्दिनं कुर्वन्सायुज्यं लभते ध्रुवम्
॥२५॥अतोऽवश्यं रामसेतौ माघमासे द्विजोत्तमाः ॥
स्नानं समाचरेद्विद्वान्किंचिदभ्युदिते रवौ
॥२६॥चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः ॥
महोदये रामसेतौ स्नानं कुर्वन्द्विजोत्तमाः
॥२७॥अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति ॥
ब्रह्महत्यादिपापानां नाशकं च प्रकीर्तितम्
॥२८॥सर्वेषां नरकाणां च बाधकं परिकीर्तितम् ॥
संपदामपि सर्वासां निदानं परिकीर्तितम्
॥२९॥इन्द्रादिसर्वलोकानां सालोक्यादिप्रदं तथा ॥
चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः
॥३०॥महोदये धनुष्कोटौ मज्जनं त्वतिनिश्चितम् ॥
रावणस्य विनाशार्थं पुरा रामेण निर्मि तम्
॥३१॥सिद्धचारणगंधर्वकिन्नरोरगसेवितम् ॥
ब्रह्मदेवर्षिराजर्षिपितृसंघनिषेवितम्
॥३२॥ब्रह्मादिदेवतावृंदैस्सेवितं भक्तिपूर्वकम् ॥
पुण्यं यो रामसेतुं वै संस्मरन्पुरुषो द्विजाः
॥३३॥स्नायाच्च यत्र कुत्रापि तटाकादौ जलाशये ॥
न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन
॥३४॥सेतुमध्यस्थतीर्थेषु मुष्टिमात्रप्रदानतः ॥
नश्यंति सकला रोगा भ्रूणहत्यादयस्तथा
॥३५॥रामेण धनुषः पुण्यां यो रेखां पश्यते कृताम् ॥
न तस्य पुनरावृत्तिर्वैकुंठात्स्यात्कदाचन
॥३६॥धनुष्कोटिरिति ख्याता या लोके पापनाशिनी ॥
विभीषणप्रार्थनया कृता रामेण धीमता
॥३७॥धनुष्कोटिर्महापुण्या तस्यां स्नात्वा सभक्तिकम् ॥
दद्याद्दानानि वित्तानां क्षेत्राणां च गवां तथा
॥३८॥तिलानां तंडुलानां च धान्यानां पयसां तथा ॥
वस्त्राणां भूषणानां च माषाणामोदनस्य च
॥३९॥दध्नां घृतानां वारीणां शाकानामप्युदश्विताम् ॥
शुद्धानां शर्कराणां च सस्यानां मधुनां तथा
॥४०॥मोदकानामपूपानामन्येषां दानमेवच ॥
रामसेतौ द्विजाः प्रोक्तं सर्वाभीष्टप्रदायकम्
॥४१॥अतो दद्याद्रामसेतौ वित्तलोभ विवर्जितः ॥
दत्तं हुतं च तप्तं च जपश्च नियमादिकम्
॥४२॥श्रीरामधनुषः कोटावनंतफलदं भवेत् ॥
तेन वेदाश्च तुष्यंति तुष्यंति पितरस्तथा
॥४३॥तुष्यंति मुनयः सर्वे ब्रह्माविष्णुः शिवस्तथा ॥
नागाः किंपुरुषा यक्षाः सर्वे तुष्यंति निश्चितम्
॥४४॥स्वयं च पूतो भवति धनुष्कोट्यवलो कनात् ॥
स्ववंशजान्नरान्सर्वान्पावयेच्च पितामहान्
॥४५॥तारयेच्च कुलं सर्वं धनुष्कोट्यवलोकनात् ॥
रामस्य धनुषः कोट्या कृतरेवावगाहनात्
॥४६॥पंचपातककोटीनां नाशः स्यात्तत्क्षणे ध्रुवम् ॥
श्रीरामधनुषः कोट्या रेखां यः पश्यते कृताम्
॥४७॥अनेकक्लेशसंपूर्णं गर्भवासं न पश्यति ॥
यत्र सीताऽनलं प्राप्ता तस्मिन्कुंडे निमज्जनात्
॥४८॥भ्रूणहत्याशतं विप्रा नश्यति क्षणमात्रतः ॥
यथा रामस्तथा सेतुर्यथा गंगा तथा हरिः
॥४९॥गंगे हरे रामसेतो त्विति संकीर्तयन्नरः ॥
यत्र क्वापि बहिः स्नायात्तेन याति परां गतिम्
॥५०॥सेतावर्धोदये स्नात्वा गन्धमादनपर्वते ॥
पितॄनुद्दिश्य यः पिंडान्दद्यात्सर्षपमात्रकान्
॥५१॥पितरस्तृप्तिमायांति यावच्चंद्रदिवाकरौ ॥
शमीपत्रप्रमाणं तु पितॄनुद्दिश्य भक्तितः
॥५२॥द्विजेन पिण्डं दत्तं चेत्सर्वपापविमोचितः ॥
स्वर्गस्थो मुक्तिमायाति नरकस्थो दिवं व्रजेत्
॥५३॥सेतौ च पद्मनाभे च गोकर्णे पुरुषोत्तमे ॥
उदन्वदंभसि स्नानं सार्वकालिकमीप्सितम्
॥५४॥शुक्रांगारकसौरीणां वारेषु लवणांभसि ॥
संतानकामी न स्नाया त्सेतोरन्यत्र कर्हिचित्
॥५५॥अकृतप्रेतकार्यो वा गर्भिणीपतिरेव वा ॥
न स्नायादुदधौ विद्वान्सेतोरन्यत्र कर्हिचित्
॥५६॥न कालापेक्षणं सेतोर्नित्यस्नानं प्रशस्यते ॥
वारतिथ्यृक्षनियमाः सेतोरन्यत्र हि द्विजाः
॥५७॥उद्दिश्य जीवतः स्नायान्न तु स्नायान्मृतान्प्रति ॥
कुशैः प्रतिकृतिं कृत्वा स्नापयेत्तीर्थवारिभिः
॥५८॥इमं मंत्रं समुच्चार्य प्रसन्नेंद्रियमानसः ॥
कुशोऽसि त्वं पवित्रोऽसि विष्णुना विधृतः पुरा
॥५९॥त्वयि स्नाते स च स्नातो यस्यैतद्ग्रंधिवन्धनम् ॥
सर्वत्र सागरः पुण्यः सदा पर्वणि पर्वणि
॥६०॥सेतौ सिन्ध्वब्धिसंयोगे गंगासागर संगमे ॥
नित्यस्नानं हि निर्दिष्टं गोकर्णे पुरुषोत्तमे
॥६१॥नापर्वणि सरिन्नाथं स्पृशेदन्यत्र कर्हिचित् ॥
पितॄणां सर्वदेवानां मुनीनामपि शृण्वताम्
॥६२॥प्रतिज्ञामकरोद्रामः सीतालक्ष्मणसंयुतः ॥
मया ह्यत्र कृते सेतौ स्नानं कुर्वंति ये नराः
॥६३॥मत्प्रसादेन ते सर्वे यास्यंति पुनर्भवम् ॥
नश्यंति सर्वपापानि मत्सेतोरवलोकनात्
॥६४॥रामनाथस्य माहात्म्यं मत्सेतोरपि वैभवम् ॥
नाहं वर्णयितुं शक्तो वर्षकोटिशतैरपि
॥६५॥इति रामस्य वचनं श्रुत्वा देवमहर्षयः ॥
साधुसाध्विति संतुष्टाः प्रशशंसुश्च तद्वचः
॥६६॥सेतुमध्ये चतुर्वक्त्रः सर्वदेवसमन्वितः ॥
अध्यास्ते तस्य रक्षार्थमीश्वरस्याज्ञया सदा
॥६७॥रक्षार्थं रामसेतौ हि सेतुमाधवसंज्ञया ॥
महाविष्णुः समध्यास्ते निबद्धो निगडेन वै
॥६८॥महर्षयश्च पितरो धर्मशास्त्रप्रवर्तकाः ॥
देवाश्च सहगन्धर्वाः सकिन्नरमहोरगाः
॥६९॥विद्याधराश्चारणाश्च यक्षाः किंपुरुषास्तथा ॥
अन्यानि सर्वभूताति वसंत्यस्मिन्नहर्निशम्
॥७०॥सोऽहं दृष्टः श्रुतो वापि स्मृतः स्पृष्टोऽवगाहितः ॥
सर्वस्माद्दुरिता त्पाति रामसेतुर्द्विजोत्तमाः
॥७१॥सेतावर्धोदये स्नानमानंदप्राप्तिकारणम् ॥
मुक्तिप्रदं महापुण्यं महानरकनाशनम्
॥७२॥पौषे मासे विष्णुभस्थे दिनेशे भानोर्वारे किंचिदुद्यद्दिनेशे ॥
युक्ताऽमा चेन्नागहीना तु पाते विष्णोर्ऋक्षे पुण्यमर्धोदयं स्यात्
॥७३॥तस्मिन्नर्धोदये सेतौ स्नानं सायुज्यकारणम् ॥
व्यतीपातसहस्रेण दर्शमेकं समं स्मृतम्
॥७४॥दर्शायुतसमं पुण्यं भानुवारो भवेद्यदि ॥
श्रवणर्क्ष यदि भवे द्भानुवारेण संयुतम्
॥७५॥पुण्यमेव तु विज्ञेयमन्योन्यस्यैव योगतः ॥
एकैकमप्यमृतदं स्नानदानजपार्चनात्
॥७६॥पंचस्वपि च युक्तेषु किमु वक्तव्यमत्र हि ॥
श्रवणं ज्योतिषां श्रेष्ठममा श्रेष्ठा तिथिष्वपि
॥७७॥व्यतीपात तु योगानां वारं वारेषु वै रवेः ॥
चतुर्णामपि यो योगो मकरस्थे रवौ भवेत्
॥७८॥तस्मिन्काले रामसेतौ यदि स्नायात्तु मानवः ॥
गर्भं न मातुराप्नोति किन्तु सायुज्यमाप्नुयात्
॥७९॥अर्धोदयसमः कालो न भूतो न भविष्यति ॥
एवं महोदयः कालो धर्मकालः प्रकीर्तितः
॥८०॥एतेषु पुण्यकालेषु सेतौ दानं प्रकीर्तितम् ॥
आचारश्च तपो वेदो वेदांतश्रवणं तथा
॥८१॥शिवविष्ण्वादिपूजापि पुराणार्थप्रवक्तृता ॥
यस्मिन्विप्रे तु विद्यंते दानपात्रं तदुच्यते
॥८२॥पात्राय तस्मै दानानि सेतौ दद्याद्द्विजातये ॥
यदि पात्रं न लभ्येत सेतावाचारसंयुतम्
॥८३॥संकल्प्योद्दिश्य सत्पात्रं प्रदद्याद्ग्राममागतः ॥
अतो नाधमपात्राय दातव्यं फलकांक्षिभिः ॥
उत्तमं सेतुमाहात्म्यं वक्तुर्देयं न चान्यतः
॥८४॥अत्रेतिहासं वक्ष्यामि वसिष्ठोक्तमनुत्तमम् ॥
दिलीपाय महाराज्ञे दानपात्रवि वित्सवे
॥८५॥दिलीप उवाच
दानानि कस्मै देयानि ब्रह्मपुत्र पुरोहित ॥
एतन्मे तत्त्वतो ब्रूहि त्वच्छिष्यस्य महामुने
॥८६॥वसिष्ठ उवाच
पात्राणामुत्तमं पात्रं वेदाचारपरायणम् ॥
तस्मादप्यधिकं पात्रं शूद्रान्नं यस्य नोदरे
॥८७॥वेदाः पुराणमंत्राश्च शिवविष्ण्वादिपूजनम् ॥
वर्णाश्रमाद्यनुष्ठानं वर्तते यस्य संततम्
॥८८॥दरिद्रश्च कुटुंबी च तत्पात्रं श्रेष्ठमुच्यते ॥
तस्मिन्पात्रे प्रदत्तं वै धर्म कामार्थमोक्षदम्
॥८९॥पुण्यस्थले विशेषेण दानं सत्पात्रगर्हितम् ॥
अन्यथा दशजन्मानि कृकलासो भविष्यति
॥९०॥जन्मत्रयं रासभः स्यान्मंडूकश्च द्विजन्मनि ॥
एकजन्मनि चाण्डालस्ततः शूद्रो भविष्यति
॥९१॥ततश्च क्षत्रियो वैश्यः क्रमाद्विप्रश्च जायते ॥
दरिद्रश्च भवेत्तत्र बहुरोगसमन्वितः
॥९२॥एवं बहुविधा दोषा दुष्टपात्रप्रदानतः ॥
तस्मात्सर्वप्रयत्नेन सत्पात्रेषु प्रदापयेत्
॥९३॥न लभ्यते चेत्तत्पात्रं तदा संकल्पपूर्वकम् ॥
एकं सत्पात्रमुद्दिश्य प्रक्षिपेदुदकं भुवि
॥९४॥उद्दिष्टपात्रस्य मृतौ तत्पुत्राय समर्पयेत् ॥
तस्यापि मरणे प्राप्ते महादेवे समर्प येत् ॥
अतोनाधमपात्राय दद्यात्तीर्थे विशेषतः
॥९५॥श्रीसूत उवाच
एवमुक्तो वसिष्ठेन दिलीपः स द्विजोत्तमाः
॥९६॥तदा प्रभृति सत्पात्रे प्रायच्छद्दानमुत्तमम् ॥
अतः पुण्यस्थले सेतावत्रापि मुनिपुंगवाः
॥९७॥यदि लभ्येत सत्पात्रं तदा दद्याद्धनादिकम् ॥
नो चेत्संकल्पपूर्वं तु विशिष्टं पात्रमुत्तमम्
॥९८॥समुद्दिश्य जलं भूमौ प्रक्षिपेद्भक्तिसंयुतः ॥
स्वग्राममागतः पश्चात्तस्मिन्पात्रे समर्पयेत्
॥९९॥पूर्वंसंकल्पितं वित्तं धर्मलोपोऽन्यथा भवेत् ॥
न दुःखं पुनराप्नोति किं तु सायुज्यमाप्नुयात्
॥१००॥अर्धोदयसमः कालो न भूतो न भवि ष्यति ॥
कुम्भकोणं सेतुमूलं गोकर्णं नैमिषे तथा
॥१॥अयोध्या दंडकारण्यं विरूपाक्षं च वेंकटम् ॥
शालिग्रामं प्रयागं च कांची द्वारावती तथा
॥२॥मधुरा पद्मनाभं च काशी विश्वेश्वरालया ॥
नद्यः सर्वाः समुद्राश्च पर्वतं भास्करं स्मृतम्
॥३॥मुंडनं चोपवासश्च क्षेत्रेष्वेषु प्रकीर्तितम् ॥
लोभान्मोहादकृत्वा यः स्वगृहं याति मानवः
॥४॥सहैव यांति तद्गेहे पातकानि च तेन वै ॥
चतुर्विंशतितीर्थानि पर्वते गन्ध मादने
॥५॥तत्र लक्ष्मणतीर्थे तु वपनं मुनिभिः स्मृतम् ॥
तीरे लक्ष्मणतीर्थस्य लोमवर्ज्यं शिवाज्ञया
॥६॥शिरोमात्रस्य वपनं कृत्वा दत्त्वा च दक्षिणाम् ॥
स्नात्वा लक्ष्मणतीर्थे च दृष्ट्वा लक्ष्मणशंकरम्
॥७॥सर्वपापविनिर्मुक्तः शंकरं याति मानवः ॥
अर्धोदये सदा स्नानं सेतावेवं समाचरेत्
॥८॥नास्ति सेतुसमं तीर्थं नास्ति सेतुसमं तपः ॥
नास्ति सेतुसमं पुण्यं नास्ति सेतुसमा गतिः
॥९॥उपरागसहस्रेण सममर्धोददयं स्मृतम् ॥
अर्धोदयसमः कालो नास्ति संसारमोचकः
॥११०॥तस्मिन्नर्धोदये रामसेतौ स्नानं तु यद्भवेत् ॥
न तत्तुल्यं भवेत्पुण्यं सर्वशास्त्रेषु सर्वदा
॥११॥षष्टिवर्षसहस्राणि भागीरथ्यवगाहनात् ॥
यत्पुण्यमृषिनिर्दिष्टं तत्पुण्यं मुनिपुंगवाः
॥१२॥एकवारं रामसेतौ स्नानात्सिध्यति निश्चितम् ॥
अर्द्धोदये विशेषेण तथैव च महोदये
॥१३॥मकरस्थे रवौ माघे प्रयागे पापमोचने ॥
माघस्नानसहस्रेण यत्पुण्यं लभते नरः
॥१४॥तस्मिन्नर्धोदये विप्रा रामसेतौ निमज्जनात् ॥
एकवारेण तत्पुण्यं लभते नात्र संशयः
॥१५॥त्रैलोक्यस्थेषु तीर्थेषु स्नातानां यत्फलं भवेत् ॥
सकृदर्द्धोदये सेतौ स्नात्वा तत्पुण्यभाग्भवेत्
॥१६॥ब्रह्मज्ञानविहीनानां कृतघ्नानां दुरा त्मनाम् ॥
पापिनामितरेषां च महापातकिनां तथा
॥१७॥सेतावर्द्धोदये स्नानाद्विशुद्धिरिति निश्चिता ॥
स्थलांतरे कृतघ्नानां निष्कृतिर्नास्ति कर्हिचित्
॥१८॥सेतावर्धोदये स्नानात्तेषामपि हि निष्कृतिः ॥
सेतावर्द्धोदये स्नानं ये न कुर्वंति मोहतः
॥१९॥संसारेषु निमज्जंति ते यथांधाः पतंत्यधः ॥
सेतावर्धोदये स्नात्वा भित्त्वा भास्करमण्डलम्
॥१२०॥ब्रह्मलोकं प्रयास्यंति नात्र कार्या विचारणा ॥
अर्द्धोदये तु संप्राप्ते स्नात्वा सेतौ विमुक्तिदे
॥२१॥स्नात्वा सम्यग्जगन्नाथं राघवं सीतया सह ॥
रामेश्वरं महादेवं सुग्रीवादिमुखान्कपीन्
॥२२॥ध्यात्वा देवानृषींश्चापि तथा पितृगणानपि ॥
तर्पयेदपि तान्सर्वान्स्वदारिद्र्यविमुक्तये
॥२३॥अर्द्धोदयाख्यममलं जगन्नाथं समर्चयेत् ॥
सेतावर्द्धोदये काले तेन प्रीणाति केशवः
॥२४॥दिवाकर नमस्तेऽस्तु तेजोराशे जगत्पते ॥
अत्रिगोत्रसमुत्पन्न लक्ष्मी देव्याः सहोदर
॥२५॥अर्घं गृहाण भगवन्सुधाकुम्भ नमोस्तु ते ॥
व्यतीपातमहायोगिन्महापातकनाशन
॥२६॥सहस्रबाहो सर्वात्म न्गृहाणार्घ्यं नमोऽस्तु ते ॥
तिथिनक्षत्रवाराणामधीश परमेश्वर
॥२७॥मासरूप गृहणार्घ्यं कालरूप नमोऽस्तु ते ॥
इति दत्त्वा पृथङ्मंत्रैरर्घ्यमर्द्धोदये नरः
॥२८॥उपायनानि विप्रेभ्यो दद्याद्वित्तानुसारतः ॥
चतुर्दश द्वादशाष्टौ सप्त षट् पंच वा द्विजान्
॥२९॥यथाशक्त्यन्नपानाद्यैः पृथङ्मंत्रैः समर्चयेत् ॥
कांस्यपात्रं समादाय नूतनं दारवं तु वा
॥१३०॥विप्राणां पुरतः स्थाप्य पयसा परिपूरितम् ॥
सफलं सगुडं साज्यं सतांबूलं सदक्षिणम्
॥३१॥दद्याद्यज्ञोपवीतं च गां सवत्सां पयस्विनीम् ॥
अलंकृतेभ्यो विप्रेभ्यो यथाशक्ति वदेदिदम्
॥३२॥श्रवणर्क्षे जग न्नाथ जन्मर्क्षे तव केशव ॥
यन्मया दत्तमर्थिभ्यस्तदक्षयमिहास्तु मे
॥३३॥नक्षत्राणामधिपते देवानाममृतप्रद ॥
त्राहि मां रौहिणीकांत कला शेषनमोऽस्तु ते
॥३४॥दीननाथ जगन्नाथ कलानाथ कृपाकर ॥
त्वत्पादपद्मयुगलभक्तिरस्त्वचला मम
॥३५॥व्यतीपात नमस्तेऽस्तु सोम सूर्योग्निसंनिभ ॥
यद्दानादिकृतं किचित्तदक्षयमिहास्तु ते
॥३६॥अर्थिनां कल्पवृक्षोऽसि वासुदेव जनार्दन ॥
मासर्त्वयनकालेश पापं शमय मे हरे
॥३७॥इत्यर्चयित्वा विप्रेंद्रास्ततः श्राद्धं समाचरेत् ॥
हिरण्यश्राद्धमामं वा पाकश्राद्धमथापि वा
॥३८॥पार्वणं च ततः कुर्याद्वित्त शाठयं न कारयेत् ॥
आचार्यं पूजयेत्पश्चाद्वस्त्रभूषणकुण्डलैः
॥३९॥प्रतिमामर्पयेत्तस्मै गां च छत्रमुपानहम् ॥
एवमर्द्धोदये सेतौ व्रतं कुर्याद्द्वि जोत्तमाः
॥१४०॥तेनैव कृतकृत्यः स्यात्कर्तव्यं नास्ति किंचन ॥
स्थलांतरेऽप्येवमेतद्व्रतमर्धोदये चरेत्
॥४१॥सेतुः समुद्रे रामेण निर्मितो गन्धमादने ॥
सेतुः सेतुरिति प्राज्ञास्तस्य नात्र प्रकीर्तनात्
॥४२॥स्नानकाले मनुष्याणां पातकानां तु कोटयः ॥
तत्क्षणादेव नश्यंति यास्यंत्यप्यत्युतं पदम्
॥४३॥निमिषं निमिषार्द्धं वा सेतौ तिष्ठति यो नरः ॥
तद्दृष्टिगोचरं गंतुं न शक्ता यमकिंकराः
॥४४॥रामसेतुं धनु ष्कोटिं रामं सीतां च लक्ष्मणम् ॥
रामनाथं हनूमंतं सुग्रीवादिमुखान्कपीन्
॥४५॥विभीषणं नारदं च विश्वामित्रं घटोद्भवम् ॥
वसिष्ठं वामदेवं च जाबालिमथ काश्यपम्
॥४६॥रामभक्तास्तथा चान्यांश्चिंतयन्मनसा तदा ॥
सर्वदुःखाद्विमुच्येत प्रयाति परमं पदम्
॥४७॥सत्य क्षेत्रे हरिक्षेत्रे कृष्णक्षेत्रे च नैमिषे ॥
शालग्रामे बदर्य्यां च हस्तिशैले वृषाचले
॥४८॥शेषाद्रौ चित्रकूटे च लक्ष्मीक्षेत्रे कुरंगके ॥
कांचिके कुम्भकोणे च मोहिनीपुर एव च
॥४९॥ऐन्द्रे श्वेताचले पुण्ये पद्मनाभे महास्थले ॥
फुल्लाख्ये घटिकाद्रौ च सारक्षेत्रे हरि स्थले
॥१५०॥श्रीनिवासे महाक्षेत्रे भक्तनाथमहास्थले ॥
अलिंदाख्ये महाक्षेत्रे शुकक्षेत्रे च वारुणे
॥५१॥मधुरायां हरिक्षेत्रे श्रीगोष्ठ्यां पुरुषोत्तमे ॥
श्रीरंगे पुण्डरीकाक्षे तथान्यत्र हरिस्थले
॥५२॥स्नानेन यानि पापानि विनश्यन्ति द्विजोत्तमाः ॥
तानि सर्वाणि नश्यंति सेतुस्नानेन निश्चितम्
॥५३॥रघुनाथकृते सेतौ महामुनिनिषेविते ॥
न स्नांति ये नरास्तेषां न संसारनिवर्तनम्
॥५४॥ये वा नमः शिवायेति मन्त्रं पञ्चाक्षरं शुभम् ॥
न वदन्ति न शृण्वन्ति न स्मरन्ति मुनीश्वराः
॥५५॥नमो नाराय णायेति प्रणवेन समन्वितम् ॥
मंत्रमष्टाक्षरं वापि न जपंति स्मरंति वा
॥५६॥एवं श्रीरामचंद्रस्य षडक्षरमनु तथा ॥
न जपंति न शृण्वंति न स्मरंति च सत्तमाः
॥५७॥तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ॥
उपोषणं न कुर्वंति ये वा हरिदिने शुभे
॥५८॥न धारयंति ये भस्म त्रिपुंड्रोद्धूलनादिना ॥
जाबालोपनिषन्मंत्रैस्सप्तभिर्मस्तकादिके
॥५९॥शिवं वा केशवं वापि तथान्यानपि वै सुरान् ।
1 न पूजयंति वेदोक्त मार्गेण द्विजपुंगवाः
॥१६०॥तेषां पापानि नश्यंति रामसेतौ निम्जनात् ॥
शिवविष्ण्वादिदेवेभ्यो धूपं दीपं च चंदनम्
॥६१॥पुष्पाणि न प्र यच्छंति भक्तिपूर्वं द्विजोत्तमाः ॥
शिवविष्ण्वादिदेवानां श्रीरुद्रैश्चमकैस्तथा
॥६२॥श्रीमत्पुरुषसूक्तेन पावमायादि सूक्तकैः ॥
त्रिमधु त्रिसुपर्णैश्च पंच शांत्यादिना तथा
॥६३॥नाभिषेकं प्रकुर्वंति ये नराः पापचेतसः ॥
तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात्
॥६४॥शिवविष्ण्वादि देवानां नमस्कारप्रदक्षिणे ॥
न प्रकुर्वंति भक्त्या ये पापोपहतबुद्धयः
॥६५॥धनुर्मासेऽप्युषःकाले न पूजां च प्रकुर्वते ॥
शिवविष्ण्वादिदेवानां महानैवेद्यपूर्वकम्
॥६६॥तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ॥
कीर्तयंति न ये विष्णोर्नामानि तु हरस्य वा
॥६७॥शालिग्रामशिला चक्रं शिवनाभं च ये नराः ॥
न पूजयंति मोहेन द्वारकाचक्रमेव वा
॥६८॥गंगामृदं च तुलसीमृत्तिकां गोपिचंदनम् ॥
न धारयंति ये मूढा ललाटे चोरसि द्विजाः
॥६९॥दोर्द्वंद्वे च गले सम्यक्सर्वपापौघशांतये ॥
रुद्राक्षं तुलसीकाष्ठं यो न धारयते नरः
॥१७०॥तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
ब्राह्मे मुहूर्ते संप्राप्ते निद्रां त्यक्त्वा प्रसन्नधीः
॥७१॥हरिशंकरनामानि तत्स्तोत्राण्यथ वा द्विजाः ॥
यो हि चिंतयते नित्यं विशिष्टं मंत्रमेव वा
॥७२॥तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
प्रातर्जलाशये गत्वा स्नात्वाऽऽचम्य विशुद्धधीः
॥७३॥प्रसन्नात्मा मुनिश्रेष्ठाः संध्योपासनपूर्वकम् ॥
नोपास्ते च नरो यस्तु गायत्रीं वेदमातरम्
॥७४॥नौपासनं वा कुर्वंति सायंप्रातरतंद्रिताः ॥
माध्याह्निकं न कुर्वंति ये वा पापहताशयाः
॥७५॥ब्रह्मयज्ञं वैश्वदेवं मध्याह्नेऽतिथिपूजनम् ॥
नाचरंति च सायं ये पूजामतिथिसंमताम्
॥७६॥तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
भिक्षां यतीनां मध्याह्ने न प्रयच्छंति ये नराः
॥७७॥येऽप्यधीतां त्रयीं विप्रा विस्मरंति कुबुद्धयः ॥
नाधीयते त्रयीं वापि वेदांगानि तथा पुनः
॥७८॥प्रत्याब्दिकं मातृपित्रोः श्राद्धं ये नाचरंति वै ॥
श्राद्धं महालयं नित्यमष्टकाश्राद्ध मेव वा
॥७९॥अन्यन्नैमित्तिकं श्राद्धं ये न कुर्वंति लोभतः ॥
ये चैत्रे तु पौर्णमास्यां चित्रगुप्तस्य तुष्टये
॥१८०॥पानकं कदलीपक्वं पायसान्नं सशर्करम् ॥
सगुडं साम्रफलकं पनसादिफलैर्युतम्
॥८१॥तांबूलं पादुके छत्रं वस्त्रपुष्पाणि चंदनम् ॥
विप्रेभ्यो न प्रयच्छंति लोभोपहतबुद्धयः
॥८२॥तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
दुर्वृत्तो वा सुवृत्तो वा यो धनुष्कोटिसेवकः
॥८३॥तस्य संसारविच्छित्तिः पुन र्जन्म विना भवेत् ॥
संसारसागरं तर्तुं य इच्छेन्मुनिपुंगवाः
॥८४॥रामचन्द्रधनुष्कोटिं स गच्छेदविलंबितम् ॥
सत्यं वच्मि हितं वच्मि सारं वच्मि हितं पुनः
॥८५॥रामचन्द्रधनुष्कोटिं गच्छध्वं मुक्तिसिद्धये ॥
रामचन्द्रधनुष्कोटौ कुर्यात्स्नानं विमुक्तये
॥८६॥नास्त्युपायांतरं विप्रा भूयोभूयो वदाम्यहम् ॥
रामचंद्रधनुष्कोटौ स्नानं कुर्वंति ये नराः
॥८७॥तेषामयत्नतः सिध्येत्संसारभय नाशनम् ॥
सत्यं ज्ञानमनंतं यत्पूर्णं ब्रह्म सनातनम्
॥८८॥तत्प्राप्तिः स्याद्धनुष्कोटौ मज्जनान्नात्र संशयः ॥
श्रीसूत उवाच ॥
एवं वः कथितं विप्राः सेतुमाहात्म्यमुत्तमम्
॥८९॥महादुःखप्रशमनं महारोगनिबर्हणम् ॥
दुःस्वप्ननाशनं पुण्यमपमृ त्युनिवारणम् ]
॥१९०॥महाशांतिकरं पुंसां पठतां शृण्वतामपि ॥
स्वर्गापवर्गदं पुण्यं सर्वतीर्थफलप्रदम्
॥९१॥कीर्तयेद्य इदं पुण्यं शृणु याद्वा समाहितः ॥
सोऽग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम्
॥९२॥चतुर्णां सांगवेदानां शतावृत्या तु यत्फलम् ॥
तत्फलं समवाप्नोति ह्येतन्माहात्म्यकीर्तनात्
॥९३॥अत्रैकाध्यायपठनाच्छ्रवणाद्वा मुनीश्वराः ॥
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम्
॥९४॥अध्यायद्वयपाठेन श्रवणेन तथैव च ॥
गोमेधाख्यस्य यज्ञस्य फलमाप्नोत्यनुत्तमम्
॥९५॥दशाध्यायान्पठेद्यस्तु शृणुयाद्वा सभक्तिकम् ॥
स्वर्गलोकमवाप्नोति शक्रेण सह मोदते
॥९६॥विंशत्यध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ॥
ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते
॥९७॥त्रिंशदध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ॥
विष्णुलोकमवाप्नोति विष्णुना सह मोदते
॥९८॥चत्वारिंशत्तमाध्यायान्पठेद्वा शृषुयादपि ॥
रुद्रलोकमवाप्नोति रुद्रेण सह मोदते
॥९९॥यः पंचाशत्तमाध्यायान्पठते शृणुतेऽपि वा ॥
स सांबं हरमाप्नोति शिवं चन्द्रार्धशेखरम्
॥२००॥यः पठेच्छ्रणुयाच्चेदं कृत्स्नं माहात्म्यमुत्तमम् ॥
स सांबशिवसालोक्यमाप्नोत्येव न संशयः
॥१॥यः पठेच्छ्रणुयाच्चेदं द्विवारं मुनिसतमाः ॥
स याति शिवसामीप्यं विमानवरसंस्थितः
॥२॥यस्त्रिवारं पठेदेतच्छृणुयाद्वा समाहितः ॥
शिवसारूप्यमाप्नोति शिवस्य प्रीतिमावहन्
॥३॥चतुर्वारं पठेद्यस्तु शृणुयाद्वेदमुत्तमम् ॥
स सायुज्यमवाप्नोति शिवस्य गिरिजापतेः
॥४॥दिनेदिने पठेन्मर्त्यः श्लोकं श्लोकार्धमेव वा ॥
पादं वा पादमात्रं वा अक्षरं वर्णमेव वा
॥५॥तत्तद्दिनकृतं पापं तत्क्षणादेव नश्यति ॥
कृत्स्नेऽस्मिन्सेतुमाहात्म्ये पठितेऽपि श्रुतेऽपि वा
॥६॥श्लोकेष्वत्रैव वर्तंते वर्णा यावंत एव हि ॥
तावत्यो ब्रह्महत्याश्च तावन्मद्यनिषेवणम्
॥७॥तावत्सुवर्णस्तेयं च तावान्गुर्वंगनागमः ॥
तावत्संसर्गदोषाश्च नश्यंत्येवं हि तत्क्षणात्
॥८॥यावतोऽस्मिन्महापुण्ये वर्तंते वर्णराशयः ॥
तावत्कृत्वश्चतुर्विंशत्तीर्थेषु स्नानजं फलम्
॥९॥तथान्येष्वपि तीर्थेषु सेतुमध्यगतेषु वै ॥
तत्फलं समवाप्नोति पाठेन श्रवणेन वा
॥२१०॥येनेदं लिखितं भक्त्या सेतुमाहात्म्यमुत्तमम् ॥
विनष्टाज्ञानसंतानः शिवसायुज्यमाप्नुयात्
॥११॥यस्येदं वर्तते गेहे माहात्म्यं लिखितं शुभम् ॥
भूतवेतालकादिभ्यो भीतिस्तत्र न विद्यते
॥१२॥व्याधिपीडा न तत्रास्ति नास्ति चोरभयंतथा ॥
शन्यंगारकमुख्यानां ग्रहाणां नास्ति पीडनम्
॥१३॥यद्गृहे वर्तते पुण्यमिदं माहा त्म्यमुत्तमम् ॥
रामसेतुं विजानीत तद्गृहं मुनिपुंगवाः
॥१४॥चतुर्विंशति तीर्थानि तत्रैव निवसंति हि ॥
तत्रैव वर्तते पुण्यो गन्धमादनपर्वतः
॥१५॥ब्रह्मविष्णुमहेशाश्च वर्तंते तत्र सादरम् ॥
लिखित्वा सेतुमाहात्म्यं ब्राह्मणाय निवेदयेत् ॥
चतुःसागरपर्यंता तेन दत्ता वसुंधरा
॥१६॥सेतुमाहात्म्यदानमन्त्रः ॥
सेतुमाहात्म्यदानस्य कला नार्हंति षोडशीम् ॥
दानान्यन्यानि सर्वाणि ह्यतः शान्तिं प्रयच्छ मे ॥
किं पुनर्बहु नोक्तेन वसत्यत्र जगत्त्रयम्
॥१७॥श्रावयेच्छ्राद्धकाले यो ह्येकमध्यायमत्र वै ॥
नश्येच्छ्राद्धस्य वैकल्यं पितरोऽप्यतिहर्षिताः
॥१८॥यः पर्वकाले संप्राप्ते ब्राह्मणाञ्छ्रावयेदिदम् ॥
अध्यायमेकं श्लोकं वा गावोस्य निरुपद्रवाः ॥
बहुक्षीरा सवत्साश्च महिष्योऽस्य भवंति हि
॥१९॥पठनीयमिदं पुण्यं मठे देवालयेऽपि वा ॥
नदीतटाकतीरेषु पुण्ये वारण्यभूतले ॥
श्रोत्रियाणां गृहे वापि नैवान्यत्र तु कर्हिचित्
॥२२०॥विषुवायन कालेषु पुण्ये च हरिवासरे ॥
अष्टम्यां च चतुर्दश्यां पठनीयं विशेषतः
॥२१॥इदं हि पाठ्यं श्रावण्यां मासि भाद्रपदे तथा ॥
धनुर्मासे च पाठ्यं स्यात्पाठ्यं चैवोत्तरायणे
॥२२॥नियमेनैव माहात्म्यं पठनीयमिदं द्विजाः ॥
श्रोतारो नियमैर्युक्ताः शृणुयुश्चेदमुत्तमम्
॥२३॥कीर्त्यंते पुण्यतीर्थानि माहात्म्येऽस्मिन्बहूनि वै ॥
कीर्त्यंते पुण्यशीलाश्च तथा राजर्षिसत्तमाः
॥२४॥ऋषयश्च महाभागाः कीर्त्यंतेऽस्मिन्ननुत्तमे ॥
धर्माधर्मौ च कीर्त्येते पुण्येस्मिन्द्विजपुंगवाः
॥२५॥ब्रह्मा विष्णुश्च रुद्रश्च कीर्त्यंतेऽत्र त्रिमूर्तयः ॥
इदं पवित्रं पापघ्नं श्रुत्यर्थैरुपबृंहि तम्
॥२६॥संमतं स्मृतिकर्तॄणां द्वैपायनमुनिप्रियम् ॥
श्रोतव्यं पठितव्यं च आत्मनः श्रेय इच्छता
॥२७॥श्रावकाय च दातव्यं यत्किंचित्कांचनादिकम् ॥
स्वस्वशक्त्यनुरोधेन वित्तशाठ्यं न कारयेत्
॥२८॥वस्त्रं हिरण्यं धान्यं वा भूमिं गां च यथाबलम् ॥
दत्त्वा संभावनीयोऽयं श्रावकः श्रोतृभिर्जनैः
॥२९॥पूजिते श्रावके तस्मिन्पूजिताः स्युस्त्रिमूर्तयः ॥
जगत्त्रयं पूजितं स्यात्पूजितासु त्रिमूर्तिषु
॥२३०॥अवतीर्णो महीं साक्षाद्रामो दाशरथिर्हरिः ॥
ससीतालक्ष्मणो नित्यं श्रोतृभ्यः श्रावकाय च
॥३१॥दत्त्वेह लोके भोगांश्च मुक्तिं चांते प्रयच्छति ॥
द्वैपायनमुखांभोजान्निःसृतं शुभदं परम्
॥३२॥इदं वै सेतुमाहात्म्यं धर्मराजो युधिष्ठिरः ॥
भीमसेनादिभिः सर्वैरनुजैरपि संवृतः
॥३३॥नियमाचारसंयुक्तः ससैन्यश्च दिनेदिने ॥
शृणोति पठतो धौम्यमहर्षेः स्वपुरोधसः
॥३४॥श्रीसूत उवाच
भोभो स्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
मत्सकाशादिदं गुह्यं माहात्म्यं श्रुतिसंमितम्
॥३५॥श्रुतं भवद्भिर्नियतैर्नित्यं पठत सादरम् ॥
पाठयध्वं स्वशिष्येभ्यो नियतेभ्यो निरन्तरम्
॥३६॥इत्युक्त्वा तान्मुनीन्सूतो रोमांचितकलेवरः ॥
गुरुं हृदा स्मरन्व्यासं ननर्ताश्रूणि वर्तयन्
॥३७॥अत्रांतरे महाविद्वान्पाराशर्यो महामुनिः ॥
आशु प्रादुरभूत्तत्र शिष्यानुग्रहकांक्षया
॥३८॥तमागतं विलोक्याथ मुनिं सत्यवतीसुतम् ॥
सूतः सर्वैश्च सहितो नैमिषारण्यवासिभिः
॥३९॥व्यासस्य चरणांभोजे दंडवत्प्रणिपत्य तु ॥
जलमानंदजं तत्र नेत्राभ्यांपर्यवर्तयत्
॥२४०॥प्रणतं प्रियशिष्यं तं दोर्भ्यामुत्थाप्य वै मुनिः ॥
आशीर्भिरभिनंद्यैनमालिंग्य च मुहुर्मुहुः
॥४१॥नैमिषारण्यमुनिभिरानीते परमासने ॥
द्वैपायनो महातेजा निषसाद तपोधनः
॥४२॥मुनिष्वप्युपविष्टेषु सूतेऽपि च निजाज्ञया ॥
शौनकादीन्मुनीन्सर्वाञ्छक्तेः पौत्रोऽभ्यभाषत
॥४३॥मया ज्ञातमिदं सर्वं नैमिषारण्यवासिनः ॥
मम शिष्येण सूतेन सेतुमाहात्म्यमुत्तमम् ॥
कथितं भवतामद्य महापातकनाशनम्
॥४४॥श्रुतीनां च स्मृतीनां च पुराणानां तथैव च ॥
शास्त्राणां चेतिहासानामन्येषामपि कृत्स्नशः
॥४५॥एष पर्यवसन्नोऽर्थो माहात्म्यं यत्त्विदं महत् ॥
सर्वेष्वपि पुराणेषु इदं बहुमतं मम
॥४६॥शृणोति धर्मजो धौम्यादिदं नित्यं ममाज्ञया ॥
अतो भवंतोऽपि सदा सेतुमाहात्म्यमुत्तमम्
॥४७॥पठंतु शृण्वंतु तथा शिष्याणां पाठयंतु च ॥
तच्छ्रुत्वा वचनं तस्य ते प्राहुर्बाढमित्यपि
॥४८॥ततो व्यासोऽपि सूतेन शिष्येण च समन्वितः ॥
अनुज्ञाप्य मुनीन्त्सर्वान्कैलासं पर्वतं ययौ
॥४९॥ऋषयो नैमिषारण्यनिलयास्तुष्टिमागताः ॥
प्रत्यहं सेतुमाहात्म्यं शृण्वंति च पठंति च
॥२५०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये द्विपंचाशत्तमोऽध्यायः ॥ ५२ ॥
इदं स्कांदमहापुराणान्तर्गतब्रह्मखण्डान्तर्गतसेतुमाहात्म्यं समाप्तम् ॥ स्कन्द पुराणे तृतीये ब्रह्मखण्डे सेतुमाहात्म्यस्य देवनागरी युनिकोड रूपान्तरणम् उन्नत डिक्शनरी फाईल ग्रथित Ind Senz सांफ्टेवेयर द्वारा 8-11-2014ई.(मार्गशीर्ष कृष्ण द्वितीया, विक्रम संवत् 2071) को पूर्णं कृतम्। अस्य हेतोः खेमराज श्रीकृष्णदास द्वारा संपादितं, श्री वेंकटेश्वर स्टीम मुद्रणालय द्वारा प्रकाशितं एवं नाग प्रकाशक, दिल्ली द्वारा वर्ष 1986 ई. मध्ये पुनर्मुद्रितं संस्करणस्य उपयोगं कृतं भवति