मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ३७

3
ब्रह्मखण्डः · सेतुखण्डः · 37

क्षीरकुंडस्वरूपकथनम्

श्रीसूत उवाच

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥

यावद्रामधनुष्कोटिचक्रतीर्थमुखानि वः

॥१॥

चतुर्विंशतितीर्थानि कथितानि मयाधुना ॥

इतोऽन्यदद्भुतं यूयं किं भूयः श्रोतुमिच्छथ

॥२॥

मुनय ऊचुः

क्षीरकुंडस्य माहात्म्यं श्रोतुमिच्छामहे मुने ॥

यत्समीपे त्वया चक्रतीर्थमित्युदितं पुरा

॥३॥

क्षीरकुंडं च तत्कुत्र कीदृशं तस्य वैभवम् ॥

क्षीरकुण्डमिति ख्यातिः कथं वास्य समागता

॥४॥

एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ॥

श्रीसूत उवाच ॥

ब्रवीमि मुनयः सर्वे शृणुध्वं सुसमाहिताः

॥५॥

देवीपुरान्महापुण्यात्प्रतीच्यां दिश्यदूरतः ॥

फुल्लग्राममिति ख्यातं स्थानमस्ति महत्तरम्

॥६॥

यत आरभ्य रामेण सेतुबन्धो महार्णवे ॥

तद्धि पुण्यतमं क्षेत्रं फुल्लग्रामाभिधं पुरम्

॥७॥

क्षीरकुण्डं तु तत्रैव महापातकनाशनम् ॥

दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाच्चापि मोक्षदम्

॥८॥

तस्य तीर्थस्य पुण्यस्य क्षीरकुण्डमिति प्रथाम् ॥

भवतां सादरं वक्ष्ये शृणुध्वं श्रद्धया सह

॥९॥

पुरा हि मुद्गलोनाम मुनिर्वेदोक्तमार्गकृत् ॥

दक्षिणांबुनिधेस्तीरे फुल्लग्रामेतिपावने

॥१०॥

नारायणप्रीतिकरम करोद्यज्ञमुत्तमम् ॥

तस्य विष्णुः प्रसन्नात्मा यागेन परितोषितः

॥११॥

प्रादुर्बभूव पुरतो यज्ञवाटे द्विजोत्तमाः ॥

तं दृष्ट्वा मुद्गलो विष्णुं लक्ष्मीशोभितविग्रहम्

॥१२॥

कालमेघतनुं कांत्या पीतांबरविराजितम् ॥

विनतानंदनारूढं कौस्तुभालंकृतोरसम्

॥१३॥

शंखचक्रगदापद्मराजद्बाहुचतु ष्टयम् ॥

भक्त्या परवशो दृष्ट्वा पुलकांकुरमंडितः ॥

मुद्गलः परितुष्टाव शब्दैः श्रोत्रसुखावहैः

॥१४॥

मुद्गल उवाच

प्रथमं जगतः स्रष्ट्रे पालकाय ततः परम्

॥१५॥

संहर्त्रे च ततः पश्चान्नमो नारायणाय ते ॥

नमः शफररूपाय कमठाय चिदात्मने

॥१६॥

नमो वराहवपुषे नमः पंचास्यरूपिणे ॥

वामनाय नमस्तुभ्यं जमदग्निसुताय ते

॥१७॥

राघवाय नमस्तुभ्यं बलभद्राय ते नमः ॥

कृष्णाय कल्कये तुभ्यं नमो विज्ञानरूपिणे

॥१८॥

रक्ष मां करुणासिंधो नारायण जगत्पते ॥

निर्लज्जं कृपणं क्रूरं पिशुनं दांभिकं कृशम्

॥१९॥

परदारपरद्रव्यपरक्षेत्रैकलो लुपम् ॥

असूयाविष्टमनसं मां रक्ष कृपया हरे

॥२०॥

इति स्तुतो हरिः साक्षान्मुद्गलेन द्विजोत्तमाः ॥

तमाह मुद्गलमुनिं मेघगंभीरया गिरा

॥२१॥

श्रीहरिरुवाच

प्रीतोऽस्म्यनेन स्तोत्रेण मुद्गल क्रतुना च ते ॥

प्रत्यक्षेण हविर्भोक्तुमहं ते क्रतुमागतः

॥२२॥

इत्युक्तो हरिणा तत्र मुद्गलस्तुष्टमानसः ॥

उवाचाधोक्षजं विप्रो भक्त्या परमया युतः

॥२३॥

मुद्गल उवाच

कृतार्थोऽस्मि हृषीकेश पत्नी मे धन्यतां ययौ ॥

अद्य मे सफलं जन्म ह्यद्य मे सफलं तपः

॥२४॥

अदय मे सफलो वंशो ह्यद्य मे सफलाः सुताः ॥

आश्रमः सफलोऽद्यैव सर्वं सफलमद्य मे

॥२५॥

यद्भवान्यज्ञवाटं मे हविर्भोक्तुमिहागतः ॥

योगिनो योगनिरता हृदये मृगयंति यम्

॥२६॥

तमद्य साक्षात्त्वां पश्ये सफ लोऽयं मम क्रतुः ॥

इतीरयित्वा तं विष्णुमर्चयित्वाऽऽसनादिभिः

॥२७॥

चंदनैः कुसुमैरन्यैर्दत्त्वा चार्घ्यं स विष्णवे ॥

प्रददौ विष्णवे प्रीत्या पुरो डाशादिकं हविः

॥२८॥

स्वयमेव समादाय पाणिना लोकभावनः ॥

हविस्तद्बुभुजे विष्णुर्मुद्गलेन समर्पितम्

॥२९॥

तस्मिन्हविषि भुक्ते तु विष्णुना प्रभविष्णुना ॥

साग्नयस्त्रिदशाः सर्वे तृप्ताः समभवन्द्विजाः

॥३०॥

ऋत्विजो यजमानश्च तत्रत्या ब्राह्मणास्तथा ॥

यत्किंचित्प्राणिलोकेऽ स्मिंश्चरं वा यदि वाऽचरम्

॥३१॥

सर्वमेव जगत्तृप्तं भुक्ते हविषि विष्णुना ॥

ततो हरिः प्रसन्नात्मा मुद्गलं प्रत्यभाषत

॥३२॥

प्रीतोऽहं वरदोऽस्म्येष वरं वरय सुव्रत ॥

इत्युक्ते केशवेनाथ महर्षिस्तमभाषत

॥३३॥

मुद्गल उवाच

यत्त्वया मे हविर्भुक्तं यागे प्रत्यक्षरूपिणा ॥

अनेनैव कृतार्थोऽस्मि किमस्मादधिकं वरम्

॥३४॥

तथापि भगवन्विष्णो त्वयि मे निश्चला सदा ॥

भक्तिर्निष्कपटा भूयादिदं मे प्रथमं वरम्

॥३५॥

माधवाहं प्रतिदिनं सायंप्रातरिहाग्नये ॥

त्वद्रूपाय तव प्रीत्यै सुरभेः पयसा हरे

॥३६॥

होतुमिच्छामि वरद तन्मे देहि वरांतरम् ॥

पयसा नित्यहोमो हि द्विकालं श्रुतिचोदितः

॥३७॥

न मे सुरभयः संति तापसस्याधनस्य च ॥

इत्युक्ते मुद्गलेनाथ देवो नारायणो हरिः

॥३८॥

आहूय विश्वकर्माणं त्वष्टारममृताशिनम् ॥

एकं सरः कारयित्वा शिल्पिना तेन शोभनम्

॥३९॥

स्फटिकादि शिलाभेदैस्तेनासौ विश्वकर्मणा ॥

समीचकार च पुनस्तत्प्राकाराद्यलंकृतम् ॥

तत आहूय भगवान्सुरभिं वाक्यमब्रवीत्

॥४०॥

श्रीहरिरुवाच

मुद्गलो मम भक्तोऽयं सुरभे प्रत्यहं मुदा

॥४१॥

मत्प्रीत्यर्थं पयोहोमं कर्तुमिच्छति सांप्रतम् ॥

मत्प्रीत्यर्थमितो देवि त्वमतो मत्प्रचोदिता

॥४२॥

सायंप्रातरिहागत्य प्रत्यहं सुरभे शुभे ॥

पयसा त्वत्प्रसूतेन सर एतत्प्रपूरय

॥४३॥

तेनासौ पयसा नित्यं सायंप्रातश्च होष्यति ॥

ओमित्युक्त्वाथ सुरभिरेवं नारयणेरिता

॥४४॥

अथ नारायणो देवो मुद्गलं प्रत्यभाषत ॥

सुरभेः पयसा नित्यमस्मिन्सरसि तिष्ठता

॥४५॥

सायंप्रातः प्रतिदिनं मत्प्रीत्यर्थमिहाग्नये ॥

जुहुधि त्वं महाभाग तेन प्रीणाम्यहं तव

॥४६॥

मत्प्रीत्या तेऽखिला सिद्धिर्भविष्यति च मुद्गल ॥

इदं क्षीरसरोनाम तीर्थं ख्यातं भविष्यति

॥४७॥

अस्मिन्क्षीरसरस्तीर्थे स्नातानां पंचपातकम् ॥

अन्यान्यपि च पापानि नाशं यास्यंति तत्क्षणात्

॥४८॥

मुद्गल त्वं च मां याहि देहांते मुक्तबंधनः ॥

इत्युक्त्वा भगवान्विष्णुस्तं समालिंग्य मुद्गलम्

॥४९॥

नमस्कृतश्च तेनायं तत्रैवांतरधीयत ॥

मुद्गलोऽपि गते विष्णावनेकशतवत्सरम्

॥५०॥

सुरभेः पयसा जुह्वन्नग्नये हरितुष्टये ॥

उवास प्रयतो नित्यं फुल्ल ग्रामे विमुक्तिदे ॥

देहांते मुक्तिमगमद्विष्णुसायुज्यरूपिणीम्

॥५१॥

श्रीसूत उवाच

एवमेतद्द्विजवरा युष्माकं कथितं मया

॥५२॥

यथा क्षीरसरो नाम तीर्थस्यास्य पुराऽभवत् ॥

इदं क्षीरसरः पुण्यं सर्वलोकेषु विश्रुतम्

॥५३॥

काश्यपस्य मुनेः पत्नी कद्रूर्यत्र द्विजोत्तमाः ॥

स्नात्वा स्वभर्तृवाक्येन नोदिता नियमान्विता

॥५४॥

छलेन मुमुचे सद्यः सपत्नीजयदोषतः ॥

अतोऽत्र तीर्थे ये स्नांति मानवाः शुदमानसाः

॥५५॥

तेषां विमुक्तबंधानां मुक्तानां पुण्यकर्मिणाम् ॥

किं यागैः किमु वा वेदैः किं वा तीर्थनिषेवणैः

॥५६॥

जपैर्वा नियमैर्वापि क्षीर कुंडविलोकिनाम् ॥

क्षीरकुंडस्य वातेन स्पृष्टदेहो नरो द्विजाः

॥५७॥

ब्रह्मलोकमनुप्राप्य तत्रैव परिमुच्यते ॥

निमग्नाः क्षीरकुंडेऽस्मिन्नवमत्यापि भास्करिम्

॥५८॥

तस्य मूर्द्धनि तिष्ठेयुर्ज्वलतः पावकोपमाः ॥

मग्नानां क्षीरकुंडेस्मिञ्छीता वैतरणी नदी

॥५९॥

सर्वाणि नरकाण्यद्धा व्यर्थानि च भवंति हि ॥

कामधेनुसमे तस्मिन्क्षीरकुंडे स्थितेप्यहो

॥६०॥

योन्यत्र भ्रमते स्नातुं स नरो विप्रसत्तमाः ॥

गोक्षीरे विद्यमानेऽपि ह्यर्कक्षीराय गच्छति

॥६१॥

स्नातानां क्षीरकुंडेऽस्मिन्नालभ्यं किंचिदस्ति हि ॥

करप्राप्तैव मुक्तिः स्यात्किमन्यैर्बहुभाषणैः

॥६२॥

ब्रवीमि भुजमुद्धत्य सत्यंसत्यं ब्रवीमि वः ॥

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥

स क्षीरकुंडस्नानस्य लभते फलमुत्तमम्

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशंसायां क्षीरकुंडस्वरूपकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥