दुराचारसंसर्गदोषशांतिवर्णनम्
श्रीसूत उवाच
धनुष्कोटेस्तु माहात्म्यं भूयोऽपि प्रब्रवीम्यहम् ॥
दुराचाराभिधो यत्र स्नात्वा मुक्तो भवद्द्विजाः
॥१॥मुनय ऊचुः
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥
किंच पापं कृतं तेन दुराचारेण वै मुने
॥२॥कथं वा पातका न्मुक्तो धनुष्कोटौ निमज्जनात् ॥
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने
॥३॥श्रीसूत उवाच
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥
स्नानेन धनुषः कोटौ यथा मुक्तश्च पातकात्
॥४॥दुराचाराभिधो विप्रो गौतमीतीरमाश्रितः ॥
कश्चिदस्ति द्विजाः पापी क्रूरकर्मरतः सदा
॥५॥ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥
तदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्विजाः
॥६॥महापातकिसंसर्गं दोषेणास्य द्विजस्य वै ॥
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः
॥७॥महापातकिभिः सार्द्धं दिनमेकं तु यो द्विजः ॥
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः
॥८॥ब्राह्मणस्य तुरीयांशो नश्यत्येव न संशयः ॥
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा
॥९॥भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ॥
द्वितीयभागो नश्येत ब्राह्मणस्य न संशयः
॥१०॥त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥
चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम्
॥११॥अतः परं तु तैः साकं शयनासनभोजनैः ॥
तत्तुल्यपातकी भूयान्महापातकसंभवात्
॥१२॥तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजाः ॥
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा
॥१३॥असौ परवशस्तेन वेतालेनातिपीडितः ॥
देशाद्देशं भ्रमन्विप्रा वनाच्चैव वनांतरम्
॥१४॥पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥
रामचंद्रधनुष्कोटिं महापातकनाशनीम्
॥१५॥अनुद्रुतः पिशाचेन तेनाविष्टो ययौ द्विजाः ॥
न्यमज्जयत्स वेतालो धनुष्कोटिजले त्वमुम्
॥१६॥धनुष्कोटिजले सोऽयं वेतालेन प्रवेशितः ॥
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः
॥१७॥उत्थितोऽसौ द्विजो विप्रा धनुष्कोटिजलात्तदा ॥
स्वस्थो व्यचिंतयत्कोऽयं देशो जलधितीरतः
॥१८॥कथं मयागतमिह गौतमीतीरवासिना ॥
इति चिंताकुलः सोऽयं धनुष्कोटिनिवासिनम्
॥१९॥दत्तात्रेयं महात्मानं योगिप्रवरमुत्तमम् ॥
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत
॥२०॥न जाने भगवन्देशः कतमोऽयं वदाधुना ॥
गौतमीतीरनिलयो दुराचाराभिधो ह्यहम्
॥२१॥कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम् ॥
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः
॥२२॥ध्यात्वा मुहूर्तमवदद्दुराचारं घृणानिधिः ॥
महापातकिसंसर्गे दुराचार कृते पुरा
॥२३॥ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ॥
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः
॥२४॥न्यमज्जयत्त्वां वेतालो धनुष्कोटिजलेऽत्र तु ॥
तत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान्
॥२५॥धनुष्कोटौ तु ये स्नानं पुण्ये कुर्वंति मानवाः ॥
तेषां नश्यंति वै सत्यं पंचपातकसंचयाः
॥२६॥रामचंद्रधनुष्कोटावत्र मज्जनमात्रतः ॥
महापातकिसंसर्गदोषस्ते विलयं ययौ
॥२७॥तन्नाशादेव वेतालस्त्वां मुक्त्वा विलयं गतः ॥
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत्
॥२८॥सोऽयं भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पार्वणेन विधानेन पितॄणां नाकरोन्मुदा
॥२९॥तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥
सोपि चास्य धनुष्कोटेरवलोकनमात्रतः
॥३०॥वेतालत्वं विहायेह विष्णुलोकम वाप्तवान् ॥
अतो भाद्रपदे मासे कृष्णपक्षे महालयम्
॥३१॥उद्दिश्य स्वपितॄन्ये तु न कुर्वन्त्यतिलोभतः ॥
महालोभयुतास्तेऽद्धा वेतालाः स्युर्न संशयः
॥३२॥तस्माद्भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पितॄनुद्दिश्य शक्त्या ये ब्राह्मणान्वेदपारगान्
॥३३॥भोजयेयुर्महान्नेन न ते विंदंति दुर्गतिम् ॥
यस्तु भाद्रपदे मासे कृष्णपक्षे महालयम्
॥३४॥स्वशक्त्यनुगुणं विप्रमेकं द्वौ त्रीनकिंचनः ॥
भोजयेन्नहि दौर्गत्यं भवेदस्य कदाचन
॥३५॥अयं भाद्रपदे मासे पितॄणामनुपासनात् ॥
ययौ वेतालतां विप्रो यस्त्वां जग्राह पापिनम्
॥३६॥कालो भाद्रपदमासमारभ्य वृश्चिकावधि ॥
महालयस्य कथितो मुनिभिस्तत्त्वदर्शिभिः
॥३७॥मासो भाद्रपदः कालस्तत्रापि हि विशिष्यते ॥
कृष्ण पक्षो विशिष्टः स्याद्दुराचारक तत्र वै
॥३८॥तस्मिञ्छुभे कृष्णपक्षे प्रथमायां तथा तिथौ ॥
श्राद्धं महालयं कुर्याद्यो नरो भक्तिपूर्वकम्
॥३९॥तस्य प्रीणाति भगवान्पावकः सर्वपावनः ॥
स वह्निलोकमाप्नोति वह्निना सह मोदते
॥४०॥तस्मै च ज्वलनो देवः सर्वैश्वर्यं ददात्यपि ॥
प्रथमायां तिथौ मर्त्यो यो न कुर्यान्महालयम्
॥४१॥वह्निर्गृहं दहेत्तस्य श्रियं क्षेत्रादिकं तथा ॥
वेदज्ञे ब्राह्मणे भुक्ते प्रथमायां महालये
॥४२॥दश कल्पसहस्राणि पितरो यांति तृप्तताम् ॥
द्वितीयायां तु यो भक्त्या कुर्याच्छ्राद्धं महालयम्
॥४३॥तस्य प्रीणाति भगवान्भवानीपतिरीश्वरः ॥
स कैलासमवाप्नोति शिवेन सह मोदते
॥४४॥विपुलां संपदं तस्मै प्रीतो दद्यान्महेश्वरः ॥
द्वितीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम्
॥४५॥तस्य वै कुपितः शंभुर्नाशयेद्ब्रह्मवर्चसम् ॥
रौरवं कालसूत्राख्यं नरकं चास्य दास्यति
॥४६॥वेदज्ञे ब्राह्मणे भुक्ते द्वितीयायां महालये ॥
विंशत्कल्प सहस्राणि पितरो यांति तृप्तताम्
॥४७॥अनुग्रहात्पितॄणां च संततिश्चास्य वर्द्धते ॥
तृतीयायां नरो भक्त्या कुर्याच्छ्राद्धं महालयम्
॥४८॥तस्य प्रीणाति भगवाँल्लोकपालो धनाधिपः ॥
महापद्मादिनिधयो वर्तंते तस्य वै वशे
॥४९॥तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
तृतीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम्
॥५०॥धनदो भगवांस्तस्य संपदं हरति क्षणात् ॥
दारिद्यं च ददात्यस्मै बहुदुःखसमाकुलम्
॥५१॥तृतीयायां तिथौ मर्त्यो यः करोति महालयम् ॥
तृप्यंति पितरस्तस्य त्रिंशत्कल्पसहस्रकम्
॥५२॥चतुर्थ्यां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्हेरंबः पार्वतीसुतः
॥५३॥तस्य विघ्नाश्च नश्यंति गजवक्त्रप्रसादतः ॥
चतुर्थ्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम्
॥५४॥विघ्नेशो भगवांस्तस्य सदा विघ्नं करोति हि ॥
चण्डकोलाहलाभिख्ये नरके च पतत्यथ
॥५५॥चतुर्थ्यां वै तिथौ मर्त्यो यः करोति महालयम् ॥
पितरः कल्पसाहस्रं चत्वारिंशत्प्रहर्षिताः
॥५६॥बहून्पुत्रान्प्रदास्यंति श्राद्धकर्तुर्निरंतरम् ॥
पंचम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम्
॥५७॥तस्य लक्ष्मीर्भगवती परित्यजति मंदिरम् ॥
अलक्ष्मीः कलहाधारा तस्य प्रादुर्भवेद्गृहे
॥५८॥पचम्यां तु तिथौ मर्त्यो यः करोति महालयम् ॥
तस्य तृप्यंति पितरः पंचकल्पसहस्रके
॥५९॥संततिं चाप्यविच्छिन्नामस्मै दास्यंति तर्पिताः ॥
पार्वती च प्रसन्ना स्यान्महदैश्वर्यदायिनी
॥६०॥षष्ठ्यां तिथौ नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्षण्मुखः पार्वती सुतः
॥६१॥तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः ॥
ग्रहैर्वालग्रहैश्चैव न बाध्यंते कदाचन
॥६२॥षष्ठ्यां तिथौ नरो भक्त्या यो न कुर्यान्महालयम् ॥
तस्य स्कन्दो महासेनो विमुखः स्यान्न संशयः
॥६३॥गर्भान्निर्गतमात्रैव प्रजा तस्य विनश्यति ॥
पूतनादिग्रहकुलैर्बाध्यते च निरंतरम्
॥६४॥वह्निज्वालाप्रवेशाख्ये नरके च पतत्यधः ॥
षष्ठ्यां तिथौ यः श्रद्धावान्कुर्याच्छ्राद्धं महालयम्
॥६५॥षष्टिकल्पसहस्रं तु पितरो यामति तृप्तताम् ॥
पुत्रानपि प्रदास्यंति संपदं विपुलां तथा
॥६६॥सप्तम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
हिरण्यपाणिर्भगवानादित्यस्तस्य तुष्यति
॥६७॥अरोगो दृढगात्रः स्याद्भास्करस्य प्रसादतः ॥
हिरण्यपाणिर्भगवान्हिरण्यं पाणिना स्वयम्
॥६८॥महालयश्राद्धकर्त्रे ददाति प्रीतमानसः ॥
सप्तम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम्
॥६९॥व्याधिभिः क्षयरोगाद्यै बाध्यते स दिवानिशम् ॥
तीक्ष्णधारास्त्रशय्याख्ये नरके च पतत्यधः
॥७०॥सप्तम्यां यो नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
सप्ततिं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै
॥७१॥संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
अष्टम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महाल यम्
॥७२॥मृत्युंजयः कृत्तिवासास्तस्य प्रीणाति शंकरः ॥
करस्थं तस्य कैवल्यं शंकरस्य प्रसादतः
॥७३॥महालयेन श्राद्धेन तुष्टे साक्षात्त्रि यंबके ॥
चतुर्दशसु लोकेषु दुर्लभं तस्य किं भवेत्
॥७४॥महालयं न कुर्याद्वै योऽष्टम्यां मूढचेतनः ॥
संसारसागरे घोरे सदा मज्जति दुःखितः
॥७५॥कदाचिदपि तस्येष्टं नैव सिद्ध्यति भूतले ॥
वैतरिण्याख्यनरके पतत्याचंद्रतारकम्
॥७६॥योऽष्टम्यां श्रद्धया श्राद्धं नरः कुर्यान्महालयम् ॥
अशीतिकल्पसाहस्रं तृप्यंति पितरोऽस्य वै
॥७७॥आशीर्भिर्वर्द्धयंत्येनं विघ्नश्चास्य व्यपोहति ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा
॥७८॥नवम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
दुर्गादेवी भगवती तस्य प्रीणाति शांभवी
॥७९॥क्षयापस्मारकुष्ठा दीन्क्षुद्रप्रेतपिशाचकान् ॥
नाशयेत्तस्य सन्तुष्टा दुर्गा महिषमर्दिनी
॥८०॥नवम्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥
अपस्मारेण पीड्येत तथैव ब्रह्मरक्षसा
॥८१॥अभिचारार्थकृत्याभिर्वाध्येत च निरन्तरम् ॥
नवम्यां यस्तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम्
॥८२॥नवतिं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा
॥८३॥दशम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
तस्यामृतकलश्चन्द्रः षोडशात्मा प्रसीदति
॥८४॥औषधीनामधीशेऽस्मिञ्छ्राद्धेनानेन तोषिते ॥
व्रीह्यादीनि तु धान्यानि दद्युरोषधयः सदा
॥८५॥यो न कुर्याद्दशम्यां तु महालयमनुत्तमम् ॥
ओषध्यो निष्फलास्तस्य कृषिश्चाप्यस्य निष्फला
॥८६॥दशम्यां यस्तिथौ मर्त्यः श्राद्धंकुर्यान्महालयम् ॥
शतकल्पसहस्राणि तृप्यंति पितरोऽस्य वै
॥८७॥संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
एकादश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम्
॥८८॥संहर्ता सर्वलोकस्य तस्य रुद्रः प्रसीदति ॥
रुद्रस्य सर्वसंहर्तुः प्रसादेन जगत्पतेः
॥८९॥शत्रून्पराजय त्येष श्राद्धकर्ता निरन्तरम् ॥
ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात्
॥९०॥अग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ॥
एकादश्यां नरो भक्त्या यो न कुर्यान्महालयम्
॥९१॥तस्य वै विमुखो रुद्रो न प्रसीदति कर्हिचित् ॥
सर्वतो वर्धमानाश्च बाधन्ते शत्रवो ह्यमुम्
॥९२॥अग्निष्टोमादिका यज्ञाः कृताश्च बहुदक्षिणाः ॥
निष्फला एव तस्य स्युर्भस्मनि न्यस्तहव्यवत्
॥९३॥ब्रह्मवातकतुल्यः स्याच्छ्राद्धाकरणदोषतः ॥
एकादश्यां तिथौ यस्तु श्राद्धं कुर्यान्महालयम्
॥९४॥द्विशतं कल्पसाहस्रं तृप्यंति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृ गणाः सदा
॥९५॥द्वादश्यां तु तिथौ मर्त्यः कुर्याच्छ्राद्धं महालयम् ।
तस्य लक्ष्मीपतिः साक्षात्प्रसीदति जनार्दनः
॥९६॥प्रसन्ने सति देवेशे देवदेवे जनार्दने ॥
चराचरं जगत्सर्वं प्रीतमेव न संशयः
॥९७॥भूमिर्हरिप्रिया चास्य सस्यं संवर्द्धयत्यपि ॥
लक्ष्मीश्च वर्द्धते तस्य मंदिरे हरिवल्लभा
॥९८॥गदा कौमोदकी नाम नारायणकरस्थिता ॥
अपस्मारादिभूतानि नाशयत्येव सर्वदा
॥९९॥तीक्ष्णधारं तथा चक्रं शत्रूनस्य दहत्यपि ॥
यातुधानपिशाचादीञ्छंखश्चास्य व्यपोहति
॥१००॥एवं सर्वात्मना पीडां वारयत्यस्य केशवः ॥
महालयं न कुर्याद्यो द्वादश्यां मनुजा धम
॥१॥तस्य क्षेत्राणि संपच्च विनश्यंति न संशयः ॥
अपस्मारादिभूतानि शत्रवश्च महाबलाः
॥२॥यातुधानाश्च बाधन्ते तं वै विष्णुपराङ्मुखम् ॥
पात्यते नरके चापि अस्थिभेदननामके
॥३॥द्वादश्यां भक्तियुक्तो यः श्राद्धं कुर्यान्महालयम् ॥
षट्शतं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै
॥४॥संततिं चाप्यविच्छिन्नां पितरोऽस्मै ददत्यपि ॥
त्रयोदश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम्
॥५॥प्रसीदत्यस्य भगवान्कंदर्पो रतिनायकः ॥
स्रग्चंदनादयो भोगा ललनाश्च मनोरमाः
॥६॥कामदेवप्रसादेन तस्य सिद्ध्यंति सर्वदा ॥
आजन्ममरणांतं च सुखमेव स विंदते
॥७॥यो न कुर्यात्त्रयोदश्यां न च श्राद्धं महालयम् ॥
कामदेवोऽस्य विमुखः स्त्रियो भोगांश्च नाशयेत्
॥८॥अंगारशय्याभ्रमणे नरके पातयत्यमुम् ॥
पितॄनुद्दिश्य यः कुर्यात्त्र योदश्यां महालयम्
॥९॥सहस्रकल्पसाहस्रं प्रीणंति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितॄगणास्तदा
॥११०॥चतुर्दश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्याभीष्टप्रदानाय जागर्ति भगवाच्छिवः
॥११॥उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि ॥
सुरापानायुतं चापि स्वर्णस्तेयायुतं तथा
॥१२॥नश्यंति तत्क्षणादेव चतुर्दश्यां महालयात् ॥
चण्डालवृषलस्त्रीणां संगदोषोऽपि नश्यति
॥१३॥अश्वमेधसहस्रस्य पौंडरीकायुतस्य च ॥
पुष्कला फलसिद्धिः स्याच्चतुर्दश्यां महालयात्
॥१४॥यो न कुर्याच्चतुर्दश्यां श्राद्धमेतन्महालयम् ॥
स कल्पकोटिसाहस्रं कल्पकोटिशतं तथा
॥१५॥संसारांधमहाकूपे पतितः स्यादनिष्कृतिः ॥
अचोरयित्वा कनकमपीत्वापि सुरां तथा
॥१६॥सुरापानादिभिर्दोषैर्लिप्यते स विमूढधीः ॥
कृता अपि विधानेन यज्ञाः स्युर्निष्फलास्तथा
॥१७॥चतुर्दश्यां तिथौ यस्तु कुर्याच्छ्राद्धं महालयम् ॥
लक्षकोटिसहस्राणि लक्षकोटिशतानिच
॥१८॥कल्पानि पितरस्तस्य तृप्यंत्येव न संशयः ॥
नरकस्थाश्च पितरः स्वर्गं यांति प्रहर्षिताः
॥१९॥संततिं चाप्यविच्छिन्नां दद्युः पितृगणास्तदा ॥
अमायां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम्
॥१२०॥पितॄणां तस्य तृप्तिः स्यादनंता नात्र संशयः ॥
सुधामास्वाद्य या तृप्तिर्देवानां दिवि वै भवेत्
॥२१॥अनंता तादृशी तृप्तिरमावास्यां महालयात् ॥
अमावास्या महापुण्या पितृदेवनमस्कृता
॥२२॥शांता ह्येषा तु परमा शिवस्य च महाप्रिया ॥
तस्यां महालये श्राद्धे भोजयेद्वेदवित्तमान्
॥२३॥तेन तृप्तिः पितॄणां स्यादनंता तुष्यते शिवः ॥
ब्रह्महत्यादयः पंच पातका नाशमाप्नुयुः
॥२४॥कृताश्च स्युर्विधानेन सर्वे यज्ञाः सदक्षिणाः ॥
अनुष्ठिताः स्युर्विधिवत्सर्वे धर्माः सनातनाः
॥२५॥अमावास्यादिने येन कृतं श्राद्धं महालयम् ॥
प्रत्यग्ब्रह्मैकतां ज्ञात्वा सायुज्यं यात्यसंशयम्
॥२६॥यो न कुर्यादमावास्यां महालयमचेतनः ॥
ब्रह्मलोकगताश्चास्य पितरो यांति नारकम्
॥२७॥संततिश्चास्य मूढस्य विच्छि द्येतैव तत्क्षणात् ॥
स एव हि महानर्थो यदमायां तिथौ नरैः
॥२८॥महालयार्थो विप्रेंद्रा विधिवन्नैव भोजिताः ॥
मासि भाद्रपदे प्राप्ते नृत्यंति पितृदेवताः
॥२९॥अस्मानुद्दिश्य मत्पुत्रा भोजयेयुर्द्विजोत्तमान् ॥
तेन नो नरकक्लेशो न भविष्यति दारुणः
॥१३०॥वासश्च स्वर्गलोके स्याद्यावदाचन्द्रतारकम् ॥
मासि भाद्रपदे प्राप्ते पितॄणां तृदिदायिनी
॥३१॥एकैकं भोजयेद्विप्रं प्रत्यहं भक्तिपूर्वकम् ॥
पितृमातृकुलोद्भूताः पितरस्तृप्तिमाप्नुयुः
॥३२॥कृष्णपक्षे विशेषेण ब्राह्मणान्भोजयेत्सुधीः ॥
घृतसूपादिसस्यैश्च तैलाभ्यंगपुरःसरम्
॥३३॥सुधां पास्यंति पितरस्तस्याकल्पं प्रहर्षिताः ॥
सप्तमीं कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः
॥३४॥विप्रान्यावदमावास्या त्रींस्त्रीनभ्यर्च्य भोजयेत् ॥
आरभ्य द्वादशीं विप्रांस्त्रीनवश्यं तु भोजयेत्
॥३५॥अन्यथैश्वर्यहानिः स्यान्महादारिद्र्यभाग्भवेत् ॥
वित्तलोभं परित्यज्य विप्रान्सूपघृतादि भिः
॥३६॥पयसा पायसान्नेन दध्नापूपादिभिस्तथा ॥
पेयैर्लेह्यैश्च चोष्यैश्च भक्ष्यैश्च विविधैरपि
॥३७॥भोजयेद्वेदविन्मुख्यांस्तृप्तिस्तेषां यथा भवेत् ॥
तेन ब्रह्मा हरिः शंभुस्तृप्ताः स्युर्नात्र संशयः
॥३८॥अग्निष्वात्तादिपितरस्तथैवेंद्रादिदेवताः ॥
बहुनात्र किमुक्तेन तुष्टं तेन जगत्त्रयम्
॥३९॥पार्वणेन विधानेन कुर्याच्छ्राद्धे महालयम् ॥
नरो महालयश्राद्धे पितृवंश्यान्पितॄनिव
॥१४०॥मातृवंश्यानपि पितॄन्भोजयेच्छ्रेयसे मुदा ॥
दक्षिणां च यथाशक्ति दद्याद्वित्तानुसारतः
॥४१॥तस्मिन्महालये श्राद्धे वित्तशाठ्यं न कारयेत् ॥
दक्षिणा खलु यज्ञानां कथितेयं पुरोगवा
॥४२॥अनः पुरोगवैर्हीनं करिष्यति यथाध्वनि ॥
अदक्षिणं तथा सोयं पितृयज्ञोऽपि रिष्यति
॥४३॥तस्माद्यज्ञेषु दातव्या दक्षिणाल्पा हि जानता ॥
विधवाभिरपि स्त्रीभिरपुत्राभिर्महालयः
॥४४॥भर्त्तॄनुद्दिश्य कर्तव्यो भूरिभोजनकर्मणा ॥
अन्यथा धर्महानिः स्यान्नरकं च महद्भवेत्
॥४५॥मासि भाद्रपदे प्राप्ते यो न कुर्यान्महालयम् ॥
तत्कुलं नाशमाप्नोति ब्रह्महत्यां च विंदति
॥४६॥महालयं प्रकुर्वंति श्रद्धावंतः पितॄन्प्रति ॥
न तेषां संततिच्छेदो भवेत्संपदभंगुरा
॥४७॥आलयं ह्यास्पदं प्रोक्तं महः कल्याणमुच्यते ॥
कल्याणानामास्पदत्वान्महालयमुदीर्यते
॥४८॥तस्मान्महालयं मर्त्यः कुर्यात्कल्याणसिद्धये ॥
अमंगलं भवेत्तस्य न कुर्याच्चेन्महालयम्
॥४९॥नकुर्याद्यद्यपि श्राद्धं मातापित्रोर्मृतेऽहनि ॥
कुर्यान्महालयश्राद्धमस्मरन्नेव बुद्धिमान्
॥१५०॥कर्तुं महालयश्राद्धं यदि शक्तिर्न विद्यते ॥
याचित्वापि नरः कुर्यात्पितृणां तन्महालयम्
॥५१॥ब्राह्मणेभ्यो विशिष्टे भ्यो याचेत धनधान्यकम् ॥
पतितेभ्यो न गृह्णीयाद्धनधान्यं कदाचन
॥५२॥ब्राह्मणेभ्यो न लभ्येत यदि धान्यधनादिकम् ॥
याचेत क्षत्रियश्रेष्ठा न्महालयचिकीर्षया
॥५३॥दातारश्चेन्न भूपाला वैश्येभ्योऽपि च याचयेत् ॥
वैश्या अपि हि दातारो यदि लोके न संति वै
॥५४॥दद्याद्भाद्रपदे मासे गोग्रासं पितृतृप्तये ॥
अथ वा रोदनं कुर्याद्बहिर्निर्गत्य कानने
॥५५॥पाणिभ्यामुदरं स्वीयमाहत्याश्रूणि वर्तयन् ॥
तेष्वरण्यप्रदेशेषु उच्चैरेवं वदेन्नरः
॥५६॥शृण्वंतु पितरः सर्वे मत्कुलीना वचो मम ॥
अहं दरिद्रः कृपणो निर्ल्लज्जः क्रूरकर्मकृत्
॥५७॥प्राप्तो भाद्रपदो मासः पितृणां प्रीतिवर्द्धनः ॥
कर्त्तुं महालयश्राद्धं न च मे शक्तिरस्ति वै
॥५८॥भ्रमित्वापि महीं कृत्स्नां न मे किंचन लभ्यते ॥
अतो महालयश्राद्धं न युष्माकं करोम्यहम्
॥५९॥क्षमध्वं मम तद्यूयं भवंतो हि दयापराः ॥
दरिद्रो रोदनं कुर्यादेवं काननभूमिषु
॥१६०॥तस्य रोदनमाकर्ण्य पितरस्तत्कुलोद्भवाः ॥
हृष्टास्तृप्तिं प्रयांत्येव सुधां पीत्वैव निर्जराः
॥६१॥महालयार्थे विप्रौघे भुक्ते तृप्तिर्यथा भवेत् ॥
गोग्रासारण्यरुदितैः पितृ तृप्तिस्तथा भवेत्
॥६२॥मासि भाद्रपदे विघ्नो यदि स्यात्सूतकादिना ॥
यातेषु सूतकाहःसु कुर्यादावृश्चिकावधि
॥६३॥बुधो महालय स्यार्थे ब्राह्मणान्वृणुयान्नव ॥
पित्रर्थमेकं वृणुयात्पितामहकृते तथा
॥६४॥प्रपितामहमुद्दिश्य तथैकं वृणुयाद्द्विजः ॥
तथा मातामहार्थं तु एकं वै वृणुयाद्द्विजम्
॥६५॥मातुःपितामहार्थं च वृणुयाद्द्विजमेककम् ॥
वृणुयादेकमुद्दिश्य मातुश्च प्रपितामहम्
॥६६॥तथैव विश्वेदेवार्थे वृणुयाद्द्वौद्वि जोत्तमौ ॥
विष्ण्वर्थं ब्राह्मणं त्वेकं वृणुयाद्वेदवित्तमम्
॥६७॥एवं महालयश्राद्धे ब्राह्मणान्वृणुयान्नव ॥
अथवा पितृवर्गार्थं वरयेद्विप्रमेककम्
॥६८॥मातामहादीन्वोद्दिश्य वरयेद्विप्रमेककम् ॥
विश्वेदेवार्थमेकं च विष्ण्वर्थं च तथापरम्
॥६९॥एवं वै वरयेद्विप्राश्चतुरस्तु महालये ॥
ब्राह्मणान्वेदसंपन्नान्सुशीलान्वरयेत्सुधीः
॥१७०॥दुःशीलान्वरयेद्यस्तु स वै श्राद्धस्य घातकः ॥
मासि भाद्रपदे प्राप्ते कृष्णपक्षे विशेषतः
॥७१॥कुर्या न्महालयश्राद्धं यो नरः श्रद्धया सह ॥
स स्नातः सर्वतीर्थेषु दुराचार महामते
॥७२॥अग्निष्टोमादयो यज्ञाः शतमप्यमुना कृताः ॥
तुलापुरुषमुख्यानि दानान्यपि कृतानि वै
॥७३॥चांद्रायणादिकृच्छ्राणि कृतान्येव न संशयः ॥
चतुर्णां सांगवेदानां पारायणफलं लभेत्
॥७४॥गायत्र्यादिमहामंत्रजपपुण्यं लभेत्तथा ॥
इतिहासपुराणानां पारायणफलं लभेत्
॥७५॥महालयसमं पुण्यं वृत्तं नास्ति महीतले ॥
ब्रह्मविष्णुमहेशानलोकप्राप्तिर्महालयात्
॥७६॥महालयादिकं श्राद्धं नित्यं काम्यमपीष्यते ॥
तस्मादकरणे तस्य प्रत्यवायो महान्भवेत्
॥७७॥करणादिष्टसिद्धिश्च भविष्यति न संशयः ॥
महालयस्य करणाद्भूतवेतालकादयः
॥७८॥अपस्मारग्रहाश्चापि शाकिनीडाकिनीगणाः ॥
यातुधानाः पिशाचाश्च वेतालाश्च भयानकाः
॥७९॥नश्यंति तत्क्षणादेव भूतान्यन्यानि वै तथा ॥
महालयस्यकरणाद्विपुलां श्रियमश्नुते
॥१८०॥पुरा दशरथो राजा वसिष्ठस्योपदेशतः ॥
मासि भाद्रपदे प्राप्ते कृत्वा श्राद्धं महालयम्
॥८१॥रामादींश्च तुरः पुत्रान्प्राप्तवांल्लोकसंमतान् ॥
विश्वातिशायिनीं लक्ष्मीं प्रपेदे कीर्तिमुत्तमाम्
॥८२॥महालयस्य करणाद्ययाती राजसत्तमः ॥
यदुमुख्यान्महापुत्रान्प्रपेदे वंशवर्द्धनान्
॥८३॥अनन्यदुर्लभं स्वर्गं प्रपेदे श्राद्धपुण्यतः ॥
दुष्यंतो भरतं लेभे महालयविधानतः
॥८४॥महालय विधानेन दमयंतीपतिर्नलः ॥
कृच्छ्रं महत्तरं तीर्त्वा पुनर्लेभे महीमिमाम्
॥८५॥निजग्राह कलिं घोरं पुष्करं चाप्यरातिनम् ॥
इन्द्रसेनाभिधानं च पुत्रं लेभेऽतिधार्मिकम्
॥८६॥हरिश्चंद्रो महाराजो महालयविधानतः ॥
विश्वामित्रकृताद्दुःखान्मुक्तः सत्यवतां वरः
॥८७॥लेभे चंद्रवतीं भार्यां लोहिताश्वं सुतं पुनः ॥
महालयविधानेन कृतवीर्यसुतो बली
॥८८॥अष्टादशानां द्वीपानामाधिपत्यमवाप्तवान् ॥
रामोऽपि दण्डकारण्ये महालयविधानतः
॥८९॥हत्वा तु रावणं संख्ये सीतां पुनरवाप्तवान् ॥
महालयस्य करणाद्धर्मपुत्रो युधिष्ठिरः
॥१९०॥दुःखसागरमुत्तीर्य धार्तराष्ट्राञ्जघान च ॥
महालयस्यकरणाद्वसिष्ठो मुनिसत्तमः
॥९१॥अत्रिर्भृगुश्च कुत्सश्च गौतमश्चांगिरास्तथा ॥
कश्यपश्च भरद्वाजो विश्वा मित्रश्च कुम्भजः
॥९२॥पराशरो मृकण्डश्च ये चान्ये मुनिसत्तमाः ॥
विधाय विधिवच्छ्राद्धं महालयमनुत्तमम्
॥९३॥अणिमाद्यष्टसिद्धीनां व्रतानां तपसां तथा ॥
निवासभूता संजातास्तथा विश्वातिशायिनः
॥९४॥जीवन्मुक्ताश्च ते सर्वे ह्यभवन्मुनिसत्तमाः ॥
अतो महालयश्राद्धं कर्तव्यं भूतिमिच्छता
॥९५॥अतोऽद्यापि दुराचार न कुर्याद्यो महालयम् ॥
भूतवेतालकादिभ्यो भूयात्तस्य महद्भयम्
॥९६॥महालयस्या करणाद्वेतालत्वमवाप्नुयात् ॥
त्वयाविष्टमिदं भूतं विप्रः सन्पूर्वजन्मनि
॥९७॥नाम्ना वेदनिधिः पुण्यो भरद्वाजस्य चात्मनः ॥
कुशस्थल्यभिधाने च वसन्ग्रामे महामनाः
॥९८॥न चकार विधानेन श्राद्धमेतन्महालयम् ॥
ततोयं पितृणां शापाद्वेतालत्वमवाप्तवान्
॥९९॥तस्माद्भाद्र पदे मासे दुराचार पितॄन्प्रति ॥
ब्राह्मणान्भोजयान्नेन षड्रसेन सभक्तिकम्
॥२००॥दारिद्र्यं तेन ते न स्यात्सुखीचैव भवान्भवेत् ॥
महापातकि संसर्गं मा कुरु त्वमितः परम्
॥१॥त्वयानुभूतं यद्दुःखं वेतालग्रहणोद्भवम् ॥
गच्छ त्वमनुजानामि स्वदेशं प्रति मा चिरम्
॥२॥इतीरितः स मुनिना दत्तात्रेयेण योगिना ॥
तं प्रणम्य ययौ देशं कृतार्थेनांतरात्मना
॥३॥गत्वा च स्वगृहं विप्रो दुराचारो द्विजोत्तमाः ॥
विमुक्तवेताल भयो गतपातककंचुकः
॥४॥दत्तात्रेयेरितेनासौ मार्गेण प्रीतमानसः ॥
त्यक्तपातकिसंसर्गः स्वाश्रमाचारतत्परः
॥५॥रामचंद्रधनुष्कोटितीर्थ मज्जनगौरवात् ॥
देहांते परमां मुक्तिं दुराचारो ययौ तदा
॥६॥श्रीसूत उवाच
एवं वः कथितं पुण्यं दुराचरविमोक्षणम् ॥
सेयं पुण्या धनुष्कोटिर्महापातकनाशिनी
॥७॥यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥
अथवा धनुषः कोटेरियत्ता किं हि वै भवेत्
॥८॥या निष्कृतिविहीनानि पापान्यपि विनाशयेत् ॥
प्रायश्चित्तविहीनानि यानि पापानि संति वै
॥९॥तान्यप्यत्र विनश्यंति धनुष्कोटौ निमज्जनात् ॥
शूद्रेण पूजितं लिंगं विष्णुं वा यो नमेद्द्विजः
॥२१०॥प्रायश्चित्तं न तस्योक्तं स्मृतिभिः परमर्षिभिः ॥
नश्येत्तस्यापि तत्पापं धनुष्कोटिनिमज्ज नात्
॥११॥विप्रनिंदाकृतां नृणां प्रायश्चित्तं न विद्यते ॥
विश्वासघातकानां च कृतघ्नानां न निष्कृतिः
॥१२॥भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥
शूद्रान्ने नियतानां च श्रुतिनिंदारतात्मनाम्
॥१३॥कन्याविक्रयिणां विप्रा हयविक्रयिणां तथा ॥
देवविक्रयिणां वेदविक्रये निर तात्मनाम्
॥१४॥धर्मविकयिणां पुंसां व्रतविक्रयिणां तथा ॥
तीर्थविक्रयिणां पुंसां प्रायश्चित्तं न विद्यते
॥१५॥तेषां पापानि नश्यंति धनुष्कोटौ निम ज्जनात् ॥
मातृद्रोहपितृद्रोहयतिद्रोहरतात्मनाम्
॥१६॥गुरुनिंदापराणां च शिवनिंदारतात्मनाम् ॥
विष्णुनिंदापराणां च यतिनिंदारतात्मनाम्
॥१७॥सत्कथादूषकाणां च प्रायश्चित्तं न विद्यते ॥
तेषां चात्र धनुष्कोटौ स्नानाच्छुद्धिर्भविष्यति
॥१८॥एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि
॥२१९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां दुराचारसंसर्गदोषशांतिवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥