सृगालवानरविमोक्षणवर्णनम्
यज्ञदेव उवाच
दुर्वासर्षे महाप्राज्ञ परापरविचक्षण ॥
दुर्विनीताभिधः कोऽयं योऽसौ गुर्वंगनामगात्
॥१॥कस्य पुत्रो धनुष्कोटौ स्नानेन स कथं द्विजः ॥
तत्क्षणान्मुमुचे पापाद्गुरुस्त्रीगमसंभवात् ॥
एतन्मे श्रद्धधानस्य विस्तराद्वक्तुमर्हसि
॥२॥दुर्वासा उवाच
पांड्यदेशे पुरा कश्चिद्ब्राह्मणोभूद्बहुश्रुतः
॥३॥इध्मवाहाभिधो नाम्ना तस्य भार्या रुचिंस्तथा ॥
बभूव तस्य तनयो दुर्विनीताभिधो द्विजः
॥४॥बाल्ये वयसि पुत्रस्य ममार जनकोऽस्य ३ ॥
दुर्विनीतः पितुस्तस्य स कृत्वा चौर्ध्वदैहिकम्
॥५॥कंचित्कालं गृहेऽवात्सीन्मात्रा विधवया सह ॥
ततो दुर्भिक्षमभवद्वादशाब्दमवर्षणात्
॥६॥ततो देशांतरमगान्मात्रा साकं द्विजोत्तम ॥
गोकर्णं स समासाद्य सुभिक्षं धान्यसंचयैः
॥७॥उवास सुचिरं कालं मात्रा विधवया सह ॥
ततो बहुतिथे काले दुर्विनीतो गते सति
॥८॥पूर्वदुष्कर्मपाकेन मूढबुद्धिरहो बत ॥
अनंगशरविद्धांगो रागाद्विकृतमानसः
॥९॥मामेति वादिनीमंबां बलादाकृष्य पातकी ॥
बुभुजे काममोहात्मा मैथुनेन द्विजोत्तम
॥१०॥स खिन्नो दुर्विनीतोऽयं रेतःसेकादनंतरम् ॥
मनसा चिंतयन्पापं रुरोदभृशदुःखितः
॥११॥अहोतिपापकृदहं महापातकिनां वरः ॥
अगमं जननीं यस्मात्कामबाणवशानुगः
॥१२॥इति संचित्य मनसा स तत्र मुनिसन्निधौ ॥
जुगुप्तमानश्चात्मानं तान्मुनीनिदमब्रवीत्
॥१३॥गुरुस्त्रीगमपापस्य प्रायश्चित्तं ममद्विजाः ॥
वदध्वं शास्त्रतत्त्वज्ञाः कृपया मयि केवलम्
॥१४॥मरणान्निष्कृतिः स्याच्चेन्मरिष्यामि न संशयः ॥
भवद्भिरुच्यते यत्तु प्रायश्चित्तं ममाधुना
॥१५॥करिष्ये तद्द्विजाः सत्यं मरणं वान्यदैव वा ॥
तच्छ्रुत्वा वचनं तस्य केचित्तत्रमुनीश्वराः
॥१६॥अनेन साकं वार्ता तु दोषायेति विनिश्चिताः ॥
मौनित्वं भेजिरे केचिन्मुनयः केचिदा भृशम्
॥१७॥दुष्टात्मा मातृगामी त्वं महापातकिनां वरः ॥
गच्छगच्छेतिबहुशो वाचमूचुर्द्विजोत्तमाः
॥१८॥तान्निवार्य कृपाशीलः सर्वज्ञः करुणानिधिः ॥
कृष्णद्वैपायनस्तत्र दुर्विनीतमभाषत
॥१९॥गच्छाशु रामसेतौ त्वं धनुष्कोटौ सहांबया ॥
मकरस्थे रवौ माघे मासमेकं निरंतरम्
॥२०॥जितेंद्रियो जितक्रोधः परद्रोहविवर्जितः ॥
एकमासं निराहारः कुरु स्नानं सहांबया
॥२१॥पूतो भविष्यस्यद्धा गुरुस्त्री गमदोषतः ॥
यत्पातकं न नश्येत सेतुस्नानेन तन्नहि
॥२२॥श्रुतिस्मृतिपुराणेषु धनुष्कोटिप्रशंसनम् ॥
बहुधा भण्यते पंचमहापातकनाशनम्
॥२३॥तस्मात्त्वं त्वरया गच्छ धनुष्कोटिं सहांबया ॥
प्रमाणं कुरु मद्वाक्यं वेदवाक्यमिव द्विज
॥२४॥श्रीरामधनुषः कोटौ स्नातस्य द्विज पुत्रक ॥
महापातककोट्योपि नैव लक्ष्या इतीव हि
॥२५॥प्रायश्चित्तांतरं प्रोक्तं मन्वादिस्मृतिभिः स्मृतौ ॥
तद्गच्छत्वं धनुष्कोटिं महापातक नाशिनीम्
॥२६॥इतीरितोऽथ व्यासेन दुर्विनीतोद्विजोत्तमाः ॥
मात्रा साकं धनुष्कोटिं नत्वा व्यासं च निर्ययौ
॥२७॥मकरस्थे रवौ माघे मासमात्रं निरंतरम् ॥
मात्रा सह निराहारो जितक्रोधो जितेंद्रियः
॥२८॥श्रीरामधनुषः कोटौ सस्नौ संकल्पपूर्वकम् ॥
रामनाथं नमस्कुर्वं स्त्रिकालं भक्तिपूर्वकम्
॥२९॥मासांते पारणां कृत्वा मात्रा सह विशुद्धधीः ॥
व्यासांतिकं पुनः प्रायात्तस्मै वृत्तं निवेदितुम्
॥३०॥स प्रणम्य पुनर्व्यासं दुर्विनीतोऽब्रवीद्वचः
॥३१॥दुर्विनीत उवाच
भगवन्करुणासिंधो द्वैपायन महत्तम ॥
भवतः कृपया रामधनुष्कोटौ सहांबया ॥
माघमासे निराहारो मासमात्रमतंद्रितः
॥३२॥अहं त्वकरवं स्नानं नमस्कुर्वन्महेश्वरम् ॥
इतः परं मया व्यास भगवन्भक्तवत्सल
॥३३॥यत्कर्त्तव्यं मुने तत्त्वं ममोपदिश तत्त्वतः ॥
इति तस्य वचः श्रुत्वा दुर्विनीतस्य वै मुनिः ॥
बभाषे दुर्विनीतं तं व्यासो नारायणांशकः
॥३४॥व्यास उवाच
दुर्विनीत गतं तेऽद्य पातकं मातृसंगजम्
॥३५॥मातुश्च पातकं नष्टं त्वत्संगतिनिमि त्तजम् ॥
संदेहो नात्र कर्तव्यः सत्यमुक्तं मया तव
॥३६॥बांधवाः स्वजनाः सर्वे तथान्ये ब्राह्मणाश्च ये ॥
सर्वे त्वां संग्रहीष्यंति दुर्विनीतां बया सह
॥३७॥मत्प्रसादाद्धनुष्कोटौ विशुद्धस्त्वं निमज्जनात् ॥
दारसंग्रहणं कृत्वा गार्हस्थ्यं धर्ममाचर
॥३८॥त्यज त्वं प्राणिहिंसां च धर्मं भज सनातनम् ॥
सेवस्व सज्जनान्नित्यं भक्तियुक्तेन चेतसा
॥३९॥संध्योपासनमुख्यानि नित्यकर्माणि न त्यज ॥
निगृहीष्वेन्द्रियग्राममर्चयस्व हरं हरिम्
॥४०॥परापवादं मा ब्रूया मासूयां भज कर्हिचित् ॥
अन्यस्याभ्युदयं दृष्ट्वा संतापं कृणु मा वृथा
॥४१॥मातृवत्परदा रांश्च त्वन्नित्यमवलोकय ॥
अधीतवेदानखिलान्माविस्मर कदाचन
॥४२॥अतिथीन्मावमन्यस्व श्राद्धं पितृदिने कुरु ॥
पैशून्यं मा वदस्व त्वं स्वप्नेऽप्यन्स्य कर्हिचित्
॥४३॥इतिहासपुराणानि धर्मशास्त्राणि संततम् ॥
अवलोकय वेदांतं वेदांगानि तथा पुनः
॥४४॥हरिशंकरना मानि मुक्तलज्जोऽनुकीर्त्तय ॥
जाबालोपनिषन्मंत्रैस्त्रिपुंड्रोद्धूलनं कुरु
॥४५॥रुद्राक्षान्धारय सदा शौचाचारपरो भव ॥
तुलस्या बिल्वपत्रैश्च नारायणहरावुभौ
॥४६॥एकं कालं द्विकालं वा त्रिकालं चार्चयस्य भोः ॥
तुलसीदलसंमिश्रं सिक्तं पादोदकेन च
॥४७॥नैवेद्यान्नं सदा भुंक्ष्व शंभुनारायणाग्रतः ॥
कुरु त्वं वैश्वदेवाख्यं बलिमन्नविशुद्धये
॥४८॥यतीश्वरान्ब्रह्मनिष्ठान्तर्पयान्नैर्गृहागतान् ॥
वृद्धानन्याननाथांश्च रोगिणो ब्रह्मचारिणः
॥४९॥कुरु त्वं मातृशुश्रूषामौपासनपरो भव ॥
पंचाक्षरं महामंत्रं प्रणवेन समन्वितम्
॥५०॥तथैवाष्टाक्षरं मंत्रमन्यमंत्रानपि द्विज ॥
जप त्वं प्रयतो भूत्वा ध्यायन्मंत्राधिदेवताः
॥५१॥एवमन्यांस्तथा धर्मान्स्मृत्युक्तान्त्सर्वदा कुरु ॥
एवं कृतव्रतस्ते स्याद्देहांते मुक्तिरप्यलम्
॥५२॥इत्युक्तो व्यासमुनिना दुर्विनीतः प्रणम्य तम् ॥
तदुक्तमखिलं कृत्वा देहांते मुक्तिमाप्तवान्
॥५३॥तन्मातापि मृता काले धनुष्कोटिनिमज्जनात ॥
अवाप परमां मुक्तिमपुनर्भवदायिनीम्
॥५४॥दुर्वासा उवाच
एवं ते दुर्विनीतस्य तन्मातुश्च विमोक्षणम् ॥
धनुष्कोट्यभिषेकेण यज्ञदेव मयेरितम्
॥५५॥पुत्रमेनं त्वमप्याशु ब्रह्महत्याविशुद्धये ॥
समादाय व्रज ब्रह्मन्धनुष्कोटिं विमुक्तिदाम्
॥५६॥सिंधुद्वीप उवाच
इति दुर्वाससा प्रोक्तो यज्ञदेवो निजं सुतम् ॥
समादाय ययौ राम धनुष्कोटिं विमुक्तिदाम्
॥५७॥गत्वा निवासमकरोत्षण्मासं तत्र स द्विजः ॥
पुत्रेण साकं नियतो हे सृगालप्लवंगमौ
॥५८॥स सस्नौ च धनुष्कोटौ षण्मासं वै स पुत्रकः ॥
षण्मासांते यज्ञदेवं प्राह वागशरीरिणी
॥५९॥विमुक्ता यज्ञदेवस्य ब्रह्महत्या सुतस्य ते ॥
स्वर्णस्तेयात्सुरापानात्किरातीसंगमात्तथा
॥६०॥अन्येभ्योपि हि पापेभ्यो विमुक्तोयं सुतस्तव ॥
संशयं मा कुरुष्व त्वं यज्ञदेव द्विजोत्तम
॥६१॥इत्युक्त्वा विररामाथ सा तु वाग शरीरिणी ॥
तदाऽशरीरिणीवाक्यं यज्ञदेवः स शुश्रुवान्
॥६२॥संतुष्टः पुत्रसहितो रामनाथं निषेव्य च ॥
धनुष्कोटिं नमस्कृत्य पुत्रेण सहि तस्तदा
॥६३॥स्वदेशं प्रययौ हृष्टः स्वग्रामं स्वगृहं तथा ॥
सपुत्रदारः सुचिरं सुखमास्ते सुनिर्वृतः
॥६४॥सिन्धुद्वीप उवाच
गोमायुवानरावेवं युवयोः कथितं मया ॥
यज्ञदेवसुतस्यास्य सुमतेः परिमोक्षणम्
॥६५॥पातकेभ्यो महद्भ्यश्च धनुष्कोटौ निमज्जनात् ॥
युवामतो धनुष्कोटिं गच्छतं पापशुद्धये ॥
नान्यथा पापशुद्धिः स्यात्प्रायश्चित्तायुतैरपि
॥६६॥श्रीसूत उवाच
सिन्धुद्वीपस्य वचनमिति श्रुत्वा द्विजो त्तमाः
॥६७॥सृगालवानरावाशु विलंघितमहापथौ ॥
धनुष्कोटिं प्रयासेन गत्वा स्नात्वा च तज्जले
॥६८॥विमुक्तौ सर्वपापेभ्यो विमानवरसंस्थितौ ॥
देवैः कुसुमवर्षेण कीर्यमाणौ सुतेजसौ
॥६९॥हारकेयूरमुकुटकटकादिविभूषितौ ॥
देवस्त्रीधूयमानाभ्यां चामराभ्यां विराजितौ ॥
गत्वा देवपुरीं रम्यामिंद्र स्यार्द्धासनं गतौ
॥७०॥श्रीसूत उवाच
युष्माकमेवं कथितं सृगालस्य कपेरपि
॥७१॥पापाद्विमोक्षणं विप्रा धनुष्कोटौ निमजनात् ॥
भक्त्या य इममध्यायं शृणोति पठतेऽपि वा
॥७२॥स्नानजं फलमाप्नोति धनुष्कोटौ स मानवः ॥
योगिवृंदैरसुलभां मुक्तिमप्याशु विंदति
॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरविमोक्षणवर्णनंनाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥